अथैकोनविंशो ऽध्यायः।
अथैकोनविंशो ऽध्यायः।
भगवदर्चनम्
अत ऊर्ध्वं ध्रुवार्चायाम् अर्चनं सम्प्रवक्ष्यते ।
मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत् ॥ १९।१ ॥
योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेत् ।
प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनम् ॥ १९।२ ॥
भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि ।
त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः ॥ १९।३ ॥
वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत् ।
शिवादीनर्चयित्वातु पादपीठे समन्ततः ॥ १९।४ ॥
तथासनाद्यैस्सर्वैश्च त्रिसन्ध्यं चार्चयेद्बुधः ।
अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत् ॥ १९।५ ॥
हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववत् ।
आवाहनविसर्गौ तुन कुर्यादिति शासनम् ॥ १९।६ ॥
अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणाम् ।
सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेत् ॥ १९।७ ॥
अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते ।
त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत् ॥ १९।८ ॥
अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरम् ।
विस्तारेण समाख्यातं तयोर्मध्यममध्यमम् ॥ १९।९ ॥
तस्य मध्ये त्रिभागैकं कर्णिकाङ्गुलमुच्छ्रयम् ।
परेतो ऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः ॥ १९।१० ॥
द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकम् ।
किञ्चित्फलाम्बुजाकारमग्रं कुर्याद्विचक्षणः ॥ १९।११ ॥
द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत् ।
अभिघार्य घृतेनैव अष्टाङ्गुलसमुन्नतम् ॥ १९।१२ ॥
दशाङ्गुलं वा उत्सेधं द्वादशाङ्गुलमेववा ।
तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च ॥ १९।१३ ॥
कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः ।
“परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि ॥ १९।१४ ॥
भक्तवत्सलं योगेशम्ऽ चतुर्मूर्तिभिरर्चयेत् ।
प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा ॥ १९।१५ ॥
साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितम् ।
तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा ॥ १९।१६ ॥
श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलम् ।
शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकम् ॥ १९।१७ ॥
शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै ।
“उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेत् ॥ १९।१८ ॥
प्रदक्षिणं ततः कुर्यात्कुर् याच्छब्दरवैर्युतम् ।
वितानछत्रसंयुक्तं पिञ्छचामरसंयुतम् ॥ १९।१९ ॥
धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणम् ।
प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः ॥ १९।२० ॥
भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः ।
कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत् ॥ १९।२१ ॥
बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेत् ।
तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत् ॥ १९।२२ ॥
उत्सवं कर्तुकामश्चेत्त्रिसन्धिष्वेवमुत्तमम् ।
सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत् ॥ १९।२३ ॥
बलिं च बलिबेरं वा कारयेदिति के च न ।
बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतम् ॥ १९।२४ ॥
महाबेरस्य हस्तेन चैकविंशतिकाङ्गुलम् ।
सप्तदशाङ्गुलं विद्याद्द्वादशाङ्गुलमेव वा ॥ १९।२५ ॥
श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेत् ।
अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेत् ॥ १९।२६ ॥
तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् ।
मध्यमस्य दशांशेन त्वेकोनमधमं भवेत् ॥ १९।२७ ॥
महतो मूलबेरस्य मुखायामं प्रशस्यते ।
बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत् ॥ १९।२८ ॥
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः ।
रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते ॥ १९।२९ ॥
उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकम् ।
केशान्तार्चा समं भागं सङ्गमात्पुटसूत्रकम् ॥ १९।३० ॥
पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः ।
गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते ॥ १९।३१ ॥
हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेत् ।
हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समम् ॥ १९।३२ ॥
ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते ।
चरणं जानुमानं च कालायपुरतो परम्? ॥ १९।३३ ॥
हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकम् ।
प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत् ॥ १९।३४ ॥
मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते ।
चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतम् ॥ १९।३५ ॥
॥॥॥॥।वकुर्यात्पद्माकारं तु गोलकम् ।
अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः ॥ १९।३६ ॥
पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेत् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ १९।३७ ॥
निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः ।
अवदत्वा? घृतं यत्तु कल्याणमशुभायवै ॥ १९।३८ ॥
अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस् तथा ।
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यत् ।
शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेत् ॥ १९।४० ॥
तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयम् ।
प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयम् ॥ १९।४१ ॥
अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयम् ।
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत् ॥ १९।४२ ॥
चतुराढकसंयुक्तं द्रोणमित्यभिधीयते ।
द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत् ॥ १९।४३ ॥
द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते ।
तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेत् ॥ १९।४४ ॥
उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः ।
अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः ॥ १९।४५ ॥
तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते ।
षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमम् ॥ १९।४६ ॥
द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते ।
मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः ॥ १९।४७ ॥
द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमम् ।
मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः ॥ १९।४८ ॥
द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमम् ।
तस्य मध्यममित्युक्तमाढकद्वय सम्मितम् ॥ १९।४९ ॥
आढकेन तु संयुक्त मधसूधममुच्यते ।
तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत् ॥ १९।५० ॥
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत् ॥ १९।५१ ॥
गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा ।
प्रक्षाल्य तण्डुलान् सम्यक् निष्बीड्य च पुनःपुनः ॥ १९।५२ ॥
चतुः प्रक्षालनं कृत्वा “प्रजास्थाऽलीति मन्त्रतः ।
“ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ॥ १९।५३ ॥
छुल्ल्यामारोपयेत्पश्चा “द्विष्णवे जुष्टऽमित्यपि ।
“वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत् ॥ १९।५४ ॥
धूमगन्धरसं स्विन्नमतिपक्वं च शीतलम् ।
केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा ॥ १९।५५ ॥
मुद्गं चैव महामुद्गं कूटस्थं राजमाषकम् ।
कदली पनसं चैव कूश्माण्डं बृहती तथा ॥ १९।५६ ॥
कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः ।
गुडं दधि समायुक्तमाज्ययुक्तं॥॥॥॥। ॥ १९।५७ ॥
हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेत् ।
अधस्तादेकभागेन होमार्थं बलये तथा ॥ १९।५८ ॥
यदंशं पात्रसंशिष्टं पूजायैव च निर्मितम् ।
सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ॥ १९।५९ ॥
अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः ।
तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः ॥ १९।६० ॥
द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयम् ।
अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत् ॥ १९।६१ ॥
प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च ।
अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितम् ॥ १९।६२ ॥
हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः ।
पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा ॥ १९।६३ ॥
हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतम् ।
ताम्बूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि ॥ १९।६४ ॥
दपन्णं च प्रदातव्यं ध्रुवानससमं भवेत् ।
आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितम् ॥ १९।६५ ॥
कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितम् ।
गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितम् ॥ १९।६६ ॥
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् ।
अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितम् ॥ १९।६७ ॥
उत्तमं त्रिगुणैर् अद्भिस्सानं चाथममुच्यते ।
अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेत् ॥ १९।६८ ॥
उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते ।
एलालवङ्गतक्कोलजातीफलसमन्वितम् ॥ १९।६९ ॥
आप आचमनीयार्थमुशीरामयचन्दनैः ।
आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः ॥ १९।७० ॥
तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते ।
चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते, ॥ १९।७१ ॥
एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयम् ।
उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतम् ॥ १९।७२ ॥
किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः ।
गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते ॥ १९।७३ ॥
चतुरङ्गुलमायामं राजसं दीपमेव हि ।
दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते ॥ १९।७४ ॥
अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितम् ।
कापिलेन गृतेनापि कृतं कर्बूरवर्तिकम् ॥ १९।७५ ॥
दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा ॥ १९।७६ ॥
वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते ।
तामसं वापि पैशाचमयोग्यं दीपमुच्यते ॥ १९।७७ ॥
क्षौमं कार्पासजं वस्त्रं वक्षभेदाङ्गसम्भवम् ।
दशहस्तायतं चैव विस्तारं तु द्विहस्तकम् ॥ १९।७८ ॥
मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते ।
बेरायामार्धमानेन वस्त्रविस्तार मुच्यते ॥ १९।७९ ॥
विस्ताराष्टगुणायामं सदशं तु सलक्षणम् ।
मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतम् ॥ १९।८० ॥
अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा ।
पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा ॥ १९।८१ ॥
अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा ।
एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते ॥ १९।८२ ॥
षट्तानं छत्रविस्तारमुत्तमं समुदाहृतम् ।
मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमम् ॥ १९।८३ ॥
मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा ।
वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा ॥ १९।८४ ॥
छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवत् ।
सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकम् ॥ १९।८५ ॥
मुकुटं कुण्डलं चैव हारं कैयूरकं तथा ।
कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे ॥ १९।८६ ॥
कुर्यादुदरबन्धं च रत्नहारं च मेखलाम् ।
हारं च कर्णपुष्पं च प्रतिमाया यथार्हकम् ॥ १९।८७ ॥
चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः ।
दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकम् ॥ १९।८८ ॥
हेमरत्नमयं दण्डं तारताम्रमयं तथा ।
अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेत् ॥ १९।८९ ॥
एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते ।
क्षौमकार्पाससंयुक्तं द्वारमानन्तु कारयेत् ॥ १९।९० ॥
अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमम् ।
सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः ॥ १९।९१ ॥
उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशाङ्गुलम् ।
अष्टाङ्गुलं तदधमं यथाशक्ति च कारयेत् ॥ १९।९२ ॥
एतैरङ्गुलिभिस्सम्यक् भ्रमीकृत्य च चन्द्रवत् ।
भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः ॥ १९।९३ ॥
सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतम् ।
कर्णि कायामविस्तारं गोलकं तु यवोन्नतम् ॥ १९।९४ ॥
मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेत् ।
कर्णिकामभितः कुर्याद्दलान्यष्ट सुसङ्गतम् ॥ १९।९५ ॥
परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः ।
चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेत् ॥ १९।९६ ॥
दले यवद्वयघनं रेखामपि च कारयेत् ।
सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेत् ॥ १९।९७ ॥
षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतम् ।
मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतम् ॥ १९।९८ ॥
पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ ।
शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, ॥ १९।९९ ॥
सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेत् ।
प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेत् ॥ १९।१०० ॥
देवालयस्य पुरितो गोमयेनोपलिप्य च ।
थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेत् ॥ १९।१०१ ॥
उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववत् ।
आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः, ॥ १९।१०२ ॥
तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा ।
शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेत् ॥ १९।१०३ ॥
पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः ।
बिम्बशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च ॥ १९।१०४ ॥
देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेत् ।
एवं वै कृतपात्राणि देवार्थं च प्रदापयेत् ॥ १९।१०५ ॥
तस्य कायकृतं पापं तत् क्षणादेव नश्यति ।
सर्वदोषोपशमनं विष्णुभक्तिविवर्धनम् ॥ १९।१०६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकानविंशो ऽध्यायः।