२८

अथाष्टाविंशो ऽध्यायः।

अथाष्टाविंशो ऽध्यायः।
प्रायश्चित्तम्

अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते ।
सर्पमूषकमण्डूकमार्जारनकुलादिषु ॥ २८।१ ॥
गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने ।
व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ॥ २८।२ ॥
वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेत् ।
ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ॥ २८।३ ॥
क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च ।
“आपो हिरण्यवर्णाऽभिः “पापमानीऽभिरेव च ॥ २८।४ ॥
संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृत् ।
स्पर्शेतैरेव बिम्बानां शुद्धोदैस्स्नापयेद्विधिः ॥ २८।५ ॥
उदक्यया सूतिकया रजकेनान्त्यजातिभिः ।
प्रथमावरणे विष्टे चार्चास्थाने च पर्षदाम् ॥ २८।६ ॥
प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना ।
हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ॥ २८।७ ॥
कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः ।
दौवारिकमनुं चैव द्वारपालं च वैष्णवम् ॥ २८।८ ॥
बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः ।
प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ॥ २८।९ ॥
अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिम् ।
संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ॥ २८।१० ॥
प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः ।
एतेषु सम्प्रविष्टेषु चालयाभ्यन्तरे तथा ॥ २८।११ ॥
तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने ।
शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ॥ २८।१२ ॥
वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेत् ।
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत् ॥ २८।१३ ॥
संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ॥ २८।१४ ॥
ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान् भोजयेत्ततः ।
स्पृष्टेतु चैतैर्बिम्बेषु ध्रुवादिषु विशेषतः ॥ २८।१५ ॥
कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेत् ।
पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरम् ॥ २८।१६ ॥
संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा ।
महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेत् ॥ २८।१७ ॥
शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः ।
पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादरात् ॥ २८।१८ ॥
पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेत् ।
महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ॥ २८।१९ ॥
आलये सम्प्रविष्टे तु तत्स्पृष्ठे विनिवेदिते ।
सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ॥ २८।२० ॥
संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेत् ।
पुनश्चध्रुवबेरे वा बिम्बेष्यन्येषु मन्दिरे ॥ २८।२१ ॥
स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च ।
हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुम् ॥ २८।२२ ॥
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ।
पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ॥ २८।२३ ॥
प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च ।
हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेत् ॥ २८।२४ ॥
उक्तेष्वेतेषु सततं प्रथमावरणे तथा ।
द्वितीये वा सञ्चरत्सु मासे ऽतीते विशेषतः ॥ २८।२५ ॥
मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः ।
कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेत् ॥ २८।२६ ॥
तथा संवत्सरे ऽतीते त्यक्त्वा चावाहनादिकम् ।
कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ॥ २८।२७ ॥
वासयेद्गा विशेषेण मासे ऽतीते विशेषतः ।
सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ॥ २८।२८ ॥
महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः ।
बालालयं च सङ्कल्प्य बिम्बशुद्धिमाथाचरेत् ॥ २८।२९ ॥
जलाधिवासनाद्यैश्च तथा वित्तानुसारतः ।
अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविम् ॥ २८।३० ॥
ब्राह्मणान् भोजयित्वैव सम्पूज्यापि च वैष्णवान् ।
बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ॥ २८।३१ ॥
आलयं चैव सर्वत्र नवीकृत्य विशेषतः ।
महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेत् ॥ २८।३२ ॥
एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः ।
स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ॥ २८।३३ ॥
ततस्संसर्गिणां चैव न दोषः परिकथ्यते ।
अशौमवद्द्विजस्पृष्टहविषां च निवेदने ॥ २८।३४ ॥
एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः ।
पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेत् ॥ २८।३५ ॥
स्पृष्टेषु चाथ बिम्बेषु कौतुकादिषु वा ध्रुवे ।
पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ॥ २८।३६ ॥
प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकम् ।
गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेत् ॥ २८।३७ ॥
खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे ।
स्पर्शने चैव बिम्बानां कृत्वा पर्यग्नि पूर्ववत् ॥ २८।३८ ॥
संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च ।
प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेत् ॥ २८।३९ ॥
बिम्बादीन् तत्समीपस्थान् संशोध्यैव च पूर्ववत् ।
शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेत् ॥ २८।४० ॥
पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि ।
छेदने ताडने चैव रक्तस्रावे मृतौ तथा ॥ २८।४१ ॥
तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः ।
वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ॥ २८।४२ ॥
तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः ।
अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेत् ॥ २८।४३ ॥
सम्भूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववत् ।
देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ॥ २८।४४ ॥
सम्पूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेत् ।
देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिम् ॥ २८।४५ ॥
वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः ।
गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ॥ २८।४६ ॥
मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलम् ।
वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ॥ २८।४७ ॥
वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः ।
प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ॥ २८।४८ ॥
हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः ।
आलयाभिमुखे ऽब्जाग्निं साधयित्वाथ वैष्णवम् ॥ २८।४९ ॥
विष्णुसूक्तं नृसूक्तं चर् इङ्कारान् पारमात्मिकम् ।
हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमात् ॥ २८।५० ॥
समभ्यर्च्य हविर्दत्वा ब्राह्मणान् भोज्य सादरम् ।
वैष्णवांश्च सुसम्पूज्य दद्यादायार्यदक्षिणाम् ॥ २८।५१ ॥
तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववत् ।
शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ॥ २८।५२ ॥
देवं बालालये स्थाप्य नवीकरणमाचरेत् ।
विमाने तु हठाद्भिन्ने पतिते वा विधानतः ॥ २८।५३ ॥
शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च ।
बालालयं च सङ्कल्प्य कृत्वा चाप्स्वधिवासनम् ॥ २८।५४ ॥
बिम्बशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिम् ।
अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरम् ॥ २८।५५ ॥
ब्राह्मणान् भोजयित्वैव सम्पूज्यैव तु वैष्णवान् ।
देवं बालालये स्थाप्य नवीकृत्यालयादिकम् ॥ २८।५६ ॥
सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेत् ।
तत्राशनिहते चैव मक्षिकादिफिरावृते ॥ २८।५७ ॥
संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः ।
प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ॥ २८।५८ ॥
ब्राह्मणान् भौजयित्वैव पुनस्सन्धानमाचरेत् ।
स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ॥ २८।५९ ॥
विमानकल्पवत्कृत्वा पुनस्सन्धानमाचरेत् ।
अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ॥ २८।६० ॥
सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः ।
दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ॥ २८।६१ ॥
शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता ।
अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ॥ २८।६२ ॥
महोत्पाते च महतीं हुत्वा शान्तिं विधानतः ।
देवं विशेषतो ऽभ्यर्च ब्राह्मणान् भोजयेत्ततः ॥ २८।६३ ॥
आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः ।
रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ॥ २८।६४ ॥
देवं विशेषतो ऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ।
ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदिताम् ॥ २८।६५ ॥
शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः ।
गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ॥ २८।६६ ॥
गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः ।
औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेत् ॥ २८।६७ ॥
पुण्याहं वाचयित्वैव ब्राह्मणान् भोजयेत्ततः ।
सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ॥ २८।६८ ॥
पञ्चगव्यैन्तु सम्प्रोक्ष्य वास्तुशुद्धिं विधाय च ।
संस्नाप्य कलशैर् देवं चतुर्विंशतिभिस्तदा ॥ २८।६९ ॥
एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च ।
ध्रुवादिषु तु बिम्बेषु मुहुस्स्पृष्टेषु तैस्तथा ॥ २८।७० ॥
देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च ।
पुण्याहं वाचयित्वैव विशेषार्चनमाचरेत् ॥ २८।७१ ॥
मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववत् ।
प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदम् ॥ २८।७२ ॥
पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च ।
उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ॥ २८।७३ ॥
तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः ।
आलयाभ्यन्तरे चैव सर्पत्रावरणे ऽपि वा ॥ २८।७४ ॥
महावाते ऽविवृष्टौ वा शत्रुचोराद्युपप्लवे ।
संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ॥ २८।७५ ॥
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः ।
पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकम् ॥ २८।७६ ॥
नृसूक्तं श्रीमहीमन्त्रान् ब्राह्मं रौद्रं विशेषतः ।
प्राजापत्यं च हुत्वैव ब्राह्मणान् भोजयेद्विधिः ॥ २८।७७ ॥
अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिम् ।
चोरैरमित्रैरथ वा परचक्रेण सङ्कुले ॥ २८।७८ ॥
लोहजप्रतिमानां च तिरोधानं प्रकल्पयेत् ।
शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनम् ॥ २८।७९ ॥
सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि ।
अवटे ऽभ्यर्च्य भूदेवी “मपो हिऽष्ठेति प्रोक्ष्य च ॥ २८।८० ॥
देवागारं प्रविश्यैव यजमानयुतो गुरुः ।
देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ॥ २८।८१ ॥
“यावत्कालं भयं भूयात्तावदीश जनार्दन ।
हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुम् ॥ २८।८२ ॥
वीज्ञाप्य शक्तिं बिम्बस्थां ध्रुवबेरे ऽवरोपयेत् ।
बेराभावे तु हृदये समारोप्य विधानतः ॥ २८।८३ ॥
“परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः ।
“प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितम् ॥ २८।८४ ॥
“यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः ।
अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ॥ २८।८५ ॥
अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितम् ।
पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ॥ २८।८६ ॥
ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च ।
द्वादशाङ्गुलदीर्घन्तु जीवस्थाने निधाय च ॥ २८।८७ ॥
ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेत् ।
बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ॥ २८।८८ ॥
कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच ।
कूर्चं तु बिम्बवत्स्मृत्वा मनसैवाक्षराणि तु ॥ २८।८९ ॥
तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेत् ।
स्नपनादौ तु सम्प्राप्ते कुर्यादभ्युक्षणं बुधः ॥ २८।९० ॥
मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेत् ।
काले तु बिम्बमुद्धृत्य संशोध्याम्लादिभिस्तदा ॥ २८।९१ ॥
पुण्याहान्तेकृते ऽस्पृश्य स्पर्शने त्वविलम्बितम् ।
कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकम् ॥ २८।९२ ॥
आलयाभिमुखे वापि दक्षिणे वा मनोरमे ।
प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ॥ २८।९३ ॥
तदुत्तरे वास्तहोमं हुत्वाबिम्बसमीपतः ।
पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ॥ २८।९४ ॥
अब्जाग्नौ पश्चिमे भागे बिम्बार्धाधिकविस्तृताम् ।
भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ॥ २८।९५ ॥
वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च ।
संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ॥ २८।९६ ॥
पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकम् ।
बेराणि देवीसहितं शाययेच्छयने शुभे ॥ २८।९७ ॥
अवताराणां तु शयनं पृथगेव विधीयते ।
परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेत् ॥ २८।९८ ॥
देवेशस्य च देव्याश्च अवतारगणस्य च ।
दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ॥ २८।९९ ॥
आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमात् ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २८।१०० ॥
गायत्री वैष्णवी चैव द्वादशाक्षरमेव च ।
प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयम् ॥ २८।१०१ ॥
शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे ।
षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ॥ २८।१०२ ॥
सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवम् ।
विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ॥ २८।१०३ ॥
श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदम् ।
घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ॥ २८।१०४ ॥
सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकम् ।
एनमेके महाशान्तिहोममाचक्षते बुधाः ॥ २८।१०५ ॥
पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः ।
पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ॥ २८।१०६ ॥
स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु ।
बोधयित्वाभिवन्द्यैव “करुणाब्धे क्षमस्य मे ॥ २८।१०७ ॥
शतं सहस्रमयुतमसङ्ख्येयं मुहुर्मुहुः ।
कृतानामपराधानाऽमिति सम्प्रार्थ्य भक्तितः ॥ २८।१०८ ॥
प्राचीन वस्त्रमाल्यादीन् द्यपोह्यन्यैर्विभूष्य च ।
सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ॥ २८।१०९ ॥
तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः ।
स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणम् ॥ २८।११० ॥
अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववत् ।
देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकम् ॥ २८।१११ ॥
पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः ।
ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ॥ २८।११२ ॥
कृत्वाक्षराणां विन्यासमावाहनमथाचरेत् ।
तदालयगतांश् चैव देवानन्यां त्समाह्वयेत् ॥ २८।११३ ॥
पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेत् ।
यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणाम् ॥ २८।११४ ॥
पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेत् ।
यथाविभवविस्तारमुत्सवं स्नपनं चरेत् ॥ २८।११५ ॥
अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववत् ।
कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेत् ॥ २८।११६ ॥
एवं चैद्वत्स रे ऽतीते पुनस्थ्सापनमाचरेत् ।
अवतारविशेषस्य पृथक्कुर्यादितीतरे ॥ २८।११७ ॥
तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन ।
इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ॥ २८।११८ ॥
अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः ।
महाबेरे विमाने च पतिते जरिते तथा ॥ २८।११९ ॥
भिन्नेङ्गहीने निहते वात्ययाशनिनाथ वा ।
वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ॥ २८।१२० ॥
पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने ।
उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ॥ २८।१२१ ॥
बालालये ऽभ्यर्च्यमाने सम्भूते स्थानसङ्कटे ।
चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ॥ २८।१२२ ॥
अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः ।
कर्षणादिक्रियास्सर्वा बिम्बमानीय चादरात् ॥ २८।१२३ ॥
प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः ।
बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ॥ २८।१२४ ॥
मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने ।
विना बालालयस्थानं शक्तिं गृह्य विमानगाम् ॥ २८।१२५ ॥
तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः ।
नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेत् ॥ २८।१२६ ॥
अकृत्वा देवतारोपं महाबेरे विशेषतः ।
विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ॥ २८।१२७ ॥
विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः ।
कौतुकादीन् प्रतिष्ठाप्य विहाय प्रार्थनामनुम् ॥ २८।१२८ ॥
बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेत् ।
तस्य काले ऽप्यतीते तु तदा तत्र न दोषकृत् ॥ २८।१२९ ॥
यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेत् ।
कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेत् ॥ २८।१३० ॥
कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा ।
विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ॥ २८।१३१ ॥
यथालाभेन मानेन बिम्बमाहृत्य दारवम् ।
प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ॥ २८।१३२ ॥
कौतुकादींश्च सङ्कल्प्य प्रतिष्ठाप्यार्चयेत्क्रमात् ।
अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ॥ २८।१३३ ॥
बिम्बमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवम् ।
तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ॥ २८।१३४ ॥
विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेत् ।
बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ॥ २८।१३५ ॥
मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा ।
द्वितीयावरणे वाथ मण्टपादौ मनोरमे ॥ २८।१३६ ॥
यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेत् ।
द्वितीयावरणादूर्ध्वं न बालागारकल्पनम् ॥ २८।१३७ ॥
एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते ।
अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ॥ २८।१३८ ॥
उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकम् ।
भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतम् ॥ २८।१३९ ॥
लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः ।
भित्तिविष्कम्भमानं स्यान्मूलालयसमं तथा ॥ २८।१४० ॥
द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतम् ।
नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयम् ॥ २८।१४१ ॥
मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकम् ।
नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ॥ २८।१४२ ॥
सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा ।
पूर्वापरयुतं वाथ दक्षिणोत्तरमायतम् ॥ २८।१४३ ॥
समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेत् ।
पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ॥ २८।१४४ ॥
मध्ये ब्राह्मं पदं चैकं परितो ऽष्टौ तु दैविकम् ।
मानुषं तस्य परितः पदान्यन्यानि षोडश ॥ २८।१४५ ॥
कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेत् ।
दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेत् ॥ २८।१४६ ॥
त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा ।
अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ॥ २८।१४७ ॥
प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलम् ।
यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतम् ॥ २८।१४८ ॥
रत्नन्यासविहीनं वा कृत्वा विभवविस्तरात् ।
आलयाग्रे ऽथ वा बालागाराग्रे पूर्ववद्बुधः ॥ २८।१४९ ॥
यागशालां तु कृत्वैव तोरणादीन्विधाय च ।
सुभृत्यैव च सम्भारानृत्विजोवरयेत्क्रमात् ॥ २८।१५० ॥
शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरम् ।
चतुरश्रां पादहीनामर्धहीनां विशेषतः ॥ २८।१५१ ॥
तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्ताम् ।
पञ्चत्रीनथवै काग्निं सङ्कल्प्यैव च पूर्ववत्।॥ २८।१५२ ॥
पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः ।
बालागारं यज्ञशालां पुण्याहमपि वाचयेत् ॥ २८।१५३ ॥
हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च ।
गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकम् ॥ २८।१५४ ॥
पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणम् ।
पञ्चमन्त्रान् जयानभ्यातानान् राष्ट्रभृतस्तथा ॥ २८।१५५ ॥
मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतम् ।
प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरम् ॥ २८।१५६ ॥
श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकम् ।
हुनेदष्टोत्तरशतं सर्वदोषविनाशनम् ॥ २८।१५७ ॥
रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः ।
हविर्निवेद्य तां शक्तिं कौतुकादिषु सङ्गताम् ॥ २८।१५८ ॥
महाबेरे समारोप्य कुम्भमाहृत्य पूर्ववत् ।
तन्तुना परिवेष्ट्यैव “शुची वो हव्यऽमन्त्रतः ॥ २८।१५९ ॥
प्रक्षाल्योत्पवनं कृत्वा “धारास्विऽति च मन्त्रतः ।
अद्भिरापूर्याभिमृश्य “इदमापश्शिवाऽ इति ॥ २८।१६० ॥
वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेत् ।
उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेत् ॥ २८।१६१ ॥
ततो ऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले ।
सन्न्यस्य कुम्भमासित्वा देवाग्रे तूत्तरामुखः ॥ २८।१६२ ॥
समाहितो हरिं ध्यायन् प्रार्थयेन्मन्त्रमुच्चरन् ।
“अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ॥ २८।१६३ ॥
किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो ।
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ॥ २८।१६४ ॥
प्रसादं कुरु तावत्त्वमस्मिन् गेहे जगत्पतेऽ ।
इत्युक्त्वाब्दमथ द्वौत्रीन् सङ्कल्प्यावधिमादरात् ॥ २८।१६५ ॥
देव्यादिसहितं देवमावाह्याम्भसि कुम्भके ।
आचार्यश्शिरसा कुम्भं धारयन्नग्रतस्त्वियात् ॥ २८।१६६ ॥
तदनु स्थापकाबिम्बन्यादाय स्नपनावटे ।
यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ॥ २८।१६७ ॥
कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच ।
शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ॥ २८।१६८ ॥
आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः ।
तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ॥ २८।१६९ ॥
परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेत् ।
कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववत् ॥ २८।१७० ॥
प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवम् ।
गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ॥ २८।१७१ ॥
एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च ।
त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ॥ २८।१७२ ॥
हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः ।
स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ॥ २८।१७३ ॥
विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः ।
ततो ऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ॥ २८।१७४ ॥
पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः ।
धारयन् शिरसा कुम्भं शाकुनं सू"क्तमुच्चरन् ॥ २८।१७५ ॥
आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरम् ।
हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतम् ॥ २८।१७६ ॥
सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरम् ।
आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ॥ २८।१७७ ॥
विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः ।
“प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ॥ २८।१७८ ॥
प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः ।
श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमात् ॥ २८।१७९ ॥
देवपादौ स्पृशन् पश्चाद्विष्णुसूक्तं जपन् गुरुः ।
कृत्वाक्षराणां न्यासादी “निदं विष्णुंऽति ब्रुवन् ॥ २८।१८० ॥
कूर्चेनादाय कुम्भस्थां शक्ति"मायातुऽ मन्त्रतः ।
“विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ॥ २८।१८१ ॥
“श्रियञ्च “हरिणींऽचेति देव्यौ दक्षिणवामयोः ।
संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ॥ २८।१८२ ॥
कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकात् ।
संस्थाप्य तु समावाह्य तावत्कालं समर्चयेत् ॥ २८।१८३ ॥
स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः ।
हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकम् ॥ २८।१८४ ॥
बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च ।
स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमात् ॥ २८।१८५ ॥
बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः ।
आवाहनं विसर्गं च हित्वा सर्वं समाचरेत् ॥ २८।१८६ ॥
महानसादिनिर्माणं बालालयविधौ पुनः ।
सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेत् ॥ २८।१८७ ॥
अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति ।
देवं विशेषतो ऽभ्यर्च्यशान्तिं वैष्णवसंयुतम् ॥ २८।१८८ ॥
हुत्वा सम्पूज्य पूज्यांश्च यजमानो गुरुस्तथा ।
सम्प्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ॥ २८।१८९ ॥
भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादरात् ।
एवं द्वादशवर्षान्तं कारयेच्छ ततः परम् ॥ २८।१९० ॥
न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेत् ।
अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ॥ २८।१९१ ॥
सङ्कल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा ।
देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ॥ २८।१९२ ॥
तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः ।
प्रथमे ऽथ द्वितीये ना नष्टे बालालये ऽर्चिते ॥ २८।१९३ ॥
दुष्टे वा येन केनापि मण्डपादौ मनोरमम् ।
देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ॥ २८।१९४ ॥
संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः ।
बालालयं नवीकृत्य तदेव त्वरितं यथा ॥ २८।१९५ ॥
वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेत् ।
अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरम् ॥ २८।१९६ ॥
पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेत् ॥ २८।१९७ ॥

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे ऽष्टाविंशो ऽध्यायः