अथ पञ्चविंशो ऽध्यायः।
उत्सवविधिः
अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
आरम्भदिवसात्पूर्वं यजमानो मुद्न्वितः ॥ २५।१ ॥
पूर्वोक्तगुणसम्पन्नं वरयित्वा गुरुं तथा ।
द्विगुणाराधनायैकमेकं कुम्भार्चनाय च ॥ २५।२ ॥
होमार्थं बलिदानार्थं तथा स्थानार्चनाय च ।
वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ॥ २५।३ ॥
आचार्यमुपसङ्गम्य सम्पूज्य च विधानतः ।
“कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ॥ २५।४ ॥
आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनम् ।
स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ॥ २५।५ ॥
ऊर्ध्वपुण्ड्रधरस्सम्यक् सन्ध्यादीन् समुपास्य च ।
ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणम् ॥ २५।६ ॥
जपेद्द्वादशसूक्तानि नारायणमथारुणम् ।
आलये सम्प्रविश्यैव देवेशं सम्प्रणम्य च ॥ २५।७ ॥
देवं विशेषतो ऽभ्यर्च्य कार्यं तस्मै निवेदयेत् ।
यजमानो ऽपि धर्मात्मा नित्यकर्म समाप्यच ॥ २५।८ ॥
देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः ।
श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ॥ २५।९ ॥
आचार्यमृत्विजश्चैव सम्पूज्य विधिना ततः ।
अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ॥ २५।१० ॥
नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः ।
पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ॥ २५।११ ॥
दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् ।
षण्णिष्कमानं कटकमङ्गदं चाङ्गुलीयकम् ॥ २५।१२ ॥
एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणम् ।
तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ॥ २५।१३ ॥
अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेत् ।
अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजाम् ॥ २५।१४ ॥
आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः ।
प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरम् ॥ २५।१५ ॥
यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः ।
ततः पद्माग्निमाधाय परिषिच्य च पावकम् ॥ २५।१६ ॥
यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः ।
वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनम् ॥ २५।१७ ॥
क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः ।
कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ॥ २५।१८ ॥
तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरम् ।
बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ॥ २५।१९ ॥
ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा ।
हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनो ऽपि च ॥ २५।२० ॥
जितेन्द्रिया भवेयुस्ते तथा ऽधश्सायिनो ऽपि च ।
स्त्रीशूद्राभ्यामसम्भाष्य नारायणपरायणाः ॥ २५।२१ ॥
यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः ।
सूतके मृतके वापि तेषां नाशौच इष्यते ॥ २५।२२ ॥
अथवक्ष्येङ्कुरार्थन्तु मृत्तिकाग्रहणे विधिम् ।
शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ॥ २५।२३ ॥
विष्वक्सेनं समादाय यानमारोप्य नाथवत् ।
आचार्यः पुरतोगच्छे “द्विष्णुर्माऽमिति चोच्चरन् ॥ २५।२४ ॥
चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः ।
आदर्शहेमकलशपूर्णकुम्भाङ्कुरादिभिः ॥ २५।२५ ॥
ध्वजत्रयादिकान् सर्वान् पुरस्कृत्य पदार्थिनः ।
प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनम् ॥ २५।२६ ॥
याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनम् ।
अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ॥ २५।२७ ॥
सौम्ये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेत् ।
एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकाम् ॥ २५।२८ ॥
आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः ।
ग्रामदेवालयादारादारामे ऽत्र मनोरमे ॥ २५।२९ ॥
नदीतटाकतीरे वा सीमामनतिलङ्घ्य च ।
प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेत् ॥ २५।३० ॥
वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान् बुधः ।
प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेत् ॥ २५।३१ ॥
तत्र स्थानं च सम्प्रोक्ष्य “दधि क्राव्ण्णऽउच्चरन् ।
भूरूपं तु लिखित्वैव “भूमिर्भूऽम्नेति च ब्रुवन् ॥ २५।३२ ॥
ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकाम् ।
देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेत् ॥ २५।३३ ॥
एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेत् ।
पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ॥ २५।३४ ॥
खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते ।
ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदम् ॥ २५।३५ ॥
स्तनद्वये वयोवृद्धिर्जठरे सर्वसम्पदः ।
अधोभागे मृदं तस्या नाहरेत कदाचन ॥ २५।३६ ॥
एवं सङ्कल्प्य मनसा मेदिन्यादि तदा ब्रुवन् ।
“त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ॥ २५।३७ ॥
उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः ।
महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकम् ॥ २५।३८ ॥
अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेत् ।
वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेत् ॥ २५।३९ ॥
पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेत् ।
पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेत् ॥ २५।४० ॥
शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः ।
ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेत् ॥ २५।४१ ॥
पूर्वस्मिन्नुत्तरे पार्श्वे वाङ्कुरानर्पयेत्तधा ।
चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ॥ २५।४२ ॥
स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेत् ।
अलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ २५।४३ ॥
यमपावकयोर्मध्ये पावकांशे ऽथ वा चरेत् ।
ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ॥ २५।४४ ॥
कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः ।
वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेत् ॥ २५।४५ ॥
प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमात् ।
पञ्चाग्नीन् कल्पयेद्धीमानुत्सवे चोत्तमे तथा ॥ २५।४६ ॥
त्रेताग्नीन् कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमात् ।
अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ॥ २५।४७ ॥
त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकम् ।
उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ॥ २५।४८ ॥
भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि ।
देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ॥ २५।४९ ॥
“परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः ।
नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परम् ॥ २५।५० ॥
आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेत् ।
देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ॥ २५।५१ ॥
कुण्डलाङ्गदहारादिभूषणैरपि भूषयेत् ।
श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ॥ २५।५२ ॥
पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च ।
राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ॥ २५।५३ ॥
नवकुभारोपणम्
पूर्वोक्तविधिना धीमान् नव कुम्भान् प्रगृह्यच ।
“इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ॥ २५।५४ ॥
वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रवित् ।
चतुस्सूत्रैर्नवपदं कृत्वा कुम्भांश्च विन्यसेत् ॥ २५।५५ ॥
कुम्भानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् ।
मङ्गलान्यायुधं रत्नं प्रतिकुम्भं पृथक् पृथक् ॥ २५।५६ ॥
गायत्षा चैव निक्षिव्य मध्यकुम्भे विशेषतः ।
द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववत् ॥ २५।५७ ॥
हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेत् ।
आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक् पृथक् ॥ २५।५८ ॥
वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखम् ।
सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखम् ॥ २५।५९ ॥
पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरे ऽथ वा ।
दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेत् ॥ २५।६० ॥
अभावे गरुडादीनां स्थाने तत्र च तत्र च ।
कुम्भान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमात् ॥ २५।६१ ॥
यावत्तीर्थावसानं स्यात्तावत्कुम्भेतु पार्षदान् ।
सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ॥ २५।६२ ॥
पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेत् ।
उत्तराभिमुख स्तिष्ठन् कुरुर्वेद्यास्तु दक्षिणे ॥ २५।६३ ॥
प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेत् ।
प्रधानकुम्भमध्ये तु विष्णुं देव्यौ च सान्वयौ ॥ २५।६४ ॥
ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमम् ।
पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ॥ २५।६५ ॥
नारायणं चानिरुद्धं ततः पुण्यं समर्चयेत् ।
तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् ॥ २५।६६ ॥
किरीटहारकेयूरलम्बयज्ञोपवीतिनम् ।
कौस्तुभोद्भासितोरस्कं श्रीवत्साङ्कं चतुर्भुजम् ॥ २५।६७ ॥
दक्षिणेनैकहस्तेन भक्तानामभयप्रदम् ।
वामेनाप्यन्यहस्तेन स्वकट्यामवलम्बितम् ॥ २५।६८ ॥
पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परम् ।
शुकपिञ्छाम्बरधरं विष्णुं प्रणवरूपिणम् ॥ २५।६९ ॥
तप्तहाटकसङ्काशां पद्मपत्रायतेक्षणाम् ।
तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभिताम् ॥ २५।७० ॥
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम् ।
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम् ॥ २५।७१ ॥
श्रीवत्साङ्कितबीजान्तां फाल्गुनेचोत्तरोद्भवाम् ।
विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीम् ॥ २५।७२ ॥
वामभागे महीं श्यामां सर्वाभरणभूषिताम् ।
वैशाखे रेवतीजातां दधतीं दक्षिणे ऽम्बुजम् ॥ २५।७३ ॥
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम् ।
महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्विताम् ॥ २५।७४ ॥
पुरुषः प्राङ्मुखो ऽच्छाभः पीतवासाश्चतुर्भुजः ।
शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ॥ २५।७५ ॥
वरदो ऽभयदः प्राच्यां श्रीभूमिसहितो हरिः ।
कपिलः प्राङ्मुखो ऽच्छाभो रक्तवस्त्रो ऽष्टबाहुयुक् ॥ २५।७६ ॥
दक्षिणेनैकहस्तेव भक्तानामभयप्रदः ।
अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ॥ २५।७७ ॥
वामेनाप्यन्यहस्तेन स्वकट्यामवलम्ब्य च ।
अन्यैश्सङ्खधनुर्दण्डधरस्सुन्दर विग्रहः ॥ २५।७८ ॥
आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः ।
सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ॥ २५।७९ ॥
शङ्खचक्रधरस्यौम्यस्सर्वाभरणभूषितः ।
वरदो ऽभयदस्साधूरक्तवासा महाहनुः ॥ २५।८० ॥
देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः ।
यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ॥ २५।८१ ॥
सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः ।
शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूम् ॥ २५।८२ ॥
बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः ।
अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ॥ २५।८३ ॥
शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ।
वरदो ऽभयदस्साक्षी सर्वकर्मफलप्रदः ॥ २५।८४ ॥
युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलाम्बरः ।
नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ॥ २५।८५ ॥
शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ।
वरदो ऽभयदश्श्यामाम्बरश्श्रीवत्सचिह्नितः ॥ २५।८६ ॥
संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः ।
अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ॥ २५।८७ ॥
अनन्तोत्सङ्ग आसीनः पुष्पाम्बरधरो हरिः ।
शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ॥ २५।८८ ॥
दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीम् ।
वरदो ऽभयदो देव उदीच्यां सर्वसिद्धिदः ॥ २५।८९ ॥
पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः ।
श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ॥ २५।९० ॥
चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः ।
श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ॥ २५।९१ ॥
इन्दिराधरणीनाथर् इशान्यां पुण्यपूरुषः ।
एतान् देवान् समावाह्य समभ्यर्च्याष्टविग्रहैः ॥ २५।९२ ॥
वीशानसायिपङ्क्तीशशान्तान् दिक्ष्वर्चयेत्क्रमात् ।
सायं प्रातर्विना कुम्भैर्देवं वीशामितैस्सह ॥ २५।९३ ॥
वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न ।
होत्रप्रशंसनम्
होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ २५।९४ ॥
प्रतिष्ठोक्तक्रमेणैव तदालयगतान् सुरान् ।
अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ २५।९५ ॥
परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमात् ।
वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ॥ २५।९६ ॥
स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् ।
यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ॥ २५।९७ ॥
कुसुमाञ्जलि मुत्सृज्य “प्रतद्विष्णुंऽरिति ब्रुवन् ।
देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ॥ २५।९८ ॥
प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः ।
उत्सवप्रतिमाभावे स्नापने वा विशेषतः ॥ २५।९९ ॥
स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा ।
कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेत् ॥ २५।१०० ॥
नादरेन्नित्यवैकल्यं विसर्गावाहने तथा ।
आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमम् ॥ २५।१०१ ॥
कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवम् ।
स्नापयेद्यदि चेद्विद्वान् मध्यमे चोत्सवस्य तु ॥ २५।१०२ ॥
स्नपने यदि सम्प्राप्ते कौतुके स्नपनं चरेत् ।
स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ॥ २५।१०३ ॥
सम्प्रास्ते स्नपने चात्र कौतुके चोत्सवं विना ।
अचरेदेव साङ्कर्यं नाचरेदुभयोरपि ॥ २५।१०४ ॥
उत्सवे वर्तमाने तु कौतुके स्नपनं यदि ।
सम्भवेदुक्तकाले तु कर्मणी द्वे समाचरेत् ॥ २५।१०५ ॥
पुराप्रवृत्तकार्ये तु दोषो नानेन सम्भवेत् ।
कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेत् ॥ २५।१०६ ॥
गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना ।
स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनम् ॥ २५।१०७ ॥
अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः ।
आवाह्य कर्ममामन्ते तथा साये विसर्जयेत् ॥ २५।१०८ ॥
पात्र रावाहनं नित्यमर्चनादौ विशेषतः ।
विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ॥ २५।१०९ ॥
तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः ।
विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेत् ॥ २५।११० ॥
अर्चनान्ते विशेषेण पुण्याहमपि वाचयेत् ।
हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ॥ २५।१११ ॥
सन्न्यस्य पूर्ववद्धीमान् बन्धयेद्दक्षिणेकरे ।
कुम्भान् देव्यौच चक्रादीन् समाबद्ध्य समर्चयेत् ॥ २५।११२ ॥
परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकम् ।
जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितम् ॥ २५।११३ ॥
दिनसन्ध्याधिदैवत्यं तिथिवारर्क्षदैवतम् ।
तथा मासाधिदै वत्यमब्ददै वत्यमेव च ॥ २५।११४ ॥
तदालयगतानां च जुहुयान्मूर्तिभिः क्रमात् ।
व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ॥ २५।११५ ॥
नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ॥ २५।११६ ॥
अवसथ्ये महीसूक्तमेकाक्षरमतो यजेत् ।
जुहुयात्पैण्डरीकाग्ना “वतो देवादिऽ वैष्णवम् ॥ २५।११७ ॥
विष्णुसूक्तं पुरुषसूक्तं “यद्देवादिऽसमन्वितम् ।
पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणम् ॥ २५।११८ ॥
जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतम् ।
अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ॥ २५।११९ ॥
एकाग्निमथ वाधाय जुहुयादधमाधमम् ।
सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ॥ २५।१२० ॥
अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते ।
ब्राह्ममार्षं तथा रौद्रमैन्द्रं सौम्यं च वैष्मवम् ॥ २५।१२१ ॥
सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके ।
आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ॥ २५।१२२ ॥
श्रीदैवत्यं च कौमारमादित्यं रौद्रमेव च ।
दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ॥ २५।१२३ ॥
इशान्यं सौम्यमित्येतत्तिथिदैवत्यमुच्यते ।
तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ॥ २५।१२४ ॥
तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः ।
त्रिसन्धिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमात् ॥ २५।१२५ ॥
मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते ।
याम्यं च वैष्णवं सौम्यं ब्राह्मं बार्हस्पतं तथा ॥ २५।१२६ ॥
सौम्यमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकम् ।
मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ॥ २५।१२७ ॥
रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं कौमारमेव च ।
सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ॥ २५।१२८ ॥
आदित्यं पैतृकं चैवादिति दैवत्यमेव च ।
योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ॥ २५।१२९ ॥
ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा ।
भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतम् ॥ २५।१३० ॥
कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै ।
देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ॥ २५।१३१ ॥
सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः ।
“मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमात् ॥ २५।१३२ ॥
विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः ।
अष्टौ लोकाधिपाः पञ्च भूता विश्वम्भरादयः ॥ २५।१३३ ॥
वसवो ऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः ।
सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ॥ २५।१३४ ॥
चक्रश्शान्तो गुरुर्भौमबुधशुक्रशनैश्चराः ।
हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ॥ २५।१३५ ॥
प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः ।
तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतम् ॥ २५।१३६ ॥
चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न ।
पलाशबिल्वशामीलन्य ग्रोथोदुम्बरास्तथा ॥ २५।१३७ ॥
अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे ।
समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ॥ २५।१३८ ॥
पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा ।
नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजम् ॥ २५।१३९ ॥
विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमात् ।
अलाभे तुलसीं वाथ करवीरं च पङ्कजम् ॥ २५।१४० ॥
मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च ।
तिलानपूपान् लाजांश्च यवान् सक्तून् यथाक्रमम् ॥ २५।१४१ ॥
बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकम् ।
एवमेव विधानेन द्विकालं होममाचरेत् ॥ २५।१४२ ॥
प्रातस्सन्ध्यावसानेतु सायमर्चावसानके ।
होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेत् ॥ २५।१४३ ॥
उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ॥ २५।१४४ ॥
देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः ।
सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ॥ २५।१४५ ॥
रथे वा शिबिकायां वा वीशस्कन्धे ऽपि वा तथा ।
गजाश्वान्दोलिकादौ वा वाहने समलङ्कृते ॥ २५।१४६ ॥
“अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलम् ।
अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस् तथा ॥ २५।१४७ ॥
सङ्क्कृतान् गुडसम्मिश्रान् निवेद्य मुखवासकम् ।
दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतम् ॥ २५।१४८ ॥
दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः ।
ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ॥ २५।१४९ ॥
ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च ।
सम्भृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ॥ २५।१५० ॥
वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः ।
वीज्यमानं विशेषेण तथा भक्तवरैरपि ॥ २५।१५१ ॥
वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः ।
दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ॥ २५।१५२ ॥
परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः ।
विप्रैस्त्रयीमधीयानैर् जपस्तुतिपरायणैः ॥ २५।१५३ ॥
नृत्यता गायता मापि गाणिक्येन सुसेवितम् ।
वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ॥ २५।१५४ ॥
षड्जादिगीतनिपुणैर् वाद्यवादककोविदैः ।
गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलम् ॥ २५।१५५ ॥
वै तण्डिकैस् तथा जल्पैर्निपुणैर्वादशिक्षितैः ।
तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ॥ २५।१५६ ॥
मीमांसकैर्याज्ञिकैश्च छान्दसैस्साङ्ख्यकोविदैः ।
योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस् तत्त्ववेदिभिः ॥ २५।१५७ ॥
मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः ।
तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितम् ॥ २५।१५८ ॥
उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः ।
वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ॥ २५।१५९ ॥
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः ।
देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ॥ २५।१६० ॥
सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया ।
देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ॥ २५।१६१ ॥
यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः ।
देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ॥ २५।१६२ ॥
निषादिभिस्समारूढैस् स्त्रीभिश्च भरतोदितैः ।
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् ॥ २५।१६३ ॥
लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः ।
गतागतानि कुर्वाणैर् अनुयातं समाकुलैः ॥ २५।१६४ ॥
शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः ।
आरभ्यावरणादाद्यादेषा परिवृतिर्भवेत् ॥ २५।१६५ ॥
देवेन सार्थमाचार्यो यानमारुह्य तत्र तु ।
रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिम् ॥ २५।१६६ ॥
अर्चकश्च तथासीनस्सम्यगर्चनमाचरेत् ।
आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ॥ २५।१६७ ॥
वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकम् ।
देवेशं पूर्वमारोप्य हस्तेनादायचाङ्कुशम् ॥ २५।१६८ ॥
निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः ।
अर्चकश्छत्रमादाय तथा देवस्य धारयेत् ॥ २५।१६९ ॥
तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचरात् ।
ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ॥ २५।१७० ॥
तत्काले देवमायान्तं भक्ता भागवता जनाः ।
स्पगृहप्राङ्गणे चैव प्रत्युद्थाय पुनःपुनः ॥ २५।१७१ ॥
प्रणम्य चोपहारांश्च दद्युर्बहुविधान् बहून् ।
पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ॥ २५।१७२ ॥
दक्षिणां च विशेषेण यथाशक्ति यथारुचि ।
नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ॥ २५।१७३ ॥
तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे ।
भक्तानुकम्पया देवे स्पगृहद्वारमागते ॥ २५।१७४ ॥
को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेत् ।
तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ॥ २५।१७५ ॥
आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेत् ।
उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ॥ २५।१७६ ॥
नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकम् ।
सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयम् ॥ २५।१७७ ॥
तत्काले भक्तिनम्रेभ्यस्सम्प्राप्तेभ्यश्च सन्निधिम् ।
भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ॥ २५।१७८ ॥
शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते ।
न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिम् ॥ २५।१७९ ॥
न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः ।
इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ॥ २५।१८० ॥
देहलीमनतिक्रम्य नेयात्तां दीपिकान्विताम् ।
तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ॥ २५।१८१ ॥
नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः ।
तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चित् ॥ २५।१८२ ॥
आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् ।
नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेत् ॥ २५।१८३ ॥
एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः ।
एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ॥ २५।१८४ ॥
गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमात् ।
अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकम् ॥ २५।१८५ ॥
धामप्रदक्षिणं नीत्वा पुनराविश्य चालयम् ।
अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ॥ २५।१८६ ॥
पाद्यमाचमनं दत्वा मुखवासं प्रदाय च ।
कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुम् ॥ २५।१८७ ॥
विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववत् ।
कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेत् ॥ २५।१८८ ॥
कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः ।
विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ॥ २५।१८९ ॥
ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेत् ।
प्रथमे ऽहनि सायेतु कर्तव्यमिदमीरितम् ॥ २५।१९० ॥
द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः ।
नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेत् ॥ २५।१९१ ॥
कुम्भदेवान् समाराध्य ध्वजदेवार्चनं चरेत् ।
होमं बलिं च दत्वातु कारयेदुत्सवं तथा ॥ २५।१९२ ॥
तृतीये पञ्चये ऽवाह्नि प्रातस्स्याद्गरुडोत्सवः ।
षष्ठे ऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिम् ॥ २५।१९३ ॥
पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः ।
जलकुङ्कुममादाय कारयेदुत्सवं तथा ॥ २५।१९४ ॥
नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च ।
दत्वा ताम्बूलमाचाममर्चयेद्राजवत्प्रभुम् ॥ २५।१९५ ॥
सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनम् ।
वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ॥ २५।१९६ ॥
ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च ।
तण्डुलोदककुम्भादीन् दूर्वाग्रं क्रमुकं तथा ॥ २५।१९७ ॥
दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक् पृथक् ।
तत्सायं च विशेषेण कृष्णगन्धानुलेपनम् ॥ २५।१९८ ॥
सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेत् ।
कृष्णागुरु समादाय सर्ववाद्यसमायुतम् ॥ २५।१९९ ॥
ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेत् ।
पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ॥ २५।२०० ॥
संस्कृत्य विधिवद्गन्धान् समभ्यर्च्य हरिं ततः ।
“गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ॥ २५।२०१ ॥
देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि ।
तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ॥ २५।२०२ ॥
तद्गन्धधारणान्नॄणां भदेयुस्सर्वसम्पदः ।
सायमर्चावसाने तु रथयात्रां समाचरेत् ॥ २५।२०३ ॥
अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे ।
अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेत् ॥ २५।२०४ ॥
मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेत् ।
प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ॥ २५।२०५ ॥
वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपम् ।
बिम्बाध्यर्धायतामर्धविस्तारां बिम्बदघ्निकाम् ॥ २५।२०६ ॥
जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनाम् ।
नादेयाद्भिस्समापूर्व “धारास्विऽति च मन्त्रतः ॥ २५।२०७ ॥
एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेत् ।
कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ॥ २५।२०८ ॥
आस्तीर्य नववस्त्राणि “वेदाहऽमिति मन्त्रतः ।
“पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ॥ २५।२०९ ॥
अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेत् ।
मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ॥ २५।२१० ॥
देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् ।
नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरम् ॥ २५।२११ ॥
पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः ।
“भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ॥ २५।२१२ ॥
“परं रंहेऽति मन्त्रेण देवमादायचादरात् ।
“प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ॥ २५।२१३ ॥
इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज् प्तमण्डले ।
समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ॥ २५।२१४ ॥
“अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् ।
“इदमापश्शिऽवेत्युक्त्वा “आपो वा इदऽमुच्चरन् ॥ २५।२१५ ॥
अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च ।
पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवम् ॥ २५।२१६ ॥
“इषे त्वोर्जेऽत्वादि जपन् “भूरानिलयऽ इत्यपि ।
मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिम् ॥ २५।२१७ ॥
अधिवास्यतु यामार्धं यामद्वयमथापि वा ।
“परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ॥ २५।२१८ ॥
अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च ।
यानमारोप्य देवेशं ग्राममालयमेव वा ॥ २५।२१९ ॥
प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतम् ।
ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ॥ २५।२२० ॥
पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे ।
सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववत् ॥ २५।२२१ ॥
जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेत् ।
तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिम् ॥ २५।२२२ ॥
प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः ।
अधिवासविधानेन शयने शाययेद्गुरुः ॥ २५।२२३ ॥
प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेत् ।
तस्मिन् तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवम् ॥ २५।२२४ ॥
कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे ।
प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ॥ २५।२२५ ॥
अमितं चोत्तरेधीमान् धान्यपीठोपरि न्यसेत् ।
नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेत् ॥ २५।२२६ ॥
पूर्वालङ्कृतवस्त्रादीन् विसृज्यैव प्रयत्नतः ।
अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ॥ २५।२२७ ॥
अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः ।
व्रीहिभिस्थ्सण्डिलं कृत्वा द्विहस्तायतविस्तृतम् ॥ २५।२२८ ॥
उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतम् ।
तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ॥ २५।२२९ ॥
पात्रे हरिद्रां सङ्गृह्य सिनीवालीमथार्ऽच्य च ।
उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेत् ॥ २५।२३० ॥
गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा ।
विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेत् ॥ २५।२३१ ॥
भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः ।
एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ॥ २५।२३२ ॥
गन्धोषितं च वादैलमाढकं परिगृह्यच ।
पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेत् ॥ २५।२३३ ॥
आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेत् ।
सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेत् ॥ २५।२३४ ॥
देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः ।
संस्राव्य मूर्थ्नि तत्तैलं “वेदाहऽमिति मन्त्रतः ॥ २५।२३५ ॥
हारिद्रचूर्णैस्संस्नाप्य चक्रादीन् स्नापयेत्ततः ।
तच्छिष्टं धारयन् भक्तस्सर्वपापैः प्रमुच्यते ॥ २५।२३६ ॥
अथ याने समारोप्य देवं चक्रादिभिस्सह ।
चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेत् ॥ २५।२३७ ॥
देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते ।
नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ॥ २५।२३८ ॥
चक्रादीन् पूर्ववत् स्थाप्य प्रमुखे स्थण्डिलं चरेत् ।
द्रव्येणापूर्व कलशान् गायत्रीमन्त्रमुच्चरन् ॥ २५।२३९ ॥
मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकम् ।
दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकम् ॥ २५।२४० ॥
जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः ।
उपस्नानानि विन्यस्य क्रमात्तदधिपान् गुरुः ॥ २५।२४१ ॥
आदित्यानप्सरसश्च काश्यपं च गुरुं तथा ।
ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ॥ २५।२४२ ॥
मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेत् ।
“पूतस्तऽस्येति मन्त्रेण “इमा ओषधयऽइत्यपि ॥ २५।२४३ ॥
“अभि त्वा शूरऽ"चत्वारिऽ"पूतस्तन्येऽतिचक्रमात् ।
कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमात् ॥ २५।२४४ ॥
“वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेत् ।
शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ॥ २५।२४५ ॥
प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमात् ।
हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ॥ २५।२४६ ॥
आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेत् ।
नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ॥ २५।२४७ ॥
चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन् दृढम् ।
“ये ते शतम्ऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ॥ २५।२४८ ॥
निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः ।
जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ॥ २५।२४९ ॥
भवेयुरश्वमेधस्य फलं च समवाप्नुयुः ।
ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ॥ २५।२५० ॥
कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः ।
ततो विसृज्य वस्त्रादीन् देवं चान्यैर्विभूष्य च ॥ २५।२५१ ॥
तत्रैव नसस्नाम्भारान् सम्भृत्य विधिना गुरुः ।
देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुम् ॥ २५।२५२ ॥
अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनम् ।
पश्चाद्देवं समादाय सर्वालङ्कारसंयुतम् ॥ २५।२५३ ॥
शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणम् ।
देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ॥ २५।२५४ ॥
पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमात् ।
मुहुःपुष्पाञ्जलिं दत्वाजीवस्थाने निवेशयेत् ॥ २५।२५५ ॥
चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च ।
पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेत् ॥ २५।२५६ ॥
नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः ।
यागशालां समासाद्य हुत्वाग्निषु च वैष्णवम् ॥ २५।२५७ ॥
कुम्भस्थां शक्तिमादाय ध्रुवबेरे ऽवरोपयेत् ।
अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ॥ २५।२५८ ॥
तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववत् ।
पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितम् ॥ २५।२५९ ॥
पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेत् ।
चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ॥ २५।२६० ॥
तटाके निर्झरे कूपवापीवल्मीकपार्श्वके ।
श्मशाने ऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेत् ॥ २५।२६१ ॥
पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ ।
ध्वजमूलं समासाद्य सर्ववाद्य समायुतम् ॥ २५।२६२ ॥
ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् ।
तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ॥ २५।२६३ ॥
परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः ।
देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेत् ॥ २५।२६४ ॥
क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि ।
फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादरात् ॥ २५।२६५ ॥
सर्वपापविशुद्धात्मा सर्वान् कामानवाप्य च ।
अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ॥ २५।२६६ ॥
पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहम् ।
द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेत् ॥ २५।२६७ ॥
शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेत् ।
प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ॥ २५।२६८ ॥
न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै ।
आस्थानमण्डपे वाथ स्नपनालय एव वा ॥ २५।२६९ ॥
चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च ।
पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ॥ २५।२७० ॥
मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकम् ।
रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ॥ २५।२७१ ॥
बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेत् ।
दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ॥ २५।२७२ ॥
उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै ।
पूजाद्रव्याणि सम्भृत्य प्रत्येकं विन्यसेद्बुधः ॥ २५।२७३ ॥
दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि ।
लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशम् ॥ २५।२७४ ॥
निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि ।
आदित्यमण्डलं तत्र राजते चन्द्रमण्डलम् ॥ २५।२७५ ॥
तस्मिन् सुवर्णरूपे तु वह्नि मण्डलमर्चयेत् ।
विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ॥ २५।२७६ ॥
तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवम् ।
तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ॥ २५।२७७ ॥
तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेत् ।
पङ्कजं तुलसी बिल्वं करवीरमथोत्पलम् ॥ २५।२७८ ॥
नन्द्यावर्तं च कुमुदमपामार्गं तथैव च ।
विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमात् ॥ २५।२७९ ॥
एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः ।
नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ॥ २५।२८० ॥
परात्परतरं पारं गुह्याद्गुह्यतरं गुरुम् ।
सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ॥ २५।२८१ ॥
जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः ।
दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ॥ २५।२८२ ॥
पञ्चाग्निष्वथ वाग्नींस्त्रीन् पैण्डरीकमथापि वा ।
देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमात् ॥ २५।२८३ ॥
उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके ।
हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ॥ २५।२८४ ॥
आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेत् ।
वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ॥ २५।२८५ ॥
ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेत् ।
दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमात् ॥ २५।२८६ ॥
जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः ।
आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकम् ॥ २५।२८७ ॥
आज्येन समिधा तत्तद्धविर्भेदैश्च हूयताम् ।
एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ॥ २५।२८८ ॥
यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः ।
पद्ममण्डलदेवानां कारयेत्प्रतिमादिकम् ॥ २५।२८९ ॥
तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च ।
सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ॥ २५।२९० ॥
चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेत् ।
अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ॥ २५।२९१ ॥
पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकम् ।
अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनम् ॥ २५।२९२ ॥
कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च ।
निवेद्य मुखवासान्ते परिवारबलिं क्षिपेत् ॥ २५।२९३ ॥
इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः ।
विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ॥ २५।२९४ ॥
मण्डले देवमारोप्य पूजयित्वा यधाविधि ।
हवींषि पञ्च चोक्तानि निवेद्य च ततः परम् ॥ २५।२९५ ॥
दद्यात्पुष्पाञ्जलिं मन्त्रैस्समस्तदिवसोदितैः ।
जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेत् ॥ २५।२९६ ॥
नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमात् ।
ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमात् ॥ २५।२९७ ॥
तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेत् ।
उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतम् ॥ २५।२९८ ॥
अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेत् ।
द्वादशाराधनम्
कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ॥ २५।२९९ ॥
दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः ।
एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणाम् ॥ २५।३०० ॥
पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक् पृथक् ।
गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेत् ॥ २५।३०१ ॥
आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमम् ।
अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ॥ २५।३०२ ॥
जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेत् ।
ब्राह्मणान् भोजयेच्चैव प्रदद्याद्भूरिदक्षिणाम् ॥ २५।३०३ ॥
पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः ।
शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकम् ॥ २५।३०४ ॥
एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियम् ।
सर्वान् कामानवाप्यैव सर्वैश्वर्यमवाप्य च ॥ २५।३०५ ॥
सर्वान् शत्रून् विजित्वैव प्रजापशुसमन्वितः ।
अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयात् ॥ २५।३०६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशो ऽध्यायः।