अथत्रिंशो ऽध्यायः।
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण तन्त्रसङ्करनिष्कृतिम् ।
वैष्णवस्यान्यतन्त्रेण सङ्करे दोषमादिशेत् ॥ ३०।१ ॥
ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य सङ्क्षयः ।
तद्दोषशमनायैव साङ्कर्यमपहाय च ॥ ३०।२ ॥
पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषम् ।
पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ॥ ३०।३ ॥
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेत् ॥ ३०।४ ॥
वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितम् ।
वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमात् ॥ ३०।५ ॥
वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः ।
ऐहिकामुष्मिकफलप्रदं सौम्यं प्रकीर्तितम् ॥ ३०।६ ॥
पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकम् ।
तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितम् ॥ ३०।७ ॥
अश्रीकरमथ प्रोक्तङ् केवलामुष्मिकप्रदम् ।
सौम्यं सर्वत्र सम्पूज्यं ग्रामादिषु विशेषतः ॥ ३०।८ ॥
ब्राह्मणानां च गेहेषु सौम्ये नै वार्चयेद्धरिम् ।
आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ॥ ३०।९ ॥
पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच ।
विप्रावासे जनावासे नैव कुर्यादनेन तु ॥ ३०।१० ॥
सौम्ये वैखानसे मार्गे यद्याग्ने येन सङ्करः ।
पञ्चरात्रेण सम्प्राप्तो राजा राष्ट्रं विनश्यति ॥ ३०।११ ॥
तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमात् ।
महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ॥ ३०।१२ ॥
अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः ।
अभ्यर्च्य देवदेवेशं सम्पूज्यैव तु वैष्णवान् ॥ ३०।१३ ॥
भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना ।
पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ॥ ३०।१४ ॥
कालेनान्तरिते तस्मिन् कुर्यात्सौम्य प्रवेशनम् ।
सौम्यत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेत् ॥ ३०।१५ ॥
पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमात् ।
वैखानसेन विधिनाविमानं बिम्बमेव च ॥ ३०।१६ ॥
संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः ।
प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेत् ॥ ३०।१७ ॥
आलयाश्रितदेवानां परिवारस्य पर्षदाम् ।
पूजायामप्यमुख्यायां सङ्करो नैव सम्मतः ॥ ३०।१८ ॥
महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतो ऽस्य वै ।
नालं देवास्त्रयस्सेन्द्रा अनन्तो ऽप्युपवर्णितुम् ॥ ३०।१९ ॥
श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमम् ।
यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलात् ॥ ३०।२० ॥
पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगत् ।
सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ॥ ३०।२१ ॥
विसस्मार यदा धाता निद्रयाक्रान्तमानसः ।
वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ॥ ३०।२२ ॥
चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि ।
बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ॥ ३०।२३ ॥
स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः ।
न हि तत्कारणं लेभे वेदविस्मरणं तु यत् ॥ ३०।२४ ॥
चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः ।
हृत्पद्ममध्ये पुरुषं परमेण समाधिना ॥ ३०।२५ ॥
चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणम् ।
तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ॥ ३०।२६ ॥
ननाम च तदा विष्णुं शङ्खचक्रगद्धरम् ।
अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ॥ ३०।२७ ॥
मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिम् ।
निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ॥ ३०।२८ ॥
तुष्टावजगदीशानं नारायणमजं विधिः ।
“जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३०।२९ ॥
नमस्ते ऽस्तु हृषीकेश महापुरुष पूर्वज ।
देशकालपरिच्छेदरहितानन्त चिन्मय ॥ ३०।३० ॥
सत्यज्ञानसुखानन्दस्वरूप परमेश्वर ।
पञ्चव्यूह चतुर्व्यूहानन्तव्यूहात्मविग्रह ॥ ३०।३१ ॥
विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते ।
नित्यमुक्तजनावासपरमव्योमनायक ॥ ३०।३२ ॥
श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह ।
शङ्खचक्रगदावाणे भक्ताभयवरप्रद ॥ ३०।३३ ॥
कीरीट हार केयूर कटकाङ्गदभूषित ।
ग्रैवेयकपरिष्कार कटीसूत्रविराजित ॥ ३०।३४ ॥
तुलसीमालिकाराजद्विशालोरस्थ्सलाञ्चित ।
प्रलम्बयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ॥ ३०।३५ ॥
सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण ।
दिव्यायुधसमासेव्य पीताम्बरसुशोभित ॥ ३०।३६ ॥
नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस ।
मन्दस्नितमुखाम्भोज मधुराधरपल्लव ॥ ३०।३७ ॥
रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह ।
सुभ्रूललाटसुभग सुनस स्वायतेक्षण ॥ ३०।३८ ॥
वृत्तपीनायतभुज तनुमध्य महाहनो ।
विलासविक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ॥ ३०।३९ ॥
ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधे ऽनघ ।
नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ॥ ३०।४० ॥
समस्सत्यस्वरूपाय अच्युताय नमो नमः ।
नमो ऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ॥ ३०।४१ ॥
नमश्चिदात्मने ऽनन्त शान्तरूपाय धन्विने ।
शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ॥ ३०।४२ ॥
अच्युतायाविकाराय तेजसां निधये नमः ।
प्रधान पुरुषेशाय वेदवेद्याय वेदिने ॥ ३०।४३ ॥
नमः पर व्यूहरूप नमो विभवविग्रह ।
अन्तर्यामिन्नमस्ते ऽस्तु नमोर्ऽचारूप शाश्वत ॥ ३०।४४ ॥
सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनम् ।
सहस्रपादं त्रातारं शरणं त्वाङ्गतो ऽस्म्यहम् ॥ ३०।४५ ॥
माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम ।
सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितम् ॥ ३०।४६ ॥
संसारसागरं घोरमनन्तं क्लेशभाजनम् ।
त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ॥ ३०।४७ ॥
न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव ।
त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ॥ ३०।४८ ॥
न ते रूपं न करणं कारणं नास्ति ते ऽनघ ।
त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन् हरे ॥ ३०।४९ ॥
अहं भवश्च ते ब्रह्मन् प्रसादक्रोधजावुभौ ।
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ३०।५० ॥
विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितम् ।
सर्वं तव कटाक्षस्य लेशो ऽयं मधुसूदन ॥ ३०।५१ ॥
तमसाक्रान्तचित्तस्य विस्मृता निगमा मम ।
अवेदविहितस्सर्गो मया कर्तुं न शक्यते ॥ ३०।५२ ॥
प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे ।
इति चिन्तयतस्तस्य बभूवावाविलं मनः ॥ ३०।५३ ॥
ततस्तुभगवान् ब्रह्मा वेदराशिमवाप्तवान् ।
सस्मार निखिलान्वेदान् साङ्गानुपनिषद्गणम् ॥ ३०।५४ ॥
पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः ।
चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ॥ ३०।५५ ॥
अन्तर्हितानां खननाद्वेदानान्तु विशेषतः ।
स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ॥ ३०।५६ ॥
वैखानसश्च भगवान् प्रोच्यते स पितामहः ।
जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ॥ ३०।५७ ॥
प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः ।
हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ॥ ३०।५८ ॥
समानाच्च तथापानादृषिश्रेष्ठानिमान् दश ।
दक्षं मरीचिनं नीललोहितं भृगुमेन च ॥ ३०।५९ ॥
तथाङ्गिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ।
वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ॥ ३०।६० ॥
नव ब्रह्माण एवै ते विनास्युर्नीललोहितम् ।
वेदानां व्यसनादर्पाक् प्राग्रूपं मिलितं तु यत् ॥ ३०।६१ ॥
तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः ।
नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ॥ ३०।६२ ॥
भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः ।
तथा वसिष्ठोदक्षश्च नव ब्रह्माणर् इरिता ॥ ३०।६३ ॥
(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः ।
तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ॥ ३०।६४ ॥
वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः ।
के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ॥ ३०।६५ ॥
धर्मशास्त्राणि केचित्तु पुराणानि च के चन ।
इतिहासांस् तथाकल्पान् प्रोचुरन्ये महर्षय? ॥ ३०।६६ ॥
के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरत् ।
वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ॥ ३०।६७ ॥
तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयम् ॥ ३०।६८ ॥
तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक् ॥ ३०।६९ ॥
आदिकाले तु भगवान् ब्रह्मातु विखना मुनिः ।
यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरम् ॥ ३०।७० ॥
वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् ।
यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुरव्ययः ॥ ३०।७१ ॥
यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तत् ।
वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ ३०।७२ ॥
सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा ।
स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयात् ॥ ३०।७३ ॥
सद्यःपतति वै विप्रोन वेदस्य समाश्रये ।
सूत्रं वैखानसं यत्तु वेदस्सम्प्रतिपद्यते ॥ ३०।७४ ॥
एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितम् ।
एतद्वैखानसं सूत्रं सर्ववेदार्थसङ्ग्रहः ॥ ३०।७५ ॥
वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते ।
वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ॥ ३०।७६ ॥
नारायणस्य देवस्य माहात्म्यं नावबुध्यते ।
यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ॥ ३०।७७ ॥
तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते ।
अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ॥ ३०।७८ ॥
गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः ।
अधीतेषु च वेदेषु साङ्गेषु लभते फलम् ॥ ३०।७९ ॥
तत्फलं लभते सद्यस्सूत्रमेतत्पठन् द्विजः ।
अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ॥ ३०।८० ॥
ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवम् ।
शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ॥ ३०।८१ ॥
वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् ।
आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ॥ ३०।८२ ॥
मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः ।
यस्मिन्नेव तु सम्प्रोक्ते सूत्रे विखनसा पुरा ॥ ३०।८३ ॥
वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः ।
वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ॥ ३०।८४ ॥
तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी ।
किं बहूक्तेन विधिना सर्वं वैखानसं जगत् ॥ ३०।८५ ॥
परस्मिन् व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयम् ।
तद्वैखानः परं ब्रह्म इति वेदादधीमहि ॥ ३०।८६ ॥
शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनम् ।
ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ३०।८७ ॥
ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः ।
वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् ॥ ३०।८८ ॥
नारायणस्स्वयं गर्भेमुद्रां धारयिते निजाम् ।
विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ॥ ३०।८९ ॥
एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः ।
विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ॥ ३०।९० ॥
अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः ।
द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ॥ ३०।९१ ॥
वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः ।
वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ॥ ३०।९२ ॥
गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य ।
सार्धकोटिप्रमाणतः उपादिशत्स भगवान् अस्मभ्यं नैमिशे वने ॥ ३०।९३ ॥
इति सङ्क्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः ।
तस्माद्वैखानसा विप्रास्सम्पूज्या भगवत्प्रियाः ॥ ३०।९४ ॥
पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च ।
आचार्यमर्चकं चापि सर्वान् वैखानसांस्तथा ॥ ३०।९५ ॥
प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेत् ।
यःपूजकमनादृत्य विप्रं वैखानसं हठात् ॥ ३०।९६ ॥
तीर्थं गृहीतुं प्रथञ्च्छेत्स पतति ध्रुवम् यः ।
पूजकमनादृत्य विप्रं वैखानसं पुनः ॥ ३०।९७ ॥
प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति ।
ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेत् ॥ ३०।९८ ॥
यः पूजकमनादृत्य विप्रं वैखानसं पुनः ।
यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ॥ ३०।९९ ॥
चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेत् ।
तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ॥ ३०।१०० ॥
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ।
आलये भगवत्पूजा सौम्येन विधिना कृता ॥ ३०।१०१ ॥
सर्वसम्पत्करी सा स्याज्जगतामिति शासनम् ।
तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ॥ ३०।१०२ ॥
तेन राजा च राज्यं च यजमानश्च नान्वयः ।
सर्वलोकश्च सन्तुष्टो वर्धते ब्रह्मतेजसा ॥ ३०।१०३ ॥
अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः ।
तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ॥ ३०।१०४ ॥
फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः ।
तस्मात्पुष्पं न हिंसीयात्पुष्पात्सञ्जायते फलम् ॥ ३०।१०५ ॥
देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च ।
यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकम् ॥ ३०।१०६ ॥
दुर्बलानामनाथानां बालवृद्धतपस्विनाम् ।
अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३०।१०७ ॥
राजा पिता च माता च राजा च परमो गुरुः ।
राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥ ३०।१०८ ॥
दावाग्निदवदग्धानां राजा पूर्णमिवाम्भसा ।
समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ॥ ३०।१०९ ॥
दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः ।
राजा दहति दिडेन विप्रो दहति मन्युवा ॥ ३०।११० ॥
मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः ।
चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेत् ॥ ३०।१११ ॥
अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च ।
दण्ड्यस्तु सम्प्ररोहेत ब्रह्मशापहतो हतः ॥ ३०।११२ ॥
आपद्यपि च कष्टायां नावमान्यो हि पूजकः ।
अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ॥ ३०।११३ ॥
तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः ।
अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृत् ॥ ३०।११४ ॥
देवेशं तोषयेद्यस्तु स हि पूजकतोषकृत् ।
गन्धं पुष्पं तथा माल्यं ताम्बूलं चाक्षतादिकम् ॥ ३०।११५ ॥
प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति ।
षडङ्गविदुषां चैव क्रतुप्रवरयाजिनाम् ॥ ३०।११६ ॥
वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु ।
फलाभिसन्धिरहितं सर्वं कर्माखिलं कृतम् ॥ ३०।११७ ॥
ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः ।
नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेत् ॥ ३०।११८ ॥
अर्चयेत्सततं ध्यायेन्नारायणमनायम् ।
कायेन मनसा वाचा स तु वैष्णव उच्यते ॥ ३०।११९ ॥
तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवम् ।
देवाग्रे पूजये ऽन्नैव तद्वैष्णवविमानना ॥ ३०।१२० ॥
अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः ।
अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ॥ ३०।१२१ ॥
तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवम् ।
येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ॥ ३०।१२२ ॥
रुद्रादिभिस्सहाज्ञा नात्ते ऽपि ज्ञेया अवैष्णवाः ।
नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ॥ ३०।१२३ ॥
विपश्चित्सु कृतधियस्तेषु कर्तार एव च ।
कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ॥ ३०।१२४ ॥
विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः ।
तस्मात्सम्पूज्य सर्वादौ भक्त्या वैखानसं द्विजम् ॥ ३०।१२५ ॥
विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः ।
गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ॥ ३०।१२६ ॥
स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः ।
न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेत् ॥ ३०।१२७ ॥
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ३०।१२८ ॥
न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ॥ ३०।१२९ ॥
तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः ।
भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ॥ ३०।१३० ॥
अनेक जन्मसंसारचिते पापसमुच्चये ।
वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ ३०।१३१ ॥
प्रद्वेषं याति गोविन्दे द्विजान् वेदांश्च निन्दति ।
यो नरस्तं विजानीयादासुरांशसमुद्भवम् ॥ ३०।१३२ ॥
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायातः पतितानां दुरात्मनाम् ॥ ३०।१३३ ॥
यदा पापक्षयः पुंसां तदा देवद्विजातिषु ।
विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ॥ ३०।१३४ ॥
यथा स्वल्पान शेषस्तु नराणां पापसञ्चयः ।
भवन्ति ते भागवता निश्श्रेयशपरा नराः ॥ ३०।१३५ ॥
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे ।
हस्तावलम्बनो ह्येको भक्तिक्रीतो जनार्दनः ॥ ३०।१३६ ॥
कर्मणा मनसा वाचा प्राणिनां यो ऽनसूयकः ।
भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ॥ ३०।१३७ ॥
यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति ।
न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ॥ ३०।१३८ ॥
सर्वान् देवान् हरिं वेत्ति सर्वान् लोकांश्च केशवम् ।
तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ॥ ३०।१३९ ॥
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः ।
तरुपाषाणकाष्ठादीन् भूम्यम्भोगगनं दिशः ॥ ३०।१४० ॥
आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनात् ।
यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ॥ ३०।१४१ ॥
सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितम् ।
इति यो वै विजानाति स हि भागवतस्स्मृतः ॥ ३०।१४२ ॥
भवभीतिं हरत्येष भक्तिभावेन भावितः ।
भगवानिति यद्भावस्स तु भागवतस्स्मृतः ॥ ३०।१४३ ॥
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ॥ ३०।१४४ ॥
बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियाम् ।
भावेन निष्पादयति ज्ञेयो भागवतो हि सः ॥ ३०।१४५ ॥
नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः ।
पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ॥ ३०।१४६ ॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरायान्ति यां तु भागवता नराः ॥ ३०।१४७ ॥
योगच्युतैर्भागवतैद् देवराजश्शतक्रतुः ।
अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ॥ ३०।१४८ ॥
यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते ।
तत्तोषणाय यतते स हि भागवतस्स्मृतः ॥ ३०।१४९ ॥
येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः ।
युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ॥ ३०।१५० ॥
व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः ।
स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतम् ॥ ३०।१५१ ॥
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ।
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ॥ ३०।१५२ ॥
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ।
एवमाश्रमिणां विष्णुस्सर्वेषां च परायणम् ॥ ३०।१५३ ॥
न दानैर्नतपोभिश्च प्रीयते भगवान् हरिः ।
वर्णाश्रमाचारवता यथा स परितुष्यति ॥ ३०।१५४ ॥
वर्णाश्रमाचारवता पुरुषेण परःपुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३०।१५५ ॥
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते ।
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम् ॥ ३०।१५६ ॥
षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः ।
अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरम् ॥ ३०।१५७ ॥
हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषम् ।
एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेत् ॥ ३०।१५८ ॥
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, ।
अनेन विधिना तत्र शान्तिर्भवति शोभना ॥ ३०।१५९ ॥
हादोषेषु च पुनरुक्तहोमैस्सहैव तु ।
पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ॥ ३०।१६० ॥
हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः ।
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत् ॥ ३०।१६१ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशो ऽध्यायः।