अथ दशमो ऽध्यायः।
अथ दशमो ऽध्यायः।
अङ्कुरार्पणम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणाम् ।
देवदेवस्य विष्णोर्तु विधिना चाङ्कुरार्पणम् ॥ १०।१ ॥
नवमे सप्तमेवापि पञ्चमे वात्षहे ऽथ वा ।
आलयाभिमुखे वापि ऐशान्ये चोत्तरे ऽपि वा ॥ १०।२ ॥
रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकम् ।
वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकम् ॥ १०।३ ॥
षोडशस्तम्भ संयुक्तं चतुर्द्वारसमायुतम् ।
मण्डपं वात कूटं वा प्रपां वा विधिना चरेत् ॥ १०।४ ॥
गोमयालेपनं कृत्वा “शाम्यऽन्त्विति च? मन्त्रतः ।
श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा ॥ १०।५ ॥
सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा ।
प्राग्रगं चोत्तराग्रं च “सोमंराऽजेति मन्त्रतः ॥ १०।६ ॥
युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरम् ।
चक्रवालाद्यलङ्कृत्य पालिकाङ्कुरशोभितैः? ॥ १०।७ ॥
मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेत् ।
वितानैस् स्तम्भवेष्टैश्च दर्भमालाद्यलङ्कृतम् ॥ १०।८ ॥
धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयम् ।
अन्तस्त्सम्भ चतुष्कोशे स्थापयेदधिदेवताः ॥ १०।९ ॥
बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः ।
अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेत् ॥ १०।१० ॥
पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा ।
पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेत् ॥ १०।११ ॥
सञ्चारार्थं फवन्त्यष्ट परितश्च पदानि वै ।
प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच ॥ १०।१२ ॥
शेषितार्कपदे धीमान् पालिकानां स्थितिं चरेत् ।
व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः ॥ १०।१३ ॥
षोडशाङ्गुल मायामं यथालाभसमुन्नतम् ।
त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनम् ॥ १०।१४ ॥
पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके ।
वक्रतुण्डस्य पीठं स्यात् पश्चिमद्वारदक्षिणे ॥ १०।१५ ॥
पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकम् ।
कुम्भे वाथ समभ्यर्च्येत् तत्पूर्वेशान्त मर्चयेत् ॥ १०।१६ ॥
षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेत् ।
ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेत् ॥ १०।१७ ॥
आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् ।
बाह्ये ऽष्टाङ्गुलिविस्तारे पीठे वा स्थण्डिले ऽपिवा ॥ १०।१८ ॥
चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति ।
दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकम् ॥ १०।१९ ॥
जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेत् ।
दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेत् ॥ १०।२० ॥
भूम्यां वा पूजयेत् तद्वत्कुशकूर्चेषु सत्वरः ।
चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च ॥ १०।२१ ॥
अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च ।
दिगीशमण्डलाकार मन्येषां चतुरश्रकम् ॥ १०।२२ ॥
अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे ।
पालिकादीन् क्रमेणैव मृदा वापूरयेच् छुचिः ॥ १०।२३ ॥
गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रवित् ।
मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः ॥ १०।२४ ॥
सन्न्यस्यैव ततः कुम्भान् द्वारवामे च सन्न्यसेत् ।
“राकामहम्ऽ समुच्चार्य द्वारदक्षिणतः पुनः ॥ १०।२५ ॥
“सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमात् ।
जातिक्रमेण चैशास्तं पालिकानां पदे पदे ॥ १०।२६ ॥
ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः ।
ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् ॥ १०।२७ ॥
ब्रह्माद्यान् हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेत् ।
स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमात् ॥ १०।२८ ॥
चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितम् ।
अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम् ॥ १०।२९ ॥
कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः ।
पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजम् ॥ १०।३० ॥
मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेत् ।
प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा ॥ १०।३१ ॥
प्रत्यग्द्वारविमाने ऽपि चोत्तरद्वारके तधा ।
अब्जजं प्राङ्मुखञ्चान्यान् यथाविधि च संस्मरेत् ॥ १०।३२ ॥
भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः ।
पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन् ॥ १०।३३ ॥
हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणम् ।
स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखम् ॥ १०।३४ ॥
अनन्तं सर्वनागाना मधिपं वारुणीपतिम् ।
फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेत् ॥ १०।३५ ॥
प्रवालाभं गजमुख मासीनं चोत्तरामुखम् ।
कदलीचूतपनसपाशाङ्कुशधरं प्रभुम् ॥ १०।३६ ॥
एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः ।
पीताम्बरे तं श्यामाभं खड्गखेटकधारिणम् ॥ १०।३७ ॥
द्विभुजं
करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेत् ।
सितं श्यामाम्बरं सौन्युं द्विभुजं दण्डधारिणम् ॥ १०।३८ ॥
करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघम् ।
अभ्राभांरक्तवस्त्रान्तां द्विहस्ताम्बुजधारिणीम् ॥ १०।३९ ॥
सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेत् ।
नीलाभां पीतवस्त्रां तां द्विकराम्बुजधारिणीम् ॥ १०।४० ॥
भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेत् ।
कुमुदाभां हरिद्वस्त्रां द्विकराम्पङ्कजाङ्किताम् ॥ १०।४१ ॥
नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेत् ।
धातकीपत्र सङ्काशां नीलनीलाम्बरावृताम् ॥ १०।४२ ॥
द्विकरामम्बुजधरां नन्दान्नैरृतिपदेर्ऽचयेत् ।
धौताभां पीतवस्त्रां तां द्विहस्ताम्बुजधारिणीम् ॥ १०।४३ ॥
पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेत् ।
स्वर्णाभां रक्तवस्त्रां तां द्विहस्ताम्बुजधारिणीम् ॥ १०।४४ ॥
कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमात् ।
रक्ताभा मभ्रसङ्काशवसनां भूषणैर्वृताम् ॥ १०।४५ ॥
द्विकरा मम्बुजधरां सौम्ये चोत्बलकां यजेत् ।
हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकाम् ॥ १०।४६ ॥
सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) ।
रक्ताभां हाटकाभां च हरिणीं नीलवर्णकाम् ॥ १०।४७ ॥
धातकीपद्र सन्ताशां कुमुदोत्पलसन्निभाम् ।
अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः ॥ १०।४८ ॥
विपरीताम्बरधराः सुखासीना स्तदासनाः ।
जयाद्यास्सर्वभूषाङ्गा ध्यायेदत्रेति केचन ॥ १०।४९ ॥
मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः ।
मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थिताम् ॥ १०।५० ॥
हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननाम् ।
पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननाम् ॥ १०।५१ ॥
हेमाङ्गीं रक्तवस्त्रान्तां राकां कुम्भधरां स्थिताम् ।
शेषं तद्वच्छिनीवालीं सिताङ्गीं श्यामलाम्बराम् ॥ १०।५२ ॥
शरावं दधतीं मन्ये मेदिनीसदृशां तथा ।
ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेत् ॥ १०।५३ ॥
बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणम् ।
स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखम् ॥ १०।५४ ॥
एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेत् ।
हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः ॥ १०।५५ ॥
जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु ।
वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखम् ॥ १०।५६ ॥
अधोविपुलनाहेन मध्यनाहं दशाङ्गुलम् ।
कुम्भोदयं तु तत्तुल्यं रसमात्रं मुखायतम् ॥ १०।५७ ॥
कुम्भोष्ठमिव वक्तव्यं कुम्भकुक्षिर्दशाङ्गुलम् ।
आश्रमद्वार संयुक्तं शेषं तत्पालिकासमम् ॥ १०।५८ ॥
तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमम् ।
आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः ॥ १०।५९ ॥
गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेत् ।
चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदम् ॥ १०।६० ॥
कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेत् ।
ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणम् ॥ १०।६१ ॥
पालिकादीन् प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् ।
ऐशान्यादिषु कोणेषु स्थापयेत् ताश्च पालिकाः ॥ १०।६२ ॥
द्वारवामे तु कुम्भं स्याच्छरावं द्वारदक्षिणे ।
नववस्त्रैस्समावेष्ट्य पालिकादीन् समर्चयेत् ॥ १०।६३ ॥
कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा ।
चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेत् ॥ १०।६४ ॥
हविःपात्रं तु सङ्गृह्य वायव्ये सोम मर्चयेत् ।
पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेत् ॥ १०।६५ ॥
“इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः ॥ १०।६६ ॥
“सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः ।
वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेत् ॥ १०।६७ ॥
शूद्रस्तु यजमानश्चेन् नपपस्त्रैर्गुरुं पुनः ।
सम्पूज्य दक्षिणां दत्वाततस्तेनैव वापयेत् ॥ १०।६८ ॥
प्रणवेनार् कपत्रैर्वातथा चैरण्डपत्रकैः ।
आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतम् ॥ १०।६९ ॥
अत्र देवान् विसृज्यैव गुप्तेदेशे निधापयेत् ।
वस्त्रैर्नवैः समाच्छाद्य पालिकादीन् समर्चयेत् ॥ १०।७० ॥
अमावास्याव्यवहिते कुर्यात् सद्या एङ्कुरार्पणम् ।
सङ्क्रमव्यवधाने ऽपि सद्य एवेति के च न ॥ १०।७१ ॥
सद्या एङ्कुरश्चेद्रात्रौ वा दिवावापि च कारयेत् ।
तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस् तथा ॥ १०।७२ ॥
वापयेत्कर्मण स्तस्यसद्य एवतु कारयेत् ।
पात्रालाभेशरावेवा यथालाभं च कारयेत् ॥ १०।७३ ॥
अर्चयेत्तण्डुलान् शुद्धान् सद्यःकालाङ्कुरार्पणे ।
गृह्णीयात् पालिका एव नवपञ्चैककल्पने ॥ १०।७४ ॥
ब्रह्मणो ऽभिमुखेचैकं शेषान्तु परितोदिशि ।
तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेत् ॥ १०।७५ ॥
एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवत् ।
लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः ॥ १०।७६ ॥
अजस्रदीपदानं तु सर्वत्र विधिना चरेत् ।
कर्मान्ते जलमध्येतु निक्षिपे द्विजयाङ्कुरान् ॥ १०।७७ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे दशमो ऽध्यायः