अथ षड्विंशो ऽध्यायः
अथ षड्विंशो ऽध्यायः
प्रायश्चित्तम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम् ।
न्यूने ऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेत् ॥ २६।१ ॥
प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणम् ।
प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ॥ २६।२ ॥
प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति ।
तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिम् ॥ २६।३ ॥
आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः ।
अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ॥ २६।४ ॥
तद्दोषशमनायैव महाशान्तिपुरस्सरम् ।
सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेत् ॥ २६।५ ॥
यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः ।
नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेत् ॥ २६।६ ॥
शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे ।
तावता हि प्रमाणं स्याद्यावदेतेन नान्तरम् ॥ २६।७ ॥
वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितम् ।
प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसङ्ग्रहम् ॥ २६।८ ॥
मोहादज्ञानतो वापि विचिकित्सापदेषु यः ।
शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेत् ॥ २६।९ ॥
स याति नरकं घोरं यावदाभूतसम्प्लवम् ।
तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेत् ॥ २६।१० ॥
यदागच्छेद्बहिर्द्वारं भूमिं सम्यक् परीक्षितुम् ।
अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ॥ २६।११ ॥
जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेत् ।
दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ॥ २६।१२ ॥
दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा ।
तत्काले कलहे चैव शोणितप्रस्रवे तथा ॥ २६।१३ ॥
अग्निदाहादिके चैव वैष्णवं सौम्यसंयुतम् ।
वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ॥ २६।१४ ॥
लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेत् ।
भूपरीक्षणकाले तु यदि पांसुक्षयो भवेत् ॥ २६।१५ ॥
पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः ।
परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ॥ २६।१६ ॥
औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवम् ।
जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ॥ २६।१७ ॥
वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये ।
रौद्रं ब्राह्मं च जुहुयात्ततो ऽन्यं वृषमाहरेत् ॥ २६।१८ ॥
हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते ।
तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ॥ २६।१९ ॥
सौम्यं चैव तथाग्नेयं प्राजापत्यं च देशिकः ।
रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ॥ २६।२० ॥
दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः ।
ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ॥ २६।२१ ॥
युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतम् ।
कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ॥ २६।२२ ॥
दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलम्बितम् ।
अभ्युक्ष्य पञ्चगव्येन सौम्याग्नेयौ हुनेत्क्रमात् ॥ २६।२३ ॥
तत्र चेदर्चने हीने शान्तवीशानपायिनाम् ।
वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ॥ २६।२४ ॥
बीजावापनहीने तु जुहुयाद्वैष्णवं तथा ।
सौम्यं हुत्वा च वायव्यं पुनर्बीजानि वापयेत् ॥ २६।२५ ॥
गवां निवेदने हीने वैष्णपं चामितं हुनेत् ।
गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ॥ २६।२६ ॥
पलालभारानाहृत्य गोगणेभ्यो निवेदयेत् ।
पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकम् ॥ २६।२७ ॥
वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च ।
कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेत् ॥ २६।२८ ॥
ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् ।
भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेत् ॥ २६।२९ ॥
दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवम् ।
सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ॥ २६।३० ॥
विमानार्थं यदा भूमिःखन्यते तत्र सम्भवे ।
शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ॥ २६।३१ ॥
पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमात् ।
हीने ऽधिके वा माने तु शीलाया इष्टकस्य वा ॥ २६।३२ ॥
वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेत् ।
विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवम् ॥ २६।३३ ॥
हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् ।
रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ॥ २६।३४ ॥
विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेत् ।
गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २६।३५ ॥
हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेत् ।
प्रमाणहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २६।३६ ॥
सौरं सौम्यमथाग्नेयं यजेत्कुर्याद्विधावतः ।
निर्माणकाले द्रव्याणां स्थापने सङ्करेणवै ॥ २६।३७ ॥
विपर्यासे च सम्प्राप्ते वैष्णवं जुहु यात्क्रमात् ।
तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेत् ॥ २६।३८ ॥
अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषम् ।
हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेत् ॥ २६।३९ ॥
अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु ।
जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ॥ २६।४० ॥
स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते ।
अलाभे चोक्तदारूणां वैष्णवं सौम्यपावके ॥ २६।४१ ॥
भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः ।
विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ॥ २६।४२ ॥
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेत् ॥ २६।४३ ॥
आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेत् ।
हीने धाम्नःकवाटादौ धात्रादीन् जुहुयाच्च षट् ॥ २६।४४ ॥
वैष्णवं श्रीमहीमन्त्रान् हुत्वा निर्मापयेत्पुनः ।
प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ॥ २६।४५ ॥
वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयम् ।
शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवम् ॥ २६।४६ ॥
भूतपीठविहीने तु धनधान्यायुषां क्षयः ।
कूपारामहविश्शालपुष्पसञ्चयवाटिकाः ॥ २६।४७ ॥
स्नानपानीयशाला च तथैवास्थानमण्डपम् ।
नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ॥ २६।४८ ॥
सम्पद्येत महान् दोषः कृतं स्यादकृतं पुनः ।
तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ॥ २६।४९ ॥
वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च ।
हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ॥ २६।५० ॥
यथोक्तं तु प्रकुर्वीत वित्तशाठ्यम्न कारयेत् ।
प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ॥ २६।५१ ॥
आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः ।
आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ॥ २६।५२ ॥
शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमात् ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६।५३ ॥
हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते ।
स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ॥ २६।५४ ॥
“दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकम् ।
आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेत् ॥ २६।५५ ॥
समापिते विमाने तु धनलोभादिना पुनः ।
ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ॥ २६।५६ ॥
आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनम् ।
तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेत् ॥ २६।५७ ॥
वैष्णवांश्च सुसम्पूज्य भोजयेद्ब्राह्मणान् बहून् ।
“क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकम् ॥ २६।५८ ॥
बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेत् ।
ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेत् ॥ २६।५९ ॥
विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै ।
ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ॥ २६।६० ॥
विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च ।
वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ॥ २६।६१ ॥
शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणाम् ।
ब्राह्मणान् भोजयित्वैव पूजयित्वा तु वैष्णवान् ॥ २६।६२ ॥
ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेत् ।
एवं मासद्वये ऽतीते द्विगुणं निष्कृतिर्भवेत् ॥ २६।६३ ॥
मासत्रये तु त्रिगुणमेवमावत्सरं भवेत् ।
संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ॥ २६।६४ ॥
सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः ।
ब्राह्मणान् भोजयेत्पश्चाद्विधिना सर्वमाचरेत् ॥ २६।६५ ॥
सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै ।
केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेत् ॥ २६।६६ ॥
अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेत् ।
जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ॥ २६।६७ ॥
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
हुनेच्छ्रीभूमिदैवत्यं “दद्भ्यस्स्वाहाऽदिकं तथा ॥ २६।६८ ॥
आचार्यदक्षिणां दद्याद्बेरं सम्यक् परीक्षयेत् ।
सन्धानयोग्यं सन्दध्यात्पुनः कार्यं समाचरेत् ॥ २६।६९ ॥
शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेत् ।
शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतम् ॥ २६।७० ॥
बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः ।
भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेत् ॥ २६।७१ ॥
पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः ।
परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ॥ २६।७२ ॥
पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः ।
जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ॥ २६।७३ ॥
देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६।७४ ॥
श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च ।
मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयताम् ॥ २६।७५ ॥
सन्धानयोग्यं सन्दध्यादयोग्यं विधिवत्त्यजेत् ।
सन्धाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेत् ॥ २६।७६ ॥
स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते ।
अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ॥ २६।७७ ॥
सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च ।
ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेत् ॥ २६।७८ ॥
मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेत् ।
संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ॥ २६।७९ ॥
अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः ।
शिलासङ्ग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेत् ॥ २६।८० ॥
अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेत् ।
तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ॥ २६।८१ ॥
कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमात् ।
सुधावर्णानुलेपादीन् समाप्य गुरुत्वरः ॥ २६।८२ ॥
अलयस्योत्तरे कुर्याद्वास्तुहौमं यथाविथि ।
पुण्याहं वाचयेद्विद्वान् पर्यग्निं चैव कारयेत् ॥ २६।८३ ॥
पञ्चगव्यैस्समभ्युक्ष्य ततस्सङ्कर्प्य कर्षणम् ।
आलयाभिमुखे कृत्वा व्रीहिभिस्थ्सण्डिलं बुधः ॥ २६।८४ ॥
शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेत् ।
सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ॥ २६।८५ ॥
गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः ।
कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ॥ २६।८६ ॥
अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् ।
अभिमन्त्ष ततो बीजान् “सोमं राजानऽमुच्चरन् ॥ २६।८७ ॥
सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् ।
आस्तीर्योपरि ता न्तृर्वान् सूक्तं गौदानिकं पुनः ॥ २६।८८ ॥
उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेत् ।
आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिम् ॥ २६।८९ ॥
द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुम् ।
पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेत् ॥ २६।९० ॥
पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरम् ।
तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ॥ २६।९१ ॥
आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६।९२ ॥
देग्दैवत्यं च जुहुयाद्देवं ध्यायन् समाहितः ।
जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलम् ॥ २६।९३ ॥
कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः ।
गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकम् ॥ २६।९४ ॥
पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च ।
देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ॥ २६।९५ ॥
“सर्वरत्नेभ्यऽइत्युक्त्वा “सर्वधातुभ्यऽइत्यपि ।
“सर्वबीजेभ्यऽइत्युक्त्वा"सर्वलोहेभ्यऽइत्यपे ॥ २६।९६ ॥
“नदीभ्यःपातालेभ्यऽश्च “नागेभ्योऽजुहुयात्ततः ।
“दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमात् ॥ २६।९७ ॥
तत आभ्यन्तरद्वारदक्षिणन्तम्भदक्षिणे ।
मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषम् ॥ २६।९८ ॥
मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः ।
कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेत् ॥ २६।९९ ॥
नष्टे गर्भे च हुत्वैवं सम्पाद्य स्थापयेत्पुनः ।
अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकम् ॥ २६।१०० ॥
पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः ।
विमानपालदैवत्यं जपन् वेदादिकान्मनून् ॥ २६।१०१ ॥
विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा ।
जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनम् ॥ २६।१०२ ॥
ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकम् ।
ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ॥ २६।१०३ ॥
जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः ।
कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ॥ २६।१०४ ॥
नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितम् ।
अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ॥ २६।१०५ ॥
नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि ।
अहीनाङ्गं तु सङ्गृह्य शुद्ध्यर्थमधिवासयेत् ॥ २६।१०६ ॥
जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः ।
रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेत् ॥ २६।१०७ ॥
अन्यालयादपहृतमनिष्पन्नक्रियं तथा ।
शिलाबेरं यदि स्यात्तद्भूमौ सम्यक् पिधाय च ॥ २६।१०८ ॥
विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेत् ।
शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेत् ॥ २६।१०९ ॥
यथाविधि यथास्थानं स्थापितं दोषवर्जितम् ।
बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनम् ॥ २६।११० ॥
तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमात् ।
सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनम् ॥ २६।१११ ॥
दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेत् ।
अविधिज्ञैरथाचार्यैर् ऋत्विग्भिस्थापगैस् तथा ॥ २६।११२ ॥
स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि ।
विधिज्ञैस्थ्पापनं विद्वान् कारयेदत्वरं तथा ॥ २६।११३ ॥
विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि ।
शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ॥ २६।११४ ॥
नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा ।
दैवात्प्रचालिते तत्र विमाने वा ध्रुवे ऽपि वा ॥ २६।११५ ॥
भूमौ पिधाय तद्बेरं निर्माय पुनरालयम् ।
अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ॥ २६।११६ ॥
सापाये तु स्थले तस्मिन् सन्निकृष्टे स्थले चरेत् ।
ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ॥ २६।११७ ॥
विमानं सुदृढं कृत्वा देवमादाय तत्र वै ।
सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेत् ॥ २६।११८ ॥
ग्रामादीनामभावे तु शतदण्डात्परं ततः ।
विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेत् ॥ २६।११९ ॥
राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः ।
स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ॥ २६।१२० ॥
तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेत् ।
अपौरुषालयाभ्याशे विमानं पौरुषं यदि ॥ २६।१२१ ॥
कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः ।
भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकम् ॥ २६।१२२ ॥
प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलम् ।
प्रमादादथवा दैवा दालये स्नपनालये ॥ २६।१२३ ॥
आस्थानमण्डपे पाकस्थानप्राकारयोरपि ।
गोवुरेस्नानपानीयशालादौ वह्निदूषिते ॥ २६।१२४ ॥
महावातहते ऽकस्मादशन्यादिहते तथा ।
पारमात्मिकमब्जाग्नावीङ्कारादींस् तथा हुनेत् ॥ २६।१२५ ॥
विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा ।
पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमात् ॥ २६।१२६ ॥
शिलाग्रहण काले वा तदा दारुग्रहे ऽपि च ।
क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकम् ॥ २६।१२७ ॥
मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः ।
द्वारस्तम्भे भुवङ्गादौ हीने माने ऽग्निदूषिते ॥ २६।१२८ ॥
जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः ।
अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववत् ॥ २६।१२९ ॥
नित्याग्नौ वैष्णवं सौम्यमाग्नेयं शान्तिमाचरेत् ।
गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ॥ २६।१३० ॥
रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेत् ।
विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेत् ॥ २६।१३१ ॥
धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तत् ।
पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ॥ २६।१३२ ॥
यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेत् ।
वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ॥ २६।१३३ ॥
ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि ।
स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवम् ॥ २६।१३४ ॥
वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः ।
अप्रमाणे विमाने तु बेरं मानविवर्जितम् ॥ २६।१३५ ॥
अज्ञानात् स्थापितं चेत्तद्राजराष्ट्रविनाशकृत् ।
तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ॥ २६।१३६ ॥
तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः ।
तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ॥ २६।१३७ ॥
पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च ।
“दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ॥ २६।१३८ ॥
स्नेहचूर्णकषायादौ हीने योगविपर्यये ।
रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ॥ २६।१३९ ॥
तथा मृदालेपने च पटाच्छादनकर्मणि ।
भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ॥ २६।१४० ॥
वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा ।
प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेत् ॥ २६।१४१ ॥
महाबेरं चार्धचित्रं मृण्मयं नैव कारयेत् ।
सौवर्णं राजतं ताम्रं शैलं दारवमेववा ॥ २६।१४२ ॥
रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणम् ।
कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ॥ २६।१४३ ॥
बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच ।
वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ॥ २६।१४४ ॥
पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेत् ।
ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ॥ २६।१४५ ॥
दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकम् ।
तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ॥ २६।१४६ ॥
विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च ।
यद्देवादींस् तथा ब्राह्मरौद्रपावकवारुणान् ॥ २६।१४७ ॥
सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च ।
महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीम् ॥ २६।१४८ ॥
पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेत् ।
वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसम्भवैः ॥ २६।१४९ ॥
निर्मितं कौतुकं बेरमभिचाराय कल्पते ।
तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेत् ॥ २६।१५० ॥
बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः ।
कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ॥ २६।१५१ ॥
शयानं नाचरेदार्षं यथावस्थितमर्चयेत् ।
निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ॥ २६।१५२ ॥
नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितम् ।
निकृष्टद्रव्यजं चापि पूज्यमानं न सन्त्यजेत् ॥ २६।१५३ ॥
अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते ।
युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ॥ २६।१५४ ॥
नवीकृत्य पुनर्बिम्बं संशोध्य स्थापयेत्पुनः ।
कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ॥ २६।१५५ ॥
तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदिताम् ।
कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ॥ २६।१५६ ॥
ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः ।
देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ॥ २६।१५७ ॥
पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेत् ।
कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेत् ॥ २६।१५८ ॥
मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवम् ।
शान्तिंहुत्वा रौद्रसौरपावकान् पुनराचरेत् ॥ २६।१५९ ॥
अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा ।
अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ॥ २६।१६० ॥
वैष्णवान्न्तु सुसम्पूज्य ब्राह्मणान् भोजयेद्बहु ।
तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेत् ॥ २६।१६१ ॥
ग्रामादीनामालयस्य नाशेबेरं तु तद्गतम् ।
अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेत् ॥ २६।१६२ ॥
कृते तु पीठसङ्घाते बेरे त्ववनते क्रमात् ।
दक्षिणादि भवेन्मृत्युरर्थनाशो ऽभिवर्धनम् ॥ २६।१६३ ॥
पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनम् ।
उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ॥ २६।१६४ ॥
स्थूले च महतीव्याधिर्दीर्घे ऽनायुष्यमेव च ।
ह्रस्वे ऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ॥ २६।१६५ ॥
अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेत् ।
ध्रुवस्य स्थापनादर्वाक् प्राक्प्रतिष्ठाविधेस्तथा ॥ २६।१६६ ॥
अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै ।
पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषम् ॥ २६।१६७ ॥
श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः ।
तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेत् ॥ २६।१६८ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशो ऽध्यायः।