१४

अथ चतुर्दशो ऽध्यायः।

अथ चतुर्दशो ऽध्यायः।
दशावतारकल्पः (वामनः)

अथातस्सम्प्रवक्ष्यामि वामनस्य क्रमं यथा ।
वैरोचनसुतोह्युग्रो बली च बलिनां वरः ॥ १४।१ ॥
तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः ।
हरिर्वामनरूपो ऽभूच्छत्री दण्डी च वेदवित् ॥ १४।२ ॥
वटबीजेन सदृशः केवलं सूत्रदण्डभृत् ।
वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ॥ १४।३ ॥
तद्यज्ञशालां सम्प्राप्य वटुरूपो महाहरिः ।
त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ॥ १४।४ ॥
बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितम् ।
हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ॥ १४।५ ॥
देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीत् ।
त्रिविक्रमप्रतिष्ठायां विशेषस्सम्प्रवक्ष्यते ॥ १४।६ ॥
वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) ।
दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदम् ॥ १४।७ ॥
दशतालेन मानेन देवदेवं प्रकल्पयेत् ।
सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेत् ॥ १४।८ ॥
चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः ।
दक्षिणे शार्ङ्गमालम्ब्य भूम्यां चैव प्रस्र्य च ॥ १४।९ ॥
शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेत् ।
गदा वामकरे प्रोक्ता तथा खेटकमेव च ॥ १४।१० ॥
चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः ।
एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ॥ १४।११ ॥
सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितम् ।
सर्वाभरण संयुक्तं कीरीटादिविभूषितम् ॥ १४।१२ ॥
इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितम् ।
दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ॥ १४।१३ ॥
दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेत् ।
हस्ताभ्यां कुम्भयोश्चैव पादप्रक्षालनं चरेत् ॥ १४।१४ ॥
तस्यपादाम्बुजे चैव जातां गङ्गां च सुन्दरीम् ।
प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ॥ १४।१५ ॥
पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववत् ।
जाम्बवन्तं तथा भेरीं ताडयस्तं नराकृतिम् ॥ १४।१६ ॥
इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभम् ।
आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेत् ॥ १४।१७ ॥
पीतवर्णं बलिं कुर्यान्नीलाभं जाम्बवन्तकम् ।
ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीम् ॥ १४।१८ ॥
एवं वर्णक्रमेणैव चित्राभासं च कारयेत् ।
पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ॥ १४।१९ ॥
शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेत् ।
अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमम् ॥ १४।२० ॥
शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिम् ।
महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेत् ॥ १४।२१ ॥
उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे ।
वामे प्रसारितां चैव सर्वरत्न विभूषिताम् ॥ १४।२२ ॥
तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखम् ।
जटामुकुटसंयुक्तं सर्वाभरणभूषितम् ॥ १४।२३ ॥
हृदयेञ्जलिसंयुक्तं शुकवत्रनिभाम्बरम् ।
तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ॥ १४।२४ ॥
असुरेन्द्रं तथासीनं विनतं पश्चिमामुखम् ।
ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितम् ॥ १४।२५ ॥
एवं वैरोचनिं कुर्यात्पुष्पाम्बरधरम्परम् ।
नमुचिं च समासीनं पादपीठावलम्बिनम् ॥ १४।२६ ॥
वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयम् ।
कल्पयित्वा यथामार्गं शुक्रं चैव समागतम् ॥ १४।२७ ॥
वामपादं समासीनं दक्षिणं कुञ्चितं तथा ।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ १४।२८ ॥
सर्वाभरण संयुक्तं पश्चिमामुखमेव च ।
तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेत् ॥ १४।२९ ॥
दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणम् ।
एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ॥ १४।३० ॥
मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखम् ।
हृदयेञ्जलिसंयुक्तं स्थितमेवं प्रकल्पयेत् ॥ १४।३१ ॥
फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितम् ।
उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेत् ॥ १४।३२ ॥
अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितम् ।
एवमेव विधानेन कल्पयित्वा यथाक्रमम् ॥ १४।३३ ॥
श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च ।
कनकाभं बलिञ्चैव नमुचिं च तथै व च ॥ १४।३४ ॥
शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपम् ।
अनन्तं पीतवर्णं च वासुकिं श्याममेव च ॥ १४।३५ ॥
एवं स्थानक्रमेणैव कूटयुक्तेन कारयेत् ।
अथ वा भित्तिपार्श्वे तु चित्राभासे ऽधमाधमम् ॥ १४।३६ ॥
त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये ।
एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समम् ॥ १४।३७ ॥
तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमम् ।
महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ॥ १४।३८ ॥
नमुचिं च तथा शुक्रं गरुडं च तथा चरेत् ।
अनन्तं वासुकीं चैव मष्टाङ्गस्थापनं चरेत् ॥ १४।३९ ॥
विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परम् ।
विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेत् ॥ १४।४० ॥
“पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ ।
“समुचिं कनकाभं च पीतवाससमित्यपि ॥ १४।४१ ॥
श्यामलाङ्गमिति प्रोक्तम्ऽ मूर्तिमन्त्रं यथाक्रमम् ।
“हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्।ऽ ॥ १४।४२ ॥
“प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ ।
“असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ॥ १४।४३ ॥
शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः ।
“काश्यपं गरुडं चैव वैनतेयं खगाधिपम् ॥ १४।४४ ॥
“सहस्रशीर्षं शेषं च नागराजमितीर्य च ।
अनस्तम्ऽ च समुच्चार्य शेषस्यावाहनं चरेत् ॥ १४।४५ ॥
“वासुकीं नागराजं च काद्रवेयं मनोरमम् ।
एवं मूर्तिक्रमश्चैव मष्टाङ्गस्थापने चरेत् ॥ १४।४६ ॥
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् ।
त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ॥ १४।४७ ॥
तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेत् ।
जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेत् ॥ १४।४८ ॥
“यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेत् ।
कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेत् ॥ १४।४९ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे चतुर्दशो ऽध्यायः।