अथ चतुर्विंशो ऽध्यायः।
उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमम् ।
वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदम् ॥ २४।१ ॥
राज्ञां विजयदानाय शत्रूणां नाशहेतवे ।
व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ॥ २४।२ ॥
कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः ।
मासेतु यस्मिन् कस्मिंश्छित्प्रतिसंवत्सरं चरेत् ॥ २४।३ ॥
एकस्मिन् समयेचैव स तु कालोत्सवो भवेत् ।
इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ॥ २४।४ ॥
स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः ।
भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ॥ २४।५ ॥
क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः ।
प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ॥ २४।६ ॥
कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः ।
राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ॥ २४।७ ॥
अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलम् ।
राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेत् ॥ २४।८ ॥
अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः ।
ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेत् ॥ २४।९ ॥
सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेत् ।
अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ॥ २४।१० ॥
शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवम् ।
विशस्त्रिगणसान्त्यर्थं सौम्यमार्गेण वास्तुषु ॥ २४।११ ॥
चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः ।
सर्वेषामपि देवानां मुनीनामपि सर्वशः ॥ २४।१२ ॥
पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः ।
द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ॥ २४।१३ ॥
पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमात् ।
अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ॥ २४।१४ ॥
तस्मात्परिहरेद्विद्वान् ग्रामादौतं विशेषतः ।
विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ २४।१५ ॥
ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च ।
उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेत् ॥ २४।१६ ॥
एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया ।
विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ॥ २४।१७ ॥
तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा ।
अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ॥ २४।१८ ॥
एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयम् ।
तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनम् ॥ २४।१९ ॥
तदेव यदि सूर्यस्य विद्धं चेत्सङ्क्रमादिभिः ।
वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ॥ २४।२० ॥
वारद्वयानुषक्ते चेत् तिथौ स्यात्तुपरे तथा ।
अधिमासः परित्याज्यः कालोत्सवविधौहरेः ॥ २४।२१ ॥
अर्कवारर्क्ष संयोगस्सर्वदा सम्प्रशस्यते ।
श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ २४।२२ ॥
योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः ।
तिथिद्वयानुषक्तं चे ऽन्नक्षत्रं स्यात्परे ऽहनि ॥ २४।२३ ॥
परस्मिन् दिवसे स्याच्चेद्यावच्च दशनाडिकाः ।
हीनं चेत् पूर्वदिवसे सङ्कल्प्यावभृथं चरेत् ॥ २४।२४ ॥
उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश ।
नवाहं वाथसप्ताहम् अधमं परिचक्षते ॥ २४।२५ ॥
त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेत् ।
मध्यमे द्विगुणादौ स्यादुत्सवादि दिने ऽधमे ॥ २४।२६ ॥
अथवावभृथात्पूर्वमेकविंशतिके दिने ।
ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेत् ॥ २४।२७ ॥
राहुदर्शनसङ्क्रान्त्योः स्नानं श्रेष्ठं निशास्वपि ।
क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ॥ २४।२८ ॥
तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेत् ।
पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमात् ॥ २४।२९ ॥
नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः ।
त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ॥ २४।३० ॥
न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः ।
उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकम् ॥ २४।३१ ॥
घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणम् ।
ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमम् ॥ २४।३२ ॥
वेणुं च जातिवृक्षं च चम्पकं क्रमुकं तथा ।
ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ॥ २४।३३ ॥
अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न ।
चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमम् ॥ २४।३४ ॥
तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमम् ।
विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ॥ २४।३५ ॥
यथालाभपरीणाहमवक्रं परिगृह्य च ।
ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतम् ॥ २४।३६ ॥
विमानस्याधिकं कुर्यात् पादहीन मथार्ऽधकम् ।
अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशम् ॥ २४।३७ ॥
वेणुकं यदि सङ्ग्राह्यं भूतवेदाङ्गुलायतम् ।
षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितम् ॥ २४।३८ ॥
तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढम् ।
तालद्वयमथायामं यममात्रन्तु विस्तृतम् ॥ २४।३९ ॥
उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा ।
तच्चतुर्थांशकं कृत्वा मूले ऽग्रेद्व्यंशकन्त्यजेत् ॥ २४।४० ॥
मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतम् ।
शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमात् ॥ २४।४१ ॥
प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेत् ।
दशदर्भयुतं कूर्चमग्रेचैव तु योजयेत् ॥ २४।४२ ॥
दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् ।
मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतम् ॥ २४।४३ ॥
दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेत् ।
संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ॥ २४।४४ ॥
खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च ।
मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेत् ॥ २४।४५ ॥
स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रवित् ।
देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेत् ॥ २४।४६ ॥
ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेत् ।
मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतम् ॥ २४।४७ ॥
तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकम् ।
शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढम् ॥ २४।४८ ॥
उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकम् ।
अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ॥ २४।४९ ॥
पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमात् ।
अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ॥ २४।५० ॥
चतुर्भागं पटं कुर्यादेकभागं शिरो भवेत् ।
वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ॥ २४।५१ ॥
मध्यमस्याग्रमूलं च यष्टिं सम्यक् प्रयोजयेत् ।
तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतम् ॥ २४।५२ ॥
ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेत् ।
अधमे ऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेत् ॥ २४।५३ ॥
एकै मगथमान्तं च नवधा मानमुच्यते ।
ध्वजदण्डस्य वीशस्य षट् शुभानि निरीक्षयेत् ॥ २४।५४ ॥
यजमानानुकूले च नक्षत्रे च विशेषतः ।
नवार्धतालमानं वा नवतालमथापि वा ॥ २४।५५ ॥
अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितम् ।
वामपादे समाकुञ्च्य दक्षिणं सम्प्रसार्य च ॥ २४।५६ ॥
किञ्चित्सङ्कुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतम् ।
पक्षद्वयसमायुक्तं करण्डमुकुटान्वितम् ॥ २४।५७ ॥
श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु ।
एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ॥ २४।५८ ॥
गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः ।
भूषणैर् अष्टनागैश्च वामहस्ते त्वनन्तकः ॥ २४।५९ ॥
वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकम् ।
हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ॥ २४।६० ॥
महापद्मं वामकर्णे शङ्ख च शिरसि क्रमात् ।
गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणम् ॥ २४।६१ ॥
मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरम् ।
पार्श्वयोरुभयोश्चापि चामरद्वय संयुतम् ॥ २४।६२ ॥
पादपार्श्वद्वयेचैव दीपद्वय समन्वितम् ।
पूर्णकुम्भं तयोर्मध्ये लिखित्वा तु विशेषतः, ॥ २४।६३ ॥
तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः ।
मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतम् ॥ २४।६४ ॥
पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणम् ।
देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ॥ २४।६५ ॥
पञ्चवर्णैरलङ्कृत्य वितानस्तम्भवेष्टनैः ।
शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेत् ॥ २४।६६ ॥
वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेत् ।
पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ॥ २४।६७ ॥
ऐशान्यामग्निकुण्डे तु चौवासन विधानतः ।
आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ॥ २४।६८ ॥
हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः ।
तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेत् ॥ २४।६९ ॥
अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेत् ।
विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ॥ २४।७० ॥
व्याहृत्यन्न्तं च हुत्वातु ततः कुम्भं प्रगृह्यच ।
तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतम् ॥ २४।७१ ॥
वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च ।
“इषे त्वोर्ज्येऽत्वादि जपन् “आप उन्दन्त्विऽति क्रमात् ॥ २४।७२ ॥
ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् ।
कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ २४।७३ ॥
तदम्बुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेत् ।
अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ॥ २४।७४ ॥
“शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः ।
शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेत् ॥ २४।७५ ॥
परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयताम् ।
सायमर्चावसाने तु कुम्भपूजां समाचरेत् ॥ २४।७६ ॥
कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः ।
अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ॥ २४।७७ ॥
शयने शाययेच्चैव देववादे शिरस्तथा ।
हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ॥ २४।७८ ॥
वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेत् ।
मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेत् ॥ २४।७९ ॥
“शतधारं कदाऽवीति वीशमन्त्रमुदाहृतम् ।
तथाद्वादशपर्यायं वैष्णवं च सुहूयताम् ॥ २४।८० ॥
व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च ।
आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेत् ॥ २४।८१ ॥
पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः ।
मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेत् ॥ २४।८२ ॥
कुम्भाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः ।
पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेत् ॥ २४।८३ ॥
अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमात् ।
अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेत् ॥ २४।८४ ॥
उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतम् ।
धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेत् ॥ २४।८५ ॥
चतुरश्रं समं कृत्वा विस्तारं चैकभागकं ।
शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेत् ॥ २४।८६ ॥
चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितम् ।
तस्यैवोत् तरतः पार्श्वेविष्वक्सेनं तथैव च ॥ २४।८७ ॥
धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखम् ।
न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेत् ॥ २४।८८ ॥
देवदेवं सुसम्पूज्य द्विगुणं पूजयेत्ततः ।
द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेत् ॥ २४।८९ ॥
चक्रादीनां पृथक्कुर्यादासनादीन् पृथक् पृथक् ।
नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेत् ॥ २४।९० ॥
आचार्यो यष्टिमादाय “भूर्भुवस्सुवऽ रीरयन् ।
“उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेत् ॥ २४।९१ ॥
वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः ।
सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रवित् ॥ २४।९२ ॥
शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा ।
द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ॥ २४।९३ ॥
पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमम् ।
मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ॥ २४।९४ ॥
कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेत् ।
अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतम् ॥ २४।९५ ॥
रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः ।
सह पुष्पं बलिं पात्रे सङ्गृह्यानुगतं पुनः ॥ २४।९६ ॥
चक्रवीशामितान् पश्चान्नाथवद्गमयेत्तदा ।
आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतम् ॥ २४।९७ ॥
गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमम् ।
द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ॥ २४।९८ ॥
अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेत् ।
आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेत् ॥ २४।९९ ॥
मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेत् ।
यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेत् ॥ २४।१०० ॥
उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै ।
ग्रामं गत्वातु सम्प्राप्य सन्धौ सन्धौ विशेषतः ॥ २४।१०१ ॥
ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववत् ।
अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेत् ॥ २४।१०२ ॥
सन्धौ तत्सन्धिमादाय प्राच्यां “भूतेभ्यऽइत्यपि ।
देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ॥ २४।१०३ ॥
नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमात् ।
“ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ॥ २४।१०४ ॥
पुष्पं बलिं तथाधावं सन्दद्याच्चक्रसन्निधौ ।
यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेत् ॥ २४।१०५ ॥
आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमात् ।
पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेत् ॥ २४।१०६ ॥
अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः ।
ततोदिक्पालकानां च तथा भूतबलिं क्षिपेत् ॥ २४।१०७ ॥
दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः ।
सन्धिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेत् ॥ २४।१०८ ॥
सन्ध्यन्तरगतां सन्धिमाचरेद्यदि मोहतः ।
कर्मणो वास्तुजातानामनर्धं भवति ध्रुवम् ॥ २४।१०९ ॥
प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकम् ।
कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ॥ २४।११० ॥
वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा ।
धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेत् ॥ २४।१११ ॥
इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमात् ।
उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेत् ॥ २४।११२ ॥
यमनीलानलेभ्यश्च दक्षिणे मध्यमे ऽपि च ।
ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ॥ २४।११३ ॥
कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च ।
नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेत् ॥ २४।११४ ॥
पूर्वं क्षिप्त्वा बलिं धीमान् पुनस्तस्य च तस्य च ।
मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेत् ॥ २४।११५ ॥
नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः ।
तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ॥ २४।११६ ॥
“प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः ।
ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ॥ २४।११७ ॥
देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः ।
विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ॥ २४।११८ ॥
सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह ।
विश्वे ते विष्णुयागे ऽर्स्मि समागच्छन्तु सादराः ॥ २४।११९ ॥
हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ ।
इत्युक्त्वा घोषयेत्सन्धौ चक्रस्याभिमुखे पुनः ॥ २४।१२० ॥
ब्रह्माद्यान् स्वस्वतालैश्च घोषयेद्वादकः पुनः ।
बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ॥ २४।१२१ ॥
जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः ।
बलिशिष्टं भूतपीठे “सर्वभूतेभ्यऽ इत्यपि ॥ २४।१२२ ॥
बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ ।
धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ॥ २४।१२३ ॥
शान्तं चक्रं च चत् स्थाने स्थापयेन्मतिमान् पुनः ।
ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रवित् ॥ २४।१२४ ॥
“स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह ।
मन्त्रेण मतिमान् पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ॥ २४।१२५ ॥
दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतम् ।
समाबद्ध्य पुनस्स्निग्धं “भूरिऽसीति जपं स्ततः ॥ २४।१२६ ॥
अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेत् ।
पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ॥ २४।१२७ ॥
निवेद्य मुखवासं च प्रणाममपि कारयेत् ।
तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितम् ॥ २४।१२८ ॥
स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः ।
आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणम् ॥ २४।१२९ ॥
बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवम् ।
(ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ॥ २४।१३० ॥
“नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः ।
वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ॥ २४।१३१ ॥
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे ।
वैनतेय महाबाहो महाबल वयो ऽधिप ॥ २४।१३२ ॥
विहगेन्द्र नमस्ते ऽस्तु समुत्पाटीतकल्पक ।
आहृतामृतकुम्भाय जननीदास्यमोचिने ॥ २४।१३३ ॥
सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते ।
यदाधारमिदं सर्वं तदाधाराय ते नमः ॥ २४।१३४ ॥
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् ।
अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयम् ॥ २४।१३५ ॥
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ।
नमःप्राणादिवायूनामीशाय गरुडात्मने ॥ २४।१३६ ॥
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसम्पदा ।
निरस्तासुरसन्नाह समरे शत्रुसूदन ॥ २४।१३७ ॥
प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये ।
कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ॥ २४।१३८ ॥
दोषानपनयास्माकं गुणानावह सर्वशः ।
विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि।ऽ ॥ २४।१३९ ॥
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) ।
ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ॥ २४।१४० ॥
त्रिकालं वा द्विकालं वा एक कालमधापि वा ।
हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ॥ २४।१४१ ॥
पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेत् ।
“जियमत्युच्छ्रयं धन्यं ध्वजञ्चेति ध्वजं तथा ॥ २४।१४२ ॥
ध्वजमूले तथेन्द्रादीन् दण्डे ब्रह्माणमित्यपि ।
सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनम् ॥ २४।१४३ ॥
वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः ।
घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीम् ॥ २४।१४४ ॥
इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेत् ।
ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ॥ २४।१४५ ॥
सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिम् ।
शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ॥ २४।१४६ ॥
नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेत् ।
वीशामितौ विना धीमान् तीर्थान्तं सर्वरात्रिषु ॥ २४।१४७ ॥
चक्रमेव नयेद्विद्वान् बलिरक्षणहेतवे ।
ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ॥ २४।१४८ ॥
त्रिकालं वा द्विकालं वाप्येककालमथापि वा ।
पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेत् ॥ २४।१४९ ॥
ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न ।
उत्सवारम्भदिवसात्तत्र ये ग्रामवासिनः ॥ २४।१५० ॥
अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरम् ।
गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयम् ॥ २४।१५१ ॥
बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च ।
तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ॥ २४।१५२ ॥
अहूतव्या उत्सवार्थे देवास्सम्यक् प्रकीर्तिताः ।
देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ॥ २४।१५३ ॥
इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः ।
तथैकादश रुद्राश्च द्वादशाहस्करा अपि ॥ २४।१५४ ॥
वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतम् ।
एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ॥ २४।१५५ ॥
अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः ।
त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ॥ २४।१५६ ॥
अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः ।
अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ॥ २४।१५७ ॥
देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः ।
असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ॥ २४।१५८ ॥
यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः ।
अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ॥ २४।१५९ ॥
मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः ।
अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ॥ २४।१६० ॥
अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेत् ।
देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेत् ॥ २४।१६१ ॥
स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती ।
तदालये बलिं दद्यात्प्राकारे चोत्तरे ऽपि वा ॥ २४।१६२ ॥
परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा ।
ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेत् ॥ २४।१६३ ॥
सिद्धान् विद्याधरांश् चैव गरुडगन्धर्वकिन्नरान् ।
किपूरुषांश् चारणान् देवान् महादिक्षु समर्चयेत् ॥ २४।१६४ ॥
भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च ।
राक्षसेभ्यश्च नागेभ्यस्सन्धौ सन्धौ बलिं ददेत् ॥ २४।१६५ ॥
राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेत् ।
तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेत् ॥ २४।१६६ ॥
उत्सवार्थं विशेषेण सम्भारानाहरेत्ततः ।
रथं च शिबिकां चैव यन्त्रडोलादिकांस् तथा ॥ २४।१६७ ॥
कारयित्वा च शिल्पोक्तं दीपानन्यान् प्रगृह्य च ।
भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ॥ २४।१६८ ॥
तालवृन्तं ध्वजानन्यान् छत्रचामरबर्हिणः ।
नर्तकान् गायकानन्यान् यथोक्तं पूर्वमाहरेत् ॥ २४।१६९ ॥
आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च ।
परिचारान् समाहूय स्वस्वकर्म निवेदयेत् ॥ २४।१७० ॥
मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः ।
आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रवित् ॥ २४।१७१ ॥
“अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः ।
विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमम् ॥ २४।१७२ ॥
“आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभम् ।
समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेत् ॥ २४।१७३ ॥
कदलीपूगकुम्भाद्यैरलङ्कुर्याद्गृहाङ्गणम् ।
वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभम् ॥ २४।१७४ ॥
तद्ग्रामवासिनः सर्वे ऽलङ्कृता नान्यतत्पराः ।
नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिम् ॥ २४।१७५ ॥
तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना ।
नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ॥ २४।१७६ ॥
प्रवृत्ते चोत्सवे विष्णोस्सौम्यमार्गेण वास्तुषु ।
अन्यदेवोत्सवं तत्र नाचरेदिति शासनम् ॥ २४।१७७ ॥
अस्मिन् देवोत्सवे यागे तद्वास्तुषु विशेषतः ।
सङ्कल्प्य चोत्तरां वेदिं प्रवृत्ते ऽन्यानि नाचरेत् ॥ २४।१७८ ॥
यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति ।
तस्मात्परिहरेद्धीमान् तीर्थान्तं तेषु वान्तुषु ॥ २४।१७९ ॥
उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमे ऽथ वा ।
संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेत् ॥ २४।१८० ॥
इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशो ऽध्यायः।