अथत्रयोविंशो ऽध्यायः।
अथत्रयोविंशो ऽध्यायः।
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनम् ।
सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ॥ २३।१ ॥
महाबेरस्य मानेन नवाङ्गुलमिति स्मृतम् ।
तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलम् ॥ २३।२ ॥
वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतम् ।
तन्मध्ये चारकूटं स्यादेकाङ्गुलमुदाहृतम् ॥ २३।३ ॥
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा ।
अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकम् ॥ २३।४ ॥
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादरात् ।
महाबेरस्य हस्तेन द्वादशाङ्गुलमुच्यते ॥ २३।५ ॥
तद्वृत्तं तस्य हस्तेन द्वादशाङ्गुलमुच्यते ।
वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलम् ॥ २३।६ ॥
वृत्तपट्टस्य विस्तारमेकाङ्गुलमुदाहृतम् ।
अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ॥ २३।७ ॥
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे ।
कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेत् ॥ २३।८ ॥
अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतम् ।
उभयोः पादयोश्चैव सिंहेनैव तु कारयेत् ॥ २३।९ ॥
आयसेनैव वा कुर्याद्दारुणा वा तथैव च ।
सर्वत्र सुन्दरं कुर्यात्सजानन? विधीयते ॥ २३।१० ॥
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः ।
मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ॥ २३।११ ॥
विदध्याद्देव देवस्य हेति प्रवरमुत्तमम् ।
प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ॥ २३।१२ ॥
स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः ।
अथातस्सम्प्रवक्ष्यामि वैष्णवं चक्रमुत्तमम् ॥ २३।१३ ॥
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना ।
कालचक्रं वीरचक्रं सहस्रविकचं क्रमात् ॥ २३।१४ ॥
करोद्धृतं वीरचक्रं देवस्य मुखमानतः ।
सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ॥ २३।१५ ॥
देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितम् ।
ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेत् ॥ २३।१६ ॥
मयं महीमयं दिव्यमष्टारं द्वादशारकम् ।
एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ॥ २३।१७ ॥
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदम् ।
ध्रुवबेरमुखायामं द्विगुणायामविस्तृतम् ॥ २३।१८ ॥
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकम् ।
वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतम् ॥ २३।१९ ॥
षडङ्गुलसमायाममारकूटं तु त्षङ्गुलम् ।
यवा कारकरा ज्ञेया उभयत्र प्रवेशता ॥ २३।२० ॥
अरकूटे ऽथ सिंहं वा मकरं वाथ पद्मकम् ।
ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ॥ २३।२१ ॥
शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेत् ।
चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतम् ॥ २३।२२ ॥
द्वात्रिंशद्वा चतुर्विंशदधमे सम्प्रयोजयेत् ।
एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेत् ॥ २३।२३ ॥
चक्राधस्तात्तथा नालं द्वादशाङ्गुलमाचरेत् ।
चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेत् ॥ २३।२४ ॥
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनम् ।
षडङ्गुलायतविस्तारां फलकां सम्प्रकल्पयेत् ॥ २३।२५ ॥
वृत्तं वा चतुरश्रं वा लम्बदामसमायुतम् ।
त्रियङ्गुलसमुत्सेधं सन्धयेत्तरिकोपरि ॥ २३।२६ ॥
तदधस्तात्तु ताटिं च कुम्भलम्बकसंयुतम् ।
अष्टाङ्गुलसमुत्सेथं कारयेदिति शासनम् ॥ २३।२७ ॥
अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा ।
कूरदण्डेन संयोज्य फलकोफलपद्मकम् ॥ २३।२८ ॥
लता प्रस्थतरं वापि कारयेदिति शासनम् ।
पद्मं तु त्षङ्गुनायामं विस्तारमधिकाङ्गुलम् ॥ २३।२९ ॥
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेत् ।
चक्रं संवहमानौ तौ यावत्तत्र च कालयेत् ॥ २३।३० ॥
तयोर्मानं समुद्दिष्टं पञ्चाङ्गुलमिति स्मृतम् ।
दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलम् ॥ २३।३१ ॥
पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा ।
वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ॥ २३।३२ ॥
षाढशाङ्गुलमायामं विस्तारं सम्प्रकीर्तितम् ।
कर्णिकामध्यमे नालमष्टाङ्गुल समायुतम् ॥ २३।३३ ॥
नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः ।
हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतम् ॥ २३।३४ ॥
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेत् ।
सहस्रविकचं चक्रं पुरुषाकारमाचरेत् ॥ २३।३५ ॥
रक्ताभं नीलवर्णं च नवतालेन मानतः ।
द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेत् ॥ २३।३६ ॥
सुदर्शनं तथा चक्रं सहस्रविकचं तथा ।
अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेत् ॥ २३।३७ ॥
शतधारं कालचक्रं सर्वासुरविमर्दनम् ।
सर्वविघ्नहरं चेति कालचक्रं समर्चयेत् ॥ २३।३८ ॥
कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनम् ।
षट्ट्रिंशदङ्गुलं वापि षट् पञ्चाशच्छताष्टकम् ॥ २३।३९ ॥
विस्तारायामतोमानमुत्तमाधममध्यमम् ।
मानाङ्गुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेत् ॥ २३।४० ॥
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा ।
अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ॥ २३।४१ ॥
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा ।
दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतम् ॥ २३।४२ ॥
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेत् ।
दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेत् ॥ २३।४३ ॥
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनम् ।
चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ॥ २३।४४ ॥
अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनम् ।
तथाधिवासनं कृत्वा गव्यानामधिवासनम् ॥ २३।४५ ॥
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितम् ।
शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतम् ॥ २३।४६ ॥
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकम् ।
प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवत् ॥ २३।४७ ॥
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः ।
अथाधिवासितं चक्रमादायेवाभिषिच्य च ॥ २३।४८ ॥
अग्निं संसाध्य पूर्वोक्तं कुम्भं संसाथयेत्पुनः ।
चक्रस्याभिमुखे कुम्भं धान्यपीठोपरिक्रमात् ॥ २३।४९ ॥
सन्न्यस्य तु गुरुर्धीमान् यदितं भावयेत्तथा ।
ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ॥ २३।५० ॥
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्राञ्जलीकृतम् ।
रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक् प्रपूर्य च ॥ २३।५१ ॥
तस्मात्कुम्भे समावाह्य पूर्वोक्तमभिपूज्य च ।
वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ॥ २३।५२ ॥
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमात् ।
सन्न्यस्य कुम्भं संयुक्तं बद्ध्वा प्रतिसरं ततः ॥ २३।५३ ॥
शाययित्वा तथा चक्रं हौत्रं सम्यक् प्रशंस्य च ।
चक्राङ्गान्यायधाङ्गानि मूर्तिमन्त्रान् प्रचक्षते ॥ २३।५४ ॥
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः ।
“भूमाननो ऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतम् ॥ २३।५५ ॥
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च ।
स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववत् ॥ २३।५६ ॥
ग्रामं प्रदक्षिणं कृत्वा कुम्भेनासादयेत्तथा ।
मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ॥ २३।५७ ॥
रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा ।
चक्रमन्त्रौ सुसन्न्यस्य बीजान् सन्न्यस्य पूर्ववत् ॥ २३।५८ ॥
कुम्भाच्छक्तिं तथावाह्य पूजयेदासनादिभिः ।
पायसाद्यैर्नि वैद्याथ गुरुं सम्यक् प्रपूजयेत् ॥ २३।५९ ॥
इति श्रीवैखानसे
भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे त्रयोविंशो ऽध्यायः।