२७

अथ सप्तविंशो ऽध्यायः

प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः ।
यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ॥ २७।१ ॥
अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः ।
यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेत् ॥ २७।२ ॥
अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने ।
हविर्निवेदने वापि हीने शान्तिं समाचरेत् ॥ २७।३ ॥
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेत् ।
अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७।४ ॥
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा ।
पुनरप्यङ्कुरान् कृत्वा पश्चात्कार्यं समाचरेत् ॥ २७।५ ॥
कृत्वाङ्कुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः ।
राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेत् ॥ २७।६ ॥
“क्षमऽस्वेति प्रणम्यैव पुनरङ्कुम्माचरेत् ।
अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसङ्घातकर्मणि ॥ २७।७ ॥
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकम् ।
सूक्तं तु पौरुषं ब्राह्मं सौम्यं चैव तु व्याहृतिः ॥ २७।८ ॥
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेत् ।
अक्ष्युन्मेषणकाले तु गवादीनामसम्भवे ॥ २७।९ ॥
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च ।
तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमात् ॥ २७।१० ॥
तत्तद्द्रव्यं च सम्पाद्य विधिवद्दर्शयेत्पुनः ।
अक्ष्युन्मेषणहीने वा राहुसौरोदये ऽथ वा ॥ २७।११ ॥
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने ।
सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकम् ॥ २७।१२ ॥
नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेत् ।
पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ॥ २७।१३ ॥
हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च ।
जलाधिवासं त्रियहमेकाहं वापि कालयेत् ॥ २७।१४ ॥
यज्ञालये महावेद्यां कृतायामप्रमाणतः ।
अन्यदेशकृतायां वा विहीनायां च शोभनैः ॥ २७।१५ ॥
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकम् ।
श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेत् ॥ २७।१६ ॥
ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेत् ।
विपरीते ऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकम् ॥ २७।१७ ॥
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेत् ।
अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरम् ॥ २७।१८ ॥
ब्राह्मं सौम्यमथाग्नेयं विधिना कारयेत्ततः ।
अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ॥ २७।१९ ॥
मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः ।
पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ॥ २७।२० ॥
मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरम् ।
अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेत् ॥ २७।२१ ॥
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः ।
वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमात् ॥ २७।२२ ॥
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च ।
तत आहवनीयाग्नावावसध्ये ततः परम् ॥ २७।२३ ॥
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेत् ।
विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ॥ २७।२४ ॥
वैष्णवं पावकं ब्राह्मंसौम्यं हुत्वा पुनश्चरेत् ।
तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ॥ २७।२५ ॥
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतम् ।
वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमात् ॥ २७।२६ ॥
उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः
आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) ।
तण्डुलैर् एकजातीयैर्द्विप्रस्थैः पाचयेच्चरुम् गव्यं च नवनीतं च लौकिकानलसंस्कृतम् ॥ २७।२७ ॥
संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा ।
आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ॥ २७।२८ ॥
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकम् ।
वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ॥ २७।२९ ॥
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेत् ।
आघारिते ऽग्नौ नष्टे तु “अयं ते योनिऽ मुच्चरन् ॥ २७।३० ॥
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः ।
“उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिके ऽनले ॥ २७।३१ ॥
विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकम् ।
परिस्तरादिद्रव्याणां दाहे भेदे ऽथ नाशने ॥ २७।३२ ॥
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकम् ।
आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ॥ २७।३३ ॥
पात्रे ऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि ।
हविर्विशेषे ऽनु क्तेतु घृतं वा सघृतं चरु ॥ २७।३४ ॥
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै ।
वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेत् ॥ २७।३५ ॥
प्रायश्चित्तानले ऽनुक्ते छुल्ल्यां नित्यानले ऽपि वा ।
क्रियाहीने विपर्यासे मन्त्राणां सङ्करे ऽपि वा ॥ २७।३६ ॥
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमात् ।
पुण्याहहीने पुण्याहमन्त्रान् द्वादशशो जपेत् ॥ २७।३७ ॥
वास्तुहोमविहीने तु तन्मन्त्रान् दशशो हुनेत् ।
प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ॥ २७।३८ ॥
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेत् ।
रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ॥ २७।३९ ॥
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः ।
रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकम् ॥ २७।४० ॥
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परम् ।
बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ॥ २७।४१ ॥
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये ।
वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ॥ २७।४२ ॥
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवम् ।
अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेत् ॥ २७।४३ ॥
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेत् ।
प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ॥ २७।४४ ॥
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः ।
दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ॥ २७।४५ ॥
कुम्भे प्रमाणहीने वा दोषयुक्ते ऽपि वा तथा ।
वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ॥ २७।४६ ॥
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकम् ॥ २७।४७ ॥
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेत् ।
आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवम् ॥ २७।४८ ॥
भिन्ने तु साधिते कुम्भे वैष्णपं विष्णुसूक्तकम् ।
पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ॥ २७।४९ ॥
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणाम् ।
ब्राह्मणान् भोजयित्वैव सम्पूज्यैव च वैष्मवान् ॥ २७।५० ॥
अन्यत्कुम्भं समाहृत्य पूर्ववत्साधयेद्बुधः ।
स्पृष्टे तु साथिते कुम्भे पतितैः कुक्कुटादिभिः ॥ २७।५१ ॥
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७।५२ ॥
ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेत् ।
आचार्यदक्षिणां दद्याद्वैष्णवान् पूजयेद्विधिः ॥ २७।५३ ॥
स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेत् ।
पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेत् ॥ २७।५४ ॥
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः ।
श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ॥ २७।५५ ॥
कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि ।
आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकम् ॥ २७।५६ ॥
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनम् ।
अलाभे समिधां कृह्य पालाशीर्वटसम्भवाः ॥ २७।५७ ॥
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेत् ।
दर्भान् कुशान्वा समिधो मासातीतान् प्रगृह्य च ॥ २७।५८ ॥
वारुणं वैष्णवं ब्राह्मं सौम्यमाग्नेयमेव च ।
आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ॥ २७।५९ ॥
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा ।
वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेत् ॥ २७।६० ॥
अनुक्तदेशादानीता मृदो वा वालुकास् तथा ।
अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेत् ॥ २७।६१ ॥
आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकम् ।
जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेत् ॥ २७।६२ ॥
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेत् ।
वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ॥ २७।६३ ॥
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च ।
आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेत् ॥ २७।६४ ॥
कलशन्यासरचनाविपर्याने तु वैष्णवम् ।
पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेत् ॥ २७।६५ ॥
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः ।
पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ॥ २७।६६ ॥
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् ।
कलशस्नानशयने प्रत्येकं दशशो हुनेत् ॥ २७।६७ ॥
हीने वा विपरीते वा तत्र हौत्रप्रशंसने ।
ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ॥ २७।६८ ॥
अवाहनादावर्चायां विपरीते विवर्जिते ।
वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ॥ २७।६९ ॥
सर्वेषामुक्तहोमानां विपरीते विवर्जिते ।
पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम् ॥ २७।७० ॥
शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकम् ।
हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेत् ॥ २७।७१ ॥
हीने चाध्ययने सारस्वतमष्टाधिकं शतम् ।
प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेत् ॥ २७।७२ ॥
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजाम् ।
तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ॥ २७।७३ ॥
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि ।
कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ॥ २७।७४ ॥
आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः ।
मोहादनुष्ठिताशौचाःपतन्तिनरके ऽशुचौ ॥ २७।७५ ॥
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा ।
आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ॥ २७।७६ ॥
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेत् ॥ २७।७७ ॥
आचार्यदक्षिणाकाले ऽतीते हुत्वा तु वैष्णवम् ।
मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतम् ॥ २७।७८ ॥
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेत् ।
ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेत् ॥ २७।७९ ॥
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी ।
हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ॥ २७।८० ॥
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेत् ।
इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेत् ॥ २७।८१ ॥
अर्चकस्यार्चनार्धं च कुटुम्बार्थं विशेषतः ।
भूमिभोगमकल्प्यैव महाशान्तिं समाचरेत् ॥ २७।८२ ॥
असङ्कल्पितवृत्तिस्तु देवावासो न वर्धते ।
अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ॥ २७।८३ ॥
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते ।
आपद्यपि च कष्टायां पूजामेतां न लोपयेत् ॥ २७।८४ ॥
यदैव लुप्यते पूजा येन केनापि हेतुना ।
अग्रेर्ऽचकमियाद्दोष आर्द्रमेषो ऽपराध्यति ॥ २७।८५ ॥
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरम् ।
रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ॥ २७।८६ ॥
यस्मादर्चनहीने तु राजराष्ट्रादिसङ्क्षयः ।
तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ॥ २७।८७ ॥
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः ।
आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ॥ २७।८८ ॥
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः ।
सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ॥ २७।८९ ॥
दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः ।
यथार्हमुपयुञ्जीरन् स्वशक्तिं तत्सुखाय वै ॥ २७।९० ॥
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते ।
आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलम् ॥ २७।९१ ॥
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु ।
तदतिक्रम्य पूजां तु कारयेदितरेण चेत् ॥ २७।९२ ॥
रौरवं नरकं याति कर्ता कारयिता च यः ।
तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेत् ॥ २७।९३ ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥ २७।९४ ॥
न त्य क्तविभवो जातु भवेच्च विभवे सति ।
यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेत् ॥ २७।९५ ॥
अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवम् ।
विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरम् ॥ २७।९६ ॥
सभ्ये ऽन्तहोमहीने तु वैष्णवं पावकं तथा ।
व्याहृतीश्च हुनेद्विद्वान् दशकृत्वस्समाहितः ॥ २७।९७ ॥
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिम् ।
श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकम् ॥ २७।९८ ॥
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेत् ।
ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ॥ २७।९९ ॥
प्रमादात्कुम्भतीर्थेन तेषामावाहने कृते ।
“इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ॥ २७।१०० ॥
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकम् ।
जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ॥ २७।१०१ ॥
अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते ।
सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ॥ २७।१०२ ॥
कवाटोद्घाटने हीने नित्याग्नौ वा महानने ।
वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ॥ २७।१०३ ॥
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च ।
अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ॥ २७।१०४ ॥
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकम् ।
मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ॥ २७।१०५ ॥
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च ।
यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ॥ २७।१०६ ॥
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेत् ।
देवस्य स्नपने हीने वैष्णवे वारुणं हुनेत् ॥ २७।१०७ ॥
“अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन् निष्कृतिर्भवेत् ।
पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितम् ॥ २७।१०८ ॥
अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः ।
वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेत् ॥ २७।१०९ ॥
नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै ।
स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ॥ २७।११० ॥
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च ।
पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेत् ॥ २७।१११ ॥
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ॥ २७।११२ ॥
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेत् ।
सम्बन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकम् ॥ २७।११३ ॥
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेत् ।
धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवम् ॥ २७।११४ ॥
हुत्वार्चयेद् धातृमुखान् तथा परिषदः क्रमात् ।
उपचारविपर्यासे “क्षमऽन्वेति प्रणम्य च ॥ २७।११५ ॥
अनुमान्यार्चयेद् देवं हीने चैव तु विग्रहे ।
तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ॥ २७।११६ ॥
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः ।
उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतम् ॥ २७।११७ ॥
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेत् ।
अर्चाकाले ऽन्यकालं वा स्मये वा मूषिकादिभिः ॥ २७।११८ ॥
मरुता वापि विच्छिन्नमजस्रं दीपमादरात् ।
द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकम् ॥ २७।११९ ॥
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेत् ।
तत्काले सर्वदीपानां नाशे दोषो महत्तरः ॥ २७।१२० ॥
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च ।
पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेत् ॥ २७।१२१ ॥
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति ।
मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेत् ॥ २७।१२२ ॥
अर्चाकाले यवनिकाहीने चैव प्रजापतिम् ।
वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ॥ २७।१२३ ॥
वेददूषक पाषण्ड पापरोगान्वितैर्जनैः ।
प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ॥ २७।१२४ ॥
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च ।
रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेत् ॥ २७।१२५ ॥
यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे ।
मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिम् ॥ २७।१२६ ॥
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेत् ।
ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकम् ॥ २७।१२७ ॥
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेत् ।
एककालार्चने हीने द्वितीये द्विगुणं चरेत् ॥ २७।१२८ ॥
तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते ।
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ॥ २७।१२९ ॥
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेत् ।
त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेत् ॥ २७।१३० ॥
अतीते द्वादशाहेतु सन्धायौपासनानले ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७।१३१ ॥
आलये परिषद्देव मन्त्रान् हुत्वा च शक्तितः ।
कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेत् ॥ २७।१३२ ॥
मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः ।
सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम् ॥ २७।१३३ ॥
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च ।
कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिम् ॥ २७।१३४ ॥
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा ।
तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेत् ॥ २७।१३५ ॥
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरम् ।
महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनम् ॥ २७।१३६ ॥
ब्राह्मणान् भोजयित्वैव शताष्टकलशैः पुनः ।
संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेत् ॥ २७।१३७ ॥
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि ।
हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेत् ॥ २७।१३८ ॥
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः ।
पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ॥ २७।१३९ ॥
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेत् ।
हीने हविष्येक काले द्वितीये द्विगुणं भवेत् ॥ २७।१४० ॥
तृतीये त्रिगुणं कुर्यादेकस्मिन् दिवसे गते ।
वैष्णवं श्रीमहीमन्त्रान् मूर्ति होमं तथा हुनेत् ॥ २७।१४१ ॥
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेत् ।
सोपदंशमपक्वं च शीतं पर्युषितं तथा ॥ २७।१४२ ॥
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितम् ।
विवृतं स्रावितं चैव विकृतं दृष्टि दूषितम् ॥ २७।१४३ ॥
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितम् ।
हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ॥ २७।१४४ ॥
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेत् ।
द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेत् ॥ २७।१४५ ॥
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः ।
वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेत् ॥ २७।१४६ ॥
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेत् ।
पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ॥ २७।१४७ ॥
व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते ।
निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ॥ २७।१४८ ॥
वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः ।
“क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेत् ॥ २७।१४९ ॥
मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते ।
निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिम् ॥ २७।१५० ॥
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च ।
अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेत् ॥ २७।१५१ ॥
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितम् ।
पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरम् ॥ २७।१५२ ॥
भस्माम्भसाकुशै “रापो हिरण्य पवमानऽकैः ।
प्रोक्ष्य देवं सुसम्प्रार्ध्य तद्गृहीत्वा निवेदयेत् ॥ २७।१५३ ॥
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः ।
कोष्णं चेदर्पयेत् प्रातरर्चनान्तेन दोषभाक् ॥ २७।१५४ ॥
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेत् ।
असंस्कृतं तु ताम्बूलं लेपकेशान्वितं तथा ॥ २७।१५५ ॥
जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् ।
हुत्वा संस्कृत्य ताम्बूलं पुनरन्यन्निवेदयेत् ॥ २७।१५६ ॥
अर्चनाङ्गेषु चान्येषु पदार्थेष्वेवमेव हि ।
दूषितेष्वध हीनेषु तस्य तस्याधिदैवतम् ॥ २७।१५७ ॥
मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेत् ।
अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ॥ २७।१५८ ॥
सङ्कल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेत् ।
नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेत् ॥ २७।१५९ ॥
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरम् ।
अग्निसंरक्षणे ऽशक्ता “वयन्ते योऽनिमुच्चरन् ॥ २७।१६० ॥
समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके ।
न्यस्य “चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमात् ॥ २७।१६१ ॥
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते ।
तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिम् ॥ २७।१६२ ॥
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः ।
अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमम् ॥ २७।१६३ ॥
यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलम् ।
तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेत् ॥ २७।१६४ ॥
शिरसा धारयन् पात्रं त्रिर्द्विर्वा सकृदेव वा ।
देने ततः परीयाच्च देवागारं प्रदक्षिणम् ॥ २७।१६५ ॥
अथ हित्वा बलिद्रव्यं शिबिकादौ गजे ऽथवा ।
अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणम् ॥ २७।१६६ ॥
प्रातर्भ्रमणहीने तु वैष्मवं सौरसौम्यकम् ।
प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ॥ २७।१६७ ॥
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेत् ।
हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिम् ॥ २७।१६८ ॥
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेत् ।
एकाहे तु बलौ हीने नित्याग्नौ वा महानने ॥ २७।१६९ ॥
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।
दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेत् ॥ २७।१७० ॥
देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः ।
छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ॥ २७।१७१ ॥
अलाभे चामरादीनां वायव्यं चैव हूयते ।
दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयम् ॥ २७।१७२ ॥
द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च ।
द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ॥ २७।१७३ ॥
औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ॥ २७।१७४ ॥
रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेत् ।
माने ऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तम् ॥ २७।१७५ ॥
नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये ।
परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेत् ॥ २७।१७६ ॥
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेत् ।
वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ॥ २७।१७७ ॥
सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलम् ।
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ॥ २७।१७८ ॥
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च ।
हुत्वा चार्यं च सम्पूज्य बल्युद्धरणमाचरेत् ॥ २७।१७९ ॥
पतिते ऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववत् ।
बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ॥ २७।१८० ॥
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणम् ।
बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ॥ २७।१८१ ॥
सौरं सौम्यं वैष्णवं च हुत्वा पुनरथाचरेत् ।
पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवम् ॥ २७।१८२ ॥
प्रमाणहीने ऽन्नबलौ वैष्णवं च प्रजापतिम् ।
जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेत् ॥ २७।१८३ ॥
आवाहनं विना चान्नबलौ तु भ्रमणेकृते ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७।१८४ ॥
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेत् ।
बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ॥ २७।१८५ ॥
वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमात् ।
निवेद्य विष्वक्चेनाय प्रदाय मुखवासनम् ॥ २७।१८६ ॥
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः ।
अकृते बलिदाने तु प्राश्य पादोदकं हरेः ॥ २७।१८७ ॥
प्रसादं चापि सम्प्राश्य पुनर्द्विगुणमर्चयेत् ।
प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ॥ २७।१८८ ॥
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा ।
नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेत् ॥ २७।१८९ ॥
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेत् ।
प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेत् ॥ २७।१९० ॥
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेत् ।
तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरम् ॥ २७।१९१ ॥
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि ।
यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ॥ २७।१९२ ॥
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः ।
नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेत् ॥ २७।१९३ ॥
आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेत् ।
यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ॥ २७।१९४ ॥
समिच्छेदग्रसन्मानं तद्देवस्य विमाननम् ।
यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ॥ २७।१९५ ॥
अज्ञानादथ वा मोहादाचले दन्यथायदि ।
द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेत् ॥ २७।१९६ ॥
अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः ।
पिता मृष्यति पुत्राणां विशङ्कं दोषसञ्चयम् ॥ २७।१९७ ॥
पिता हि भगवान् विष्णुपुत्रास्स्युः पूजका हरेः ।
तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ॥ २७।१९८ ॥
अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रिताम् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेत् ॥ २७।१९९ ॥
विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते ।
चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतम् ॥ २७।२०० ॥
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितम् ।
नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७।२०१ ॥
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः ।
स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ॥ २७।२०२ ॥
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेत् ।
काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेत् ॥ २७।२०३ ॥
अन्यथा चेन्महादोषो यजमानो विनश्यति ।
आलयात्पुरतश्चैव उत्तरे वा मनोरमे ॥ २७।२०४ ॥
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेत् ।
पश्चिमे दक्षिणे चैवमधमं सम्प्रकीर्तितम् ॥ २७।२०५ ॥
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेत् ॥ २७।२०६ ॥
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः ।
सन्ध्याकालेतु सम्प्राप्ते निमित्तस्नपने तथा ॥ २७।२०७ ॥
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेत् ।
अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ॥ २७।२०८ ॥
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा ।
वैष्णवं श्रीमहीमन्त्रान् हुत्वा सौदर्शनं तथा ॥ २७।२०९ ॥
शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः ।
एमबेरे कौतुके तु कर्तव्ये शयनं विना ॥ २७।२१० ॥
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेत् ।
कृते ऽङ्कुरार्पणे हीने स्नपने वैष्णपं तथा ॥ २७।२११ ॥
सौम्यं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेत् ।
विनाङ्कुरार्पणं चाथ स्नापयेदिति केचन ॥ २७।२१२ ॥
प्रमाणहीने ऽधिके वा पङ्क्तौ स्नानावटे ऽपि च ।
वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेत् ॥ २७।२१३ ॥
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च ।
पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ॥ २७।२१४ ॥
इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेत् ।
कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतम् ॥ २७।२१५ ॥
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवम् ।
भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ॥ २७।२१६ ॥
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेत् ।
धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ॥ २७।२१७ ॥
अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा ।
जुहुयाद्व्याहृतीश्चैव यथार्हं सम्भरेत्पुनः ॥ २७।२१८ ॥
वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवम् ।
ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं सम्भरेदपि ॥ २७।२१९ ॥
पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि ।
जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेत् ॥ २७।२२० ॥
उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमात् ।
प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ॥ २७।२२१ ॥
वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेत् ।
प्राशनं प्रोक्षं वापि शास्त्रे ऽस्मिन् यत्र चोद्यते ॥ २७।२२२ ॥
अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः ।
साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववत् ॥ २७।२२३ ॥
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः ।
कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ॥ २७।२२४ ॥
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः ।
शुद्धोदैस्स्नापयेच् चैव यथावच्च पुनर्न्यसेत् ॥ २७।२२५ ॥
कृते तु कलशन्यासे श्वकाकादिभिरेव वा ।
अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववत् ॥ २७।२२६ ॥
शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेत् ।
कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेत् ॥ २७।२२७ ॥
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतम् ।
रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेत् ॥ २७।२२८ ॥
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेत् ।
यथोक्तस्नपने हीने कथं चित्स्नपनं चरेत् ॥ २७।२२९ ॥
अथ वा कारयेच् छुद्धस्नपनं वा विधानतः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ॥ २७।२३० ॥
कालादिभेदन्तेषां च लक्षणं च पुरोदितम् ।
पुरस्कृत्य तिथिं केचित् केचिन्नक्षत्रपूर्वकम् ॥ २७।२३१ ॥
सङ्कल्पयन्त्यवभृथं वरमृक्षापवर्गकम् ।
अकृते नियते कालं कृते वानियते तथा ॥ २७।२३२ ॥
कालोत्सवे महान् दोषस्तत्र कुर्यात्तुनिष्कृतिम् ।
उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेत् ॥ २७।२३३ ॥
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेत् ।
अन्यथा तु कृतं कार्यमकृतं स्यादसंशयम् ॥ २७।२३४ ॥
अन्यस्मिन् वापि मासे तु न कुर्याद्यदि चोत्सवम् ।
एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ॥ २७।२३५ ॥
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः ।
सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेत् ॥ २७।२३६ ॥
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः ।
तत्र देवो न रमते यो ऽसावुत्सव दैवतम् ॥ २७।२३७ ॥
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः ।
तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ॥ २७।२३८ ॥
तदभावे तु तत्पुत्रैःपौत्रैस् तद्वंशजैस्तथा ।
तन्नियुक्तैस् तदीयैर्वापूर्वाभावे परैश्चरेत् ॥ २७।२३९ ॥
अन्यथा क्रियते चेत्तु यजमानो विनश्यति ।
उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेत् ॥ २७।२४० ॥
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन ।
प्रमादाद्वाप्यशक्तौ वा कृत्वा सम्प्रार्थयेद्धरिम् ॥ २७।२४१ ॥
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः ।
एष एव विधिर्वृद्धौ स तु श्रेयो ऽभिवृद्धिदः ॥ २७।२४२ ॥
यदा त्ववभृथेदैवात्कृते विनिमयेन तु ।
असङ्कल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ॥ २७।२४३ ॥
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु ।
अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ॥ २७।२४४ ॥
मन्त्रेण वा पुनस्सूक्ष्मं काले ऽवभृथमाचरेत् ।
यज्ञस्यापभृथो ऽन्तस्स्यान्नोत्सवस्तदनन्तरम् ॥ २७।२४५ ॥
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेत् ।
नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ॥ २७।२४६ ॥
हरिर्नारायणो देवो नालं देवा स्तमर्चितुम् ।
आचार्ये यजमाने वा पूजके ऽन्यपदार्थिनि ॥ २७।२४७ ॥
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेत् ।
न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषम् ॥ २७।२४८ ॥
देवेशमनुमान्याथ महाशान्तिं तु पद्मके ।
समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ॥ २७।२४९ ॥
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः ।
ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ॥ २७।२५० ॥
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा ।
अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसम्भवे ॥ २७।२५१ ॥
शावाद्याशौसयोग्ये वा शवानुगमने तथा ।
वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ॥ २७।२५२ ॥
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि ।
दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेत् ॥ २७।२५३ ॥
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि ।
परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् ॥ २७।२५४ ॥
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ ।
दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेत् ॥ २७।२५५ ॥
विधुरे यजमाने तु दीक्षितः पुरुषो भवेत् ।
सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ॥ २७।२५६ ॥
दम्पती यजमानो चेदयमभ्युदयो भवेत् ।
अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेत् ॥ २७।२५७ ॥
अन्यस्मिन् पदभाजी स्याद्यथासम्भवमादरः ।
वैधुर्यसम्भवे त्वेषां मध्ये दुष्यन्ति नैव ते ॥ २७।२५८ ॥
वत्सराशौचमितरच्चाशौचं न प्रवर्तते ।
मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ॥ २७।२५९ ॥
ध्वजारोहणहीने तु कृते निष्फल उत्सवः ।
कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेत् ॥ २७।२६० ॥
ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवम् ।
अज्ञानादर्थलोभाद्वामासे ऽ न्यस्मिन्त्समाचरेत् ॥ २७।२६१ ॥
नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति ।
तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेत् ॥ २७।२६२ ॥
वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडम् ।
ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतम् ॥ २७।२६३ ॥
व्याहृत्यन्तं च हुत्वा तु वैष्णवान् पूज्य चाचरेत् ।
ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेत् ॥ २७।२६४ ॥
विमानेन समं वाथ पादेनार्ऽधेन वाधिकम् ।
पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेत् ॥ २७।२६५ ॥
जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः ।
अर्धहीनं न कुर्वीत तदेवागतिकं भवेत् ॥ २७।२६६ ॥
तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः ।
अवक्रमृजुमन्येनासम्बद्धं कीलितादिभिः ॥ २७।२६७ ॥
श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमम् ।
तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेत् ॥ २७।२६८ ॥
भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः ।
मेखलानामथायामस्तद्भागेन समो भवेत्, ॥ २७।२६९ ॥
त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा ।
अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ॥ २७।२७० ॥
यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते ।
सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ॥ २७।२७१ ॥
पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः ।
अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकम् ॥ २७।२७२ ॥
मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजम् ।
त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेत् ॥ २७।२७३ ॥
आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते ।
शिखरं शिर इत्याहुरर्धेन शिखरं भवेत् ॥ २७।२७४ ॥
प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः ।
स्पुटितेवाथ भिन्ने वा बिम्बस्योक्तवदाचरेत् ॥ २७।२७५ ॥
अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृत् ।
विष्ठादिकरणे वापि उषिते वा निरन्तरम् ॥ २७।२७६ ॥
वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेत् ।
एष एव विधिः प्रोक्तो विमानशिखरादिषु ॥ २७।२७७ ॥
अधिष्ठानेन पादेन प्रस्तरेण च संयुतम् ।
ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहराम् ॥ २७।२७८ ॥
न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः ।
किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ॥ २७।२७९ ॥
विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेत् ।
धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ॥ २७।२८० ॥
न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना ।
गोपुरस्य विमानस्य प्राकारस्यालयस्य च ॥ २७।२८१ ॥
प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेत् ।
शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशम् ॥ २७।२८२ ॥
विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः ।
यावच्छावतरेच् छाया तावती दोषभूमिका ॥ २७।२८३ ॥
दोषभूमिं परित्यज्य निवासं परिकल्पयेत् ।
त्यागे सम्पत्समृद्धिस्स्यादन्यथा विपरीतकृत् ॥ २७।२८४ ॥
रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृत् ।
अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ॥ २७।२८५ ॥
यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा ।
ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ॥ २७।२८६ ॥
ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु ।
तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ॥ २७।२८७ ॥
औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते ।
ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ॥ २७।२८८ ॥
अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिम् ।
प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ॥ २७।२८९ ॥
अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेत् ।
अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणम् ॥ २७।२९० ॥
अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः ।
भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेत् ॥ २७।२९१ ॥
ततो ऽन्यं ध्वजमादाय स्थापयेदविलम्बितम् ।
चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ॥ २७।२९२ ॥
तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः ।
अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ॥ २७।२९३ ॥
भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि ।
दुष्टभागस्य दानेन न कदाचित्परिग्रहः ॥ २७।२९४ ॥
अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेत् ।
दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ॥ २७।२९५ ॥
प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा ।
संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ॥ २७।२९६ ॥
यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकम् ।
बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेत् ॥ २७।२९७ ॥
स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचित् ।
दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेत् ॥ २७।२९८ ॥
ध्वजे ऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेत् ।
तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेत् ॥ २७।२९९ ॥
पतिते वात्यया चैवं ध्वजस्य शिखरे तथा ।
मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ॥ २७।३०० ॥
ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेत् ।
ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ॥ २७।३०१ ॥
भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेत् ।
एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ॥ २७।३०२ ॥
अशन्यादिनिपातेन धामन्यन्तरिते यदि ।
देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेत् ॥ २७।३०३ ॥
आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजम् ।
निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ॥ २७।३०४ ॥
तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः ।
अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेत् ॥ २७।३०५ ॥
अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितम् ।
पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ॥ २७।३०६ ॥
पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः ।
तत्सन्धौ तु प्रशस्तं स्याद्यथा सम्फवमाचरेत् ॥ २७।३०७ ॥
यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेत् ।
अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेत् ॥ २७।३०८ ॥
अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमात् ।
देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेत् ॥ २७।३०९ ॥
यदा चान्यालयैर्वापि गोपुरादिभिरेव वा ।
अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ॥ २७।३१० ॥
वृक्षाद्यैःपतितैर्नष्टे चालिते ऽवनते ऽपि च ।
तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरे ऽत्वरः ॥ २७।३११ ॥
कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे ।
कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ॥ २७।३१२ ॥
रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते ।
बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेत् ॥ २७।३१३ ॥
प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते ।
अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमम् ॥ २७।३१४ ॥
उक्तेन विधिना यत्र नष्टे दुष्टे ऽपि वा ध्वजे ।
पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभम् ॥ २७।३१५ ॥
अथ वा कारयेद्विद्वान् सुवर्णरजतादिभिः ।
ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेत् ॥ २७।३१६ ॥
अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेत् ।
अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ॥ २७।३१७ ॥
उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेत् ।
चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयम् ॥ २७।३१८ ॥
उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः ।
ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ॥ २७।३१९ ॥
नीत्वातु यागशालायां संस्थाप्य तु समर्चयेत् ।
वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन् प्रयोजयेत् ॥ २७।३२० ॥
महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च ।
वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ॥ २७।३२१ ॥
सौदर्शनं च कूश्माण्डान् शतमष्टाधिकं यजेत् ।
तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ॥ २७।३२२ ॥
ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेत् ।
तत्र दीपं समारोप्य न लभेत्फलमव्ययम् ॥ २७।३२३ ॥
ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेत् ।
आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणम् ॥ २७।३२४ ॥
दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेत् ।
वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ॥ २७।३२५ ॥
वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च ।
गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेत् ॥ २७।३२६ ॥
ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस् तथा ।
हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितम् ॥ २७।३२७ ॥
हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेत् ।
भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ॥ २७।३२८ ॥
हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेत् ।
अर्चनादिषु सर्वत्र यत्र घण्टानिनादनम् ॥ २७।३२९ ॥
एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेत् ।
आरोपिते तु गरुडे हीने चैव निवेदने ॥ २७।३३० ॥
वैष्णवं ध्वम्मेत्रौ च हुत्वा गारुडमेव च ।
निवेदयेत्तुद्विगुणं “क्षमऽस्वेत्यनुमानयेत् ॥ २७।३३१ ॥
मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतम् ।
आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ॥ २७।३३२ ॥
हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेत् ।
वर्षवातातपैस्सम्यगुपघातादिसम्भवे ॥ २७।३३३ ॥
विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृत् ।
रज्ज्वादित्रुटने चैव प्रमादात्पतने ऽपि च ॥ २७।३३४ ॥
पातिते बुद्धिपूर्वं वा अकाले ऽप्यवरोपिते ।
शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ॥ २७।३३५ ॥
अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतम् ।
उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ॥ २७।३३६ ॥
गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयताम् ।
ततश्शेषं समाप्येत विपरीतं न कारयेत् ॥ २७।३३७ ॥
प्रमादाद्बुद्धिपूर्वं वा पटे दग्धे ऽन्यमाहरेत् ।
शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेत् ॥ २७।३३८ ॥
अवरोहणमुद्वासन्तं च मन्त्रेण कारयेत् ।
अवरोहणहीने तु मन्त्रेणोद्वासनं भवेत् ॥ २७।३३९ ॥
ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे ।
अप्रमाणं पटं गृह्य महाशान्तिं समाचरेत् ॥ २७।३४० ॥
पुनरन्यं समादाय कर्मशेषं समाचरेत् ।
हीने तु चोत्सवारम्भस्नपने वैष्णवं तथा ॥ २७।३४१ ॥
विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते ।
शुद्धोददैर् अभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ॥ २७।३४२ ॥
हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च ।
सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ॥ २७।३४३ ॥
यज्ञागारे कुम्भवेद्याहीने वाप्यधिके ऽपि वा ।
वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ॥ २७।३४४ ॥
तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् ।
हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियात् ॥ २७।३४५ ॥
अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेत् ।
प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ॥ २७।३४६ ॥
वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतम् ।
सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमात् ॥ २७।३४७ ॥
सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेत् ।
एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिम् ॥ २७।३४८ ॥
सायाह्ने चोत्सवं कुर्यात्कालातीते ऽप्ययं विधिः ।
दिग्देवतास्समावाह्य प्रथमे ऽहनि पूजयेत् ॥ २७।३४९ ॥
प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणम् ।
देवाह्वाने व्यत्ययस्स्याद्व्यतीहारो ऽथ वा भवेत् ॥ २७।३५० ॥
पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेत् ।
ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकम् ॥ २७।३५१ ॥
अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः ।
चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ॥ २७।३५२ ॥
प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः ।
प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ॥ २७।३५३ ॥
अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः ।
अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिम् ॥ २७।३५४ ॥
शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः ।
अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेत् ॥ २७।३५५ ॥
शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेत् ।
अकाले बलिदानं स्यादसुरप्रीतिवर्धनम् ॥ २७।३५६ ॥
अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः ।
बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ॥ २७।३५७ ॥
नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा ।
न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ॥ २७।३५८ ॥
वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ ।
अनुमान्य च देवेशं शताष्टकलशाप्लवः ॥ २७।३५९ ॥
कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेत् ।
अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ॥ २७।३६० ॥
देवतावाहनं कृत्वा तथैवोत्सव माचरेत् ।
देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ॥ २७।३६१ ॥
श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते ।
बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ॥ २७।३६२ ॥
विपरीते महान् दोषस्तन्मन्त्रैर्हावयेच्छतम् ।
बलिशेषं न शूद्रो ऽद्यादर्चको बलिशेषभाक् ॥ २७।३६३ ॥
बलावमन्त्रकं क्षिप्ते सङ्क्षिप्ते विधिवर्जिते ।
भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेत् ॥ २७।३६४ ॥
बलौ पर्युषिते ऽत्युष्णे तथा चैवानिवेदिते ।
निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ॥ २७।३६५ ॥
पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः ।
देवतावाहनं यत्र देशेप्राक् क्रियते ततः ॥ २७।३६६ ॥
तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेत् ।
मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ॥ २७।३६७ ॥
रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेत् ।
बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ॥ २७।३६८ ॥
तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः ।
बलिप्रदानहीने तु वैष्णवं बलिरक्षकम् ॥ २७।३६९ ॥
हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा ।
बलिद्रव्ये ऽथ वा पात्रे पतिते भूतले तथा ॥ २७।३७० ॥
भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेत् ।
बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ॥ २७।३७१ ॥
बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेत् ।
वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडम् ॥ २७।३७२ ॥
सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेत् ।
हविर्निवेदने हीनेहीने च द्विगुणार्चने ॥ २७।३७३ ॥
शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेत् ।
यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७।३७४ ॥
नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः ।
चक्रवीशामितानां च कुम्भस्थानामथापिवा ॥ २७।३७५ ॥
देवानामर्चने हीने वैष्णवं विष्णुसूक्तकम् ।
नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ॥ २७।३७६ ॥
हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेत् ।
देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवम् ॥ २७।३७७ ॥
हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः ।
अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमम् ॥ २७।३७८ ॥
तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः ।
पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ॥ २७।३७९ ॥
नृत्ते गेये ऽथ वा हीने वैष्णवं रुद्रदैवतम् ।
स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ॥ २७।३८० ॥
भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा ।
वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ॥ २७।३८१ ॥
वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः ।
यानात्काले यागशालां देवे न प्रतिगच्छति ॥ २७।३८२ ॥
भवेन्नित्यार्चनं तत्र यत्रदेवो ऽधिवासितः ।
ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ॥ २७।३८३ ॥
देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेत् ।
दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवम् ॥ २७।३८४ ॥
अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेत् ।
तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनम् ॥ २७।३८५ ॥
न जह्या देवकुर्याच्च तत्कालोचितमुत्सवम् ।
अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ॥ २७।३८६ ॥
दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः ।
चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृत् ॥ २७।३८७ ॥
दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा ।
नाशे तत्र महान् दोषस्तदान्यत्पुनराहरेत् ॥ २७।३८८ ॥
सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेत् ।
यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ॥ २७।३८९ ॥
अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते ।
अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ॥ २७।३९० ॥
तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः ।
प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसङ्गता ॥ २७।३९१ ॥
न तत्र दीक्षासाङ्कर्यं द्वयमेकत्र चेद्यदि ।
अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ॥ २७।३९२ ॥
महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि ।
गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ॥ २७।३९३ ॥
दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेत् ।
नह्येकस्मिन् भवेत्कार्य आचार्यद्वय सङ्गतिः ॥ २७।३९४ ॥
प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः ।
क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेत् ॥ २७।३९५ ॥
न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेत् ।
स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ॥ २७।३९६ ॥
यावदाशौचसङ्क्रान्ति राशौचेत्वशुचिर्भवेत् ।
पुनरन्यं समादाय शेषं पूर्ववदायरेत् ॥ २७।३९७ ॥
आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने ।
त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ॥ २७।३९८ ॥
द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनम् ।
पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृत् ॥ २७।३९९ ॥
अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृत् ।
तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवम् ॥ २७।४०० ॥
अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनम् ।
यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरम् ॥ २७।४०१ ॥
“क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमात् ॥ २७।४०२ ॥
दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेत् ।
चक्रवीशाखमितादीनां बिम्बाभावे पृथक् पृथक् ॥ २७।४०३ ॥
तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः ।
तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ॥ २७।४०४ ॥
हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेत् ।
पतने तु तथैतेषामुद्धृत्यैव च पूर्ववत् ॥ २७।४०५ ॥
स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा ।
यानात्तु पतिते बिम्बे हीनाङ्गे दोषगौरवे ॥ २७।४०६ ॥
पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये ।
ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ॥ २७।४०७ ॥
कौतुकं स्नापनं वाथ बलिबेरमथापि वा ।
यथार्हं समलङ्कृत्य समावाह्य यथाविधि ॥ २७।४०८ ॥
समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः ।
बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ॥ २७।४०९ ॥
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने ।
महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७।४१० ॥
हीनाङ्गं च पुनर्बेरं सन्धानविधिना पुनः ।
सन्धाय चात्वरेणैव प्रतिष्ठां पुनराचरेत् ॥ २७।४११ ॥
पतने गायगादीनां श्रीदैवत्यं च वैष्णवम् ।
वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ॥ २७।४१२ ॥
आचार्यादीनां तु पतने सङ्क्षोभे च तथाकृते ।
आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ॥ २७।४१३ ॥
ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः ।
वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ॥ २७।४१४ ॥
काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा ।
विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ॥ २७।४१५ ॥
हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृत् ।
वीथ्यन्तरे वर्षधाराप्रवेशे ऽशनिगर्जिते ॥ २७।४१६ ॥
तृणपांसु समायुक्तवातस्पर्शे विशेषतः ।
कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रवित् ॥ २७।४१७ ॥
वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतम् ।
यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७।४१८ ॥
कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः ।
वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ॥ २७।४१९ ॥
तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिम् ।
आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ॥ २७।४२० ॥
तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा ।
महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ॥ २७।४२१ ॥
वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च ।
शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७।४२२ ॥
नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेत् ।
आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ॥ २७।४२३ ॥
तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति ।
तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितम् ॥ २७।४२४ ॥
महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेत् ।
लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ॥ २७।४२५ ॥
अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये ।
ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेत् ॥ २७।४२६ ॥
अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकम् ।
तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकम् ॥ २७।४२७ ॥
नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेत् ।
तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ॥ २७।४२८ ॥
शयने वा वैष्णवं च श्रीभूदैवत्यमेव च ।
सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेत् ॥ २७।४२९ ॥
तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवम् ।
वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेत् ॥ २७।४३० ॥
ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च ।
गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ॥ २७।४३१ ॥
अवरोहणकारे तु बलौ हीने विशेषतः ।
ध्वजदेवं सुसम्पूज्य वैष्णवं विष्णुसूक्तकम् ॥ २७।४३२ ॥
तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः ।
हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेत् ॥ २७।४३३ ॥
उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकम् ।
पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेत् ॥ २७।४३४ ॥
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदम् ।
वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ॥ २७।४३५ ॥
हूयते विष्णुगायत्री सर्वपापप्राणाशिनि ।
एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतम् ॥ २७।४३६ ॥

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशो ऽध्यायः।