अथ त्रयोदशो ऽध्यायः।
अथ त्रयोदशो ऽध्यायः।
नवषट्पञ्चमूर्तिविधानम्
अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पञ्चमूर्तिकम् ।
विष्णुं च पुरुषं सत्यमच्युतं चाविरुद्धकम् ॥ १३।१ ॥
नरनारायणाभ्यां तु वाराहं नारसिंहकम् ।
एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि ॥ १३।२ ॥
विष्ण्वादिपञ्चमूर्तीस्तु अदिमूर्तिन्तथाक्रमात् ।
स्थापयेत् तत्क्रमेणैव षण्मूर्तिकमिहोच्यते ॥ १३।३ ॥
विष्ण्वादीनां तु पञ्चानां स्थापनं पञ्चमूर्तिकम् ।
दशावतारकल्पः
मत्स्यः कूर्मोवराहश्च नारसिंहो ऽथ वामनः ॥ १३।४ ॥
रामो रामश्च रामश्च कृष्णः कर्किरिमे दश ।
सर्गकाले तु भगवान् सृष्ट्वा विखनसं गुरुम् ॥ १३।५ ॥
वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान् ।
पुरा मध्वादयः काले सम्भूय भुवि राक्षसाः ॥ १३।६ ॥
अपाहरंस्तु तान् वेदान् बलात्कृत्व विधिं मुहुः ।
तदा तु सोमकं हन्तुं राक्षसं रणविक्रमम् ॥ १३।७ ॥
अन्तर्हितमकूपारे मात्स्यं भावं गतो हरिः ।
हत्वा तु सोमङ्कं पश्चाद्वेदानब्जभुवे ददौ ॥ १३।८ ॥
ग्रामादिषु च सर्वत्र मध्यमे पश्चिमे ऽपिवा ।
हस्तिपृष्ठविमाने तु कुम्भाकारविमानके ॥ १३।९ ॥
द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतम् ।
अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजम् ॥ १३।१० ॥
विशेषमत्र वक्ष्यामि प्रधाने ऽब्जावले क्रमात् ।
हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेत् ॥ १३।११ ॥
“मत्स्यं च जलजं चेति भद्रं क्रीडात्मकंऽतथा ।
एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेत् ॥ १३।१२ ॥
“यस्स्वयं सृष्टऽमित्युक्त्वा शतमष्टोत्तरं यजेत् ।
यथोक्तेनैव मार्गेण संस्थाप्य विधिनार्ऽचयेत् ॥ १३।१३ ॥
कूर्मः देवासुरार्थं मृते कृतयुगे हरिः ।
कच्छपस्समभूद्धर्तुं मन्धरं तं महाचलम् ॥ १३।१४ ॥
ग्रामादौ वास्तुमध्ये च पर्वताग्रे विशेषतः ।
नन्द्यावर्तविमाने वा फेलाकारविमानके ॥ १३।१५ ॥
एकतालेन मानेन कूर्मरूपं विधीयते ।
कूर्मरूपं ध्रुवं कुर्यात् कौतुकं तु चतुर्भुजम् ॥ १३।१६ ॥
प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः ।
हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते ॥ १३।१७ ॥
“अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्ऽ ।
“अकूपारं जलं कूर्मं कच्छपंऽत्विति के च न ॥ १३।१८ ॥
समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेत् ।
“रायामीशऽस्समुच्चार्य शतमष्टाधिकं यजेत् ॥ १३।१९ ॥
उक्तवत्थ्सापयेद्विद्वान् विधिना सम्यगर्चयेत् ।
मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते ॥ १३।२० ॥
द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः ।
वराहः
देवमानुषतिर्यञ्च स्थावरा जङ्गमास् तथा ॥ १३।२१ ॥
पुरासृष्टा यथा सर्वे चत्वारो भुवि जन्तवः ।
जरायुजाण्डजोद्भिज्जन्वेदजाश्चेति जातितः ॥ १३।२२ ॥
एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः ।
रसातलमगाद्धृत्वा चराचरधरां महीम् ॥ १३।२३ ॥
महावराहवपुषा तां तदोद्धृतवान् हरिः ।
वराहस्त्रिविधः प्रोक्तो देवस्याविष्कृतौ पुनः ॥ १३।२४ ॥
क्रमादादिवराहश्च वराहः प्रलयात्मकः ।
यज्ञवाराह इत्येवं त्रिविधिस्सम्प्रकीर्तितः ॥ १३।२५ ॥
विमाने पर्वताकारे श्रीप्रतिष्ठितके तथा ।
दशतालेन मानेन देवं सूकरमाचरेत् ॥ १३।२६ ॥
चतुबान्हुसमायुक्तं शङ्खचक्रधरं परम् ।
वामपादं समाकुञ्च्य महीमुद्धृत्य सादरम् ॥ १३।२७ ॥
दक्षिणं चण्डितं कुर्यान्महीमूरौ समाचरेत् ।
महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः ॥ १३।२८ ॥
एवमादिवराहन्तु कारयेल्लक्षणान्वितम् ।
अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः ॥ १३।२९ ॥
तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः ।
ततः प्रलयवाराहं पुराभूतं च कारयेत् ॥ १३।३० ॥
शङ्खचक्रधरं सौम्यं पीताम्बरधरं हरिम् ।
दक्षिणं चाभयं हस्तं वामं कट्यवलम्बितम्, ॥ १३।३१ ॥
महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा ।
सुखासनक्रमेणैव चासीनां वा स्वलङ्कृताम् ॥ १३।३२ ॥
एवं प्रलयवाराहं कारयेत्तु विचक्षणः ।
हिरण्याक्षःपुरा रक्षो बलवान् बलिनां वरः ॥ १३।३३ ॥
वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषको ऽवृधत् ।
अवातरत्तदा विष्णुवन् रसूकरमूर्तिमान् ॥ १३।३४ ॥
हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयत् ।
तस्माद्यज्ञवराहं तु तञ्च कुर्याद्विधानतः ॥ १३।३५ ॥
श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा ।
सुखासने समासीनं कुर्याल्लक्षणसंयुतम् ॥ १३।३६ ॥
त्रयाणां च वराहाणां स्थापने भेद उच्यते ।
पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः ॥ १३।३७ ॥
सभ्याग्निकुण्डे रात्रौतु हौत्रशंसनमाचरेत् ।
“वराहं वरदं विष्णुमुर्वीसन्धारणं तथा ॥ १३।३८ ॥
वज्रदंष्ट्रऽमिति प्रोच्य देवमादिवराहकम् ।
“महीं तां पृथुलामुर्वीऽमिति देवीं महीं क्रमात् ॥ १३।३९ ॥
आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेत् ।
“वाराहं प्रलयहरं भूतेशं विष्णुमेव च ॥ १३।४० ॥
जगत्त्रयात्मकम्ऽ चोक्त्वा वराहं प्रलयात्मकम् ।
“वराहं देवरूपं च यज्ञेशं यज्ञवर्धकम् ॥ १३।४१ ॥
विष्णुम्ऽ चेति तथा देवं यज्ञवाराहमाह्वयेत् ।
आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः ॥ १३।४२ ॥
“क्ष्मामेकाऽमिति मन्त्रेण यजेदष्टोत्तरं शतम् ।
हरेरुक्तविधानेन सर्वं पूर्ववदाचरेत् ॥ १३।४३ ॥
नारसिंहः
हिरण्यकशिपुर्नाम दैत्यानां प्रबलो ऽभवत् ।
वरेण गर्वाद्दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ १३।४४ ॥
देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः ।
दिवा वा यदि वा रात्रौ वधो मे न भवेदिति ॥ १३।४५ ॥
लोकानुद्वेजयमास तदा तं दैत्यसत्तमम् ।
हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥ १३।४६ ॥
तत्पालितपुराद्बाह्ये महापर्वतमस्तके ।
रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः ॥ १३।४७ ॥
नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च ।
सन्ध्याकाले ऽवधीत्तन्तु भुवङ्गे स नखायथः ॥ १३।४८ ॥
बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः ।
एवं दैत्यवधं कृत्वा पर्वते ऽन्तरभूत् हरिः ॥ १३।४९ ॥
ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये ।
पर्वताकृतिके वापि श्रीप्रतिष्ठितके ऽपिवा ॥ १३।५० ॥
दशतालेन मानेन नरसिंहं प्रकल्पयेत् ।
गिरिजं स्थूणजं चैव सुदर्शननृसिंहकम् ॥ १३।५१ ॥
तथा लक्ष्मीनृसिंहं च पातालनरसिंहकम् ।
तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः ॥ १३।५२ ॥
सिंहासने समासीनं सर्वाभरण भूषितम् ।
नारसिंहं चतुर्बाहुं शङ्खचक्रधरं परम् ॥ १३।५३ ॥
पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितम् ।
प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च ॥ १३।५४ ॥
वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा ।
श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभाम् ॥ १३।५५ ॥
ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमात् ।
वाहनं सामवेदं च प्रमुखे सम्प्रकल्पयेत् ॥ १३।५६ ॥
साम श्यामनिभं कुर्यात्सर्वाभरणभूषितम् ।
भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः ॥ १३।५७ ॥
कारयेदुक्तवर्णन्तं सर्वाभरणभूषितम् ।
स्थूणजं सम्प्रवक्ष्यामि स्थूणादाविर्बभौ हरिः ॥ १३।५८ ॥
वामपादं समाकुञ्च्य दक्षिणं सम्प्रसार्य च ।
चतुर्भुजधरं देवं शङ्खचक्रेच कारयेत् ॥ १३।५९ ॥
हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा ।
वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेत् ॥ १३।६० ॥
सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकम् ।
शङ्खकुन्देन्दुधवलं सर्वाभरणभूषेतम् ॥ १३।६१ ॥
सुदर्शननृसिंहस्य लक्षणं सम्प्रवक्ष्यते ।
सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलम् ॥ १३।६२ ॥
बृहद्भानुपुरद्वन्द्वं चक्रमध्ये प्रकल्पयेत् ।
चक्रमध्ये समासीनं नृसिंहमरुणप्रभम् ॥ १३।६३ ॥
अत्यन्तभीषणाकारं भक्तानामभयप्रदम् ।
चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेत् ॥ १३।६४ ॥
वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः ।
वामपादं समाकुञ्च्य दक्षिणं सम्प्रसार्य च ॥ १३।६५ ॥
वामोरौ श्रियमासीनां प्राञ्जलीकृतवास्तकाम् ।
वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनम् ॥ १३।६६ ॥
दक्षिणं त्वभयं कुर्यात्पराभ्यां शङ्कचक्रके ।
पातालनारसिंहाख्यमासीनं पूर्ववत्तथा ॥ १३।६७ ॥
फणैस्तु पञ्चभिस्सम्यक् छन्नमूर्धानमेव च ।
दक्षिणादक्षिणं हस्तं वरदं कटीकं तथा ॥ १३।६८ ॥
वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेत् ।
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम् ॥ १३।६९ ॥
दक्षिणं पादमाकुञ्च्य सर्वाभरणभूषितम् ।
नारसिंहमिदं कृत्वास्थापनारम्भमाचरेत् ॥ १३।७० ॥
तत्रचाहवनीयाग्नौ हौत्रशंसनमाचरेत् ।
“नारसिंहं तपोनाथं महाविष्णुं महाबलम् ॥ १३।७१ ॥
भक्तवत्सलऽ मित्युक्त्वा नरसिंहं समाह्वयेत् ।
“तपोनिधिम्ऽ समुच्चार्य शतमष्टाधिकं यजेत् ॥ १३।७२ ॥
स्नापनं चोत्सवं चैव हरेरिव विधानतः ॥ १३।७३ ॥
इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे त्रयोदशो ऽध्यायः।