अथ सप्तदशो ऽध्यायः।
अथ सप्तदशो ऽध्यायः।अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयम् ।
केशवं तु प्रकुर्वीत सौम्यरूपं चतुर्भुजम् ॥ १७।१ ॥
शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च ।
सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितम् ॥ १७।२ ॥
स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुम् ।
नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजम् ॥ १७।३ ॥
शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिम् ।
भूषितं मणिभूषाभिः वीतवाससमच्युतम् ॥ १७।४ ॥
प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभम् ।
उत्तमं दशतालेन मानोन्मानप्रमाणतः ॥ १७।५ ॥
सिंहासने समासीनं दक्षिणाङ्घ्रिं प्रसार्य च ।
आसने निहितं वामं लक्षणं पूर्ववत्तथा ॥ १७।६ ॥
लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्विताम् ।
प्रसारितकरां देवीं पञ्चतालप्रमाणतः ॥ १७।७ ॥
प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषिताम् ।
वामेन तां परिष्वज्य दक्षिणेनाभयप्रदम् ॥ १७।८ ॥
अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परम् ।
तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववत् ॥ १७।९ ॥
तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिम्? मुखम् ।
दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ॥ १७।१० ॥
नागभोगे समासीनमेवं कुर्यात्तु वा हरिम् ।
सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतम् ॥ १७।११ ॥
शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणम् ।
माधवं चोत्पलनिभं चक्रचावगदासिभिः ॥ १७।१२ ॥
चतुर्भुजधरं कुर्याच्चित्रमाल्याम्बरं हरिम् ।
गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिम् ॥ १७।१३ ॥
गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः ।
विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतम् ॥ १७।१४ ॥
सर्वाभरण संयुक्तं पीतवाससमच्युतम् ।
रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनम् ॥ १७।१५ ॥
शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयम् ।
त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतम् ॥ १७।१६ ॥
चतुर्भुजधरं देवं सर्वाभरणभूषितम् ।
वामनं मेघवर्णं तु चतुर्बाहुं महाबलम् ॥ १७।१७ ॥
गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणम् ।
अथ वा कारयेत्कुम्भं दध्यन्नं च करद्वये ॥ १७।१८ ॥
दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिम् ।
अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ॥ १७।१९ ॥
स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिम् ।
सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजम् ॥ १७।२० ॥
कौमोदकीशङ्खचक्रपद्मधारिणमीश्वरम् ।
हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजम् ॥ १७।२१ ॥
गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययम् ।
सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेत् ॥ १७।२२ ॥
कौमोदकीचक्रपद्मशङ्खपाणिं रमाधवम् ।
दामोदरं प्रकुर्वीत सितगौराभमीश्वरम् ॥ १७।२३ ॥
पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजम् ।
सङ्कर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजम् ॥ १७।२४ ॥
शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनम् ।
वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभम् ॥ १७।२५ ॥
शङ्खचक्रगदापद्मधरं सर्वधरं विभुम् ।
चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिम् ॥ १७।२६ ॥
प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजम् ।
चक्रशङ्खगदापद्मधरं देवं महाबलम् ॥ १७।२७ ॥
अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतम् ।
शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरम् ॥ १७।२८ ॥
सितासिताभं कुर्वीत देवेशं पुरुषोत्तमम् ।
शङ्खचक्रगदापद्मधरं देवं चतुर्भुजम् ॥ १७।२९ ॥
अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजम् ।
चक्रशङ्खगदापद्मधरं भूषणभूषितम् ॥ १७।३० ॥
नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतम् ।
शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदम् ॥ १७।३१ ॥
सितमेचकवर्णं तु कुर्वीत विभुमच्युतम् ।
गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितम् ॥ १७।३२ ॥
जनार्दनमुदाराङ्गं नीलवर्णं समाचरेत् ।
चक्रशङ्खगदापद्मधरं देवं सनातनम् ॥ १७।३३ ॥
अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेत् ।
उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितम् ॥ १७।३४ ॥
शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुम् ।
हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितम् ॥ १७।३५ ॥
शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरम् ।
कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणम् ॥ १७।३६ ॥
शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः ।
सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेत् ॥ १७।३७ ॥
सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
“केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ॥ १७।३८ ॥
“नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि ।
“माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकम्ऽ त्विति, ॥ १७।३९ ॥
“गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ ।
।विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ॥ १७।४० ॥
“मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि ।
“त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ॥ १७।४१ ॥
“वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ ।
“श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ॥ १७।४२ ॥
“हृषीकेशं जगन्नाथं विष्णुं विश्वमयम्ऽ तथा ।
“पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्।ऽ ॥ १७।४३ ॥
“दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ ।
“सङ्कर्षणं यदुवरं विष्णुं हलधरऽन्तथा ॥ १७।४४ ॥
“वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ ।
“प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकम्ऽ तथा ॥ १७।४५ ॥
“अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ ।
“पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकम्ऽ तथा ॥ १७।४६ ॥
“अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि ।
“नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ॥ १७।४७ ॥
“अच्युतं चापरिमितमैश्वर्यं श्रीपतिम्ऽ तथा ।
।जनार्दनमनाद्यन्तं विष्णुं तेजोमयम्ऽ तथा ॥ १७।४८ ॥
“उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि ।
“हरिं पापहरं चेति विष्णुं मङ्गलविग्रहम् ॥ १७।४९ ॥
“कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि ।
आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ १७।५० ॥
“विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा ।
केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेत् ॥ १७।५१ ॥
नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः ।
इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ॥ १७।५२ ॥
“विष्णुस्सर्वेषाऽमित्यादि “यं यज्ञैऽरन्तमीरिताः ।
तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ॥ १७।५३ ॥
शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेत् ।
एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुम् ॥ १७।५४ ॥
तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितम् ।
कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेत् ॥ १७।५५ ॥
लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमम् ।
अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ॥ १७।५६ ॥
विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता ।
दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ॥ १७।५७ ॥
पद्ममध्ये समासीनां पद्मद्वयकराञ्चिताम् ।
वरदाभयहस्तां च मन्दस्मित मुखाम्बुजाम् ॥ १७।५८ ॥
एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता ।
योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेत् ॥ १७।५९ ॥
देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमम् ।
कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ॥ १७।६० ॥
कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययम् ।
तत्तद्बिम्बानुरूपं च कुर्याच्छ्रीवत्सलक्षणम् ॥ १७।६१ ॥
भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः ।
ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ॥ १७।६२ ॥
वैकुण्ठमार्गसञ्चारा नीला नित्यसमाश्रिता ।
श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितम् ॥ १७।६३ ॥
देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः ।
पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवत् ॥ १७।६४ ॥
वीरलक्ष्मीरिति प्रोक्ता पृथगालयसङ्गता ।
अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयम् ॥ १७।६५ ॥
दशतालेन मानेन कुर्याद्देवीन सलक्षणाम् ।
पद्मद्वयकरां चैव वन्दा भयधारिणीम् ॥ १७।६६ ॥
किरीटमुकुचोपेतां सर्वालङ्कारशोभितम् ।
पद्मासने समासीनां हेमाभां सर्वमङ्गलाम् ॥ १७।६७ ॥
गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधाम् ।
नवतालें मानेन कुर्यादन्यालयाश्रिताम् ॥ १७।६८ ॥
दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा ।
प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीम् ॥ १७।६९ ॥
सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेत् ।
गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ॥ १७।७० ॥
पाकलक्ष्मीस्समाख्याता पचनालयसङ्गता ।
अष्टतालेन मानेन कुर्यात्तां पचनालये ॥ १७।७१ ॥
पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् ।
आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषिताम् ॥ १७।७२ ॥
द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेत् ।
पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभिताम् ॥ १७।७३ ॥
पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् ।
पद्मासने समासीनां किरीटादिविभूषिताम् ॥ १७।७४ ॥
गजै तु पाशन्व्योःकुर्याद्धेमकुम्भकरौ पुनः ।
सिञ्चन्तौ तौ महालक्ष्मीं कुर्यात्कुम्भजलैस्तथा ॥ १७।७५ ॥
श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते ।
ध्रवबेरानुरूपेण बेरान्तरसमर्चनम् ॥ १७।७६ ॥
तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया ।
अन्यासान्नैव कुर्वीत ध्रुवार्चामेव कारयेत् ॥ १७।७७ ॥
पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकम् ॥ १७।७८ ॥
“गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेत् ।
आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूत् ॥ १७।७९ ॥
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् ।
नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ॥ १७।८० ॥
द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा ।
अन्येषां परिवाराणां स्थापनं विधिवच्चरेत् ॥ १७।८१ ॥
यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे ।
तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेत् ॥ १७।८२ ॥
असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेत् ।
भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदम् ॥ १७।८३ ॥
बेरालङ्कारयोग्यानि धामालङ्करणानि च ।
यथाहन्न् संस्कृतान्येव गृह्णीयात्सफलं भवेत् ॥ १७।८४ ॥
तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकम् ।
जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेत् ॥ १७।८५ ॥
द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ॥ १७।८६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे सप्तदशो ऽध्यायः