१६

अथ षोडशो ऽध्यायः।

अथ षोडशो ऽध्यायः।
दशावतारकल्पः(कृष्णः)

अथातस्सम्प्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः ।
कृष्णस्यालयमुद्दिष्टं कुम्भाकारविमानके ॥ १६।१ ॥
कूटे वा गोपुरे वापि पर्वताकृतिके ऽपिवा ।
कृष्णस्य बालरूपस्य वयसा तालमानकम् ॥ १६।२ ॥
एकवर्षं समारभ्य यावत्बञ्चाब्दमादरात् ।
तालत्रयक्रमेणैव यथायोगं प्रकल्पयेत् ॥ १६।३ ॥
वेदवर्षं समारभ्यषट्तालत्रयमेव वा ।
सप्तवर्षं समारभ्य सप्ततालत्रयं तथा ॥ १६।४ ॥
दशवर्षं समारभ्य अष्टतालत्रयं तथा ।
त्रयोदश समारभ्य नवतालत्रयं तथा ॥ १६।५ ॥
एवं वयःक्रमेणैव तालमानं तथोच्यते ।
तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया ॥ १६।६ ॥
कृष्णं च बालवपुषं श्यामलं पीतवाससम् ।
रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलाम् ॥ १६।७ ॥
वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ।
क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतम् ॥ १६।८ ॥
स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
तिष्ठन्तमङ्गुलिस्थाने चाङ्गुष्ठस्थितिमाचरेत् ॥ १६।९ ॥
किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेत् ।
वक्त्रं चैव तथा गात्रं कटिभागं तथैव च।॥ १६।१० ॥
त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते ।
वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः ॥ १६।११ ॥
कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतम् ।
दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितम् ॥ १६।१२ ॥
दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतम् ।
भूतवेदगुणाङ्गुल्या विधिना सहितालतः? ॥ १६।१३ ॥
वामं देव्योर्भुजासक्तं वामहस्तमधोमुखम् ।
हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलम् ॥ १६।१४ ॥
षट्सप्ताष्टाङ्गुलाधिक्योन्नतं वा कालयेत्क्रमात् ।
वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेत् ॥ १६।१५ ॥
वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमात् ।
ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समम् ॥ १६।१६ ॥
त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससम् ।
चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परम् ॥ १६।१७ ॥
सुस्थितं वामपादेन दक्षिणेनैव बन्धयेत् ।
सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम् ॥ १६।१८ ॥
देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन ।
देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितम् ॥ १६।१९ ॥
पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवत् ।
नवनीतनटं कुर्यात्तथा कालीयमर्दनम् ॥ १६।२० ॥
पार्थसारथिरूपं तु देव्योश्च रहितं क्रमात् ।
पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं ॥ १६।२१ ॥
नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते ।
लौकिकप्रतिमोत्सेधं मानाङ्गुलमिति क्रमात् ॥ १६।२२ ॥
प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनम् ।
नवसङ्ख्यमिति प्रोक्तं मानमेवं विधीयते ॥ १६।२३ ॥
एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमम् ।
मानम्प्रमाणमुन्मानं लम्बमानोपमानकम् ॥ १६।२४ ॥
पञ्चतालमिति प्रोक्तं लम्बमानं विधीयते ।
सात्त्विकं राजसं चैव तामसं तु विवर्जयेत् ॥ १६।२५ ॥
दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकम् ।
कटियोनिसमं वाथ दक्षिणं पादमेव हि ॥ १६।२६ ॥
दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा ।
अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः ॥ १६।२७ ॥
दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननम् ।
केशकम्बलमित्युक्तं सूत्रं वामाश्रयं भवेत् ॥ १६।२८ ॥
उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके ।
नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे ॥ १६।२९ ॥
पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके ।
लम्बयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेत् ॥ १६।३० ॥
उष्णीषमङ्गुलार्धं च मुखमष्टाङ्गुलं भवेत् ।
गलमर्थाङ्गुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेत् ॥ १६।३१ ॥
हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकम् ।
अष्टादशाङ्गुलं चैव मूर्ध्वकायं विधीयते ॥ १६।३२ ॥
त्रयोदशाङ्गुलं चैव मूरुदीर्ङं विधीयते ।
जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा ॥ १६।३३ ॥
चरणं द्व्यङ्गुलं चैव मानमेव न संशयः ।
हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतम् ॥ १६।३४ ॥
प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतम् ।
मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलम् ॥ १६।३५ ॥
ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवम् ।
अभयं बाहुमानं चतुर्विंशतिरङ्गुलम् ॥ १६।३६ ॥
कक्षयोरन्तरं चैव चतुर्दशाङ्गुल विस्तरम् ।
ऊरुर्दशाङ्गुलं चैव श्रोणिरेकादशाङ्गुलम् ॥ १६।३७ ॥
कटिविस्तारमेवं स्यात्त्रयोदशाङ्गुलमिष्यते ।
ऊरुमूलसुविस्तारमष्टाङ्गुलमिति क्रमात् ॥ १६।३८ ॥
षडङ्गुलं जानुतारं जङ्घातारं च सप्तकम् ।
त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेत् ॥ १६।३९ ॥
पादविस्तारमेवोक्तं सर्वलक्षणसंयुतम् ।
कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजम् ॥ १६।४० ॥
अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसम् ।
तारहारावलीरम्यं गरुडोपरि संस्थितम् ॥ १६।४१ ॥
देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतम् ।
आलोल कुन्तलोद्भासि मुखचन्द्र विराजितम् ॥ १६।४२ ॥
अतिरक्ताधरोष्ठं च रक्तपाणिद्वयाञ्चितम् ।
वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणम् ॥ १६।४३ ॥
दक्षिणं चाभयं हस्तं नवनीतयुतं तथा ।
वामं प्रसार्य चोत्तानं सर्वाभरणभूषितम् ॥ १६।४४ ॥
साम्बरं तु प्रकुर्वीत विगताम्बरमेव वा ।
एवं तु विधिना कुर्यान्नवनितनटं बुधः ॥ १६।४५ ॥
एवमेव प्रकुर्वीत कालीयाहिफणोपरि ।
नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकम् ॥ १६।४६ ॥
दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकम् ।
अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनम् ॥ १६।४७ ॥
नीलोत्पलदलश्यामं पीताम्बरसुशोभितम् ।
चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतम् ॥ १६।४८ ॥
अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितम् ।
सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितम् ॥ १६।४९ ॥
देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितम् ।
कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः ॥ १६।५० ॥
कलापकुसुम श्यामं पूर्णचन्द्रनिभानसम् ।
बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतम् ॥ १६।५१ ॥
युवतीवेषलावण्यं श्रीवत्साङ्कितवक्षसम् ।
स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनम् ॥ १६।५२ ॥
अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये ।
वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिम् ॥ १६।५३ ॥
तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया ।
निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया ॥ १६।५४ ॥
हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितम् ।
चन्द्रमण्डलसङ्काशश्वेतछत्रेणशोभितम् ॥ १६।५५ ॥
नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितम् ।
इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरम् ॥ १६।५६ ॥
एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहम् ।
गोपीभिरावृतं गोभिः परमानन्दविग्रहम् ॥ १६।५७ ॥
व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितम् ।
चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये ॥ १६।५८ ॥
धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च ।
अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन् ॥ १६।५९ ॥
दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितम् ।
एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः ॥ १६।६० ॥
सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितम् ।
रक्ताम्बरधरं चैव श्यामलं कमलेक्षणम् ॥ १६।६१ ॥
रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितम् ।
रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा ॥ १६।६२ ॥
वसुदेवं देवकीं च पुरतो दक्षिणे तथा ।
यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितम् ॥ १६।६३ ॥
प्रद्युम्नं च तथा साम्बं वामे कुर्यात्सलक्षणम् ।
दामं सुमनसं चैव कुर्यादन्यां च गोपिकाम् ॥ १६।६४ ॥
कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितम् ।
कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमात् ॥ १६।६५ ॥
नवतालेन मानेन कुर्यात्तान् समलङ्कृतान् ।
देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेत् ॥ १६।६६ ॥
यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेत् ।
प्रद्युम्नं श्यामवर्णं च साम्बं कालाञ्जनप्रभम् ॥ १६।६७ ॥
दामं रक्तनिभं चैव गौरं सुमनसं तथा ।
सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः ॥ १६।६८ ॥
एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहम् ।
चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवत् ॥ १६।६९ ॥
धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना ।
न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि ॥ १६।७० ॥
राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुम् ।
एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहम् ॥ १६।७१ ॥
पीताम्बरधरं देवं ज्ञानमुद्रालसत्करम् ।
वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितम् ॥ १६।७२ ॥
उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिम् ।
कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहम् ॥ १६।७३ ॥
स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुम् ।
इक्षुचापाङ्कुशान्वेणुं शङ्खारिसुमसायकान् ॥ १६।७४ ॥
बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहम् ।
सर्वाभरणसंयुक्तं योगिनाममृतप्रदम् ॥ १६।७५ ॥
एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहम् ।
गवां गोपकुमाराणां गोपीनां रक्षणायवै ॥ १६।७६ ॥
नगं गोवर्धनं नाम दधार भगवान् हरिः ।
वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमम् ॥ १६।७७ ॥
कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा ।
शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजम् ॥ १६।७८ ॥
एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिम् ।
पुरा महति सङ्ग्रामे पार्थं रक्षितवान् हरिः ॥ १६।७९ ॥
पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतम् ।
समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगम् ॥ १६।८० ॥
श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलम् ।
बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा ॥ १६।८१ ॥
अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथम् ।
एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहम् ॥ १६।८२ ॥
वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च ।
तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः ॥ १६।८३ ॥
आकुञ्चितान्यपादेव चासनस्थितिशोभिना ।
अन्यहस्तेन सन्धार्य नवनीतं नवं नवम् ॥ १६।८४ ॥
मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः ।
एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहम् ॥ १६।८५ ॥
पुरा सन्दर्तसमये संहृतेषु जगत्सु च ।
वटपत्रे विनिद्राणो बभूव भगवान् हरिः ॥ १६।८६ ॥
वटपत्रे शयानं तु बालरूपं परात्परम् ।
आकृष्य दक्षिणं पादं वामहस्तेन लीलया ॥ १६।८७ ॥
पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननम् ।
दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकम् ॥ १६।८८ ॥
प्रसारितेतरपदं दिव्यालङ्कारशोभितम् ।
वटपत्रं प्रकुर्वीत विशालं चाधराग्रकम् ॥ १६।८९ ॥
वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेत् ।
शङ्खचक्रगदापद्म पाशाङ्कुशलसत्करम् ॥ १६।९० ॥
कराभ्यां वेणुमादाय धमन्तं सर्वमोहनम् ।
सूर्यायुतशताभासं पीताम्बरसुशोभितम् ॥ १६।९१ ॥
नानालङ्कारसुभगं सूर्यमण्डलसंस्थितम् ।
एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनम् ॥ १६।९२ ॥
कृष्णरूपमसङ्ख्यातंस्वेच्छारूपं तु कारयेत् ।
कालीयमर्दनादौ तु नागकन्यादिकल्पनम् ॥ १६।९३ ॥
कल्पनं भोगभेदस्य चैवमादीन् प्रकल्पयेत् ।
युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियम् ॥ १६।९४ ॥
एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेत् ।
अथवाकौतुकं बिम्बं चतुर्भुजसमन्वितम् ॥ १६।९५ ॥
अभयं वरदं पूर्वं शङ्खचक्रधरं परम् ।
एवं चतुर्भुजं कृत्वा स्थापनारम्भमाचरेत् ॥ १६।९६ ॥
पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च ।
पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ १६।९७ ॥
“कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि ।
“रुक्मिणीं सुन्दरीं देवीं रमाऽमिति च रुक्मिणीम् ॥ १६।९८ ॥
“सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति ।
इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा ॥ १६।९९ ॥
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ।
“सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेत् ॥ १६।१०० ॥
श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः ।
पूर्वोक्तेन विधानेन स्थापनादीनि कारयेत् ॥ १६।१०१ ॥
कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति ।
खड्गखेटकहस्तस्तु म्लेच्छादीन् स हनिष्यति ॥ १६।१०२ ॥
कूटे वा गोपुरे वापि पर्वताकृतिके ऽपि वा ।
कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेत् ॥ १६।१०३ ॥
मध्यमं दशतालेन भिन्नाञ्जनचयप्रभम् ।
अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति ॥ १६।१०४ ॥
चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि ।
चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा ॥ १६।१०५ ॥
अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकम् ।
शुद्धस्फचिकसङ्काशं खड्गखेटक धारिणम् ॥ १६।१०६ ॥
अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजम् ।
पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च ॥ १६।१०७ ॥
पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् ।
“कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ ॥ १६।१०८ ॥
एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेत् ।
“धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेत् ॥ १६।१०९ ॥
उत्सवस्नपनादीनि विष्णोरिव समाचरेत् ।
विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणम् ॥ १६।११० ॥
अनादिर्भगवान् कालो नास्य चान्तो ऽपि दृश्यते ।
चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः ॥ १६।१११ ॥
अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः ।
धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च ॥ १६।११२ ॥
सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकम्पया ।
आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरत् ॥ १६।११३ ॥
आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः ।
गजेन्द्रमोक्षणादीनप्याविर्भावान् प्रचक्षते ॥ १६।११४ ॥
अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः ।
कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ॥ १६।११५ ॥
अथान्तर्मण्डपे वापि तथावरण मण्डपे ।
संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न ॥ १६।११६ ॥
नारसिंहं वराहं च वामनं च त्रिविक्रमम् ।
ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम् ॥ १६।११७ ॥
स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे ।
मत्स्यकूर्मवराहाणां वामनस्य विशेषतः ॥ १६।११८ ॥
कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजम् ।
ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु ॥ १६।११९ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे षोडशो ऽध्यायः