अथ पञ्चदशो ऽध्यायः।
अथ पञ्चदशो ऽध्यायः।
दशावतार कल्पः (रामः) भार्गवः
अतः परशुरामस्य स्थापनं वक्ष्यते ऽधुना ।
बहुभिर्बलवद्भिस्तु राजभिर्धरणी हता ॥ १५।१ ॥
तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः ।
भूत्वावतीर्णो लोकेस्मिन् भारनिर्हरणाय वै ॥ १५।२ ॥
परशुं च गृहीत्वोर्व्यां नृपान् सर्वान् प्रगृह्य च ।
जघान किलभूयो ऽपि रामो भीमपराक्रमः ॥ १५।३ ॥
स्थापयेच्छत्रुनाशाय रामं परशुधारिणम् ।
श्रीप्रतिष्ठितके चैव अङ्गनाकार एव च ॥ १५।४ ॥
मध्यमं दशतालेन रामं द्विभुजमाचरेत् ।
परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणम् ॥ १५।५ ॥
वाममुद्देशहस्तं च जटामुकुटशोभितम् ।
रक्तवर्णयुतं चैव श्वेताम्बरधरं तथा ॥ १५।६ ॥
सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेत् ।
तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजम् ॥ १५।७ ॥
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् ।
“रामं ऋषिसुतं विष्णुं परशुपाणिऽमितीरयेत् ॥ १५।८ ॥
इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेत् ।
“विष्णुर्वरिष्ठऽ इत्युक्त्वा शतमष्टाधिकं यजेत् ॥ १५।९ ॥
उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत् दाशरधिः ।
रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः ॥ १५।१० ॥
त्रीन् लोकान् पीडयामास वरदानेन गर्वितः ।
देवास्सम्पीडितास्सर्वे मुनयश्चाखिलास्तथा ॥ १५।११ ॥
तैर्देवैर्मुनिभिस्सर्वैः संस्तुतो हरिरव्ययः ।
तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः ॥ १५।१२ ॥
अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य चऽ ।
रामस्तु राक्षसान् हत्वा सर्वान् लोकानपालयते ॥ १५।१३ ॥
पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः ।
कूटागारेङ्गनाकारे फेलाकारं चतुष्फुटम् ॥ १५।१४ ॥
स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः ।
राघवं तु प्रतिष्ठाप्य यथा वत्सम्प्रपूजयेत् ॥ १५।१५ ॥
अथातस्सम्प्रवक्ष्यामि रामलक्ष्मण लक्षणम् ।
सीताया वायुपुत्रस्य भरतस्यासुजस्य च ॥ १५।१६ ॥
मानोन्मानप्रमाणानि वक्ष्ये सङ्क्षेपतः क्रमात् ।
उत्तमं दशतालेन मध्यमेन यथाक्रमम् ॥ १५।१७ ॥
उत्तमं राघवेन्द्रस्य मध्यमं लक्ष्मणस्य च ।
अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेत् ॥ १५।१८ ॥
नवतालेन मानेन वायुपुत्रं प्रकल्पयेत् ।
अधमं दशतालेन भरतस्यानुजस्य च ॥ १५।१९ ॥
एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः ।
गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते ॥ १५।२० ॥
उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै ।
तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेत् ॥ १५।२१ ॥
इष्यते गर्भमानन्तु पुष्यमानम्? विभज्य च ।
उत्तमं पञ्चभागं तु चतुर्भागं तु मध्यमम् ॥ १५।२२ ॥
त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः ।
गर्भमानं प्रवक्ष्यन्ति द्वारमानन्तु वक्ष्यते ॥ १५।२३ ॥
सप्तभागे चतुर्भागमुत्तमं तु विधीयते ।
त्षंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेत् ॥ १५।२४ ॥
द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः ।
रामस्याथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयम् ॥ १५।२५ ॥
आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणम् ।
भरतस्यामजस्यापि तथा गलसमं भवेत् ॥ १५।२६ ॥
उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलम् ।
षष्टिद्विगोलगं विद्यादेकत्षंशत्रिभागीकम्? ॥ १५।२७ ॥
तालानि दशभागैकमुत्तमं दशतालकम् ।
चतुर्भागाष्टभागं स्याच्चतुस्तालं तथैव च ॥ १५।२८ ॥
दशतालस्य त्षंशेन उत्तमं मध्यमाधमम् ।
मध्यमादधमं हीनं मुखे वार्धाङ्गुलक्षयम् ॥ १५।२९ ॥
उष्णीषमङ्गुलं नेत्रं शिरस्त्षङ्गुलमिष्यते ।
ललाटे हनुपर्यन्तं त्रयोदशार्धाङ्गुलं भवेत् ॥ १५।३० ॥
गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियङ्गुला ।
हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयम् ॥ १५।३१ ॥
मुखायामं चतुर्मात्रं लिङ्गं पञ्चाङ्गुलायतम् ।
नाभिरर्धाङ्गुलं ज्ञेयं निम्नार्धवरितालका ॥ १५।३२ ॥
श्रोणी भागार्धमेवं स्यात्कटिः पञ्चाङ्गुलं भवेत् ।
मेढ्रमूलादिजान्वन्तं सप्तविंशतिकाङ्गुलम् ॥ १५।३३ ॥
जानुभागमिति प्रोक्तं जङ्घोरू सुसमायुतौ ।
चरणं चतुरङ्गुल्यं मनोर्देशविधानतः ॥ १५।३४ ॥
ब्रह्माङ्गुलमूखायामं त्रयोदशाङ्गुलमेव च ।
कनिष्ठाङ्गुलमायाममेकादशाङ्गुलं भवेत् ॥ १५।३५ ॥
अक्ष्णामुष्णीषपर्यन्तं भागार्धाङ्गुलमुच्छ्रयम् ।
हिक्कासूत्रान्तमेवं स्वात्स्कन्धमूलद्वयं भवेत् ॥ १५।३६ ॥
स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेत् ।
भुजद्विमुखमायामं कूर्परं च कलायतम् ॥ १५।३७ ॥
प्रकोष्ठं विंशदङ्गुल्यं हस्तायाममिति स्मृतम् ।
नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणम् ॥ १५।३८ ॥
आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेत् ।
ईषत्कुञ्चितमात्रन्तु मात्रार्धं समकुञ्चितम् ॥ १५।३९ ॥
द्विकलाकुञ्चितं ज्ञेयं त्रिविधं कुञ्चितं भवेत् ।
पाष्णोन्य्रन्तरसंयुक्तं पञ्चागुलसमन्वितम् ॥ १५।४० ॥
पादाङ्गुष्ठान्तरं चैव त्रयोदशाङ्गुलमीरितम् ।
उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेत् ॥ १५।४१ ॥
नीव्रं कण्ठयवानान्त द्विमुखं विस्तरं भवेत् ।
दक्षिणे लम्बहस्तन्तु ऊरुमूलौ समं भवेत् ॥ १५।४२ ॥
नीव्रं पञ्चाङ्गुलं चैवत्रयोदशाङ्गुलमीरितम् ।
हस्तन्तु द्व्यङ्गुल चेति कटीबाहू षडङ्गुलम् ॥ १५।४३ ॥
त्रियुजा कुञ्चितं स्थित्या त्रिभङ्गाग्र विराजितम् ।
दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेत् ॥ १५।४४ ॥
दक्षिणं मुखमाश्रित्य त्रिभङ्गाङ्ग मथोच्यते ।
श्रुङ्गारगुणसंयुक्तं किरीटं वा विशेषतः ॥ १५।४५ ॥
वज्रं पुल्लिङ्गवायुक्तं मकरकुण्डलमंयुतम् ।
किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतम् ॥ १५।४६ ॥
उष्णीषं केशपृष्ठान्ते त्रयोदशाङ्गुलमायतम् ।
ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः ॥ १५।४७ ॥
जानकीं समभङ्गेन वामहस्तेव पुष्पधृत् ।
दक्षिणं सम्प्रसार्यैव रुक्मवर्णान्तु कारयेत् ॥ १५।४८ ॥
श्यामवस्त्रधरां चैव दिव्यस्त्रीमण्डनोपमाम् ।
लक्ष्मणं समभङ्गेन तप्तकाञ्चनसन्निभम् ॥ १५।४९ ॥
भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकम् ।
लक्ष्मणस्याथ वामे तु स्थितौ बाणधनुर्धरौ ॥ १५।५० ॥
हनूमन्तं पिङ्गलाभं वार्ताविज्ञापने परम् ।
एवं सायुधवर्गन्तु वक्ष्यते ऽत्र निरायुधम् ॥ १५।५१ ॥
प्रसारि दक्षिणं पादमितरच्चैव कुञ्चितम् ।
दक्षिणे नाभयं हस्तं वामं कटिकमुच्यते ॥ १५।५२ ॥
स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः ।
दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेत् ॥ १५।५३ ॥
“रामं दाशरथिं विष्णुं काकुत्स्थऽमिति चाह्वयेत् ।
“सीतामयोनिजां लक्ष्मीं वैदेहीऽमिति चाह्वयेत् ॥ १५।५४ ॥
“रामानुजं च सौमित्रिं लक्ष्मणं लक्ष्मिवर्धनम्ऽ ।
“भरतं रामप्रियं चेति कैकैयीसुतमेव च ॥ १५।५५ ॥
सद्वृत्तऽमिति चावाह्य भरतस्य विशेषतः ।
“शत्रुघ्नं सुमनस्कं च लक्ष्मणानुजमेव च ॥ १५।५६ ॥
दशरथोद्भवऽमित्येव शत्रुघ्नं च समाह्वयेत्
कपिराजं हनूमन्तं शब्दराशिं महामतिम्, ॥ १५।५७ ॥
जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः ।
“रायामीऽशेति मन्त्रेण शतमष्टाधिकं यजेत् ॥ १५।५८ ॥
“श्रिये जातऽश्च सीताया होमे मन्त्र उदीरितः ।
“तन्मा यशोग्रऽ मन्त्रेण भरतस्य च हूयते ॥ १५।५९ ॥
“शन्नो निधत्ताऽमुच्चार्य लक्ष्मणस्य हुनेत्सुधीः ।
“भूमानन्तोग्रऽ इत्युक्त्वा शत्रुघ्नस्य समाचरेत् ॥ १५।६० ॥
“मरुतः परमाऽत्मेति मारुतस्येव मारुते ।
सर्वत्र जुहुयान्मन्त्रं शतमष्टाधिकं बुधः ॥ १५।६१ ॥
अर्चनं चोत्सवं चैव स्नपने च हरेरिव ।
हली
दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलम् ॥ १५।६२ ॥
बलभद्रं विदुस्सो ऽपि वसुदेवस्य सम्बभौ ।
भूभारमोचनार्थाय विष्णुस्सबलभद्रकः ॥ १५।६३ ॥
हत्वानरककंसादीन् सर्वान् लोकानपालयत् ।
एवं स्थापयितुं राममिच्छेत्कारयितं च यः ॥ १५।६४ ॥
सोमछन्दविमाने वा हस्तिपृष्ठे ऽथ वाबुधः ।
तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकम् ॥ १५।६५ ॥
दशतानेन मानेन कृत्वा रूपं समाहितः ।
दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च ॥ १५।६६ ॥
श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढम् ।
बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच ॥ १५।६७ ॥
तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेत् ।
एवं तु सायुधं कुर्याद्वक्ष्ये ऽहं तु निरायुधम् ॥ १५।६८ ॥
वामपादं समाकुञ्च्य दक्षिणं सम्प्रसार्य च ।
अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेत् ॥ १५।६९ ॥
अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेत् ।
“रामं यदुवरं विष्णुं हलायुधऽमितिक्रमात् ॥ १५।७० ॥
“इन्दिरां रेवतीं चैव लक्ष्मीं रामप्रियाऽमिति ।
एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववत् ॥ १५।७१ ॥
“क्ष्मामेकाऽमिति मन्त्रेण शतमष्टाधिकं यजेत् ।
अर्चनं चोत्सवं चैव स्नपनं च हरेरिव ॥ १५।७२ ॥
इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णऽधिकारे पञ्चदशो ऽध्यायः