अथैक त्रिंशो ऽध्यायः।
सम्प्रोक्षणत्रयम्।
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य सङ्ग्रहम् ।
जलसम्प्रोक्षणं चैव लघुसम्प्रोक्षणं तथा ॥ ३१।१ ॥
महासम्प्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतम् ।
निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवम् ॥ ३१।२ ॥
वक्ष्यमाणक्रारेण सद्यस्सम्प्रोक्षणं चरेत् ।
सम्प्रोक्षणविधानस्य न कालनियमस्स्मृतः ॥ ३१।३ ॥
न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणम् ।
तस्मान्निमित्ते सम्प्राप्ते सद्यस्सम्प्रोक्षणं चरेत् ॥ ३१।४ ॥
देशकालाद्यवेक्षाया निमित्ते सति गौरवम् ।
बहुबेरेषु चैकस्मिन् स्थावरे जङ्गमे ऽथ वा ॥ ३१।५ ॥
अर्चनायां विहीनायां कालातीते विपर्यये ।
निर्माल्यपूजने चैव निवेदितनिवेदने ॥ ३१।६ ॥
एकाहे ऽप्यर्चनाहीने नित्यस्नापनवर्जने ।
बलिहोमादिहीनेच नित्योत्सवविवर्जने ॥ ३१।७ ॥
प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति ।
अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ॥ ३१।८ ॥
श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने ।
उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ॥ ३१।९ ॥
कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने ।
अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतो ऽपिवा ॥ ३१।१० ॥
महावातहते बिम्बे संसिक्ते वर्षबिन्दुभिः ।
विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ॥ ३१।११ ॥
एवमादिनिमित्ते तु जलसम्प्रोक्षणं चरेत् ।
नैवासम्प्रोक्षिते बिम्बे हरिर्वसति निश्चयः ॥ ३१।१२ ॥
तस्माद्बिम्बविशुद्ध्यर्थं सम्प्रोक्ष्यैव समर्चयेत् ।
दोषाधिक्ये समुत्पन्ने लघुसम्प्रोक्षणं चरेत् ॥ ३१।१३ ॥
राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसङ्करदूषणे ।
शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ॥ ३१।१४ ॥
उदक्यया सूतिकया पतितैर्वाथ पातकैः ।
चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ॥ ३१।१५ ॥
सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः ।
श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ॥ ३१।१६ ॥
उलूकगृध्रकाकाद्यैः प्रविष्टे ऽन्तर्गृहे तथा ।
तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ॥ ३१।१७ ॥
विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे ।
त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ॥ ३१।१८ ॥
एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते ।
आग्निदाहे ऽशनीपाते गर्भागारेर्ऽधमण्डपे ॥ ३१।१९ ॥
अन्यसूत्षर्चिते बिम्बेस्पृष्टे वा बुद्धिपूर्वकम् ।
अन्यैरनुक्तैर्देषैश्च लघुसम्प्रोक्षणं चरेत् ॥ ३१।२० ॥
महानिमित्ते सम्प्राप्ते महासम्प्रोक्षणं चरेत् ।
द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ॥ ३१।२१ ॥
हीनायामर्चनायां च नित्ये नैमित्तिके तथा ।
क्रियाहीने विपर्यासे हीने मासोत्सवादिके ॥ ३१।२२ ॥
नित्यस्नपनहीने ऽपि मात्रादानविहीनके ।
बलिहोमादिहीने च सम्प्राप्ते शास्त्रसङ्करे ॥ ३१।२३ ॥
एवमादिषु हीनेषु वत्सरान्तं प्रमादतः ।
पर्षदां परिवाराणामाश्रितालयसेविनाम् ॥ ३१।२४ ॥
ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके ।
विप्रादिमरणे प्राप्ते देवागारे विशेषतः ॥ ३१।२५ ॥
गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते ।
गजादिमृगनाशे च देवागारे प्रमादतः ॥ ३१।२६ ॥
चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः ।
शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ॥ ३१।२७ ॥
संस्पृष्टे वैष्णवे बिम्बे तुरुष्काद्यैर्मलिम्लुचैः ।
स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ॥ ३१।२८ ॥
विमाने ऽशनिपाते वा महोल्का पतने ऽपि वा ।
लोहितो पलवर्षे च वांसुवर्षे विशेषतः ॥ ३१।२९ ॥
भूकम्पाच्चलिते बिम्बे वल्मीकस्य समुद्भवे ।
शिथिलिभवने वापि चाष्टबन्धे विशेषतः ॥ ३१।३० ॥
जीर्णे स्तम्भादिपतने देवागारेन वीकृते ।
अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ॥ ३१।३१ ॥
सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः ।
बिम्बेषु गर्भगेहे वा कृमिकीटादिदर्शने ॥ ३१।३२ ॥
हसने रोदने चैव भाषणे च विशेषतः ।
स्वेदशोणितयोर्वापि दर्शने वर्णसङ्क्षये ॥ ३१।३३ ॥
विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः ।
देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ॥ ३१।३४ ॥
दुर्भिक्षे राष्ट्रसङ्क्षोभे दुर्निमित्तेषु चैव हि ।
दुस्स्वप्ने भूमिकम्पे वा परराजाद्युपद्रवे ॥ ३१।३५ ॥
भूगुप्ते चोद्धृते बिम्बे चिरमन्यालये स्थिते ।
अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ॥ ३१।३६ ॥
कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते ।
अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ॥ ३१।३७ ॥
दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः ।
ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ॥ ३१।३८ ॥
ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलम् ।
महासम्प्रोक्षणं कुर्यान्महादोषापनुत्तये ॥ ३१।३९ ॥
महदोषेषु सर्वत्र महाशान्तिर्विथीयते ।
पूर्वं स्थापितबिम्बस्य न साधारणहेतुना ॥ ३१।४० ॥
स्यात्पुनस्थ्सापनं तस्मान्महासम्प्रोक्षणं चरेत् ।
महासम्प्रोक्षणविधेर्नूतनस्थापनस्य च ॥ ३१।४१ ॥
स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः ।
जलसम्प्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ॥ ३१।४२ ॥
यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः ।
आलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ ३१।४३ ॥
स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरम् ।
वास्तुहोमावसाने च दोषदुष्टं तु यत् स्थलम् ॥ ३१।४४ ॥
पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः ।
बिम्बं पुरुषसूक्तेन कलशैरभिषिच्य च ॥ ३१।४५ ॥
षट्द्रोणधान्य राशौ तु पञ्चकुम्भान्निधाय च ।
वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत् ॥ ३१।४६ ॥
नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक् घटान् ।
पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ॥ ३१।४७ ॥
पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः ।
पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ॥ ३१।४८ ॥
इङ्कारादींश्च जुहुयादष्टाशीतिमतः परम् ।
पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ॥ ३१।४९ ॥
पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेत् ।
निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ॥ ३१।५० ॥
पश्चात्कुम्भजलेनैव प्रोक्षयित्वा समन्त्रकम् ।
प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेत् ॥ ३१।५१ ॥
अनेन विधिना दोषा नश्यत्येव न संशयः ।
तद्बिम्बे देवसान्निध्यं भवेदित्याह चाङ्गिराः ॥ ३१।५२ ॥
एतावानेव सम्प्रोक्तो जलसम्प्रोक्षणक्रमः ।
लघुसम्प्रोक्षणं कुर्याद्यजमानेन वै गुरुः ॥ ३१।५३ ॥
यथार्हं पूजितः पूर्वमारम्भदिवसादधः ।
त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणम् ॥ ३१।५४ ॥
औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च ।
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ॥ ३१।५५ ॥
अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः ।
शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ॥ ३१।५६ ॥
पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः ।
कुम्भपूजां ततः कुर्यात्सम्यक् ध्यानयुतो गुरुः ॥ ३१।५७ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णान् कुम्भानाहृत्य शोभनान् ।
तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ॥ ३१।५८ ॥
षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमात् ।
वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत् ॥ ३१।५९ ॥
निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः ।
रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ॥ ३१।६० ॥
गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः ।
आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ॥ ३१।६१ ॥
अलङ्कृत्य गुरुर्धीमान्त् पृष्ट्वा कूर्चेन तान् घटान् ।
पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकम् ॥ ३१।६२ ॥
सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणम् ।
स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकम् ॥ ३१।६३ ॥
नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः ।
द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेत् ॥ ३१।६४ ॥
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम् ।
पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ॥ ३१।६५ ॥
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ।
र् इङ्कारादींश्च जुहुयादष्टाशीतिमतः परम् ॥ ३१।६६ ॥
धातादिं मूलहोमं च पञ्चवारुणमेव च ।
हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ॥ ३१।६७ ॥
पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ।
अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेत् ॥ ३१।६८ ॥
पश्चाद्गुरुः पूजितस्सन् वस्त्राभरणकुण्डलैः ।
कुम्भमादाय शिरसो ग्राममालयमेव वा ॥ ३१।६९ ॥
प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ ।
कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ॥ ३१।७० ॥
“शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरम् ।
उपचारैस्समभ्यर्च्य “क्षमऽऽस्वेति प्रणम्य च ॥ ३१।७१ ॥
महाहविः प्रभूतं वा देवेशाय निवेदयेत् ।
ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ॥ ३१।७२ ॥
गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककम् ।
प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीम् ॥ ३१।७३ ॥
दशदानं ततः कृत्वा नित्यार्चनमथाचरेत् ।
एवं यः कुरुते भक्त्या लघुसम्प्रोक्षणं हरेः ॥ ३१।७४ ॥
विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते ।
राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेत् ॥ ३१।७५ ॥
लघुसम्प्रोक्षणविधिर्मया प्रख्यापितः किल ।
काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ॥ ३१।७६ ॥
महासम्प्रोक्षण विधौ विशेषो वक्ष्यते मया ।
जलाधिवासरहितं नेत्रोन्मीलनवर्जनम् ॥ ३१।७७ ॥
प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेत् ।
नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ॥ ३१।७८ ॥
जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः ।
महाशान्तिविधानस्य विशेषो ऽत्र प्रकीर्तितः ॥ ३१।७९ ॥
जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरम् ।
प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेत् ॥ ३१।८० ॥
महानिमित्ते सम्प्राप्ते यजमानार्थितो गुरुः ।
प्रतिष्ठोक्तदिने विद्वान् ऋत्विग्भिर्लक्षणान्वितैः ॥ ३१।८१ ॥
वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः ।
प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेत् ॥ ३१।८२ ॥
द्रव्याण्यपि सुसम्भृत्य यागशालां प्रविश्य च ।
कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृताम् ॥ ३१।८३ ॥
तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः ।
तस्यास्तु पूर्वदिग्भागे कुम्भवेदिं सलक्षणम् ॥ ३१।८४ ॥
परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेत् ।
देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ॥ ३१।८५ ॥
आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः ।
स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ॥ ३१।८६ ॥
जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेत् ।
वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ॥ ३१।८७ ॥
पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः ।
गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेत् ॥ ३१।८८ ॥
पक्वबिम्बसमाकारघटानां पञ्चविंशतिम् ।
तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ॥ ३१।८९ ॥
आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः ।
पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ॥ ३१।९० ॥
अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः ।
यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ॥ ३१।९१ ॥
आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेत् ।
सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ॥ ३१।९२ ॥
गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेत् ।
ध्यानमार्गेण कुम्भेषु मध्यमादिषु चक्रमात् ॥ ३१।९३ ॥
नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः ।
वेद्यधस्थेषु कुम्भेषु चें दादीनष्टदिक्पतीन् ॥ ३१।९४ ॥
आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेत् ।
सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ॥ ३१।९५ ॥
सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः ।
शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान् प्राकल्प्यच ॥ ३१।९६ ॥
शालिव्रीहियवैश्चापि षड्भारैश्च पृथक् पृथक् ।
तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ॥ ३१।९७ ॥
उपर्युपरि चास्तीर्य चर्मजादीन् समास्तरेत् ।
शयने शाययेद्वेद्यामौत्सवं बिम्बमुक्तवत् ॥ ३१।९८ ॥
कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमात् ।
वेदानध्यापयेद्दिक्षु “ऋचां प्राचीऽऽरिति श्रुतिः ॥ ३१।९९ ॥
गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः ।
ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकम् ॥ ३१।१०० ॥
गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकम् ।
पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकम् ॥ ३१।१०१ ॥
व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः ।
अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ॥ ३१।१०२ ॥
ततो ऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु ।
धातादिमूलहोमं च पञ्चवारुणसंयुतम् ॥ ३१।१०३ ॥
महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः ।
कुम्भवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ॥ ३१।१०४ ॥
स्पृष्ट्वा कूर्चेन तत्कुम्भान् ऋत्विग्भिस्सह वै गुरुः ।
आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परम् ॥ ३१।१०५ ॥
स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा ।
अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परम् ॥ ३१।१०६ ॥
“आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च ।
जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमात् ॥ ३१।१०७ ॥
हौत्रप्रशसनं कुर्यात्सर्वं होत् तु पूर्ववत् ।
चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ॥ ३१।१०८ ॥
“यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः ।
हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ॥ ३१।१०९ ॥
सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववत् ।
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ॥ ३१।११० ॥
परिषेगं ततः कृत्वा पैण्डरीके विशेषतः ।
पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ॥ ३१।१११ ॥
अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेत् ।
पारमात्मिकमन्त्रैश्च र् इङ्काराद्यैश्च यत्नतः ॥ ३१।११२ ॥
अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकम् ।
हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ॥ ३१।११३ ॥
सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकम् ॥ ३१।११४ ॥
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ।
प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेत् ॥ ३१।११५ ॥
पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितम् ।
पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ॥ ३१।११६ ॥
गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियम् ।
मुहूर्ते समनुप्राप्ते कुम्भमादाय देशिकः ॥ ३१।११७ ॥
स्वस्तिसूक्तं जपन् ग्राममालयं वा प्रदक्षिणम् ।
कृत्वा देवाग्रतः कुम्भं ध्यान्यपीठे निवेशयेत् ॥ ३१।११८ ॥
यजमानेन शक्त्यावै गुरुस्सम्पूजितस्तदा ।
कूर्यादनन्तरोक्तांश्च संस्कारान् भगवत्प्रियान् ॥ ३१।११९ ॥
वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः ।
यजमानस्सुसम्पूज्य पशुभूम्यादिभिर्गुरुम् ॥ ३१।१२० ॥
गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिम् ।
ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान् हरिः ॥ ३१।१२१ ॥
गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः ।
महाहविर्नि वेद्यैन पायसापूपसंयुतम् ॥ ३१।१२२ ॥
साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेत् ।
पुष्पाञ्जलिं ततो दत्वा “क्षयऽऽ स्वेति प्रणम्य च ॥ ३१।१२३ ॥
सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे ।
दशदानं विशेषेण देवप्रीतिकं भवेत् ॥ ३१।१२४ ॥
एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः ।
पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरत् ॥ ३१।१२५ ॥
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेत् ।
एवं यःकुरुते भक्त्या विष्णोस्सम्प्रोक्षणत्रयम् ॥ ३१।१२६ ॥
प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयात् ॥ ३१।१२७ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशो ऽध्यायः।