अथत्रयस्त्रिंशो ऽध्यायः।
अर्चावतारमहत्त्वम्।
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः ।
पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ॥ ३३।१ ॥
अनुग्रहाय लोकानां भक्तानामनुकम्पया ।
परव्यूहादिभेदेन देवदेवः प्रवर्तते ॥ ३३।२ ॥
आद्येन पररूपेण व्यूहाख्येनेतरेण तु ।
तथाविभवरूपेण नानाभावमुपेयुषा ॥ ३३।३ ॥
अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः ।
अर्चावताररूपेण पञ्चधावस्थितो हरिः ॥ ३३।४ ॥
अनौपम मनिर्देस्यं पुनस्स भजते परम् ।
विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ॥ ३३।५ ॥
परन्धाम परञ्ज्योतिस्सर्वशक्तिमयो ऽमलः ।
निर्द्वन्द्वो निर्विकल्पो ऽच्छोनित्यो ऽचिन्त्यस्सनातनः ॥ ३३।६ ॥
अप्रमेयो निराद्यन्तो दृश्यो ऽदृश्यो ह्यतीन्द्रियः ।
सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ॥ ३३।७ ॥
आनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् ।
व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परम् ॥ ३३।८ ॥
शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः ।
सहस्रादित्यसङ्काशे पकमे व्योम्नि संस्थितः ॥ ३३।९ ॥
नित्यमुक्तैकसम्भाव्यश्चतुर्भुजधरोहरिः ।
अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ॥ ३३।१० ॥
समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः ।
दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसङ्कुलैः ॥ ३३।११ ॥
श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ॥ ३३।१२ ॥
पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः ।
देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ॥ ३३।१३ ॥
स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः ।
तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ॥ ३३।१४ ॥
आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु ।
चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ॥ ३३।१५ ॥
तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः ।
तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ॥ ३३।१६ ॥
पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः ।
क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ॥ ३३।१७ ॥
भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः ।
चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ॥ ३३।१८ ॥
विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमात् ।
व्यापी नारायण इति तन्नामानि ततःक्रमात् ॥ ३३।१९ ॥
विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः ।
सदाविष्णोरच्युतस्स्याद्य्यापिनो ऽंशो ऽनिरुद्धकः ॥ ३३।२० ॥
धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः ।
तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ॥ ३३।२१ ॥
नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः ।
विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ॥ ३३।२२ ॥
अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते ।
नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥ ३३।२३ ॥
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ।
इत्युक्तश्श्रुत्यभिहितो हृदयाम्बुजमध्यमे ॥ ३३।२४ ॥
ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे ।
आपादतलचूडाग्रं सन्तापयति सन्ततम् ॥ ३३।२५ ॥
शिखा तत्र च पीताभा तन्वी नीवारशूकवत् ।
मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महत् ॥ ३३।२६ ॥
स्वसङ्कल्पविशेषेण तप्तजाम्बूनदप्रभः ।
पीताम्बरधरस्सौम्यस्सुप्रसन्नश्शुचिस्मितः ॥ ३३।२७ ॥
पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः ।
चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ॥ ३३।२८ ॥
श्रीवत्साङ्को महाबाहुस्सर्वाभरणभूषितः ।
हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ॥ ३३।२९ ॥
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।
अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ॥ ३३।३० ॥
अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदम् ।
नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ॥ ३३।३१ ॥
तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः ।
विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ॥ ३३।३२ ॥
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ।
विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परम् ॥ ३३।३३ ॥
अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः ।
अर्चावतारविषये मयाप्युद्देशतस्तथा ॥ ३३।३४ ॥
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ।
विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् ॥ ३३।३५ ॥
कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता ।
मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ॥ ३३।३६ ॥
मुधा चित्तं नतद्गामि यदन्यत्किमितो ऽधिकम् ।
सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितम् ॥ ३३।३७ ॥
तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकम् ।
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम् ॥ ३३।३८ ॥
दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते ।
वातोर्मिचञ्चलं चित्तमनालम्बनमस्थिरम् ॥ ३३।३९ ॥
सूक्ष्मत्वाद्ब्रह्मणो ऽजस्य निग्राह्यं ग्राह्मधर्मणः ।
सम्यगभ्यस्यतो ऽजस्रमुपबृंहितशक्तिमत् ॥ ३३।४० ॥
जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते ।
यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ॥ ३३।४१ ॥
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ।
तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ॥ ३३।४२ ॥
जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना ।
विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ॥ ३३।४३ ॥
मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदम् ।
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ॥ ३३।४४ ॥
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।
तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेत् ॥ ३३।४५ ॥
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥ ३३।४६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशो ऽध्यायः।