अथद्वात्रिंशो ऽध्यायः।
प्रकीर्णकम्।
अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमम् ।
ज्येष्ठे मासि तु सम्प्राप्ते ज्येष्ठानक्षत्र संयुते ॥ ३२।१ ॥
विष्णोरेव विशेषस्स्यात्सुगन्धं तैलमाहरेत् ।
तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः ॥ ३२।२ ॥
यागशालां प्रकल्प्यैव सर्वालङ्कालसंयुताम् ।
सभ्यं च पैण्डरीकं च कारयित्वा सलक्षणम् ॥ ३२।३ ॥
तद्दिनस्य तु पूर्वेद्युस्तृतीये पञ्चमे ऽपि वा ।
सप्तमे ऽहनि वा चापि अङ्कुरार्पणमाचरेत् ॥ ३२।४ ॥
आघारं विधिवत्कृत्वा सर्वकार्यमदः परम् ।
वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेत् ॥ ३२।५ ॥
चतुस्तालप्रमाणेव विस्तारं निम्नमेव च ।
निम्नेतु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकम् ॥ ३२।६ ॥
“भूः प्रतिऽऽ ष्ठेति मन्त्रेण निम्ने भाण्डं सुनिक्षिपेत् ।
मलयागुरुदारूणि देवदारु तथैव च ॥ ३२।७ ॥
यानि चात्र सुगन्धीनि देवयोग्यानि तानि वै ।
गुग्गुलं च समाहृत्य मर्दयित्वासकृत् सकृत् ॥ ३२।८ ॥
विष्णुऽगायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेत् ।
शरावेण पिधायाथ मृदा च परिलेपयेत् ॥ ३२।९ ॥
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत् ।
मन्दाग्निना पचेत्तत्तु यावत्तैलागमं भवेत् ॥ ३२।१० ॥
तावत्कालं पचेद्विद्वान् तैलमाहृत्य सम्भृतम् ।
वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ॥ ३२।११ ॥
सुगन्धिदैलभाण्डं च ध्यान्यपीठोपरि न्यसेत् ।
पूर्वोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेत् ॥ ३२।१२ ॥
पितॄन् सोमं तथाभ्यर्च्य वनत्पतिमतः परम् ।
तैले तस्मिन् विधानेन अर्घ्यान्तमभिपूजयेत् ॥ ३२।१३ ॥
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च ।
जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकम् ॥ ३२।१४ ॥
आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः ।
द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतम् ॥ ३२।१५ ॥
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितम् ॥ ३२।१६ ॥
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु ।
देवकार्येषु सर्वेषु तथान्येषु च कर्मसु ॥ ३२।१७ ॥
कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेत् ।
असीनः कूर्मपीठे तु सभ्याग्नौ जुहुयात्तथा ॥ ३२।१८ ॥
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च ।
जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ ३२।१९ ॥
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत् ।
प्रणिध्यां शङ्खपात्रे वा अग्निमारोपयेत्सुधीः? ॥ ३२।२० ॥
तैलस्यालेपनात्पूर्वं ध्रुवादग्निं समाहरेत् ।
स्रग्वस्त्रकुण्डलाद्यैश्च आचार्यं पूजयेत्ततः ॥ ३२।२१ ॥
परिचारकमाहूय यथार्हं पूज्य तं ततः ।
उष्णीषं धारयित्वातं परिचारकमूर्धनि ॥ ३२।२२ ॥
सुगन्धितैलभाण्डं तु यत्नेनापि विनिक्षिपेत् ।
शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितम् ॥ ३२।२३ ॥
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितम् ।
वीथिं प्रदक्षिणीकृत्य देवस्याग्रेतु निक्षिपेत् ॥ ३२।२४ ॥
अर्घ्यान्तमभिपूज्यैव देवेशं सम्प्रणम्य च ।
वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमात् ॥ ३२।२५ ॥
तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा ।
देवीभ्यां च ततः पश्चात्तत्तन्मन्त्रेण लेपयेत् ॥ ३२।२६ ॥
सर्वेषां परिवाराणां तत्तन्मन्त्रैश्च कारयेत् ।
आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः ॥ ३२।२७ ॥
“परिलिखितऽमिति मन्त्रेण कवचं परिशोधयेत् ।
जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेत् ॥ ३२।२८ ॥
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेत् ।
कृत्वापि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेत् ॥ ३२।२९ ॥
विष्णोर्नुकादिमन्त्रैश्च सन्दध्यात्कवचं तथा ।
दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेत् ॥ ३२।३० ॥
सहस्रकलशैर्देवं स्नापयित्वा यथाविधे ।
नित्यपूजाविधानेन देवमाराध्य पूर्ववत् ॥ ३२।३१ ॥
महाहविःप्रभूतं वा पायसं च निवेदयेत् ।
“क्षमस्वेऽऽति वदन् भूयः प्रणमेत्पुरुषोत्तमम् ॥ ३२।३२ ॥
ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणाम् ।
दिने पक्षे च मासे च तथा सन्नत्सरे चरेत् ॥ ३२।३३ ॥
यद्यद्रूपं तथाध्यायेत्तत्तद्बिम्बेषु योजयेत् ।
तस्मात्सर्वप्रयत्नेन बिम्बरक्षां समाचरेत् ॥ ३२।३४ ॥
पवित्रारोपणम्
अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः ॥ ३२।३५ ॥
सर्वदोषोपशमनं सर्वयज्ञफलप्रदम् ।
सर्वकामप्रदं चैव सर्वतुष्टिकरं परम् ॥ ३२।३६ ॥
सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदम् ।
यद्यन्मन्त्रक्रियाहीनं द्रव्यहीनं च यत्कृतम् ॥ ३२।३७ ॥
तद्दोषशमनायैव पवित्रारोपणं चरेत् ।
पवित्रारोपणे हीने या पूजा निष्फला भवेत् ॥ ३२।३८ ॥
सङ्क्षोभो जायते तत्र तस्माद्यत्नेन कारयेत् ।
आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः ॥ ३२।३९ ॥
द्वादश्यां शुक्लपक्षे तु विष्णुपञ्चदिने ऽथ वा ।
संसर्पमधिमासं च तिथिवारं च शून्यकम् ॥ ३२।४० ॥
दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेत् ।
हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभम् ॥ ३२।४१ ॥
नवाहं वाथ सप्ताहं पञ्चाहमथ वा त्षहम् ।
उक्तलक्षणसम्पन्नमाचार्यं वरयेत्क्रमात् ॥ ३२।४२ ॥
ऋत्विजो वरयेत्तद्वच्छिष्यांश् च वरयेत्ततः ।
तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः ॥ ३२।४३ ॥
“भगवतो बलेऽऽनेति प्रोच्य नम्राङ्गस्सुसमाहितः ।
पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः ॥ ३२।४४ ॥
प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेत् ।
परितो यागशालायाश्शिष्यैः परिवृतोगुरुः ॥ ३२।४५ ॥
चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयम् ।
चतुर्वेदान्दिमन्त्रांश्च शक्त्याध्ययनमाचरेत् ॥ ३२।४६ ॥
पुण्याहं च ततः कृत्वा मृत्सङ्ग्रहणमाचरेत् ।
अङ्कुरानल्पयित्वैव मुद्गान्नं च निवेदयेत् ॥ ३२।४७ ॥
औपासनाग्निकुण्डे तु आघारं विधिवद्यजेत् ।
वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः ॥ ३२।४८ ॥
पर्यग्नि पञ्चगव्याभ्यां योगशालां विशोधयेत् ।
“तमेकनेमिऽऽ मित्युक्त्वा “आमावाजस्यऽऽ इत्यपि ॥ ३२।४९ ॥
“तन्तुन्तव्वऽऽन्निति प्रोच्य “यन्मेगर्भऽऽ इतीरयन् ।
षड्भिश्च वैष्णवैर्मन्त्रैर्विष्णुगायत्रिया तथा ॥ ३२।५० ॥
पवित्राणि सुसम्प्रोक्ष्य विधिना पञ्चगव्यकैः ।
“प्रतद्विष्णुस्तवतऽऽ इति “इदं विष्णुऽऽ रितीरयन् ॥ ३२।५१ ॥
विष्णुगायत्रिया पश्चात् पवित्रं सम्प्रणम्य च ॥ ३२।५२ ॥
उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकम् ।
कार्पासमधमं गृह्य सर्वदोषविवर्जितम् ॥ ३२।५३ ॥
सुमङ्गलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः ।
अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमम् ॥ ३२।५४ ॥
गृह्णीयाद्बिम्बमानेन चाष्टोत्तरसहस्रकम् ।
ग्रन्थयोङ्गुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेत् ॥ ३२।५५ ॥
वनमाला समाख्याता विष्णोःप्रियतमा भवेत् ।
विष्णुसूक्तं च जप्त्वातु “अणोरणीयाऽऽनिति ब्रुर्न ॥ ३२।५६ ॥
प्रोक्ष्य हारिद्रतोयेन “इमे धूऽऽ पेति धूपयेत् ।
चतुर्वेदादिमन्त्रैश्च तोरणाद्यैरलङ्कृतम् ॥ ३२।५७ ॥
नभ्याग्निकुण्डं कृत्वैव आघारं विधिवद्यजेत् ॥ ३२।५८ ॥
बिम्बाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेत् ।
तिलतण्डुलधान्यैश्च धान्यपीठं प्रकल्प्य च ॥ ३२।५९ ॥
दर्भांस्तत्र समास्तीर्य चाण्डजादीनि चास्तरेत् ।
“प्रतद्विष्णुऽऽरिति प्रोच्य पवित्रं सन्निधाय च ॥ ३२।६० ॥
पञ्चमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च ।
जप्त्वा प्रतिसरं मन्त्रं धूपदीपादि दर्शयेत्? ॥ ३२।६१ ॥
“अतो देवाऽऽ दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः ।
पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेत् ॥ ३२।६२ ॥
बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च ।
आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा ॥ ३२।६३ ॥
“यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेत् ।
सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतम् ॥ ३२।६४ ॥
विष्णुसूक्तं च गोदानसूक्तं चैवात्मसूक्तकम् ।
एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च ॥ ३२।६५ ॥
नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च ।
सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परम् ॥ ३२।६६ ॥
“ऋतं च सत्यंऽऽ जप्त्वैव “सहस्रशीर्षऽऽमेव च ।
श्रीभूसूक्तञ्च जप्त्वैव कारयेद्देशिकोत्तमः ॥ ३२।६७ ॥
दशानां चैव पञ्चानां सूक्तानां जप उत्तमम् ।
मध्यमं दशसूक्तानां पञ्चानामधमं भवेत् ॥ ३२।६८ ॥
प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि ।
क्रमाच्छान्तं खगाधीशं चक्रं शङ्खं तथैव च ॥ ३२।६९ ॥
विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः ।
मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेत् ॥ ३२।७० ॥
सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेत् ।
निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेत् ॥ ३२।७१ ॥
पादौ प्रक्षाल्य चाचम्य यथोक्तेन विधानतः ।
हौत्रं प्रशंस्य विधिवदावाहन मथाचरेत् ॥ ३२।७२ ॥
जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमम् ।
हावयेत्पञ्चभिस्सुक्तैस्तत्तद्दैवत्यमेव च ॥ ३२।७३ ॥
वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः ।
ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ॥ ३२।७४ ॥
नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः ।
अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः ॥ ३२।७५ ॥
अलङ्कृत्यच देवेशं धूपदीपादिकं ददेत् ॥ ३२।७६ ॥
औद्यन्तम्ऽऽ इतिमन्त्रेण पवित्रं मूर्ध्नि धारयन् ।
सर्ववाद्यसमायुक्तं तो यधारापुरस्सरम् ॥ ३२।७७ ॥
प्रदक्षिणं शनैर्गत्वादेवाग्रेसन्निधायच ।
“सुर्यऽऽ च मन्त्रेण शतञ्जप्त्वा तु पल्लवम् ॥ ३२।७८ ॥
आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच ।
विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेत् ॥ ३२।७९ ॥
पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादरात् ।
कुम्भांस्तु सप्तदश च अलङ्कृत्य यथाविधि ॥ ३२।८० ॥
वेद्यामारोपयेत्कुम्भान् स्वस्तिके सन्निधाय च ।
शय्यावेदि च तत्प्राच्यां सभ्यकुण्डं प्रकल्प्यच ॥ ३२।८१ ॥
अब्जाग्निकुण्डमाग्नेय्यामीशे चौपाससं तथा ।
औपासनाग्निकुण्डे तु आघारं विधिवद्यजेत् ॥ ३२।२ ॥
शय्यावेद्यास्तूत्तरे च त्रिहस्तायतविस्तृताम् ।
चतुरश्रां समां कृत्वायन्त्रवेदिं सलक्षणम् ॥ ३२।३ ॥
पञ्चवर्णैर्विशेषेण यन्त्रं विख्य मनोहरम् ।
अथ यन्त्रं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः ॥ ३२।४ ॥
सर्वरक्षाकरसुदर्शन यन्त्रःः-
आदौ षट्कोणं विलिख्य तन्मध्ये साध्यनाम विलिख्य
ॐ क्ष्राम्, ह्रीम्, श्रीम्, विलिख्य, तत्पार्श्वयोः,
इर्म्, इम्,
इति
दृष्टिबीजम्, उम्, ऊम्,
इति श्रोत्रबीजं च विलिख्य,
षट्कोणेषु, सहस्रारहुम् फट्
इति सुदर्शनषडक्षरीं विलिख्य, कोणसन्धौ
ॐ हम् लम् रम् यम्? लिखित्वा,
तद्बहिर्वृत्तमष्टदलं विलिख्य, दलेषु
ॐ न म स्सु दर् श ना य इति विलिख्य,
दलसन्धौ
ॐ ज य ज य नृ सिं ह इति विलिख्य,
तद्बहिर्वृत्तं षोदशदलं विलिख्य,
दलमध्ये ॐ न मो भ ग व ते महा सु दर् श नाय स्वाहा इति विलिख्य,
दलसन्धौ ॐ हुम् न मो भ ग व ते व ज्र व रा हा य स्वा हा इति विलिख्य,
तदुपरि वृत्तद्वयं वृत्तद्वयमध्ये अकारादिक्षकारान्तं मातृकावर्णान् विलिख्य,
तदुपरि भूपुरद्वयं चतुष्कोणं विलिख्य,
चतुर्द्वारे ॐ आम् ह्रीम् क्रोम् इति विलिख्य,
तत्तद्दिग्देवताबीजानि लिखित्वा,
लम् रम् हम् षम् वम् यम् सम् शम् इति बीजं लिखित्वा,
आग्नेया दीशानान्तं प्राणप्रतिष्ठामन्त्रम्,
मन्त्रराजगायत्रीम्,
यन्त्रराजगायत्रीम्,
चविलिख्य,
तन्मन्त्रेणावाह्यभ्यर्च्य सुदर्शनमूल मन्त्रं दशसहस्रं जपित्वा,
तद्ग्रायत्षा तद्दशांशं जपित्वा मन्त्रराजं च दशांशं जपित्वा तद्दशांशं तर्पणं तद्दशांशं होमं तद्दशांशं ब्राह्मणभोजनं कारयेत्। यन्त्रदशाङ्गम्ः- बीजं प्राणं च शक्तिश्च दृष्टिर्वश्यादिकं तथा मन्त्रयन्त्रस्य गायत्री बीजस्थापनमेव च भूतदिक्पालबीजं च यन्त्रस्याङ्गानि वै दश।
यन्त्रगायत्रीः-
यन्त्रराजाय विद्महे महायन्त्राय धीमहि
तन्नो यन्त्रः प्रचोदयात्।
सुदर्शनगायत्रीः-
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मत्युमृत्युं नमाम्यहम्
तत्र सर्वत्रानुक्रमणिकासु यन्त्रस्यास्य पाठोदृश्यते।
मूलग्रन्थेत्वस्य मातृकाकोशेन दृश्यते।
तथापि बहूनां मातृकाकोशानामनुपलं
भादस्यस्थितिरत्र ऽशङ्कितापि निवेश्यते।
परस्तीर्य विधानेन पावकं विधिवद्यजेत् ॥ ३२।८२ ॥
लाजापूपै राज्य मिश्रैर्मूलमन्त्रं समुच्चरन् ।
अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः ॥ ३२।८३ ॥
पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसङ्ख्यया ।
पश्चादग्निं परिस्तीर्य “क्षयऽऽस्वेति प्रणम्य च ॥ ३२।८४ ॥
एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेत् ।
सायं सन्ध्यामुपासित्वा यागशालां प्रविश्य च ॥ ३२।८५ ॥
सभ्याग्निं पैण्डरीकाग्निं चासाद्याघारमाचरेत् ।
अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः ॥ ३२।८६ ॥
कुम्भं विना महाशान्तिहोमं के चिद्वदन्तिहि ।
वेद्यां तु पुरतस्तिष्ठन् प्राणायामादिकं चरेत् ॥ ३२।८७ ॥
नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमात् ।
अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेत् ॥ ३२।८८ ॥
पानीयाचमनं दत्वा मुखवासं ददेत्ततः ।
“आपो वाऽऽ इति मन्त्रेण पवित्रं धारयेद्घटम् ॥ ३२।८९ ॥
“अग्नावग्निऽऽरिति प्रोच्य पवित्रं चाग्निकुण्डके ।
कुण्डस्यैव तु मानेन समलङ्कृत्य पावकम् ॥ ३२।९० ॥
“पवित्रन्तुऽऽ इति प्रोच्य पवित्रं धारयेद्गुरुः ।
समिन्थ्यैव तु सभ्याग्निं परिषिच्य विधानतः ॥ ३२।९१ ॥
हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः ।
तदालयगतान् श्चैव देवानावाहयेत्क्रमात् ॥ ३२।९२ ॥
जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परम् ।
विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परम् ॥ ३२।९३ ॥
चरुं लाजांस् तथापूपानाज्यमिश्रांश्च हावयेत् ।
पश्चात्तु वैष्णवैर्मन्त्रैश्चतमष्टोत्तरं यजेर्त् ॥ ३२।९४ ॥
इङ्कारादींस्ततः पश्चात्पारमात्मिकसंयुतम् ।
अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च ॥ ३२।९५ ॥
सर्वदैवत्यमन्त्रांश्च धातादीन् पञ्च वारुणम् ।
मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च ॥ ३२।९६ ॥
यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेत् ।
ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुम् ॥ ३२।९७ ॥
द्वादशाक्षरमन्त्रं च गायत्रीं वैष्णवं तथा ।
नारायणाख्यगायत्रीं पारमात्मिकमित्यपि ॥ ३२।९८ ॥
व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतम् ।
ततश्च वैष्णवं जप्त्वा “यो वा भूऽऽ तेति पञ्चकम् ॥ ३२।९९ ॥
पुष्बाञ्जलिं जपित्वैव न्यसेद्देवस्य पादयोः ।
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ॥ ३२।१०० ॥
ततः प्रभाते धर्मात्मा स्नात्वा सन्ध्यामुपास्य च ।
यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः ॥ ३२।१०१ ॥
“भूरग्नयऽऽ इति प्रोच्य वेदिं सम्प्रोक्ष्य चात्वरः ।
कुम्भाराधनहोमादीन् सर्वं पूर्ववदाचरेत् ॥ ३२।१०२ ॥
कुम्भमाराधयेत्पूर्वं बिम्बपूजा त्वनन्तरम् ।
पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परम् ॥ ३२।१०३ ॥
एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः ।
समाप्ते तु दिने सायं पूर्णाहुति मथाचरेत् ॥ ३२।१०४ ॥
तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुण्डके? ॥ ३२।१०५ ॥
कुम्भमादाय शिरसा तोयधारापुरस्सरम् ।
प्रदक्षिणं शनैर्गत्वा देवाग्रे सन्निधाय च ॥ ३२।१०६ ॥
“हिरण्य पवमानाऽऽ द्यैःकुम्भतोयेन प्रोक्षयेत् ।
देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेत् ॥ ३२।१०७ ॥
पानीयाचमलं दत्वा मुखवासं ददेत्पुनः ।
क्षमामन्त्रं समुच्चार्य “क्षमऽऽ स्वेति नमेन्मुहुः ॥ ३२।१०८ ॥
यजमानो ऽपि शुद्धात्मा भक्तिनम्रस्समाहितः ।
आचार्यं पूजयेत्तत्र गन्धमार्यानुलेपनैः ॥ ३२।१०९ ॥
पञ्चाङ्गभूषणैश्चैव दुकूलैश्च नवैस्तथा ।
ततो गुरुः प्रसन्नात्मा प्रयुञ्ज्यादाशिषस्तदा ॥ ३२।११० ॥
तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादरात् ।
एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः ॥ ३२।१११ ॥
इहलोके सुखीभूत्वा स याति परमां गतिम् ।
प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते ॥ ३२।११२ ॥
“कनिक्रदाऽऽपिमन्त्राश्च शाकुनं सूक्तमीरितम् ।
“स्वस्तिनो मिमीऽऽतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतम् ॥ ३२।११३ ॥
“शुद्धा इमे पशवऽऽ इति गोसूक्तं समुदाहृतम् ।
“ऋतं च सत्यंऽऽ चेत्यादि अघमर्षणमुच्यते ॥ ३२।११४ ॥
“अणोरणीयाऽऽ नित्युक्त्वासूक्तं प्रोक्षणमीरितम् ।
“अपो हिरण्यवर्णाश्च पवमानऽऽ इति त्रयः ॥ ३२।११५ ॥
प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः ।
“या जाताऽऽ इति मन्त्राश्च ओषधीसूक्तमुच्यते ॥ ३२।११६ ॥
“कृणुष्व पाजऽऽ इत्यादि सूक्तं प्रतिसराह्वयम् ।
(“अतोदेवाऽऽदि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) ॥ ३२।११७ ॥
“अतोदेवादि षण्मन्त्राऽऽष्,ड्वैष्णवपदाह्वयाः ।
“विष्णोर्नुऽऽकादि षण्मन्त्रा विष्णुसूक्तमुदीरितम् ॥ ३२।११८ ॥
“सहस्रशीर्षा पुरुषऽऽ इति पौरुषसूक्तकम् ।
“हिरण्य वर्णाऽऽ इत्यादि श्रीसूक्तं सर्वकामदम् ॥ ३२।११९ ॥
“भूमिर्भूम्नेऽऽत्यादिमन्त्रा भूमिसूक्तमुदाहृतम् ।
“उप श्वासयऽऽ इत्यादि दुन्दुभीसूक्तमुच्यते ॥ ३२।१२० ॥
“सुपर्णो ऽसि गरुत्माऽऽनित्युक्तं सूक्तं च गारुडम् ।
“हिरण्यगर्भऽऽइत्यादि ब्रह्मसूक्तमुधृतम् ॥ ३२।१२१ ॥
“इन्द्रं वो विश्वतऽऽ इति इन्द्रसूक्तमिहोच्यते ।
“अग्ने नयेत्याऽऽदिषड्भिरग्निसूक्तं प्रचक्षते ॥ ३२।१२२ ॥
“आयातुदेवऽऽ इत्यादियमसूक्तम्प्रकीर्तितम् ।
“नमस्सुते निरृतेऽऽ सूक्तन्नैरृतमुच्यते ॥ ३२।१२३ ॥
“अस्तभ्नाद्यामृषभऽऽइति वारुणसूक्तकम् ।
“पीवोन्नांरयि वृधस्सुमेधाऽऽइति वायवम् ॥ ३२।१२४ ॥
“अद्भ्यस्तिरोधाऽऽइत्यादि कौवेरं सूक्तमुच्यते ।
“स्तुहि श्रुतं गर्तऽऽइति रुद्रसूक्तं प्रकीर्तितम् ॥ ३२।१२५ ॥
“ओमासश्चर्षणीऽऽत्यादि सूक्तं सारस्वतं भवेत् ।
“विश्वजितेधनऽऽइति विश्वजित्सूक्तमुच्यते ॥ ३२।१२६ ॥
“रात्री व्यख्यऽऽदित्यादि रात्रिसूक्तमुदाहृतम् ।
“जातवेदसऽऽइत्यादि षड्दुर्गासूक्तमुच्यते ॥ ३२।१२७ ॥
“आ गोदानाऽऽदिति प्रोच्यगोदानं सूक्तमुच्यते ।
“एकाक्षरम्ऽऽ इतिप्रोच्य सूक्तमेकाक्षरादिकम् ॥ ३२।१२८ ॥
“आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितम् ॥ ३२।१२९ ॥
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परम् ।
श्रीभूसूक्तं च पञ्चैतं पञ्चसूक्तमिहोच्यते ॥ ३२।१३० ॥
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परम् ।
एकाक्षरादि सूक्तं च पञ्चसूक्तं जगुःपरे ॥ ३२।१३१ ॥
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवम् ।
एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा ॥ ३२।१३२ ॥
आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितम् ।
रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परम् ॥ ३२।१३३ ॥
रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमात् ।
विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि ॥ ३२।१३४ ॥
अघमर्षणसूक्तं च गोदानं सूक्तमेव च ।
आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतम् ॥ ३२।१३५ ॥
दशसूक्तं पञ्चसूक्तं कृत्वा संहृतमेव च एवं ।
भवेत्पञ्च दशसूक्तमिति सञ्ज्ञा प्रभाषिता ॥ ३२।१३६ ॥
अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः ।
मण्डलाराधनं नित्यं पुण्याहं स्नपनं चरेत् ॥ ३२।१३७ ॥
चत्पारिंशद्धिनादूर्ध्वं मण्डलं दिनपञ्चकम् ।
पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ॥ ३२।१३८ ॥
नवं कलशमादाय पूर्वोक्तेन विधानतः ।
समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः ॥ ३२।१३९ ॥
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परम् ।
श्रीभूसूक्तं तथा पञ्चशान्तिं चैव पृथक् पृथक् ॥ ३२।१४० ॥
चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतम् ।
तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः ॥ ३२।१४१ ॥
दध्योदनं गुडान्नं च पायसं च विशेषतः ।
निवेद्य देवदेवस्य मुखवासं प्रदापयेत् ॥ ३२।१४२ ॥
आचार्यदक्षिणां दद्यादृत्विजां च तथैव च ।
प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ॥ ३२।१४३ ॥
एवमेव क्रमेणैव कारयेत्तु विशेषतः ।
मण्डलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते ॥ ३२।१४४ ॥
मण्डलान्ते विशेषेण कारयेद्द्विजभोजनम् ।
सभ्याग्निकुण्डं कृत्वैव पुण्याहमसि वाचयेत् ॥ ३२।१४५ ॥
आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च ।
विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितम् ॥ ३२।१४६ ॥
श्रीभूसूक्तं समुच्चार्य पञ्चशान्तिमतः परम् ।
पारमात्मिकमीङ्काराद्यष्टाशीतिं क्रमाद्धुनेत् ॥ ३२।१४७ ॥
अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरम् ।
पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते ॥ ३२।१४८ ॥
संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमात् ।
वर्णयुक्तन्ध्रुवं बेरं प्राङ्गयेत्(?) स्नापयेन्नतु ॥ ३२।१४९ ॥
द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः ।
ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितम् ॥ ३२।१५० ॥
पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेत् ।
जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः ॥ ३२।१५१ ॥
एवं यःकुरुते भक्त्या मण्डलाराधनं हरेः ।
सर्वान् कामानवाप्यैव स याति परमाङ्गतिम् ॥ ३२।१५२ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे। द्वात्रिंशो ऽध्यायः।