अथैकोनत्रिंशो ऽध्यायः।
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिम् ।
ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति ॥ २९।१ ॥
चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितम् ।
षण्मानसहितं कृत्वासनालं पादपद्मकम् ॥ २९।२ ॥
कृत्वा तु ताम्रजं बिम्बं कौतुकस्योक्तवर्त्मना ।
कृत्वाक्ष्युन्मोचनं चाधिवासान् संस्थाप्य चाचलम् ॥ २९।३ ॥
स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु ।
शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच ॥ २९।४ ॥
पुष्पन्यासं च कृत्वैव सर्वान् परिषदः क्रमात् ।
शैलानेव प्रकुर्वीत यथा शातातपो ऽब्रवीत् ॥ २९।५ ॥
शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च ।
पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमात् ॥ २९।६ ॥
देव्यावन्यांश्च देवांश्च तदालयगतानपि ।
तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतम् ॥ २९।७ ॥
कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि ।
करपादतले चैव नखेषु मुकुटे ऽपि च ॥ २९।८ ॥
भूषणेषु विधानेन तत्तद्वर्णेन लेपयेत् ।
मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः ॥ २९।९ ॥
तदालयगताः कुर्यादन्यथा विपरीतकृत् ।
अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेत् ॥ २९।१० ॥
अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि ।
प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह ॥ २९।११ ॥
बालागारे ऽथ तच्छक्तिं नीत्वा बिम्बं समाहरेत् ।
भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च ॥ २९।१२ ॥
हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा ।
तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेत् ॥ २९।१३ ॥
हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ ।
त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेत् ॥ २९।१४ ॥
बेरं सन्धानयोग्यं यस्त्यजेत्पापी भवेत्स हि ।
विनष्टं च भवेत्सर्वंसन्धानं शक्तितश्चरेत् ॥ २९।१५ ॥
ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयम् ।
अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः ॥ २९।१६ ॥
प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः ।
एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः ॥ २९।१७ ॥
अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा ।
सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेत् ॥ २९।१८ ॥
मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेत् ।
तं देवीसहितं कृत्वा विमानं च विशेषतः ॥ २९।१९ ॥
शैलं तु कर्तुमिच्छेच्चेद् देवो दैविकमाश्रयेत् ।
यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः ॥ २९।२० ॥
लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेत् ।
कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेत् ॥ २९।२१ ॥
लघुबेरं प्रतिष्ठाप्य विमाने मृण्मये ऽर्चिते ।
कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजम् ॥ २९।२२ ॥
विमानं परिकल्प्यैव विधिना हस्तमानतः ।
देवीभ्यां सहितं देवं दैविकांशे विधाय च ॥ २९।२३ ॥
पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि ।
तस्योत्तरे चौत्सवादीन् प्रतिष्ठाप्य समर्चयेत् ॥ २९।२४ ॥
पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये ।
शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया ॥ २९।२५ ॥
रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये ।
काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः ॥ २९।२६ ॥
संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः ।
विमानं युग्महस्तेन तद्बेरस्य वशादपि ॥ २९।२७ ॥
यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेत् ।
तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकम् ॥ २९।२८ ॥
अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितम् ।
कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा ॥ २९।२९ ॥
गर्भागारं भवेच्छेषं भित्तिविष्कम्भमेव च ।
समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः ॥ २९।३० ॥
शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा ।
कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशम् ॥ २९।३१ ॥
अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः ।
मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेत् ॥ २९।३२ ॥
वर्णक्षयेध्रुवे दोषसम्फदे स्फुटितादिभिः ।
अल्पदोषे ऽपि वाशक्तिं ध्रुवबेरस्थितां तदा ॥ २९।३३ ॥
कुम्भे ऽम्भसि समावाह्य तत्कुम्भं कौतुकादि च ।
समादाय विधानेन मालिकायां तु मण्डपे ॥ २९।३४ ॥
सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेत् ।
काले कुम्भे समारोप्य क्रियास्सर्वास्समाचरेत् ॥ २९।३५ ॥
अतीते द्विदिने कुम्भमन्यदादायचात्वरः ।
कुम्भाच्छक्तिं समादाय कुम्भे ऽन्यस्मिन् विधालतः ॥ २९।३६ ॥
अर्चयेत्त्रिदिने चैवं कुम्भसंशोधनं चरेत् ।
पश्चाच्च वर्णलेपादीन् कृत्वा संशोद्य चैवहि ॥ २९।३७ ॥
वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेत् ।
कुम्भं बिम्बं समादाय प्रविश्याभ्यन्तरं ततः ॥ २९।३८ ॥
कौतुकादीन् सुसंस्थाप्य न्यासादींश्च विधाय च ।
कुम्भस्थां शक्तिमादाय ध्रुवबेरे ऽवरोपयेत् ॥ २९।३९ ॥
ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेत् ।
दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते ॥ २९।४० ॥
देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः ।
यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमात् ॥ २९।४१ ॥
नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतम् ।
यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च ॥ २९।४२ ॥
कौतुकादीन् सुसंस्थाप्य विधिना सम्यगर्चयेत् ।
पश्चात्तले तु निर्दुष्टे कौतुकादीन् प्रगृह्य च ॥ २९।४३ ॥
स्थापयित्वा पुनश्चैव विधिनापि समर्चयेत् ।
अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमात् ॥ २९।४४ ॥
ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि ।
कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयम् ॥ २९।४५ ॥
तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः ।
नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः ॥ २९।४६ ॥
ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगाम् ।
अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे ॥ २९।४७ ॥
प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः ।
आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः ॥ २९।४८ ॥
“दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः ।
वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः ॥ २९।४९ ॥
वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले ।
स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः ॥ २९।५० ॥
दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले ।
देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवम् ॥ २९।५१ ॥
हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणाम् ।
अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते ॥ २९।५२ ॥
महाङ्गानि शिरः कुक्षि वक्षः कण्ठान् प्रचक्षते ।
पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि ॥ २९।५३ ॥
अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः ।
शिरश्चक्रं च पीठं च प्रभामण्डलमेव च ॥ २९।५४ ॥
उपाङ्गान्यूचिरे भूषणायुधाम्बरपूर्वकान् ।
तत्रोपाङ्गस्य हीने तु कुम्भं संसाध्य पूर्ववत् ॥ २९।५५ ॥
आवाह्य कुम्भे तच्छक्तिं बिम्बं सन्धाय पूर्ववत् ।
कृत्वा जलाधिवासादीन् वास्तुहोमं विधाय च ॥ २९।५६ ॥
संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः ।
सप्तभिः कलशैस्थ्साप्य कुम्भस्थां शक्तिमादरात् ॥ २९।५७ ॥
समावाह्य पुनर्बिम्बे विधिना सम्यगर्चयेत् ।
प्रत्यङ्गहीने तच्छक्तिं महाबेरे ऽवरोप्य च ॥ २९।५८ ॥
उध्रुत्य बिम्बं सम्प्रोक्ष्य पञ्चगव्यैः कुशोदकैः ।
तुल्यलोहेन सन्धाय चाधिवास्य कुशादिषु ॥ २९।५९ ॥
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ।
अङ्गहीनेतु सन्धानयोग्यं सन्धाय पूर्ववत् ॥ २९।६० ॥
अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके ।
भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमात् ॥ २९।६१ ॥
अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनम् ।
उद्धृत्य बिम्बं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः ॥ २९।६२ ॥
त्रिरग्नौ सम्परिक्षिप्य शोधयेदाम्लवारिणा ।
राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः ॥ २९।६३ ॥
कृत्वातेनैव द्रव्येण बिम्बं पूर्ववदुत्तमम् ।
पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमात् ॥ २९।६४ ॥
पटे कुड्ये ऽथ वा लिख्य बेरे विधिवदर्चिते ।
जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले ॥ २९।६५ ॥
नवीकृत्य पुनस्तस्मिन् प्रतिष्ठाप्य समर्चयेत् ।
आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः ॥ २९।६६ ॥
प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेत् ।
नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि ॥ २९।६७ ॥
तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च ।
तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः ॥ २९।६८ ॥
आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचित् ।
वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयम् ॥ २९।६९ ॥
भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति ।
तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसङ्करम् ॥ २९।७० ॥
अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसङ्करे ।
अब्जानले महाशान्तिं हुत्वा सम्प्रार्थ्यवै गुरुम् ॥ २९।७१ ॥
याचयित्वा “क्षमऽऽस्वेति पूजयित्वा विशेषतः ।
पनस्तेनैव तत्कर्म कारयेदिति शासनम् ॥ २९।७२ ॥
आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे ।
तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा ॥ २९।७३ ॥
एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणाम् ।
आचार्यं सम्प्रणम्यैव तत्पुत्राद्यैर्विधानतः ॥ २९।७४ ॥
कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः ।
पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः ॥ २९।७५ ॥
देवीभ्यां सह पश्चात्तु कारयेत् स्थापनं यदि ।
आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृत् ॥ २९।७६ ॥
ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः ।
विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, ॥ २९।७७ ॥
कौतुकं चोत्सवस्थाने स्थापयेदिति के चन ।
स्थानके चासनं कुर्याच्छयनं वापि चेच्छया ॥ २९।७८ ॥
असनेशयनं कुर्यात्थ्सानकं न तु कारयेत् ।
शयने नासनं चैव स्थानकं कारयेद्विधिः ॥ २९।७९ ॥
कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा ।
असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा ॥ २९।८० ॥
स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेत् ।
अवतारगणस्यैव मूर्तीनां पञ्चकस्य च ॥ २९।८१ ॥
अन्योन्यसङ्करेणैव स्थापने कौतुकस्य च ।
महत्तरो भवेद्दो, स्तद्दोषशमवाय वै ॥ २९।८२ ॥
हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेत् ।
अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनम् ॥ २९।८३ ॥
नराणां पापबाहुल्यादपराधविशेषतः ।
देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरम् ॥ २९।८४ ॥
कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृत् ।
कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः ॥ २९।८५ ॥
सङ्क्षोभो जायते सद्यो विनाशो भवति ध्रुवम् ।
द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः ॥ २९।८६ ॥
अतीते द्वादशाहेतु महाशान्तिपुरस्सरम् ।
सम्पूज्य वैष्णवान् शक्त्यादत्वा वै भूरिदक्षिणाम् ॥ २९।८७ ॥
आरभेदुत्तरं कर्म मासे ऽतीते विशेषतः ।
सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा ॥ २९।८८ ॥
भोजयित्वा च देवेशमनुमान्य तु कारयेत् ।
षण्मासे समतीते तु रमते तत्र नोहरिः ॥ २९।८९ ॥
तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदिताम् ।
भौमान्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतम् ॥ २९।९० ॥
ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले ।
सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनम् ॥ २९।९१ ॥
एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते ।
आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः ॥ २९।९२ ॥
वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः ।
रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले ॥ २९।९३ ॥
अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनम् ।
नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनम् ॥ २९।९४ ॥
गन्धर्वनगरस्यापि दर्शनं पतनं तु वा ।
प्रतिसूर्याब्जनक्षत्रदर्शनं सम्प्रचक्षते ॥ २९।९५ ॥
भौमान्यनेकथोक्तानि चरस्थिरविभेदतः ।
देशकालस्वभावादिविरुद्धं प्रसवादिकम् ॥ २९।९६ ॥
पृषदंशकसर्पाश्वयोनिजानां विशेषतः ।
गोनागमहिषाद्येषु तिर्यक्षु जननं तथा ॥ २९।९७ ॥
कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु ।
विवर्णाकारवासादिराश्रयादिस्तथालये ॥ २९।९८ ॥
रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु ।
दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमम् ॥ २९।९९ ॥
नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमम् ।
सरीसृपादिषु भवान्यथमानि वदन्तिहि ॥ २९।१०० ॥
रोदनं हसनं जल्पो ज्वलनं परिवर्तनम् ।
स्वेदश्च रुधिरस्रावः कृमिकीनादिसम्भवः ॥ २९।१०१ ॥
अकालस्फोटनं धूमश्चाङ्गकम्पनमेव च ।
स्वापनास्वादनेचैव तृणवल्मीक सम्भवः ॥ २९।१०२ ॥
प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा ।
पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा ॥ २९।१०३ ॥
सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने ।
स्थूणाविरोहणे चैव चलने परिवर्तने ॥ २९।१०४ ॥
तथापसर्पणे चैव कवाटशयनासने ।
भित्त्यायुधाम्बरे तद्वदग्निहोत्राद्युपस्करे ॥ २९।१०५ ॥
विमाने च विकारश्च मक्षिकावृक्षपातने ।
प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च ॥ २९।१०६ ॥
शाखादौ विपरीतस्य दर्शनं च विशेषतः ।
रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु ॥ २९।१०७ ॥
तेषु गर्भकृहे चैव पीठे चैव भवानि तु ।
राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः ॥ २९।१०८ ॥
कर्त्राराधकयोर्नाश इति शातातपो ऽब्रवीत् ।
प्रासादजानि राज्ञां स्युः प्रासादे ऽपि विशेषतः ॥ २९।१०९ ॥
अधिष्ठाने च पादे च प्रस्तरे च गले ऽपि च ।
शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु ॥ २९।११० ॥
अभिषेकस्य योग्यस्य युवराजस्य चैव हि ।
अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु ॥ २९।१११ ॥
प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा ।
पुरोहितस्य तन्मण्डलाधिपानां महद्भयम् ॥ २९।११२ ॥
शूद्रजातिविपद्धेत्द्वितीयावरणादिषु ।
सस्यनाशो गजाश्वादिपशुनाशस्च जायते ॥ २९।११३ ॥
पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनाम् ।
रुद्रालये तु सर्वेषां नृपस्य तु गुहालये ॥ २९।११४ ॥
सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा ।
श्षालये राजपत्नीनां दुर्गास्थाने ऽन्ययोषिताम् ॥ २९।११५ ॥
मातृस्थाने ऽन्त्यजातीनामोषधीनां कुबेरके ।
नृपवाहनशस्त्रोपजीविनां भास्करालये ॥ २९।११६ ॥
अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेत् ।
आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च ॥ २९।११७ ॥
महानसे नृपावासे क्रीडास्थाने विशेषतः ।
आचार्ययजमानादिपदार्थिनिलयेषु च ॥ २९।११८ ॥
चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः ।
वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः ॥ २९।११९ ॥
भौमेषु देवबेरार्चापीठगर्भगृहार्ते ।
जातादोषान्तु सम्प्रोक्ता उत्तमोत्तमसञ्ज्ञिताः ॥ २९।१२० ॥
उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे ।
मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः ॥ २९।१२१ ॥
तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः ।
अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः ॥ २९।१२२ ॥
अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतम् ।
दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते ॥ २९।१२३ ॥
भौमेषु तु चरेष्वत्र निमित्तं च निमित्तिनम् ।
देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेत् ॥ २९।१२४ ॥
स्थिरेषु प्रतिमानां तु रोदने हसने तथा ।
ज्वलने च तथा देवं संस्थाप्य तरुणालये ॥ २९।१२५ ॥
तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः ।
शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमात् ॥ २९।१२६ ॥
परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववत् ।
स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेत् ॥ २९।१२७ ॥
कृमिकीटपतङ्गानां कृणादीनामथोद्भवे ।
आरोप्य पूर्ववच्छक्तिं पुनस्सन्धाय युक्तितः ॥ २९।१२८ ॥
शान्त्यादीनाचरेदेवमकालस्फोटनादिके ।
बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च ॥ २९।१२९ ॥
वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये ।
यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः ॥ २९।१३० ॥
संशोध्य सर्वं सन्धाय पुनस्थ्सापन माचरेत् ।
प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते ॥ २९।१३१ ॥
पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना ।
आलिप्य शर्करां कुर्याच् छान्तिं दिव्यप्रचोदिताम् ॥ २९।१३२ ॥
पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः ।
मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलम्बितम् ॥ २९।१३३ ॥
शोधयित्वा ततश्शान्तिमारभेत विचक्षणः ।
अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेत् ॥ २९।१३४ ॥
स्थूणाविरोहणादौ च पुनस्सन्धाय चाचरेत् ।
हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका ॥ २९।१३५ ॥
राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः ।
वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचिताम् ॥ २९।१३६ ॥
अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेत् ।
अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च ॥ २९।१३७ ॥
अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमम् ।
क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा ॥ २९।१३८ ॥
शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते ।
आलयाभिमुखे तद्वदैशान्यां चोत्तरे ऽथ वा ॥ २९।१३९ ॥
पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपाम् ।
कूटं वा षोडशस्तम्भसंयुक्तां सुमनोहरम् ॥ २९।१४० ॥
चतुर्हस्तप्रमाणान्तस्त्सम्भान्तरसमायुताम् ।
तानोन्नताचलायुक्ताम्? कृत्वा मध्ये विधानतः ॥ २९।१४१ ॥
कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलम् ।
खनित्वैव चत् प्राच्यां द्विहस्तायत विस्तृतम् ॥ २९।१४२ ॥
हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमम् ।
प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकम् ॥ २९।१४३ ॥
अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेत् ।
अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च ॥ २९।१४४ ॥
कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेत् ।
पूर्मकम्भैरङ्कुरैश्च कदलीभिर्ध्वजैरपि ॥ २९।१४५ ॥
स्तम्भ वेष्टनकाद्यैश्च दर्भमालाभिरेव च ।
अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरम् ॥ २९।१४६ ॥
स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे ।
पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे ॥ २९।१४७ ॥
सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः ।
द्वात्रिंशत्प्रस्थसम्पूर्णं कम्भमादाय शास्त्रवत् ॥ २९।१४८ ॥
तन्तुना परिष्ट्यैव यवान्तरमनन्तम् ।
वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च ॥ २९।१४९ ॥
सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च ।
वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि ॥ २९।१५० ॥
रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु ।
सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि ॥ २९।१५१ ॥
निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः ।
कर्पूरचन्दनोशीरलवङ्गैलादिकानपि ॥ २९।१५२ ॥
गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् ।
तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै ॥ २९।१५३ ॥
आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः ।
नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः ॥ २९।१५४ ॥
अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितम् ।
मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा ॥ २९।१५५ ॥
मन्दं गुरुं पावकादि चन्द्रराहुध्वजान् बुधम् ।
प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत् ततः ॥ २९।१५६ ॥
अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतम् ।
अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै ॥ २९।१५७ ॥
हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमात् ।
हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले ॥ २९।१५८ ॥
घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकम् ।
हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः ॥ २९।१५९ ॥
दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः ।
वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः ॥ २९।१६० ॥
घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतम् ।
हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकम् ॥ २९।१६१ ॥
जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेत् ।
यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमात् ॥ २९।१६२ ॥
कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा ।
स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः ॥ २९।१६३ ॥
ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेत् ।
यदि देवालये दोषः कुम्भपार्श्वेथ स्थण्डिले ॥ २९।१६४ ॥
देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः ।
देवस्याभिमुखे हुत्वा होममन्ते यथाविधि ॥ २९।१६५ ॥
नवाहं वाथ स्ताहम् उत्सवं कारयेद्विधिः ।
दिव्यान्तरिक्षयोः कुम्भजलेना प्लावयेन्नृपम् ॥ २९।१६६ ॥
भौमेषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपम् ।
तत्पत्नीं चाभिषिञ्चेच्च गुरुं सम्पूज्य पार्थिवः ॥ २९।१६७ ॥
सुवर्णपशुभूम्यादीन् दद्यादृत्विग्भ्य एव च ।
दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा ॥ २९।१६८ ॥
यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके ।
पूर्ववद्ग्रहयज्ञं च होमं श्रामणके ऽनले ॥ २९।१६९ ॥
कुम्भस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा ।
स्नापयेत्कुम्भतोयेन प्रतिष्ठान्तक्रमेण वै ॥ २९।१७० ॥
दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वाङ्कुरार्ऽपणम् ।
शुभे ऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनम् ॥ २९।१७१ ॥
प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः ।
एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः ॥ २९।१७२ ॥
राज्ञां परार्थवृत्तित्वात्सो ऽत्र तु प्रकृतीकृतः ।
सर्वग्रासोपरागादिदिव्याद्भुतशमायवै ॥ २९।१७३ ॥
यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि ।
दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मिताम् ॥ २९।१७४ ॥
अनावृष्टिनिवृत्त्यर्थं कुम्भं सङ्गृह्य पूर्ववत् ।
सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः ॥ २९।१७५ ॥
ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतम् ।
हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च ॥ २९।१७६ ॥
अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुम्भं निधाय च ।
कुम्भमूले तु सुषिरं सूचीमात्रं विधाय च ॥ २९।१७७ ॥
तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिम् ।
समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा ॥ २९।१७८ ॥
अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणम् ।
अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववत् ॥ २९।१७९ ॥
अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणम् ।
समिद्भिर्जुहुयाद्विद्वान् वैतसीभिर्यधाविथि ॥ २९।१८० ॥
समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेत् ।
अष्टाधिकसहस्रं तु “इन्द्रं प्रणयन्तऽऽ मित्यपि ॥ २९।१८१ ॥
श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणम् ।
आवाह्य तु समभ्यर्च्य “शचीसहाऽऽयेति होमयेत् ॥ २९।१८२ ॥
देवं विशेषतो ऽभ्यर्च्य कारयेत्स्नपनादिकम् ।
एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवम् ॥ २९।१८३ ॥
त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि ।
दिने दिने पूरयित्वा कुम्भं तेनैव सेचयेत् ॥ २९।१८४ ॥
सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेत् ।
कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेत् ॥ २९।१८५ ॥
अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः ।
सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः ॥ २९।१८६ ॥
स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववत् ।
कर्मगौरवमाज्ञाय सम्भृत्य बहुधा पयः ॥ २९।१८७ ॥
पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः ।
आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः ॥ २९।१८८ ॥
कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तराम् ।
श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु ॥ २९।१८९ ॥
अग्निमाधाय कुम्भां स्तु नव संवेष्ट्य तन्तुना ।
अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः ॥ २९।१९० ॥
क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै ।
पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमात् ॥ २९।१९१ ॥
वस्त्रेणाच्छादयेच्छ्वभ्रम्पूजान्तेभ्यर्च्य वै हरिम् ।
स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे ॥ २९।१९२ ॥
अर्चनोक्तविधानेन सर्वं पूर्वनदायरेत् ।
तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः ॥ २९।१९३ ॥
विष्णुसूक्तेन “चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः ।
तया संस्नापयेद्देनमुक्तयो क्षीरधारया ॥ २९।१९४ ॥
तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः ।
“अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा ॥ २९।१९५ ॥
जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकम् ।
अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः ॥ २९।१९६ ॥
हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः ।
गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः ॥ २९।१९७ ॥
वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः ।
पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणाम् ॥ २९।१९८ ॥
अनेन सर्वान् कामांश्च लभेताविशयं नरः ।
ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटम् ॥ २९।१९९ ॥
तस्मादानीय तत्रैव स्नापयेदुक्तगौरवात् ।
सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेत् ॥ २९।२०० ॥
एवं घृताभिषेकं च कारयेत्सदृशं फलम् ।
इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते ॥ २९।२०१ ॥
अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः ।
पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि ॥ २९।२०२ ॥
विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितम् ।
कुम्भं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः ॥ २९।२०३ ॥
अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा ।
सङ्गृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च ॥ २९।२०४ ॥
देवं विशेषतो ऽभ्यर्च्य हविर्दद्यादयं विधिः ।
महाशान्तिक्रमं वक्ष्ये विना कुम्भस्य साधनम् ॥ २९।२०५ ॥
अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमात् ।
अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु ॥ २९।२०६ ॥
आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च ।
हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना ॥ २९।२०७ ॥
समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेत् ।
औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः ॥ २९।२०८ ॥
ब्राह्मणान् भोजयित्वैव दद्यादाचार्यदक्षिणाम् ।
अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः ॥ २९।२०९ ॥
बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतम् ।
पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि ॥ २९।२१० ॥
सर्वत्रतु विकल्पेन घटसंस्कारमाचरेत् ।
अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा ॥ २९।२११ ॥
ग्रहकोपे महाव्याधौ परचक्रभये तथा ।
अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये ॥ २९।२१२ ॥
अभिचारभये चैव तापत्रयनिपीडने ।
विरुद्धे ऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेत् ॥ २९।२१३ ॥
सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् ।
अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमात् ॥ २९।२१४ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशो ऽध्यः।