१८

अथाष्टादशो ऽध्यायः।
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमम् ।
“प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ॥ १८।१ ॥
यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा ।
तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ॥ १८।२ ॥
अस्माभिस्तु सुसङ्क्षिप्तं चातुर्लक्षप्रमाणतः ।
तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ॥ १८।३ ॥
वैखानसेन सूत्रेण निषेकादि क्रियान्वितः ।
ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ॥ १८।४ ॥
गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेत् ।
द्रव्यैरनेकैस्सम्पाद्यं तथानन्तोपचारकैः ॥ १८।५ ॥
आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ।
मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ॥ १८।६ ॥
यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः ।
बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ॥ १८।७ ॥
निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः ।
तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ॥ १८।८ ॥
उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः ।
अशीतिः परिचाराणामुत्तमे मध्यमं ततः ॥ १८।९ ॥
परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः ।
उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ॥ १८।१० ॥
पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः ।
चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ॥ १८।११ ॥
मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः ।
पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ॥ १८।१२ ॥
चत्वारः पूजकास्तत्र परिचारास्तु षोडश ।
त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ॥ १८।१३ ॥
पूजकौ द्वौपरिचराश्चत्वारो ऽधममध्यमे ।
एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ॥ १८।१४ ॥
आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः ।
अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेत् ॥ १८।१५ ॥
स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः ।
अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ॥ १८।१६ ॥
उपचाराननन्तांश्च विधिना शास्त्रचोदितान् ।
अर्चकस्य सहायन्तु किङ्करः परिचारकः ॥ १८।१७ ॥
बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः ।
सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ॥ १८।१८ ॥
दीपोद्दीपयिता चौव पोत्रशोधनकारकः ।
पानीय वाहकश्चैव पुष्पापचयकारकः ॥ १८।१९ ॥
धूपदीपादिकर्ता च गन्धपेषणतत्परः ।
तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ॥ १८।२० ॥
एवमादीनि कार्याणि कुर्वन्ति परिचारकाः ।
पाचकः परिचारस्स्यात्पचनालयसङ्गतः ॥ १८।२१ ॥
हविष्पाकविधानज्ञश्शौचाचारपरायणः ।
एतान्वैखानसानेव वृणेत्सर्वान् पदार्थिनः ॥ १८।२२ ॥
अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः ।
वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ॥ १८।२३ ॥
अवैखानस विप्रस्तु पूजयेदालये हरिम् ।
स वै देवलको नाम सर्व कर्मबहिष्कृतः ॥ १८।२४ ॥
परिचारान्न्तु वृणुयादलाभे त्वन्यसूत्रिणः ।
दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ॥ १८।२५ ॥
यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः ।
धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ॥ १८।२६ ॥
शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः ।
देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ॥ १८।२७ ॥
तथान्यविभवार्थं च दापयेद्धनसञ्चयम् ।
आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ॥ १८।२८ ॥
परिचारे प्रसन्नश्च किङ्करेषु दयापरः ।
तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ॥ १८।२९ ॥
इति लक्षणसम्पन्नाः प्रभवन्त्यालयार्चने ।
अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ॥ १८।३० ॥
ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेत् ।
कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ॥ १८।३१ ॥
स्नात्वा स्नानविधानेन धृत्वा धौताम्बरे पुनः ।
ऊर्ध्वपुण्ड्राणि सन्धार्य विधिना केशवादिभिः ॥ १८।३२ ॥
धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः ।
धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ॥ १८।३३ ॥
उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः ।
समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ॥ १८।३४ ॥
अरुणं तु जपित्वैव नारायणमतः परम् ।
प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ॥ १८।३५ ॥
बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः ।
सङ्गतः परिचारैश्च यजमानेन सादरम् ॥ १८।३६ ॥
सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः ।
क्रममाणश्शनैर्विद्वान् देवागारं प्रति व्रजेत् ॥ १८।३७ ॥
“प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमात् ।
युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ॥ १८।३८ ॥
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम् ।
आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ॥ १८।३९ ॥
प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकम् ।
छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ॥ १८।४० ॥
देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् ।
द्वारदेवान् प्रणम्याथ निरस्तं रक्षमस्त्रतः ॥ १८।४१ ॥
गृहीत्वा यन्त्रिकां चैव “हिरण्यपाणिऽ मुच्चरन् ।
कवाटे तु सुसंयोज्य “दिवम्ऽ वीति समुच्चरन् ॥ १८।४२ ॥
कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः ।
“अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ॥ १८।४३ ॥
परिचारकमाहूय दीपानुद्दीपयेत्क्रमात् ।
प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेत् ॥ १८।४४ ॥
त्रिस्सम्प्रहार्य पाणिभ्यां “शाम्यन्त्विऽत्यादि चोच्चरन् ।
आदर्शं गाश्च कन्याश्च हस्त्यश्वादीन् शुभोदयान् ॥ १८।४५ ॥
ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् ।
देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ॥ १८।४६ ॥
प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा ।
सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ॥ १८।४७ ॥
धारोष्णं चैव गोक्षीरं नवनीतं सशर्करम् ।
देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ॥ १८।४८ ॥
“भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः ।
“परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिम् ॥ १८।४९ ॥
“भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेत् ।
तस्मिन् कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमम् ॥ १८।५० ॥
तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि ।
ततश्शिष्यं समाहूय विनयान्वितमादरात् ॥ १८।५१ ॥
सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेत् ।
“अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ॥ १८।५२ ॥
मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै ।
पांस्वादीन् परिहृत्यापि प्राकारान्तं च सर्वशः ॥ १८।५३ ॥
“आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेत् ।
पञ्चगव्यैस्तु सम्प्रोक्ष्य रङ्गवल्लीस्समाचरेत् ॥ १८।५४ ॥
“आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः ।
सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ॥ १८।५५ ॥
तो यसङ्ग्रहणार्थं तु नियुक्तः पूजकेन तु ।
घटमादाय शिष्यस्तु “दुहतां दिवऽमुच्चरन् ॥ १८।५६ ॥
नदीतटाककूपानां पूर्वालाभे परं व्रजेत् ।
उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीम् ॥ १८।५७ ॥
“आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा ।
गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन् पुनः ॥ १८।५८ ॥
अलङ्कृत्यघटं सम्यक् क्षौमेनाच्छाद्य तन्मुखम् ।
गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतम् ॥ १८।५९ ॥
पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणम् ।
सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ॥ १८।६० ॥
विन्यसेच्च ततः कुम्भं त्रिपादोपरि शोभिते ।
एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ॥ १८।६१ ॥
दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः ।
पूर्णकुम्भे तु निक्षिप्यतोयं तदधिवासयेत् ॥ १८।६२ ॥
अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः ।
अभिमृश्य ततः कुम्भ “मिदमापश्शिवाऽइति ॥ १८।६३ ॥
सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा ।
“शुचि वो हव्यऽमन्त्रेण सम्भारान् प्रोक्षयेत्क्रमात् ॥ १८।६४ ॥
शोधयित्वातु निर्माल्यं “नश्यस्तु जगताऽमिति ।
“अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेत् ॥ १८।६५ ॥
“पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेत् ।
ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ॥ १८।६६ ॥
पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च ।
देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ॥ १८।६७ ॥
अन्यन्निर्माल्यमादाय शुचिस्थाने ऽप्सु वा क्षिवेत् ।
पूजनार्थांश्च सम्भारान् यथाशक्ति सुसम्भरेत् ॥ १८।६८ ॥
ततस्समाहितो भूत्वासम्भारार्चनमारभेत् ।
तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ॥ १८।६९ ॥
स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृते ऽपि च ।
पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ॥ १८।७० ॥
शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमात् ।
त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ॥ १८।७१ ॥
“अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् ।
कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ॥ १८।७२ ॥
उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा ।
निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेत् ॥ १८।७३ ॥
वारिकुम्भमुखे ब्रह्मा तदधो रुद्र ईरितः ।
वरुणस्तु जले ध्येयस्तथै वावाहनं चरेत् ॥ १८।७४ ॥
त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने ।
वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ॥ १८।७५ ॥
आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेत् ।
कर्पूरोशीरकं चैव गन्धानेलालवङ्गकम् ॥ १८।७६ ॥
स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेत् ।
विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ॥ १८।७७ ॥
प्राद्यद्रव्याणिसम्पाद्य पाद्यपात्रे तु निक्षिपेत् ।
कुशाक्षततिलव्रीहियवमाषांस्तथैव च ॥ १८।७८ ॥
प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेत् ।
एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ॥ १८।७९ ॥
क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमात् ।
पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ॥ १८।८० ॥
अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेत् ।
“धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेत् ॥ १८।८१ ॥
“इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च ।
पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेत् ॥ १८।८२ ॥
विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेत् ।
घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेत् ॥ १८।८३ ॥
तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत्
ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेत् ॥ १८।८४ ॥
नाले चैव महादेवमिति घण्टाधिदेवताः ।
त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ॥ १८।८५ ॥
वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा ।
धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेत् ॥ १८।८६ ॥
उद्धरिण्यां च पानीयपात्रे सोममथार्चयेत् ।
आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ॥ १८।८७ ॥
अम्बरे सूर्यमावाह्य चोत्तरीये निशाकरम् ।
भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरम् ॥ १८।८८ ॥
पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीम् ।
अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेत् ॥ १८।८९ ॥
दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेत् ।
उपधाने तथाछत्रे पादुके शेषमर्चयेत् ॥ १८।९० ॥
यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेत् ।
कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ॥ १८।९१ ॥
तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः ।
क्षीरे ऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ॥ १८।९२ ॥
मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरम् ।
हविष्णु पद्मगर्भं च पानपात्रे निशाकरम् ॥ १८।९३ ॥
उपहारादिपात्रेषु दिवाकरमथार्चयेत् ।
ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेत् ॥ १८।९४ ॥
गायके सामवेदं च नन्दीशं वादकेर्ऽचयेत् ।
पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ॥ १८।९५ ॥
गरुडं परिचारेषु समावाह्य ततः क्रमात् ।
अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेत् ॥ १८।९६ ॥
तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः ।
तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेत् ॥ १८।९७ ॥
तत्तत्कर्मसु काले वै यथार्हमुपयोजयेत् ।
तत्काले प्यथ वावाह्यतस्मिन् कर्मणि योजयेत् ॥ १८।९८ ॥
ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनम् ।
देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ॥ १८।९९ ॥
बिम्बार्हं संस्थितो वापि समासीनो ऽथ वा पुनः ।
ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलम्पराम् ॥ १८।१०० ॥
योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेत् ।
भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेत् ॥ १८।१०१ ॥
अकारादिक्षकारान्तमक्षराणि यथाविधि ।
सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेत् ॥ १८।१०२ ॥
“ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेत् ।
“द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेत् ॥ १८।१०३ ॥
“शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा ।
“देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ॥ १८।१०४ ॥
“नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेत् ।
“सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनम् ॥ १८।१०५ ॥
“रविपाऽमिति वामे च शङ्खं च बिभृयात्करे ।
“सूर्योसि च द्रो ऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ॥ १८।१०६ ॥
सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः ।
“अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ॥ १८।१०७ ॥
अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेत् ।
“अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेत् ॥ १८।१०८ ॥
प्राणानायम्य सङ्कल्प्य तिथिवारादिकीर्तयेत् ।
ततो मन्त्रासनं विद्वान् सङ्कल्प्य च यथाविधि ॥ १८।१०९ ॥
“प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि ।
पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेत् ॥ १८।११० ॥
“विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेत् ।
“मनो ऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ॥ १८।१११ ॥
“त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये ।
“आमावाजस्यऽमन्त्रेण स्पृश्यमघन्न्य् प्रदाय च ॥ १८।११२ ॥
देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते ।
“शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकम् ॥ १८।११३ ॥
“देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः ।
अन्नाद्याय समुच्चार्य दन्तधावनमाचरेत् ॥ १८।११४ ॥
हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलम् ।
जौदुम्बरं वा सम्पाद्य यथालाभं समाचरेत् ॥ १८।११५ ॥
“इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेत् ।
“यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ॥ १८।११६ ॥
“शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः ।
“विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेत् ॥ १८।११७ ॥
पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा ।
ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादरात् ॥ १८।११८ ॥
केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः ।
“उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेत् ॥ १८।११९ ॥
“भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिम् ।
“पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकम् ॥ १८।१२० ॥
स्वस्तिसूक्तं ततो जप्त्वा “प्रतद्विष्णुऽरिति ब्रुवन् ।
स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेत् ॥ १८।१२१ ॥
अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि ।
तथैव विष्णुगायत्षा सर्वाङ्गाण्यनुलेपयेत् ॥ १८।१२२ ॥
“परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेत् ।
आम्लेन खण्डशीकेन शर्कराभिर्यथोचितम् ॥ १८।१२३ ॥
अलाशोधनं कुर्याच्छ्रीपत्रामलकाम्बुना ।
शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेत् ॥ १८।१२४ ॥
विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा ।
“वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेत् ॥ १८।१२५ ॥
“नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेत् ।
“भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ॥ १८।१२६ ॥
“अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेत् ।
“सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनम् ॥ १८।१२७ ॥
तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः ।
पुनर्गन्धोदकेनैव “गन्धद्वाराऽ मुदीर्य च ॥ १८।१२८ ॥
स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरम् ।
चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ॥ १८।१२९ ॥
“मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना ।
पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरत् ॥ १८।१३० ॥
पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः ।
प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ॥ १८।१३१ ॥
“भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेत् ।
“त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेत् ॥ १८।१३२ ॥
ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् ।
“संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ॥ १८।१३३ ॥
सम्बन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः ।
गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ॥ १८।१३४ ॥
“विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् ।
ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेत् ॥ १८।१३५ ॥
प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै ।
चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतम् ॥ १८।१३६ ॥
अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च ।
आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ॥ १८।१३७ ॥
कपिलं चैव यज्ञं च नारायणं पुण्यमेव च ।
प्रथमावरणं चैतद्द्वितीयावरणे ततः ॥ १८।१३८ ॥
पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकम् ।
वामनं त्रिविक्रमं चैव सुभद्रं च ततः परम् ॥ १८।१३९ ॥
ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परम् ।
सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ॥ १८।१४० ॥
तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेत् ।
श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेत् ॥ १८।१४१ ॥
एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः ।
अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ॥ १८।१४२ ॥
प्राच्यां सुभद्रमावाह्य हयात्मकमतः परम् ।
रामदेवं पुण्यदेवं सर्वं चैव सुखावहम् ॥ १८।१४३ ॥
संवहं सुवहं चेति प्रथमावरणेर्ऽचयेत् ।
द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ॥ १८।१४४ ॥
विश्वं सनातनं चैव सनर्थनमतः परम् ।
सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ॥ १८।१४५ ॥
तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेत् ।
प्रणवादि नमो ऽन्तं स्यादर्चनं न्यास उच्यते ॥ १८।१४६ ॥
एकादशभिरष्टाभिरुपचारैस् तथार्चयेत् ।
तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेत् ॥ १८।१४७ ॥
मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः ।
ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेत् ॥ १८।१४८ ॥
देवेशाभिमुखानेतान्यथाविधि समर्चयेत् ।
द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ॥ १८।१४९ ॥
द्वारे द्वारे द्वारदेवान् द्वारपालान्त्समर्चयेत् ।
विमानपालान् लोकेशांस् तथा चैवऽनपायिनः ॥ १८।१५० ॥
परिवारांस् तथान्यांश्च विष्णुभूतान्तमेव च ।
तत्तन्नाम्ना समभ्यर्च्य “भूरानिलयऽ मन्त्रतः ॥ १८।१५१ ॥
द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः ।
धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेत् ॥ १८।१५२ ॥
सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेत् ।
ततो यवनिकां कुर्याद्द्वारे क्षौमादिनिर्मिताम् ॥ १८।१५३ ॥
स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः ।
देवतान्तर भक्ताश्च पापरोगादिपीडिताः ॥ १८।१५४ ॥
अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः ।
पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययम् ॥ १८।१५५ ॥
ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः ।
आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेत् ॥ १८।१५६ ॥
विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयम् ।
रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहम् ॥ १८।१५७ ॥
किरीटहारकेयूरकुण्डलाङ्गदभूषितम् ।
शङ्खचक्रधरं देवं वरदाभयचिह्नितम् ॥ १८।१५८ ॥
श्रीवत्साङ्कं महाबाहुं कौस्तुभोद्भासितोरसम् ।
शुकपिञ्छाम्बरधरं प्रलम्बब्रह्मसूत्रिणम् ॥ १८।१५९ ॥
दिव्यायुधपरीवारं दिव्यभूषाविभूषितम् ।
देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिम् ॥ १८।१६० ॥
ध्यायेत्सन्निहितं बिम्बे नारायणमनामयम् ।
यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेत् ॥ १८।१६१ ॥
सुवर्भुवर्भूर् इत्युक्त्वा मूर्ध्नि नाभौ च सादयोः ।
बिम्बस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ॥ १८।१६२ ॥
पादयोरन्तरे पीठे यकारं च ततोन्यसेत् ।
अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ॥ १८।१६३ ॥
आवेष्ट्य प्रणवेनैतान् प्रणामं पुनराचरेत् ।
पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ॥ १८।१६४ ॥
प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमात् ।
“इदं विष्णुरितिऽप्रोच्य “चायातु भगवाऽनिति ॥ १८।१६५ ॥
प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहम् ।
ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिम् ॥ १८।१६६ ॥
तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि ।
प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ॥ १८।१६७ ॥
मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेत् ।
देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ॥ १८।१६८ ॥
तथैवावाहयेद्विद्वान् विधिना चोत्सवादिषु ।
कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ॥ १८।१६९ ॥
अलङ्कारासनं पश्चात्सङ्कल्स्य च यथाविधि ।
असनं मन्त्रवद्दद्याद्देवेशमनुमानयेत् ॥ १८।१७० ॥
पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः ।
“तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्षौमादिचार्पयेत् ॥ १८।१७१ ॥
“भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च ।
“सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकम् ॥ १८।१७२ ॥
अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेत् ।
“अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेत् ॥ १८।१७३ ॥
“तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः ।
मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ॥ १८।१७४ ॥
अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः ।
अनन्तैनान्मभिः पूज्यो ऽनन्तनामा भवान् हरिः ॥ १८।१७५ ॥
“तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेत् ।
“परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ॥ १८।१७६ ॥
“विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेत् ।
“त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववत् ॥ १८।१७७ ॥
उपचारेषु सर्वेषु प्रियमघन्न्य् हरेस्स्मृतम् ।
तस्मान्निवेदयेद्धीमान् मधुपकोन्पमं शुभम् ॥ १८।१७८ ॥
अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेत् ।
द्रोणतण्डुलमादाय तदर्धं पादमेववा ॥ १८।१७९ ॥
तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितम् ।
गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ॥ १८।१८० ॥
दशन्येद्देवदेवस्य “सोमं राजानऽमुच्चरन् ।
देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ॥ १८।१८१ ॥
“घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः ।
अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतम् ॥ १८।१८२ ॥
बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये ।
“देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ॥ १८।१८३ ॥
उपयुञ्ज्यात्कुटुम्बार्थे स हि दायहरो हरेः ।
देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ॥ १८।१८४ ॥
वैखानसानां तद्दोषा नास्ति देवप्रसादतः ।
प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसम्भवैः ॥ १८।१८५ ॥
स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेत् ।
दशन्येद्विविधाकारान् दीपान्मन्त्रेण तत्र तु ॥ १८।१८६ ॥
कुम्भदीपं समादाय देवाग्रे तु विनिक्षिपेत् ।
वाराहं नारसिंहं च चामनं च त्रिविक्रमम् ॥ १८।१८७ ॥
दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेत् ।
वर्तिकायां श्रियं चैव धूमे ऽभ्यर्च्यभवं तथा ॥ १८।१८८ ॥
प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमात् ।
“शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ॥ १८।१८९ ॥
प्रदक्षिणं त्रिवारं तु दर्शयन् भ्रामयेद्धरिम् ।
सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ॥ १८।१९० ॥
शिष्यो वा गणिका वापि देवागारं परीत्य च ।
विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ॥ १८।१९१ ॥
तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः ।
सम्भवन्ति न सन्देहो विष्णोर्नी राजनं ही तत् ॥ १८।१९२ ॥
चित्रैश्चवालव्यजनैस् तत्काले वीजयेद्गुरुः ।
दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकम् ॥ १८।१९३ ॥
नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् ।
देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेत् ॥ १८।१९४ ॥
तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिम् ।
अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेत् ॥ १८।१९५ ॥
श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् ।
तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमात् ॥ १८।१९६ ॥
उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेत् ।
ततोभोज्याननं चैव सङ्कल्प्य च यथाविधि ॥ १८।१९७ ॥
घृतं मधु गुडं चैव पयो दधि समन्वितम् ।
प्रस्थमात्रं तु सङ्ग्राव्यां मधुपकन्मिहोच्यते ॥ १८।१९८ ॥
“यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेत् ।
पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेत् ॥ १८।१९९ ॥
“अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः ।
मण्डलं चतुरश्रं च कारयेत्बरिचारकः ॥ १८।२०० ॥
हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै ।
अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेत् ॥ १८।२०१ ॥
“अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेत् ।
उपदंशादिकं तत्र गुडं दधि फलानि च ॥ १८।२०२ ॥
निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसङ्करम् ।
“यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ॥ १८।२०३ ॥
देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि ।
हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८।२०४ ॥
तस्माद्वैखानसान् हित्वा ब्राह्मणा अन्यसूत्रिणः ।
न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरम् ॥ १८।२०५ ॥
कवाटं बन्धयेत्पश्चात् घण्टानादं च कारयेत् ।
तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ॥ १८।२०६ ॥
ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् ।
हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ॥ १८।२०७ ॥
पुष्पैरभ्यर्च्य सम्प्रोक्ष्य प्रणवैः परिषिच्य च ।
अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ॥ १८।२०८ ॥
“तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेत् ।
“सुभूस्स्वयम्भूंऽत्युक्त्वा अपूपं च निवेदयेत् ॥ १८।२०९ ॥
पृथुकादीनि चान्यानि “विश्वभेषजऽमन्त्रतः ।
अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ॥ १८।२१० ॥
“इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलम् ।
निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ॥ १८।२११ ॥
“घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेत् ।
विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ॥ १८।२१२ ॥
नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम् ।
चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ॥ १८।२१३ ॥
देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमात् ।
पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ॥ १८।२१४ ॥
त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि ।
प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणम् ॥ १८।२१५ ॥
रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितम् ।
समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेत् ॥ १८।२१६ ॥
ततोयात्रासनं विद्वान् सङ्कल्प्य विधिना बुधः ।
प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरम् ॥ १८।२१७ ॥
बलिबेरं समारोप्य सर्वालङ्कारसंयुतम् ।
“रथन्तरम्ऽ समुच्चार्य तत्र कार्यं समाचरेत् ॥ १८।२१८ ॥
“योगेशं परम्ब्रह्माणं परमात्मानमित्यपि ।
भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिम् ॥ १८।२१९ ॥
नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमात् ।
“विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ॥ १८।२२० ॥
“सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेत् ।
“मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेत् ॥ १८।२२१ ॥
“वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिम् ।
तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ॥ १८।२२२ ॥
घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः ।
भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ॥ १८।२२३ ॥
मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः ।
उपतिष्ठेज्जगद्योनिं नारायणमनामयम् ॥ १८।२२४ ॥
शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकर्म् ।
ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ॥ १८।२२५ ॥
तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः ।
अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेत् ॥ १८।२२६ ॥
वाहयित्वा बलिं तेन बलिपात्रेण चैव हि ।
सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ॥ १८।२२७ ॥
पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमात् ।
तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ॥ १८।२२८ ॥
ततो देवं समानीय क्रममाणाश्शनैश्सनैः ।
वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरम् ॥ १८।२२९ ॥
क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमात् ।
बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ॥ १८।२३० ॥
ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै ।
तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ॥ १८।२३१ ॥
मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ ।
तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ॥ १८।२३२ ॥
न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेत् ।
प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ॥ १८।२३३ ॥
द्दितीयावरणद्वारे गणेशं शेषमर्चयेत् ।
तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ॥ १८।२३४ ॥
तुहिणं च बलिन्दं च चतुर्थावरणे तथा ।
पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेत् ॥ १८।२३५ ॥
षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेत् ।
चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेत् ॥ १८।२३६ ॥
सोपानमध्ये श्रीभूतं गरुडं च समर्चयेत् ।
हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेत् ॥ १८।२३७ ॥
विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा ।
नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेत् ॥ १८।२३८ ॥
पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च ।
वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ॥ १८।२३९ ॥
उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेत् ।
ईशानं भास्करं चैव तथैशान्ये समर्चयेत् ॥ १८।२४० ॥
भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा ।
शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेत् ॥ १८।२४१ ॥
पीठस्य दक्षिणे भागे “ये भूताऽ इति मन्त्रतः ।
भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेत् ॥ १८।२४२ ॥
पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेत् ।
नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितम् ॥ १८।२४३ ॥
प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुम् ।
सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ॥ १८।२४४ ॥
जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः ।
ततो देवं समादाय स्वस्थाने तु निवेशयेत् ॥ १८।२४५ ॥
विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेत् ।
दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ॥ १८।२४६ ॥
पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् ।
मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेत् ॥ १८।२४७ ॥
ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः ।
त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेत् ॥ १८।२४८ ॥
प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः ।
सायङ्कालो निशीथश्च पूजाकालान्तु षट् स्मृताः ॥ १८।२४९ ॥
प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये ।
राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ॥ १८।२५० ॥
सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये ।
उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ॥ १८।२५१ ॥
अपराह्णार्चनं चैव दैत्यनाशनहेतवे ।
अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ॥ १८।२५२ ॥
एवं षट्कालपूजायां फलमुक्तं विशेषतः ।
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ॥ १८।२५३ ॥
पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदम् ।
षट्काल पूजने कुर्यादादावाहनम्बुधः ॥ १८।२५४ ॥
तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परम् ।
उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ॥ १८।२५५ ॥
समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा ।
पुष्पन्यासं च होमं च परिवारार्चनं बलिम् ॥ १८।२५६ ॥
नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेत् ।
त्रिकालमर्चने ऽन्यत्र म्नपनं प्रातरेव ही ॥ १८।२५७ ॥
प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनम् ।
शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ॥ १८।२५८ ॥
तथा वाद्याद्यभावे वा बलिकाले समागते ।
तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिम् ॥ १८।२५९ ॥
सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः ।
मध्याह्ने चैव सायाह्ने काले काले तथाचरेत् ॥ १८।२६० ॥
तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनम् ।
पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेत् ॥ १८।२६१ ॥
ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः ।
तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ॥ १८।२६२ ॥
सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः ।
कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ॥ १८।२६३ ॥
पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः ।
अन्त्यवेलार्चनान्ते तु सङ्कल्ब्य शयनासनम् ॥ १८।२६४ ॥
विमुच्य वस्त्रमाल्यादीन् सूक्ष्मवस्त्रं समर्प्य च ।
अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिम् ॥ १८।२६५ ॥
सर्वौषधिविमिश्रं च कषायं तोयमेव च ।
निवेद्य देवदेवस्य मुखवासम्प्रदापयेत् ॥ १८।२६६ ॥
“यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः ।
दिव्योपधानसहिते दिव्यालङ्कारशोभिते ॥ १८।२६७ ॥
परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते ।
महाहान्स्तरणोपेते शयने शाययेद्धरिम् ॥ १८।२६८ ॥
श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः ।
शाययेद्देवपाशेन्व् तु “ध्रुवन्तऽइति चोच्चरेत् ॥ १८।२६९ ॥
“अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज ।
चक्रपाणे महाबाहो यथेष्टं वस ॐ नमःऽ ॥ १८।२७० ॥
इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः ।
प्रातरावाहितां शक्तिं ध्रुवबेरे ऽवरोपयेत् ॥ १८।२७१ ॥
प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः ।
स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ॥ १८।२७२ ॥
व्यापकत्रयमन्त्रैश्च तथा “विष्णोर्नुकाऽदिभिः ।
“अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ॥ १८।२७३ ॥
एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः ।
मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसञ्चयम् ॥ १८।२७४ ॥
अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु ।
ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितम् ॥ १८।२७५ ॥
पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ ।
उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ॥ १८।२७६ ॥
गर्भालयस्य सङ्कोचे त्वथ वा मुखमण्डपे ।
अन्तराले ऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ॥ १८।२७७ ॥
स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमम् ।
आसनाद्युपचारांश्च कल्पयेत् षोडशाथ वा ॥ १८।२७८ ॥
त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेत् ।
नवोपचारैरभ्यर्च्येदनपायिगणांस् तथा ॥ १८।२७९ ॥
द्वारदेवान् द्वारपालान् लोकपालांस्तथैव च ।
अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेत् ॥ १८।२८० ॥
इतरान् परीवारांश्च यजेत् षोडशविग्रहैः ।
तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेत् ॥ १८।२८१ ॥
श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेत् ।
अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेत् ॥ १८।२८२ ॥
त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ॥ १८।२८३ ॥

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे ऽष्टादशो ऽध्यायः


ज़्Äह्लुन्ग् बेइ ३९???