अथ द्वादशो ऽध्यायः।
भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेत् ।
स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रवित् ॥ १२।१ ॥
क्षौमपट्टादिना छाद्य मणिहेमादिकैः पुनः ।
विविधैः पुष्पमालाद्यैर् अलङ्कृत्य मनोहरम् ॥ १२।२ ॥
यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् ।
तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणम् ॥ १२।३ ॥
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः ।
उत्तरे यागशालायां वास्तु होमं समाचरेत् ॥ १२।४ ॥
मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा ।
संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ॥ १२।५ ॥
त्रिस्संस्कृतो लौकिकाग्निर् मथिताग्निसमो भवेत् ।
आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेत् ॥ १२।६ ॥
ततो ऽन्वाहार्यकुण्डे च पश्चादाहवनीयके ।
आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमात् ॥ १२।७ ॥
सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेत् ।
द्वात्रिंशत्प्रस्थसम्पूर्णं घटमादायचात्वरः ॥ १२।८ ॥
“इषे त्वोर्जेऽत्वादि जपन् तन्तुना परिवेष्ट्य च ।
“शुची वो हव्यऽ इत्युक्त्वा कुम्भप्रक्षालनं चरेत् ॥ १२।९ ॥
नदीतोयं समादाय समुत्पूय च पूरयेत् ।
वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात् प्रयत्नतः ॥ १२।१० ॥
एलातक्कोलकर्पूरैर् गन्धोशीराक्षतैःक्रमात् ।
अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ॥ १२।११ ॥
सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः ।
गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेत् ॥ १२।१२ ॥
अथ वा निक्षिपेत् कूर्चं कृतं दर्भैस्तु केवलैः ।
अस्थि रत्नं सिरा स्तन्तुर् मांसो मृत्स्ना प्रकीर्तिता ॥ १२।१३ ॥
शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च ।
शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितम् ॥ १२।१४ ॥
सप्त धातव इत्येते कुम्भेषु करकेषु च ।
एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ॥ १२।१५ ॥
देवस्य दक्षिणे पार्श्वे कुम्भं तत्र निवेश्य च ।
अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ॥ १२।१६ ॥
स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनम् ।
कुम्भस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखो ऽपिवा ॥ १२।१७ ॥
स्वस्तिकासन मास्थाय ऋजुकायः समाहितः ।
ललाटादिषु स्थानेषु केशवादीन् प्रणम्यच ॥ १२।१८ ॥
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु ।
पश्चात्कुम्भं सुसन्त्पृश्य क्रमात्सूक्तादिकं जपेत् ॥ १२।१९ ॥
आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च ।
सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परम् ॥ १२।२० ॥
श्रीभूसूक्तं ततो जप्त्वा “सहस्रशीर्षंऽसमुच्चरन् ।
वैष्णवं तु ततोजप्त्वा ध्यायेत् सम्यक्समाहितः ॥ १२।२१ ॥
प्राणायामं ततः कुर्यात् रेचपूरककुम्भकैः ।
एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधम् ॥ १२।२२ ॥
तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकम् ।
पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ॥ १२।२३ ॥
तृतीयं कुम्भकं कुर्या दमृतत्वं च संस्मरेत् ।
तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेत् ॥ १२।२४ ॥
कुम्भगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः ।
अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेत् ॥ १२।२५ ॥
तमोङ्कारेण संवेष्ट्य बन्धयुक्तम्? तु निश्मलम् ।
आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेत् ॥ १२।२६ ॥
आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितम् ।
पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनम् ॥ १२।२७ ॥
बिम्बं कुम्भं च सङ्गृह्य स्नानश्वभ्रे निवेशयेत् ।
श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेत् ॥ १२।२८ ॥
कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु ।
देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेत् ॥ १२।२९ ॥
नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः ।
एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ॥ १२।३० ॥
पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च ।
पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ॥ १२।३१ ॥
सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेत् ।
अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ॥ १२।३२ ॥
ताम्बूलसहिते पात्रे? देवस्याग्रे निधायच ।
पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ॥ १२।३३ ॥
देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः ।
“स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमात् ॥ १२।३४ ॥
वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् ।
षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेत् ॥ १२।३५ ॥
तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि ।
तदग्धं यवमादाय तदर्धं तिल्वमेव च ॥ १२।३६ ॥
अण्डजं मुण्डजं चैवरोमजं वामजं तथा ।
चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ॥ १२।३७ ॥
अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेत् ।
मूर्धोपधानं कर्तव्यमूर्ध्वे ऽनस्तं समर्चयेत् ॥ १२।३८ ॥
देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः ।
शाययेच्छयने विद्वान् “यद्वैष्णवऽमिति ब्रुवन् ॥ १२।३९ ॥
देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमात् ।
उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ॥ १२।४० ॥
शय्यावेद्यास्तुपरितस्सर्वान् देवान्त्समर्चयेर्त् ।
इशानादिक्रमाद्देवान् बल्यन्तन्तु समर्चयेत् ॥ १२।४१ ॥
शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ ।
अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान् क्रमात् ॥ १२।४२ ॥
भौमं गुहं च दुर्गां च यमं मन्दं च नैरृतिम् ।
रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ॥ १२।४३ ॥
पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमात् ।
वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ॥ १२।४४ ॥
पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेत् ।
वायव्यादीशपर्यस्तं दक्षिणाभिमूखान् क्रमात् ॥ १२।४५ ॥
शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि ।
भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेत् ॥ १२।४६ ॥
द्वारे द्वारे च धात्रादीन् द्वारदेवान्त्समर्चयेत् ।
विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमात् ॥ १२।४७ ॥
देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः ।
भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ॥ १२।४८ ॥
चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः ।
वेदानध्यापयेद्दिक्षु “ऋचां प्राऽचीरिति श्रुतिः ॥ १२।४९ ॥
सम्भारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमात् ।
हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतम् ॥ १२।५० ॥
विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनम् ।
विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ॥ १२।५१ ॥
पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतम् ।
पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितम् ॥ १२।५२ ॥
अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः ।
सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ॥ १२।५३ ॥
सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेत् ।
“होतरेहिऽ पदे उक्तेततो होता समुच्चरेत् ॥ १२।५४ ॥
“अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेत् ।
पूर्ववत्तत्र चस्थित्वा “ॐ नमः प्रवक्त्रेऽ ब्रुवन् ॥ १२।५५ ॥
होता च नाम शर्मान्तं संयोज्यैव समुच्चरेत् ।
“भूते भविष्यऽतीत्युक्त्वा ब्रूयाद् “धिंऽकारपूर्वकम् ॥ १२।५६ ॥
“भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणम् ।
अदध्यात्समिधो ऽध्वर्युः प्रत्योङ्कारं ततो ऽनले ॥ १२।५७ ॥
होत्रा"ग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते ।
राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेत् ॥ १२।५८ ॥
ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेत् ।
अथ वा कारयेद्विद्वान् काश्यप्रवरं वदन् ॥ १२।५९ ॥
वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि ।
तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेत् ॥ १२।६० ॥
तत “आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः ।
विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेत् ॥ १२।६१ ॥
ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः ।
आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेत् ॥ १२।६२ ॥
सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकम् ।
“स्वस्तिचैऽवेति हुत्वातु तथा चैव “प्रजापतेःऽ ॥ १२।६३ ॥
“अग्निर्धीमतऽयेत्युक्त्वा “आदित्येभ्यऽस्तथैव च ।
“विश्वेभ्यो देवेभ्यऽश्चैव “मरुद्गणेभ्यऽएव च ॥ १२।६४ ॥
“भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेत् ।
दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ॥ १२।६५ ॥
स्रुवेण स्रावयन् विद्वानविच्छिन्नं समाचरेत् ।
विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ॥ १२।६६ ॥
श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवम् ।
एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतम् ॥ १२।६७ ॥
एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयताम् ।
एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेत् ॥ १२।६८ ॥
अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा ।
वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ॥ १२।६९ ॥
ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमम् ।
यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ॥ १२।७० ॥
अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयताम् ।
ब्राह्मञ्च व्याहृतीश्चैव जयादीन् जुहुयात्क्रमात् ॥ १२।७१ ॥
श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके ।
आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकम् ॥ १२।७२ ॥
महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकम् ।
पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतम् ॥ १२।७३ ॥
रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसम्भवे ।
घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ॥ १२।७४ ॥
समिदाज्यं चरुर् लाजाः सर्षपाश्च यवास्तथा ।
तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ॥ १२।७५ ॥
मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितम् ।
एतैस्सप्तदशद्रव्यैर् वैष्णवं जुहुयाद्बुधः ॥ १२।७६ ॥
जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयताम् ।
सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेत् ॥ १२।७७ ॥
अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेत् ।
ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमात् ॥ १२।७८ ॥
एवमध्ययनं प्रोक्त"मृचां प्राचीऽरिति श्रुतिः ।
नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमात् ॥ १२।७९ ॥
ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः ।
ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ॥ १२।८० ॥
पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवत् ।
पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ॥ १२।८१ ॥
ब्रह्मस्थाने विशेषेण पीठं सम्यक् प्रकल्पयेत् ।
तदूर्ध्वे कल्पयेद्विद्वान् नवभागं विभज्य च ॥ १२।८२ ॥
पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेत् ।
सुधया परिपूर्यैव क्षौमेनाच्छादयेद्बुधः ॥ १२।८३ ॥
यजमानस्तु तत्काले आचार्यादीन् प्रणम्यच ।
सपादनवनिष्कं च गुरवे दक्षिणां ददेत् ॥ १२।८४ ॥
प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा ।
सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ॥ १२।८५ ॥
पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककम् ।
अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेत् ॥ १२।८६ ॥
पषन्द्धामसु चाध्वर्योरन्येषां च पृथक् पृथक् ।
निष्कं पादाधिकं दद्यात्सम्पूर्णमिति पठ्यते ॥ १२।८७ ॥
आचार्यस्य नियोगेन दक्षिणादानमीरितम् ।
यजमानस्स्वतन्त्रेण न कुर्यादिति शासनम् ॥ १२।८८ ॥
हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः ।
अदक्षिणं तु यजनं निष्फलं त्विति शासनम् ॥ १२।८९ ॥
मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितम् ।
तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ॥ १२।९० ॥
आचार्यः कुम्भमादाय व्रजेत्पूर्वं ततःक्रमात् ।
नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतम् ॥ १२।९१ ॥
प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च ।
पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ॥ १२।९२ ॥
आचार्यस्सन्न्यसेत्कुम्भं देवं चादायचात्वरः ।
कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ॥ १२।९३ ॥
“भूरसि भूम्ऽ इत्युक्त्वा पीठे देवं सुयोजयेत् ।
तस्य दक्षिणपाशेन्व् तु श्रीदेवीं स्थापयेद्बुधः ॥ १२।९४ ॥
तथैव वामपाशेन्व् तु भूमिं कुर्यात्प्रतिष्ठिताम् ।
देवस्य वामभागे तु स्थापयेद्बिम्बमोत्सवम् ॥ १२।९५ ॥
स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः ।
विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ॥ १२।९६ ॥
ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक् पृथक् ।
श्रीभूसूक्तं पृथक् जप्त्वा पश्चान्न्यासं समाचरेत् ॥ १२।९७ ॥
“सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः ।
पादयोरन्तरे विद्वान् यकारं विन्यसेत्ततः ॥ १२।९८ ॥
बिम्बस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परम् ।
रुक्माभं परमं बीजं सर्वकारणकारणम् ॥ १२।९९ ॥
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतम् ।
पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसम् ॥ १२।१०० ॥
शङ्खचक्रधरं सौम्यं सर्वाभरण भूषितम् ।
“ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ॥ १२।१०१ ॥
“श्रीऽकारं श्रिय इत्युक्त्वा “लऽकारं भुव इत्यपि ।
कूर्चेनादाय तत्तोयं कुम्भस्थं शक्तिसंयुतम् ॥ १२।१०२ ॥
“इदं विष्णुऽस्समुच्चार्य समादाय समाहितः ।
“आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ॥ १२।१०३ ॥
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकम् ।
अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ॥ १२।१०४ ॥
“श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः ।
“मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेत् ॥ १२।१०५ ॥
कौतुकेचौत्सवेचैव स्नापने बलिबेरके ।
प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमात् ॥ १२।१०६ ॥
ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमात् ।
नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ॥ १२।१०७ ॥
अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेत् ।
अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेत् ॥ १२।१०८ ॥
आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरम् ।
स्वार्थं कृत्वा त्रिधैकांशं कुटुम्बार्थे विधाय च ॥ १२।१०९ ॥
अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेत् ।
आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ॥ १२।११० ॥
अविच्छिन्ना यथा पूजा विधिना सम्प्रवर्तते ।
तथा प्रकल्पयेद्विद्वान् भूमिभोगेन वै स्थितिम् ॥ १२।१११ ॥
अर्चकस्यार्ऽचनार्ऽथं च कुटुम्बार्थं च यत्नतः ।
अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ॥ १२।११२ ॥
करग्रहादि रहितामर्चकाय समर्पयेत् ।
ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयम् ॥ १२।११३ ॥
देवनाम्नैव तां भूमिं दद्यादर्चकजीविकाम् ।
इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ॥ १२।११४ ॥
पिता हरिस्तु भगवानर्चकः पुत्र उच्यते ।
पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमात् ॥ १२।११५ ॥
अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलम् ।
अथ वा विलिखेद्विद्वान् नाम्ना वा पूजक स्य च ॥ १२।११६ ॥
तथार्ऽचकस्य चावासमालयस्य समीपतः ।
शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ॥ १२।११७ ॥
अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः ।
यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ॥ १२।११८ ॥
अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान् हरिः ।
अर्चके तु सुसन्तुष्टे तदा तुष्टो जनार्दनः ॥ १२।११९ ॥
रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एवच ।
बिम्बे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ॥ १२।१२० ॥
पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः ।
शक्तिलोभमकृत्वैव करोति विभवान्तरम् ॥ १२।१२१ ॥
पञ्चपर्वसु सङ्क्रान्तौ पुण्याहेष्वितरेषु च ।
विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ॥ १२।१२२ ॥
स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च ।
नटनर्तकदासीनाङ्गायकानां चशक्तितः ॥ १२।१२३ ॥
विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च ।
वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ॥ १२।१२४ ॥
ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरम् ।
अन्येषां विभवानां चतथैवान्यपदार्थिनाम् ॥ १२।१२५ ॥
तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः ।
आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमाम् ॥ १२।१२६ ॥
एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलम् ।
पशुभृत्यादिभोगांश्च वाहनादीन् विशेषतः ॥ १२।१२७ ॥
सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयात् ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ १२।१२८ ॥
यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयम् ।
पूर्वजातिगतास्तस्य पितरः पितुरन्वये ॥ १२।१२९ ॥
मातृपक्षे च येजातास्तस्य मातामहादयः ।
सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरम् ॥ १२।१३० ॥
ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः ।
यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेत् ॥ १२।१३१ ॥
आद्येष्टकादि निर्माणफलमेव प्रपद्यते ।
सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ॥ १२।१३२ ॥
अन्ते विमानमारुह्य विष्णोर्याति परं पदम् ।
किं बहूक्तेन विधिना न दैवं केशवात्परम् ॥ १२।१३३ ॥
तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनम् ।
सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदम् ॥ १२।१३४ ॥
ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनाम् ।
सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनम् ॥ १२।१३५ ॥
सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः ।
साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ॥ १२।१३६ ॥
तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ॥ १२।१३६ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशो ऽध्यायः।