अथैकादशो ऽध्यायः।
अथैकादशो ऽध्यायः।
भगवत्प्रतिष्ठाविधिः
अथातस्सम्प्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्
सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ॥ ११।१ ॥
आचार्यलक्षणम्
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ।
विप्रान् वेदविदश्श्रेष्ठान् धार्मिकान् ज्ञापतत्परान् ॥ ११।२ ॥
सौम्यान् जितेन्द्रियान् शुद्धान् विष्णोराराधने परान् ।
ऊहापोहविधानेन ध्वस्तसंशयमानसान् ॥ ११।३ ॥
पत्न्यपत्ययुतान् शान्तान् स्नानशीलान् सुरूपिणः ।
आहूय पूज्यतत्रैकं सर्वकार्योपदेशकम् ॥ ११।४ ॥
आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेत् ।
भूमिः परीक्षिता येन गुरुणा विधिपूर्वकम् ॥ ११।५ ॥
कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेत् ।
ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेत् ॥ ११।६ ॥
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा ।
तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ ११।७ ॥
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम् ।
तदनुज्ञात मितर माचार्यत्वे नियोजयेत् ॥ ११।८ ॥
अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति ।
क्षीयन्ते वर्णधर्माश्च जायते वर्णसङ्करः ॥ ११।९ ॥
अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते ।
विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरम् ॥ ११।१० ॥
तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेत् ।
श्वेतगन्धानुलेपैश्च श्वेतपुष्पाङ्गुलीयकैः ॥ ११।११ ॥
आचार्यादीन् समफ्यर्च्य नमस्कृत्य स्वदैववत् ।
“कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादरात् ॥ ११।१२ ॥
शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः ।
आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ॥ ११।१३ ॥
तथैवेति सुसङ्कल्प्य कुर्याच्चैवाङ्कुरार्पणम् ।
अङ्कुरार्पणकादूर्ध्व मारम्भदिवसादधः ॥ ११।१४ ॥
कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः ।
शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ॥ ११।१५ ॥
त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः ।
एवं क्रमेणवै विद्वान् ऋत्विग्भिः सार्थमाचरेत् ॥ ११।१६ ॥
अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा ।
मङ्गलानि च दर्वीं च तोरणानि यथाक्रमम् ॥ ११।१७ ॥
न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा ।
तोरणार्थं समाहृत्य लक्षणेन समन्वितम् ॥ ११।१८ ॥
अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च ।
प्रादेशविस्तृतं कुर्यात् षडङ्गुल मथापि वा ॥ ११।१९ ॥
घनं स्याच् चतुरङ्गुल्य? मत वा द्व्यङ्गुलम्भवेत् ।
तस्य मध्ये लिखे द्विद्वान् तत्तद्रूपं पृथक् पृथक् ॥ ११।२० ॥
श्रीवत्सं पूर्णकुम्भं च भेरी मादर्शनं तथा ।
मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलम् ॥ ११।२१ ॥
आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा ।
ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ॥ ११।२२ ॥
पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेत् ।
वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ॥ ११।२३ ॥
अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः ।
एतैश्च सप्तदशभि रावर्त मभिधीयते ॥ ११।२४ ॥
शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि ।
स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतम् ॥ ११।२५ ॥
मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकम् ।
अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलम् ॥ ११।२६ ॥
द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि ।
स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ॥ ११।२७ ॥
जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलम् ।
नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमम् ॥ ११।२८ ॥
षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः ।
युगाङ्गुलाग्रविस्तार मष्टाङ्गुल मथायतम् ॥ ११।२९ ॥
शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलम् ।
मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ॥ ११।३० ॥
पश्चादुपभृतं कुर्यात् प्रादेशत्रय मायतम् ।
प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकम् ॥ ११।३१ ॥
आनुपूर्व्यात्कृशं दण्डं गलान्तमिति सञ्ज्ञितम् ।
ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलम् ॥ ११।३२ ॥
तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते ।
शेषं तु त्षश्रकं कुर्यात् तत्र तेनैव कारयेत् ॥ ११।३३ ॥
उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते ।
ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेत् ॥ ११।३४ ॥
पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकम् ।
निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ॥ ११।३५ ॥
अथ दर्व्यास्तथायामं चतुर्विंशतिकाङ्गुलम् ।
षडङ्गुलं तदग्रं स्यात् पुच्छं पञ्चाङ्गुलं भवेत् ॥ ११।३६ ॥
शेषं त्रयोदशाङ्गुल्यादण्ड मित्युच्यते क्रमात् ।
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् ॥ ११।३७ ॥
मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते ।
दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ॥ ११।३८ ॥
द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लम्बयेत्क्रमात् ।
द्वितालायामसंयुक्तं खादिरं दण्डमेव च ॥ ११।३९ ॥
दशाङ्गुलपरीणाहं समवृत्तं तथैव हि ।
शाखाङ्गुलसमायुक्तं मूलादग्रं तु बन्धयेत् ॥ ११।४० ॥
तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः ।
तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकम् ॥ ११।४१ ॥
एवन्तु मन्थदण्डस्स्यात् कुर्यात् तच्छास्त्रपारगः ।
शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ॥ ११।४२ ॥
षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेत् ।
दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ॥ ११।४३ ॥
तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः ।
मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेत् ॥ ११।४४ ॥
दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते ।
त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ॥ ११।४५ ॥
गव्यं घृतं चाहरेत कापिलं तु गवादिषु ।
आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेत् ॥ ११।४६ ॥
पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा ।
ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ॥ ११।४७ ॥
परिस्तरणकूर्चादीन् समिथादीन् प्रगृह्यच ।
कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ॥ ११।४८ ॥
प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेत् ।
यागशाला
षोडशस्तम्भसंयुक्तं मण्डपं कूटमेववा ॥ ११।४९ ॥
प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेत् ।
निम्नोन्नतं विभज्यैव जलस्थलसमीपकम् ॥ ११।५० ॥
पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमम् ।
मध्ये वेदिं प्रकल्प्यैवबिम्बाध्यर्ध प्रमाणतः ॥ ११।५१ ॥
तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेत् ।
सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकम् ॥ ११।५२ ॥
उत्तरेवापुनः कुर्या दौपासनविधानतः ।
सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेत् ॥ ११।५३ ॥
वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेत् ।
नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ॥ ११।५४ ॥
वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेत् ।
वायव्ये सञ्चयस्थानं कल्पयेत् तद्विधानतः ॥ ११।५५ ॥
वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेत् ।
ऐशान्ये स्नापनश्वभ्रं कल्पयेत् तद्विधानतः ॥ ११।५६ ॥
सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते ।
अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ॥ ११।५७ ॥
एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलम् ।
सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलम् ॥ ११।५८ ॥
औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलम् ।
दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ॥ ११।५९ ॥
द्वादशाङ्गुलसंयुक्तं चतुरश्रं सुवृत्तकम् ।
शल्यलोष्टतुषाङ्गारतृणभस्मादिहीनया ॥ ११।६० ॥
मृदा वा वालुकैस् तत्र पृथक्कुण्डं प्रकल्पयेत् ।
यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ॥ ११।६१ ॥
नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेत् ।
नयनोन्मीलनम्
उक्तक्रियावसाने तु बेरमादायचात्वरः ॥ ११।६२ ॥
शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनम् ।
देवस्य प्रमुखे कुर्याद् धान्यराशिं विशेषतः ॥ ११।६३ ॥
हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनाम् ।
सवत्साङ्गां समादाय देवस्य प्रमुखे न्यसेत् ॥ ११।६४ ॥
घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने ।
रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेत् ॥ ११।६५ ॥
हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेत् ।
हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ॥ ११।६६ ॥
बिम्बस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः ।
पर्यग्नि चैव कृत्वातु प्रोक्षयेत् पञ्चगव्यकैः ॥ ११।६७ ॥
उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः ।
हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकम् ॥ ११।६८ ॥
“विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् ।
पटस्य चान्तर्देवस्य मूर्धादीन् संस्पृशेत्क्रमात् ॥ ११।६९ ॥
विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेत् ।
देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ॥ ११।७० ॥
पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनम् ।
षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ॥ ११।७१ ॥
पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसम् ।
एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमात् ॥ ११।७२ ॥
हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने ।
नयनोन्मीलनं कुर्यात्सर्वसम्पत्समृद्धये ॥ ११।७३ ॥
अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः ।
पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेत् ॥ ११।७४ ॥
तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् ।
तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेत् ॥ ११।७५ ॥
देवस्याङ्गं स्पृशन् हुत्वा मौलिमालादिपूर्वकम् ।
तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ॥ ११।७६ ॥
विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेत् ।
पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ॥ ११।७७ ॥
वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयताम् ।
गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ॥ ११।७८ ॥
पटं पश्चा द्विसृज्यैव गवादीन् सम्प्रदर्शयेत् ।
गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ॥ ११।७९ ॥
कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै ।
बेरपीठे च सम्पाद्य रत्नादीनि विनिक्षिपेत् ॥ ११।८० ॥
रत्नं धातूंश्च बीजानि सुवर्णं चा ऽत्र निक्षिपेत् ।
एवं संस्थाप्य मतिमान् सन्ताप्यैव दृढं यथा ॥ ११।८१ ॥
ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेत् ।
पश्चाज्जलाधिवासादीन् कुर्यात् तन्मन्त्रपारगः ॥ ११।८२ ॥
पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः ।
वसोःपवित्रमित्युक्त्वातत्र कार्यं सञ्चरेत् ॥ ११।८३ ॥
पश्चात् क्षीरं समादाय प्रोक्षयित्वा समाहितः ।
“शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेत् ॥ ११।८४ ॥
अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच ।
प्रदीप मर्पये द्वद्वान् जले तत्राधिवासयेत् ॥ ११।८५ ॥
एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः ।
पञ्चगव्याधिवासं च तथा क्षीराधिवासनम् ॥ ११।८६ ॥
एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनम् ।
ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिम् ॥ ११।८७ ॥
इति
श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकादशो ऽध्यायः।