अथैकविंशो ऽध्यायः
विशेषार्चनम्
अथातस्सम्प्रवक्ष्यामि विष्णुपञ्चदिनानि च ।
श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ॥ २१।१ ॥
पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै ।
पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमात् ॥ २१।२ ॥
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेत् ।
प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ॥ २१।३ ॥
समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेत् ।
मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ २१।४ ॥
प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे ।
संस्थाप्य चतुरो वेदान् क्रमेणाध्यापयेत्सदा ॥ २१।५ ॥
पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः ।
एकादशीमुपोप्यैव महापातकनाशिनीम् ॥ २१।६ ॥
ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः ।
मृण्मयानि तु भाण्डानि पुराणानि परित्यजेत् ॥ २१।७ ॥
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकम् ।
स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ॥ २१।८ ॥
आसनादिभिरभ्यर्च्य पायसं च निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं ततःपरम् ॥ २१।९ ॥
पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणम् ।
धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेत् ॥ २१।१० ॥
संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु ।
तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ॥ २१।११ ॥
पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवत् ।
अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेत् ॥ २१।१२ ॥
सो ऽपि संवत्सरफलं लभते नात्र संशयः ।
माघमासे पुनर्वस्वो राघवो ऽजायत स्वयम्, ॥ २१।१३ ॥
तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा ।
ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेत् ॥ २१।१४ ॥
तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः ।
माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ॥ २१।१५ ॥
पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि ।
हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ॥ २१।१६ ॥
पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमात् ।
प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ॥ २१।१७ ॥
मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितम् ।
गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतम् ॥ २१।१८ ॥
तस्मिन् संस्थाप्य देवेशं प्रणम्यैवानुमास्य च ।
प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ॥ २१।१९ ॥
कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेत् ।
तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ॥ २१।२० ॥
द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा ।
अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेत् ॥ २१।२१ ॥
त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः ।
स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेत् ॥ २१।२२ ॥
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ।
इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेत् ॥ २१।२३ ॥
अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा ।
पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ॥ २१।२४ ॥
आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः ।
प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववत् ॥ २१।२५ ॥
प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेत् ।
एकादशोपचारैश्च पूजयित्वा यथार्हकम् ॥ २१।२६ ॥
इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत ।
“अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ॥ २१।२७ ॥
बिम्बे देवं समारोप्य चान्यानुद्वासयेत्क्रमात् ।
यजमानो ऽथ तत्काले दद्यादाचार्यदक्षिणाम् ॥ २१।२८ ॥
विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतम् ।
वेदपारायणपरं सर्वावयवसंयुतम् ॥ २१।२९ ॥
विप्रमाहूय तत्काले देवस्य नियतो ऽग्रतः ।
ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ॥ २१।३० ॥
तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै ।
स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेत् ॥ २१।३१ ॥
देवं याने समारोप्य सर्वालङ्कारसंयुतम् ।
देवालयं परीत्यैव जीवस्थाने निवेशयेत् ॥ २१।३२ ॥
एवे यःकुरुते भक्त्या विष्णवे परमात्मने ।
सर्वान् कामानवाप्नोति वैष्णवं लोकमश्नुते ॥ २१।३३ ॥
फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनम् ।
स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेत् ॥ २१।३४ ॥
चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवम् ।
पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ॥ २१।३५ ॥
भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेत् ।
वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेत् ॥ २१।३६ ॥
देसस्य दक्षिणे पार्श्वे मालां दमनकीन्न्यसेत् ।
प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ॥ २१।३७ ॥
देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितम् ।
सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ॥ २१।३८ ॥
ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे ।
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ॥ २१।३९ ॥
वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेत् ।
ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेत् ॥ २१।४० ॥
सो ऽपि संवत्सरफलं प्राप्नुयादेव मानवः ।
अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ॥ २१।४१ ॥
श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः ।
उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ २१।४२ ॥
अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणम् ।
जयन्ती श्रावणे मासि कृष्णपक्षे ऽष्टमी शुभा ॥ २१।४३ ॥
रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः ।
तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ॥ २१।४४ ॥
चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया ।
तस्मिन् वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ॥ २१।४५ ॥
उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेत् ।
अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ॥ २१।४६ ॥
अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः ।
आदित्योदयवेलायां कलामात्राष्टमी यदि ॥ २१।४७ ॥
सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेत् ।
नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ॥ २१।४८ ॥
तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेत् ।
अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेत् ॥ २१।४९ ॥
रोहिणीसहिता कृष्णा मासि भाद्रपदे ऽष्टमी ।
अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववत् ॥ २१।५० ॥
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ।
तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ २१।५१ ॥
पञ्चमे वा त्षहे ऽवापि विधिवा चाङ्कुरार्पणम् ।
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ॥ २१।५२ ॥
बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिम् ।
तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ॥ २१।५३ ॥
पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः ।
भूमिभारापहाराय लोकेजातो जगत्पतिः ॥ २१।५४ ॥
इति सञ्चिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् ।
सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणम् ॥ २१।५५ ॥
पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते ।
तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ॥ २१।५६ ॥
तैलं हरिद्रचूर्णं च कलशान् सम्प्रपूर्य च ।
स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेत् ॥ २१।५७ ॥
तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेत् ।
नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकम् ॥ २१।५८ ॥
कुशोदकं तु सम्भृत्य कलशान् पञ्च विन्यसेत् ।
“अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमम् ॥ २१।५९ ॥
पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च ।
“हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेत् ॥ २१।६० ॥
मुखवासं च दत्वैव प्रणामं च ततश्चरेत् ।
निवेदितं तु तत् क्षीरं वन्ध्यापुत्रप्रदं भवेत् ॥ २१।६१ ॥
पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितम् ।
नीत्वा घृतं च तैलं च मुखवासयुतं तथा ॥ २१।६२ ॥
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयताम् ।
देवदेवमलङ्कृत्य भक्तानामात्तचेतसाम् ॥ २१।६३ ॥
यथा वै यजमानस्य तथा प्रियकरं भुधैः ।
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ २१।६४ ॥
ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेत् ।
आलयं सम्प्रविश्यैव कलशैस्स्नावयेद्बुधः ॥ २१।६५ ॥
आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ ।
प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ॥ २१।६६ ॥
एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरम् ।
भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितम् ॥ २१।६७ ॥
अपरे ऽथ दिने वापि कारयेदुत्सवं भुधः ।
यद्यन्मन्त्रक्रियालोपो वैष्णवैर् हूयते तथा ॥ २१।६८ ॥
एकस्मिन् वत्सरे हीने देवदेवं प्रणम्य च ।
स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ॥ २१।६९ ॥
शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेत् ।
उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ॥ २१।७० ॥
श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा ।
संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ॥ २१।७१ ॥
अस्मिन् मासे विशेषेण पवित्रारोपणं हरेः ।
सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ॥ २१।७२ ॥
मासे ऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमम् ।
त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलम् ॥ २१।७३ ॥
आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः ।
अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ॥ २१।७४ ॥
अथातः कृत्तिकादीपदानलक्षणमुच्यते ।
कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ॥ २१।७५ ॥
तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां ।
दीपारोपणमाचरेत् ॥ २१।७६ ॥
देवस्य सन्निधौ स्तम्भे देवालयसमोच्छ्रये ।
अधिके वा महादीपं महास्नेहं प्रकल्पयेत् ॥ २१।७७ ॥
त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेत् ।
वेणुं वा क्रमुकं वापि तालं वा नालिकेरकम् ॥ २१।७८ ॥
मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा ।
शताष्टदीपसंयुक्तम्मुत्तमोत्तममुच्यते ॥ २१।७९ ॥
उत्मे मध्यमं दीपं ।
शतसङ्ख्याक्रमं विदुः ।
उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ॥ २१।८० ॥
मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा ।
मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ॥ २१।८१ ॥
मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतम् ।
अधमोत्तमदीपन्तु षष्टिसङ्ख्यां वदन्तिहि ॥ २१।८२ ॥
द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे ।
अधमाधममेवेदं चत्वारिंशत्प्रदीपकम् ॥ २१।८३ ॥
अशक्तानां यथाशक्ति दीपं तत्रैव योजयेत् ।
दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ॥ २१।८४ ॥
भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते ।
“पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतम् ॥ २१।८५ ॥
तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणम् ।
विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ॥ २१।८६ ॥
गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेत् ।
तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितम् ॥ २१।८७ ॥
तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकम् ।
एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ॥ २१।८८ ॥
सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेत् ।
पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलम् ॥ २१।८९ ॥
दलेष्वभ्यर्च्य च वसून् मध्ये धर्मं समर्चयेत् ।
आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरम् ॥ २१।९० ॥
आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलम् ।
सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ॥ २१।९१ ॥
शरावं प्रस्थसम्पूर्णं समाहृत्य विचक्षणः ।
किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितम् ॥ २१।९२ ॥
गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे ।
आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ॥ २१।९३ ॥
“श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेत् ।
प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेत् ॥ २१।९४ ॥
एकादशोपचारैश्च पूजयित्वा समाहितः ।
श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ॥ २१।९५ ॥
दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः ।
दीपानन्यान्त्समादाय तो यधारासमन्वितम् ॥ २१।९६ ॥
गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितम् ।
प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेत् ॥ २१।९७ ॥
देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः ।
देवदेवं समानीय मण्डले स्थाप्य चात्वरः ॥ २१।९८ ॥
कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः ।
“श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ॥ २१।९९ ॥
गर्भगेहेच सोपाने प्रासादे मुखमण्डपे ।
प्रासादशिखरे वापिग्रीवायां चरणे ऽपि च ॥ २१।१०० ॥
प्राकारेषु च सर्वत्र तथैव स्नपनालये ।
पुष्पसञ्चयदेशे च द्वारे चास्थानमण्डपे ॥ २१।१०१ ॥
अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमात् ।
कार्पासतूलं सम्बद्ध्य शरावेषुघृतेन वै ॥ २१।१०२ ॥
पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेत् ।
नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ॥ २१।१०३ ॥
तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे ।
अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ॥ २१।१०४ ॥
“शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रे ऽन्यांश्च निक्षिपेत् ।
निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ॥ २१।१०५ ॥
भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः ।
ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ॥ २१।१०६ ॥
पुनर्देवं समादाय जीवस्थाने निवेशयेत् ।
सो ऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदम् ॥ २१।१०७ ॥
ग्रहणाराधनम्
अथातस्सम्प्रवक्ष्यामि सूर्यसोमोपरागयोः ।
अर्चनादिविधिं सम्यक् देवदेवस्य शार्ङ्गिणः ॥ २१।१०८ ॥
सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे ।
नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ॥ २१।१०९ ॥
आलये तु हरेः पूजां न त्यजन्ति महर्षयः ।
हविर्निवेदनं हित्वापूजां सर्वां समाचरेत् ॥ २१।११० ॥
ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमम् ।
कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ॥ २१।१११ ॥
ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परे ऽहनि ।
तथा ग्रस्तोदये कुर्यादिति शातातपो ऽब्रवीत् ॥ २१।११२ ॥
सर्वधा वरमाने तु ग्रहणेस्नपनं चरेत् ।
ग्रहणं सङ्क्रमो हस्तिच्छाया च विषुवादिकम् ॥ २१।११३ ॥
युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः ।
निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ॥ २१।११४ ॥
नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेत् ।
स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ॥ २१।११५ ॥
वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः ।
पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेत् ॥ २१।११६ ॥
कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते ।
अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ॥ २१।११७ ॥
अदृश्यमुपरागन्तु नोपरागं प्रचक्षते ।
दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ॥ २१।११८ ॥
यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिम् ।
मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ॥ २१।११९ ॥
सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् ।
ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ॥ २१।१२० ॥
दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे ।
तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयम् ॥ २१।१२१ ॥
प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरम् ।
रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृत् ॥ २१।१२२ ॥
दूषिते तूक्तकाले तु तस्यापगम एव च ।
विपरीते महान् दोष इति शास्त्रविदो विदुः ॥ २१।१२३ ॥
न निशीथात्परं श्राद्धमापत्स्वपि विधीयते ।
स्नानमाशौचिनां नित्यं ते ऽपि दानं च कुर्व ॥ २१।१२४ ॥
न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः ।
यदा राश्यन्तरं राशेः काले सङ्क्रमते रविः ॥ २१।१२५ ॥
तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेत् ।
कटकेविंशतिः पूर्वं मकरे विंशतिः परे ॥ २१।१२६ ॥
पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेत् ।
यदास्तमयवेलायां सन्ध्यायां सङ्क्रमोरवेः ॥ २१।१२७ ॥
पूर्वे ऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः ।
अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ॥ २१।१२८ ॥
पाश्चात्यपूर्वघटीकास्तिस्रस्सन्ध्या प्रकीर्तिताः ।
उपरागे ऽपि कुर्याद्वै उत्सवे ऽवभृथं हरेः ॥ २१।१२९ ॥
विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे ।
त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ॥ २१।१३० ॥
पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न ।
अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहम् ॥ २१।१३१ ॥
ग्रहणे ऽपि भवेद्दीपमविद्धा पूर्णिमा न चेत् ।
अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनम् ॥ २१।१३२ ॥
मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा ।
अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ॥ २१।१३३ ॥
काम्ये तु
सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्।
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकविंशो ऽध्यायः।