०९

अथ नवमो ऽध्यायः।

अथ नवमो ऽध्यायः।
रज्जुबन्धनम्
अथातस् सम्प्रवक्ष्यामि रज्जुबन्धविधिं क्रमात् ।
यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ॥ ९।१ ॥
सम्पिष्य शोधयित्वैव यथोक्तं सर्व मौषधम् ।
चूर्णानि च यथोक्तानि कषायाणि विधानतः ॥ ९।२ ॥
योजयित्वा यथाभागं गव्यैरपि इहैवच ।
निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ॥ ९।३ ॥
पेषयित्वा मृदा सम्यक्सम्पिष्य च विधानतः ।
साधयित्वाथ वा वामं सार्धंवापि निधाय च ॥ ९।४ ॥
नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेत् ।
सरज्जुं बन्धयेच् छूलं यथातत्सुदृढं तथा ॥ ९।५ ॥
बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः ।
मृदं च तां समादाय शूल मालोपयेत्तथा ॥ ९।६ ॥
शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच ।
तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतम् ॥ ९।७ ॥
घटशर्करया वस्त्रमौक्तिकैर् वर्णकैर् युतम् ।
पूरये दन्यभागं च तत्प्रमाणविधानतः ॥ ९।८ ॥
शर्करां च समालिप्य पटं संयोज्य पूर्ववत् ।
मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ॥ ९।९ ॥
यथोक्तेन विधानेन वर्णानपि सुयोजयेत् ।
मृण्मयं ध्रवबेरं चेत्कारये देवमैव तत् ॥ ९।१० ॥
अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयम् ।
शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतम् ॥ ९।११ ॥
खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेत् ।
छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेत् ॥ ९।१२ ॥
दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे ।
तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेत् ॥ ९।१३ ॥
शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति ।
ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ॥ ९।१४ ॥
मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि ।
पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ॥ ९।१५ ॥
मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितम् ।
अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ॥ ९।१६ ॥
यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेत् ।
योगादिस्थानानि
स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ॥ ९।१७ ॥
सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते ।
सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितम् ॥ ९।१८ ॥
स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच ।
प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखम् ॥ ९।१९ ॥
ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेत् ।
योगकान्तं भवेद्योगं स्थानकस्य विधीयते ॥ ९।२० ॥
चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु ।
आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ॥ ९।२१ ॥
प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखम् ।
विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ॥ ९।२२ ॥
पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च ।
महापद्मविमानं च प्रलीनक वीमानकम् ॥ ९।२३ ॥
अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च ।
महापद्मं च वृत्तं च चतुर्मुखविमानकम् ॥ ९।२४ ॥
एवं विमानकं चैव आसनस्य विधीयते ।
स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकम् ॥ ९।२५ ॥
प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितम् ।
मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटम् ॥ ९।२६ ॥
गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकम् ।
एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ॥ ९।२७ ॥
शयानकेन योग्यानि कथितानि मनीषिभिः ।
आयादिविचारः
आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ॥ ९।२८ ॥
बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते ।
चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनम् ॥ ९।२९ ॥
बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतम् ।
शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणम् ॥ ९।३० ॥
रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतम् ।
बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतम् ॥ ९।३१ ॥
आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर् व्ययाधिके ।
वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ॥ ९।३२ ॥
तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च ।
निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलम् ॥ ९।३३ ॥
नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेत् ।
यदाकारं ध्रुवाकारं तदाकारं च कौतुकम् ॥ ९।३४ ॥
आसने स्थानकंवापि शयाने स्थान मासनम् ।
देवे स्थिते न देव्यौ च आसीने स्थानकासने ॥ ९।३५ ॥
विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः ।
तालनियमः
श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ॥ ९।३६ ॥
तद्देवीनां सरस्वत्या मध्यमं दशतालकम् ।
चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ॥ ९।३७ ॥
ऋषयो वसवो रुद्रा मार्कण्डेयो ऽमितो भृगुः ।
आर्याश्चैव गुहो हीनदशतालमिता मताः ॥ ९।३८ ॥
मरुतो ऽपि च यक्षेशदेववध्वश्शुभाग्रहाः ।
तधान्येतु त्रिधा साध्या नवतालमिता मताः ॥ ९।३९ ॥
दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः ।
कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ॥ ९।४० ॥
नवतालैर् मुनींश्चैव गणांश्चैव तु मानयेत् ।
उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ॥ ९।४१ ॥
मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकम् ।
षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ॥ ९।४२ ॥
भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः ।
कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ॥ ९।४३ ॥
श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै ।
प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ॥ ९।४४ ॥
यजमानगृहेवापि आलये वा मनोरमे ।
अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियात् ॥ ९।४५ ॥
आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा ।
विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ॥ ९।४६ ॥
वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते ।
तस्याग्नेर् दक्षिणे कुर्या द्व्रीहिभि स्थ्सण्डिलं तथा ॥ ९।४७ ॥
चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभम् ।
चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेत् ॥ ९।४८ ॥
शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु ।
“इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानाङ्गं प्रकल्पयेत् ॥ ९।४९ ॥
अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च ।
वैष्णवं च ततो हुत्वा देवा नन्यान् विसृज्य च ॥ ९।५० ॥
देव्यादीन् पार्षदां स्तत्र तत्तन्मन्त्रेण हूयताम् ।
तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ॥ ९।५१ ॥
यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेत् ।
तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकम् ॥ ९।५२ ॥
मानोन्मानप्रमाणेन मतिमान् शिल्पिनाचरेत् ।
शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ॥ ९।५३ ॥
पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेत् ।
यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेत् ॥ ९।५४ ॥
तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै ।
युक्तां सिद्धिं च सम्प्राप्य तं च गर्भं प्रतापयेत् ॥ ९।५५ ॥
शनैर् मृद्भेदनं कृत्वा विधिना बेरमाहरेत् ॥ ९।५६ ॥

इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमो ऽध्यायः।