अथ विंशो ऽध्यायः।
अथ विंशो ऽध्यायः।
रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमम् ।
सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः ॥ २०।१ ॥
द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः ।
अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेत् ॥ २०।२ ॥
अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा ।
केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतम् ॥ २०।३ ॥
तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलम् ।
द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतम् ॥ २०।४ ॥
तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च ।
अलभेशालिपिष्टं वा गोमये वा समाहरेत् ॥ २०।५ ॥
तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः ।
आढकं वा तदर्धं वा पिण्डार्धं च चरुम्पचेत् ॥ २०।६ ॥
हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रवित् ।
आज्येन स्राव्य सम्मृज्य मुष्टिमात्रं दृढीकृतम् ॥ २०।७ ॥
दशपिण्डां स्तदर्धं वा साक्षते च समाहरेत् ।
जलेन कुम्भमापूर्य सर्वगन्धसमायुतम् ॥ २०।८ ॥
कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेत् ।
अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतम् ॥ २०।९ ॥
पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतम् ।
पृधक्पात्रे समाहृत्य देवदेवं च पूजयेत् ॥ २०।१० ॥
शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतम् ।
भेरीमृदङ्गसुषिरवाद्यघोषसमायुतम् ॥ २०।११ ॥
स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितम् ।
दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेत् ॥ २०।१२ ॥
प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेत् ।
आचार्यं पूजयित्वातु देवदेवं प्रणम्यच ॥ २०।१३ ॥
रक्षादीपं समादाय “श्रिये जातऽ इति ब्रुवन् ।
बिम्बमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेत् ॥ २०।१४ ॥
दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रवित् ।
प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः, ॥ २०।१५ ॥
पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेत् ।
मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः ॥ २०।१६ ॥
समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः ।
पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः ॥ २०।१७ ॥
आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेत् ।
कौतुके बलिबेरेपि स्नापने प्यौत्सवे ऽपि च, ॥ २०।१८ ॥
प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च ।
एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ॥ २०।१९ ॥
चक्रवीशामितादीनामिन्द्रादीनां तथैव च ।
दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः ॥ २०।२० ॥
मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति ।
सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः ॥ २०।२१ ॥
एवमेव विधानेन कारयेदुत्तमं विदुः ।
सर्वशान्तिकरं चापि सर्वकम्पत्समृद्धिदम् ॥ २०।२२ ॥
दारिद्षादिविनाशेन सर्वान् कामनवाप्नुयात् ।
अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणम् ॥ २०।२३ ॥
मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः ।
आवृतं तदर्धविस्तारमुत्तमं तुविधीयते ॥ २०।२४ ॥
तत् षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितम् ।
विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेत् ॥ २०।२५ ॥
उत्तमाधममध्यानां शिबिकाविस्तरो भवेत् ।
त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकम् ॥ २०।२६ ॥
पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेत् ।
तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेत् ॥ २०।२७ ॥
शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः ।
शिबिकाविस्तृतं चैवं भागैकं भागमेव च ॥ २०।२८ ॥
तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते ।
द्वितलं त्रितलं चैव गुलिकाफलकाभवेत् ॥ २०।२९ ॥
गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समम् ।
चतुर्भागैकमेवन्तु नवभागैकमेव वा ॥ २०।३० ॥
अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतम् ।
अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमम् ॥ २०।३१ ॥
पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा ।
विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेत् ॥ २०।३२ ॥
मण्डपद्वारयुक्तं वा कूटाकारमथापि वा ।
अधराधरमायामं रथायामत्रयं भवेत् ॥ २०।३३ ॥
छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः ।
एवं तु परिकल्प्यैव शिबिकायाममुच्यते ॥ २०।३४ ॥
रथायामसमं वापि पादहीनमथार्थकम् ।
विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेत् ॥ २०।३५ ॥
विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतम् ।
शयनं सम्प्रकल्प्यैव पूर्वोक्तेनैव दारुणा ॥ २०।३६ ॥
सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतम् ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः ॥ २०।३७ ॥
पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयताम् ।
पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत् ततः ॥ २०।३८ ॥
मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेत् ।
नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेत् ॥ २०।३९ ॥
जौपासनाग्निकुण्डं च कारयित्वा विधानतः ।
आघारं पूर्ववत्कृत्वा कुम्भपूजां समाचरेत् ॥ २०।४० ॥
वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः ।
व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते ॥ २०।४१ ॥
यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च ।
आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च ॥ २०।४२ ॥
पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेत् ।
सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम् ॥ २०।४३ ॥
यानादिषु समारोप्य “प्रतद्विष्णुऽरिति ब्रुवन् ।
ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेत् ॥ २०।४४ ॥
मन्दिरं सम्प्रविश्यैव स्वेस्वेस्थाने निवेशयेत् ।
एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयात् ॥ २०।४५ ॥
अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणम् ।
मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतम् ॥ २०।४६ ॥
अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेत् ।
प्रमुखे तस्यसोपानमालयार्धमिति स्मृतम् ॥ २०।४७ ॥
पूर्वेतु स्नपनार्थाय मण्डपं सम्प्रकल्पयेत् ।
षोडशस्तम्भयुक्तं वा द्वादशस्तम्भसंयुतम् ॥ २०।४८ ॥
ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेत् ।
प्रथमावरणे वाथ द्वितीयावरणे ऽथ वा ॥ २०।४९ ॥
एकादशेन हस्तेन समं सम्यक् प्रकल्पयेत् ।
नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा ॥ २०।५० ॥
प्रथमावरणे बाह्ये मण्डपन्तु विधीयते ।
आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेत् ॥ २०।५१ ॥
पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरम् ।
यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेत् ॥ २०।५२ ॥
पूर्ववत् स्तम्भसंयुक्तं यथायोग्यं प्रकल्पयेत् ।
तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते ॥ २०।५३ ॥
विष्कम्भं नवहस्तं वा आयामं द्विगुणीकृतम् ।
यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेत् ॥ २०।५४ ॥
अयादिलक्षणं वक्ष्ये यजमानानुकूलतः ।
हस्तं पादं तदर्धं वा विस्तारायादिसंयुतम् ॥ २०।५५ ॥
तथैव नूनं कृत्वा तु अयादीन् लक्षयेद्बुधः ।
शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलम् ॥ २०।५६ ॥
द्वितलं वा प्रकुर्वीत तालं सम्यक् प्रकल्पयेत् ।
शैलजं दारुसारं वा स्तम्भमाहृत्य यत्नतः ॥ २०।५७ ॥
वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितम् ।
स्तम्भानां विंशतिं गृह्य बाह्यस्तम्भं प्रगृह्य च ॥ २०।५८ ॥
तन्मध्ये द्वादशस्तम्भं पूर्ववत्कारयेद्बुधः ।
स्तम्भायामं यथायोगं कृत्वा तत्र विचक्षणः ॥ २०।५९ ॥
द्वितालघन संयुक्तं स्तम्भमानेन स्वस्तिकम् ।
स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेत् ॥ २०।६० ॥
तस्यामेव तु स्तम्भार्थं पादं संस्थाप्य स्वस्तिकम् ।
दृढं कृत्वा तदूर्ध्वेत स्तम्भं संस्थाप्य वै बुधः ॥ २०।६१ ॥
द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः ।
नानालङ्कारसंयुक्तं नानाचित्रसमन्वितम् ॥ २०।६२ ॥
उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेत् ।
स्तम्भादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेत् ॥ २०।६३ ॥
अभ्लन्तरोत्तरादूर्ध्वे ऽबिष्टकाधानपादयोः ।
बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमात् ॥ २०।६४ ॥
तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयम् ।
एवं लक्षणसंयुक्तं दर्शनीयं च कारयेत् ॥ २०।६५ ॥
यजमानेच्छयातत्तन्मण्डपेन सहैव तु ।
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेववा ॥ २०।६६ ॥
भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेत् ।
अपरे द्वारसंयुक्तं पूर्ववत् स्तम्भमेव वा ॥ २०।६७ ॥
कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेत् ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः ॥ २०।६८ ॥
मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमात् ।
शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेत् ॥ २०।६९ ॥
ब्राह्मणान् भोजयेत्पश्चात्तद्देशमुपलक्षयेत् ।
चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च ॥ २०।७० ॥
मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेत् ।
प्रतिष्ठोक्तक्रमेणैव कुम्भन्यासाति कारयेत् ॥ २०।७१ ॥
पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमात् ।
होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेत् ॥ २०।७२ ॥
तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेत् ।
श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः ॥ २०।७३ ॥
इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमात् ।
तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेत् ॥ २०।७४ ॥
प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा ।
आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमात् ॥ २०।७५ ॥
सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः ।
पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः ॥ २०।७६ ॥
देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः ।
प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेत् ॥ २०।७७ ॥
देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमात् ।
महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ २०।७८ ॥
एवं यः कुरुते भक्त्या विष्णुलोके महीयते
इति श्रीवैखानसे भगवच्छास्त्रे
भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे
विंशो ऽध्यायः।