अथ द्वाविंशो ऽध्यायः।
अथ द्वाविंशो ऽध्यायः।
स्नपनम्
अथातस्स्नपनागारं प्रमुखे चोत्तरे तथा ।
ऐशान्यां वा विशेषण प्रपां वा मण्डपन्तु वा ॥ २२।१ ॥
वितानोपरि संवीतं लम्बमानं परिष्कृतम् ।
स्तम्भान्त्संवेष्ट्य वस्त्रैश्च दुकूलैस्तान्तवैरपि ॥ २२।२ ॥
मुक्तादामसमायुक्तं पूर्णकुम्भसमन्वितम् ।
सत्वं रजस्तमश्चैव ऐश्वर्यं चाधिदैवतम् ॥ २२।३ ॥
चतुर्वेदादिकैर्मन्त्रैस्तोरणांस्थ्सापयेत्क्रमात् ।
उभयोः पार्श्वयोश्चैव कदलीक्रमुकान्वितम् ॥ २२।४ ॥
पूर्वास्तमुत्तरान्तं च षट्सूत्रं सम्प्रसार्य च ।
कल्पयेदायतसमं पदानां पञ्च विंशतिम् ॥ २२।५ ॥
मध्येब्राह्मं पदं हित्वा चर्यार्धं परितो ऽष्ट च ।
पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेत् ॥ २२।६ ॥
शिष्टांश्च द्वादशपदान् द्रव्यन्यासार्थमाहरेत् ।
मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः ॥ २२।७ ॥
मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः ।
श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेत् ॥ २२।८ ॥
तत्प्रमाणाधिकं पीठं परितश्चतुरङ्गुलम् ।
मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमात् ॥ २२।९ ॥
ततःपावनमार्गेण जलं गच्छेदुदङ्मुखम् ।
मण्डपात्तु बहिस्थ्साने जलस्थानं तु खानयेत् ॥ २२।१० ॥
आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा ।
हारिद्रैश्चाथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा ॥ २२।११ ॥
“अतोदेवाऽदिमन्त्रेण कुशदर्भान्न्तु शोधयेत् ।
यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेत् ॥ २२।१२ ॥
हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकम् ।
मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतम् ॥ २२।१३ ॥
पञ्चभिर्वात्रिभिर्वाथ द्वादशाङ्गुलमायतम् ।
कलशार्थं तु कुर्वीत यथाकलशसङ्ख्ययो ॥ २२।१४ ॥
तण्डुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकम् ।
व्रीह्यर्धं तण्डुलं प्रोक्तं तदर्धं च तिलानपि ॥ २२।१५ ॥
उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकम् ।
अधमं चाढकं चैव पङ्क्तिं कुर्याद्विचक्षणः, ॥ २२।१६ ॥
सम्यक् दग्ध्वातु कलशानभिन्नान्त्सम्प्रगृह्य च ।
शरावाणां प्रमाणं तु कुडुबं समुदाहृतम् ॥ २२।१७ ॥
षट्प्रस्थमात्रं करकं कुम्भं तु द्रोणमेव च ।
“देवस्यऽत्वेति कलशान् कुम्भादीन्त्सम्प्रगृह्य च ॥ २२।१८ ॥
यवान्तरं तु तन्तूनां संवेष्ट्य कलशानपि ।
पूर्वरात्रौ विशेषेण देवेशं सम्प्रणम्य च ॥ २२।१९ ॥
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ।
पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः ॥ २२।२० ॥
शयनं सोपधानं च कालयित्वातु पूर्ववत् ।
शयने शाययेद्देवमुत्तराच्छादनं चरेत् ॥ २२।२१ ॥
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् ।
ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ २२।२२ ॥
श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चान्त्सम्यङ्न्यसेत्क्रमात् ।
जयादीरपि तत्रैव चैन्द्राद्यैशान्तमर्चयेत् ॥ २२।२३ ॥
पङ्क्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे ।
विष्वक्चेनं समभ्यर्च्य सोमेशानान्तरेपि च ॥ २२।२४ ॥
लोकपालान्त्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः प्राग्द्रव्याणि ।
नदीतिरे मृदं गृह्य सस्यङे त्रेतटाकके ॥ २२।२५ ॥
दर्भमूले च सङ्गृह्य गजदन्ते तथैवच ।
गोश्रुङ्गे कर्कटावासे वल्मीकस्य तु मध्यमे ॥ २२।२६ ॥
महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक् पृथक् ।
आतपेनाथ संशोष्य विश्वामित्रान् परिह्रसेत् ॥ २२।२७ ॥
शरावेषु मृदं चैव पूरयित्या पृथक् पृथक् ।
इन्द्रादीशानपर्यन्तं प्रदक्षिणवशेन तु ॥ २२।२८ ॥
“उदुत्यऽमिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः ।
मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा ॥ २२।२९ ॥
अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा ।
कुर्यादष्टाङ्गुलोत्सेधं चतुरश्रं समस्ततः ॥ २२।३० ॥
मूलं षडङ्गुले चाग्रात्त्षङ्गुलं समुदाहृतम् ।
अनेन वा मृदा वापि कुर्याद्वै पर्वतान् क्रमात् ॥ २२।३१ ॥
हिमवानूर्जवान्विन्ध्यो विदूरो वेदपर्वतः ।
महेन्द्रश्च पुरश्चन्द्रश्शतश्रुङ्गाश्च पर्वताः ॥ २२।३२ ॥
एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान् ।
श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च ॥ २२।३३ ॥
पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः ।
प्रागादीशान्त मेतांश्च “इदं विष्णुऽरिति न्यसेत् ॥ २२।३४ ॥
शैलानां चाप्युपस्नामेकमीशान्यगोचरम् ।
शालिव्रीहियवा मुद्गतिलमाष प्रियङ्गवः ॥ २२।३५ ॥
गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा ।
कुलुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च ॥ २२।३६ ॥
एतान्याहृत्य धान्यानि शरावेषु पृथक् पृथक् ।
प्रक्षिप्य तांश्य सम्पूर्णान् क्रमाद्द्वौ द्वौन्यकेत्तथा ॥ २२।३७ ॥
इन्द्रादीशानपर्यन्तं “शुक्रन्तऽ इति मन्त्रतः ।
न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि ॥ २२।३८ ॥
शरावाणामलाभे तु कलशेषु पृथक् पृथक् ।
“सोम ओषधीनाऽमुच्छार्य पूर्ववच्चाङ्कुरानपि ॥ २२।३९ ॥
यमनीलान्तरे चापि शरावेतु सुविन्यसेत् ।
अङ्कुराणामुपस्नानमेकमत्रैव विन्यसेत् ॥ २२।४० ॥
पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा ।
मङ्गलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमात् ॥ २२।४१ ॥
श्रीवत्सं पूर्णकुम्भं च भेरीमादर्शनं तथा ।
मत्स्ययुग्माङ्कुशं शङ्खमावर्तमिति चाष्टवै ॥ २२।४२ ॥
श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते ।
रक्तां भेरीं सुवर्णाभं तस्य पार्श्वे ऽसितं?तथा ॥ २२।४३ ॥
आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते ।
मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितम् ॥ २२।४४ ॥
अङ्कुशस्य तु दण्डं च रक्तं कृष्णघृणीयुतम् ।
शङ्खं शङ्खनिभं प्रोक्तं रक्तमावर्तमिष्यते ॥ २२।४५ ॥
सप्ताङ्गुलसमुत्सेधमेषां पीठं द्विगोलकम् ।
यथा वृक्षैस्तथा कुर्यात्पञ्चवर्णैर्मृदा तधा ॥ २२।४६ ॥
एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेत् ।
प्रदक्षिणक्रमेणैव चैन्द्रादीशान्तमर्चयेत् ॥ २२।४७ ॥
दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे ।
“शं सा नियच्छऽत्वित्युक्त्वामङ्गलान्यत्र विन्यसेत् ॥ २२।४८ ॥
मङ्गलानामुपस्नानमेन्द्राद्येचैकमेवहि ।
एवं प्रकरणं प्रोक्तं कलशानां॥॥॥॥॥॥ ॥ २२।४९ ॥
द्वादश प्रधानद्रव्याणि
पञ्चगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति ।
कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते ॥ २२।५० ॥
रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेत् ।
मूत्रं तु नीलवर्णायाः पञ्चगव्यमिति स्मृतम् ॥ २२।५१ ॥
प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतम् ।
गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणम् ॥ २२।५२ ॥
षड्गुणं चैव गोमूत्रं पञ्चगव्ययुतं क्रमात् ।
अपातितं तु गोमूत्रं पतितं गोमयं भवेत् ॥ २२।५३ ॥
धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेत् ।
अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणम् ॥ २२।५४ ॥
“गाङ्गेयम्ऽ मन्त्रमुच्चार्य गोमूत्रं पूर्वमाहरेत् ।
तत्परं तु शकृद्ग्राह्य “मीशानऽमिति मन्त्रतः ॥ २२।५५ ॥
“हिरण्यपाणिऽमित्युक्त्वा पय आदाय निक्षिपेत् ।
“इषे त्वेऽति दधि यञ्ज्याद्घृतं “चायन्तऽ इत्यपि ॥ २२।५६ ॥
इत्येवं पञ्चभिर्मन्त्रैः पञ्चगव्यं समाहरेत् ।
एतदाढकपूर्मन्तु कलशेदृश्यते पृथक् ॥ २२।५७ ॥
सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा ।
द्वादशाङ्गुलविस्तारं षोडशाङ्गुलनाहकम् ॥ २२।५८ ॥
द्व्यङ्गुलं सम्भरेत्कण्ठं मुखं पञ्चाङ्गुल भवेत् ।
पक्वबिम्ब फलाकारं खण्डस्भुटीतवर्जितम् ॥ २२।५९ ॥
एवं कलशमादाय पञ्चगव्यैःप्रपूर्य च ।
“रुद्रमस्यऽमिति प्रोच्य न्यसेदीशानगोचरे ॥ २२।६० ॥
आढकार्धघृतेनैव सम्पूर्णं कलशं तथा ।
“घृतप्रतीकऽ इत्युक्त्वा इ द्रेशानान्तरेन्यसेत् ॥ २२।६१ ॥
कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा ।
“मधु वाऽतेति मन्त्रेण इन्द्राग्न्योरन्तरे न्यसेत् ॥ २२।६२ ॥
न शुक्तं दधि गव्यं च? सम्पूर्णकलशं तथा ।
“दधि क्राव् ण्नऽ इत्युक्वा आग्नेय्यां दधि विन्यसेत् ॥ २२।६३ ॥
सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा ।
“अणोरणीयाऽ नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेत् ॥ २२।६४ ॥
उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा ।
शुद्धोकेन सङ्गृह्य कलशं परिपूरितम् ॥ २२।६५ ॥
यमनीलान्तरे तत्र “अप्सरऽस्स्विति विन्यसेत् ।
व्रीहिमाषयवैर्युक्तं सर्षपञ्चाक्षतं विदुः ॥ २२।६६ ॥
तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकम् ।
तत्राक्षतोदकेनैव सम्पूर्णं कलशं ततः ॥ २२।६७ ॥
“इमा ओषधयऽ इत्युक्त्वा न्यसेन्नी ले ऽक्षतोदकम् ।
कदलीमातुलुङ्गाम्र पनसेर्नालिकेरकैः ॥ २२।६८ ॥
आर्द्रादिभिः फलैश्चान्यैर्यथालाभं समाहृतैः ।
फलैर् अर्धांशसंयुक्तं शेषं तोयेन पूरितम् ॥ २२।६९ ॥
फलोदकमिति प्रोक्तं कलशं सम्प्रसाथितम् ।
नीलवारुणयोर्मध्ये “सोमं राऽजेति विन्यसेत्, ॥ २२।७० ॥
कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितम् ।
कुशोदकमिति प्रोक्तं कलशं तेन पूरितम् ॥ २२।७१ ॥
वरुणोदानयोर्मध्ये “यतस्स्वऽमिति विन्यसेत् ।
वज्रं नीलं प्रवालं च शङ्खजं शुक्तिजं तथा ॥ २२।७२ ॥
एतानि पञ्चरत्नानि ततो मरतकं तथा ।
वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमात् ॥ २२।७३ ॥
रत्नोदकमिति प्रोक्तं कलशं तेन पूरितम् ।
वायव्ये सन्न्यसेद्विद्वा"नतो देवादिऽमुच्चरन् ॥ २२।७४ ॥
यथालाभं तथा रत्नसुवर्णसहितं क्रमात् ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेत् ॥ २२।७५ ॥
तथाभिमन्त्रितं तोयं जप्योदकमिति स्मृतम् ।
कुबेरोदानयोर्मध्ये “ब्रह्मा देवानाऽमिति न्यसेत् ॥ २२।७६ ॥
फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः ।
सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेत् ॥ २२।७७ ॥
तर्यांशेषु गृहीतं च कलशं पूर्णमम्भसा ।
सोमेशानास्तरेचैव “चित्रं देवानाऽमिति न्यसेत् ॥ २२।७८ ॥
एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा ।
गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेत् ॥ २२।७९ ॥
उपस्नाने तु कलशा"नतो देवाऽदिना न्यसेत् ।
एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः ॥ २२।८० ॥
अनुद्रव्याणि
नन्द्यावर्तं च पद्मं च तुलसी विष्णुपर्णिका ।
बिल्वं च करवीरं च पद्मं कुमुदमेव च ॥ २२।८१ ॥
अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमम् ।
दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि ॥ २२।८२ ॥
करवीरं दिवा शुद्धं निशि सितम्? तथा शुचि ।
शरावेषु समाहृत्य पुष्पाणि तु पृथक् पृथक् ॥ २२।८३ ॥
“इमास्सुमनसऽ इति मन्त्रेण यमनीलान्तरे न्यसेत् ।
तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेत् ॥ २२।८४ ॥
श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकम् ।
तथा मसूरं दमनं जातीफलयुतं तथा ॥ २२।८५ ॥
लवङ्गं च समाहृत्य चूर्णयित्वाक्रमेण वै ।
समाराध्यैव तच्चूर्णं शरावेषु च पूरयेत् ॥ २२।८६ ॥
पङ्क्तीशाद्दक्षिणे चूर्णं “वन्द्यो नऽइति विन्यसेत् ।
एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकम् ॥ २२।८७ ॥
उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेत् ।
अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ॥ २२।८८ ॥
वञ्जुलासनयोश्चापि चित्रवृक्षस्य च त्वचः ।
हृत्वोलूखलमध्ये च “उदुत्यऽमिति विन्यसेत् ॥ २२।८९ ॥
उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते ।
कषायं परिकल्प्यैव “ये ते शतऽमिति ब्रुवन् ॥ २२।९० ॥
वरुणोदानयोर्मध्ये कषायकलशं न्यसेत् ।
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत् ॥ २२।९१ ॥
सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करम् ।
दूर्वा च सहदेवी च पाठा साह्वयमेव च ॥ २२।९२ ॥
एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे ।
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत् ॥ २२।९३ ॥
नदीतटाककूपानां पल्वलस्य च वारिभिः ।
पृथक्सम्पूर्य कलशांश्चतुरस्तु समाहरेत् ॥ २२।९४ ॥
तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेत् ।
हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा ॥ २२।९५ ॥
पर्णागरुं च द्यामाकं कचोरं चेरुवालकम् ।
माञ्ची जातिफलैलांश्च लवङ्गं चन्दनं तथा ॥ २२।९६ ॥
कर्पूरं च बलोशीरस्थिरनारदमेव च? ।
कस्तुम्बुरुं तथान्यानि सुगन्धीनि शुचीनि च ॥ २२।९७ ॥
प्राण्यङ्गं च पुरीषं च वर्जयित्वा समाहरेत् ।
एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितम् ॥ २२।९८ ॥
सर्वगन्धमिति प्रोक्तं शरावेषु प्रपूरयेत् ।
न्यसे"त्त्रातारऽमित्येव यक्षराजेशमध्यमे ॥ २२।९९ ॥
तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च ।
नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, ॥ २२।१०० ॥
चूर्णं तु कलशे क्षिप्त्वा सम्पूर्णं कलशं चरेत् ।
पङ्क्तीशस्यैव पार्श्वेतु “सिनी वाऽलीति विन्यसेत् ॥ २२।१०१ ॥
तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववत् ।
पालाशदूर्वापामार्गनन्द्यावर्तदलानि च ॥ २२।१०२ ॥
करवीरस्य पत्राणि कुशपत्राणि चैव हि ।
मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः ॥ २२।१०३ ॥
शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववत् ।
वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतन्तुना ॥ २२।१०४ ॥
प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेत् ।
विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे ॥ २२।१०५ ॥
प्लोतपार्श्वेन्यसेत्तानि “ब्रह्मजज्ञानऽमित्यपि ।
जातिं हिङ्गुलिकं चैव अञ्जनं च मनश्शिलाम् ॥ २२।१०६ ॥
गोरोचनं च गिरिकमिति धातून्त्समाहरेत् ।
एतानि चूर्णयित्वातु शरावेषु पृथक् पृथक् ॥ २२।१०७ ॥
प्रक्षिप्य “जातवेऽदेति न्यसेत्तत्रैव पूर्ववत् ।
एकादशानुकरणे कलशांश्चैव पूरयेत् ॥ २२।१०८ ॥
अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखण्डितम् ।
वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकम् ॥ २२।१०९ ॥
एवमादीनि सङ्गृह्य सोमेशानान्तरे न्यसेत् ।
विन्यस्य कलशांश्चैव तथा चूर्णान् पृथक् पृथक् ॥ २२।११० ॥
वस्त्रैरावेष्ट्य तान्त्सर्वान् पुनःकूर्चानि निक्षिपेत् ।
उत्कूर्चं वाप्यधःकूर्चं प्रागग्रं वोदगग्रकम् ॥ २२।१११ ॥
विन्यस्य तेषु कूर्चानि शरावे रपिधाय च ।
प्रणम्य देवदेवेशं द्रव्यार्चसमथारभेत् ॥ २२।११२ ॥
ततश्चर्यापदान्तेषु जयाद्यप्सरसोर्ऽचयेत् ।
जयां च विजयां विन्दान्नन्दकां पुष्टिकामपि ॥ २२।११३ ॥
कुमुद्वतीमुत्पलकां विशोकां च समर्चयेत् ।
प्रागादिवेद्याः परितः पङ्क्तौ पङ्क्तीशमर्चयेत् ॥ २२।११४ ॥
विष्वक्सेनं ततः पश्चादिन्द्रादींश्च समर्चयेत् ।
द्रव्यदेवार्चनम्
मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः ॥ २२।११५ ॥
वायुर्वैधान्यदेवस्स्याद्गरुडा ओङ्कुरदेवता ।
मङ्गलाधिपतिश्शक्रःपञ्चगव्याधिपश्शिवः ॥ २२।११६ ॥
तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः ।
सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः ॥ २२।११७ ॥
ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः ।
यजुर्वेदो दधीशो ऽभूदुपस्ना कपर्दिनः ॥ २२।११८ ॥
क्षीरे त्वधर्ववेदश्च उपस्नाने ऽश्विनौ तथा ।
गन्धोदके षडृतवो मरुतस्तदनन्तरे ॥ २२।११९ ॥
अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः ।
सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे ॥ २२।१२० ॥
कुशोदके च मुनय उपस्नाने तु तक्षकः ।
विष्णूरत्नोदकेशस्स्याद्गन्धर्वास्तनदन्तरे ॥ २२।१२१ ॥
मन्त्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः ।
सर्वौषध्युदके भानुरुपस्नाने ऽप्सरोगणाः ॥ २२।१२२ ॥
पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनम् ।
वरुणः
कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः ॥ २२।१२३ ॥
वनौषधीशो रुद्रो ऽभूच्छिनीवाली हरिद्रके ।
उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः ॥ २२।१२४ ॥
ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरम् ।
धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन् ॥ २२।१२५ ॥
त्रयोदशोपचारैश्च मूर्तिमन्त्रैरथार्ऽचयेत् ।
उपस्नानेषु चान्येषु वरुणं च तथार्ऽचयेत् ॥ २२।१२६ ॥
आचार्य पूजयित्वातु वस्त्रैराभरणैस् तथा ।
शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः ॥ २२।१२७ ॥
ततो गुरुःप्रसन्नात्मा देवेशं सम्प्रणम्य च ।
अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः ॥ २२।१२८ ॥
विज्ञाप्य हरये सम्यक् पश्चात्कार्यं समाचरेत् ।
“रक्षस्व त्वऽमिति प्रोच्य द्रव्यदेवं प्रणम्य च ॥ २२।१२९ ॥
शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते ।
आज्ञापयेद्गुरुश्शिष्यं “हरस्वेदऽमिति ब्रुवन् ॥ २२।१३० ॥
तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेत् ।
अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः ॥ २२।१३१ ॥
प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेत् ।
ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च ॥ २२।१३२ ॥
तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणम् ।
तद्द्रव्यनाम संयोज्य तन्मन्त्रान्ते तु कारयेत् ॥ २२।१३३ ॥
“अतो देवाऽदितिमन्त्रेण देवदेवं प्रणम्य च ।
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकम् ॥ २२।१३४ ॥
एवं मन्त्रं समुच्चार्य तत्र कार्यं समाचरेत् ।
क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेत् ॥ २२।१३५ ॥
स्नपनप्रयोगः “एकाक्षरेणऽ मन्त्रेण प्रोक्ष्यं गृह्य प्रदक्षिणम् ।
कूर्चेनादाय संस्राव्य मूर्ध्निवै स्नापयेन्मृदा ॥ २२।१३६ ॥
“विश्वे निमग्नऽइत्युक्त्वापर्वतेन प्रदक्षिणम् ।
धान्येन स्नापयेच्चैव “प्राणप्रसूतिऽमुच्चरन् ॥ २२।१३७ ॥
“वितत्य बाणऽमित्युक्त्वा अङ्कुरैरेव चार्ऽचयेत् ।
“त्वं यऽज्ञेति च मन्त्रेण मङ्गलैश्च प्रदक्षिणम् ॥ २२।१३८ ॥
“वसोः पवित्रऽमित्युक्त्वा पञ्चगव्याभिषेचनम् ।
“वारीश्चतस्रऽइत्युक्त्वा सर्वोपस्नानमाचरेत् ॥ २२।१३९ ॥
“अग्न आयाहिऽ मन्त्रेण घृतेनैवाभिषे चयेत् ।
“अग्निमीलेति मन्त्रेण मधुनैवाभिषेचयेत् ॥ २२।१४० ॥
दध्माभिषेचयेत्पश्चा"दिषे त्वेऽति समुच्चरन् ।
“शन्नो देवीरऽभीत्युक्त्वा क्षीरेणैवाभिषेचयेत् ॥ २२।१४१ ॥
“अभि त्वा शूरऽइत्युक्त्वा स्नापयेद्गन्धवारिणा ।
“इमा ओषधयऽइत्युक्त्वा स्नापयेदक्षतोदकैः ॥ २२।१४२ ॥
“जपन् दऽत्वेति चोच्छार्य फलोदैश्चाभिषेचयेत् ।
“चत्वाऽरीति च मन्त्रेण कुशोदैश्चाभिषेचयेत् ॥ २२।१४३ ॥
“तत्पुरुषाऽयेति मन्त्रेण रत्नोदैश्चाभिषेचयेत् ।
“पूत स्तऽन्येति मन्त्रेण जप्योदैरभिषेचयेत् ॥ २२।१४४ ॥
“चत्वारि श्रुङ्गेत्युच्चार्य सर्यौषध्युदकैश्चरेत् ।
“धाता विधाऽतेत्युच्चार्य पुण्यपुष्पैरथार्चयेत् ॥ २२।१४५ ॥
“ऋचो यजूंषिऽ मन्त्रेण चूर्णेन स्नापयेद्गुरुः ।
“स एष देवऽ उच्चार्य उद्वर्तेत कषायकैः ॥ २२।१४६ ॥
“स सर्ववेत्ताऽमन्त्रेण तीर्थोदेश्चाभिषेचयेत् ।
“सामैश्च साङ्गऽमित्युक्त्वा मार्जयेच्च वनौषधीः ॥ २२।१४७ ॥
हारिद्रचूर्णैस्संस्नाप्य “अतो देवाऽ इति ब्रुवन् ।
“त्वं स्त्रीपुमाऽनित्युच्चार्य लेपयेत्सर्वगन्धकैः ॥ २२।१४८ ॥
स्नापयेदुष्णतोयेन “आपो हिऽष्ठेति चोच्चरन् ।
नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेत् ॥ २२।१४९ ॥
तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च ।
धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः ॥ २२।१५० ॥
“मित्रस्सुवर्णऽइत्युक्त्वा प्लोतेन परिमृज्य च ।
वस्त्राद्यैस्समलङ्कृत्य पूर्वोक्तेनैव कारयेत् ॥ २२।१५१ ॥
“त्वं भूर्भुवस्त्वंऽमन्त्रेण मूलगन्धेन मार्जयेत् ।
“बुद्धिमताऽमित्युच्चार्य चालङ्कुर्याच्च धातुभिः ॥ २२।१५२ ॥
पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणम् ।
स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाथ कारयेत् ॥ २२।१५३ ॥
अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः ।
महाहाविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ २२।१५४ ॥
निष्काधिकं सुवर्णं च सवत्सामपि गां तथा ।
गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च ॥ २२।१५५ ॥
तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणाम् ।
दद्यात्कर्मफलं प्राप्य यजमानो ऽथ भक्तिमान् ॥ २२।१५६ ॥
स्नपनायत्तमुद्दिष्टधान्यद्रव्याम्बराणि च ।
पात्राणि च तथान्यानि स्नपनान्ते धृतानि च ॥ २२।१५७ ॥
निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः ।
ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेत् ॥ २२।१५८ ॥
वितानस्तम्भवेष्टादिपूर्ववत्कारयेत्ततः ।
पञ्चहस्ताभेदेषु पङ्क्तिं कुर्याद्विधानतः ॥ २२।१५९ ॥
मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववत् ।
ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशम् ॥ २२।१६० ॥
जयादीरर्चयित्वातु मृदादीन् पूर्ववत्क्रमात् ।
तत्पात्रं सम्प्रगृह्यैव पाणिभ्यां क्षालनं चरेत् ॥ २२।१६१ ॥
अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेत् ।
द्रव्यं प्रति विशेषेण पूरयित्वार्ऽचयेत्क्रमात् ॥ २२।१६२ ॥
पाद्यं चाचमनं पुष्पं गन्धं धूपं तथैव च ।
दीपमर्घ्यं तथाचाममर्चयित्वाष्टविग्रहैः ॥ २२।१६३ ॥
देवदेवं नमस्कृत्य प्रदक्षिणमथाचरेत् ।
देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना ॥ २२।१६४ ॥
गौशृङ्गाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमात् ।
पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेत् ॥ २२।१६५ ॥
ध्रुवेणाभ्यस्तरे चैव बिम्बैरन्यैस्सहैवतु ।
पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेत् ॥ २२।१६६ ॥
यथोक्तेनैव मार्गेण यथाविधि समर्चयेत् चत्वारिंशत् ॥ २२।१६७ ॥
गव्यं श्रुतं दधि मधु क्षीरे स्याद्रत्न तोयकम् ॥ २२।१६८ ॥
जप्यं द्वादशैतान् समाहृत्य ॥ २२।१६९ ॥
न्तु उपस्नानमेकं हारिद्र मध्यमोत्तमम् ॥ २२।१७० ॥
उपस्नानवि माधमं चैव स्नपनं तु विधीयते ॥ २२।१७१ ॥
स्तथा कुर्यात्कलशैस्तु चतुर्दशैः ॥ २२।१७२ ॥
मध्यमे मध्यमं चैव मध्यमाधम विधीयते ॥ २२।१७३ ॥
सप्तभिः कलशैः मध्यमं तेषां षड्भिः कल ॥ २२।१७४ ॥
धममुच्यते चतुर्दशैः ॥ २२।१७५ ॥
गव्यं घृतं क्षीरमक्ष पस्नानं तथैव च ॥ २२।१७६ ॥
एतै दशैतान् कलस्याचेत्क्र? त ॥ २२।१७७ ॥
पूर्वोक्तेनैव कलशस्यचेत् ॥ २२।१७८ ॥
दिक्षष्ट गव्यैस्तु ऐन्द्रे घृतमि ॥ २२।१७९ ॥
म्येगन्धोदकं तथा पयो त्यां वारुण्यामक्षतोदकम् ॥ २२।१८० ॥
सौम्ये जप्योदकं क्रमात् व्यस्तुसप्तभिः कलशैः ॥ २२।१८१ ॥
चत्रिषट्योणस्थलं सप्तभिः कलशोक्तवत् ॥ २२।१८२ ॥
नवकोष्ठन्तु तत्र वै म भश्च कुशाम्भसा ॥ २२।१८३ ॥
जप्या विन्यसेत् एवमेवं येत् ॥ २२।१८४ ॥
दक्षिणायनकालेतु उत्तरायणकालेतु पश्चात् ॥ २२।१८५ ॥
ये तु सम्प्राप्ते तत्सूर्येन्दूपरागेषु स्नपनं देवदेवस्य कृत्वा त ॥ २२।१८६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वाविंशो ऽध्यायः।