०८

अथाष्टमो ऽध्यायः।

अथाष्टमो ऽध्यायः।
पीठमानम्
अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः ।
भुवङ्गस्य समं वाथ अध्यर्थं त्रिगुणं तु वा ॥ ८।१ ॥
परितः पावयोरस्य नीत्वावै भागमङ्गुलम् ।
ध्रुवार्चायामशेषेण षण्मानसहितं शुभम् ॥ ८।२ ॥
वक्ष्यामि देव्योर्मानं तत्कण्ठान्तं नासिकान्तकम् ।
हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाध कारयेत् ॥ ८।३ ॥
चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा ।
ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेत् ॥ ८।४ ॥
चतुरश्रं सुवृत्तं वा दलैष्षोडशभिर्युतम् ।
स्थानकं चासनं वापि यानकं वा समाचरेत् ॥ ८।५ ॥
गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलम् ।
तस्योर्ध्ववेदिविस्तारं चतुरङ्गुलमेव हि ॥ ८।६ ॥
उत्सेधं तस्य चार्धन्तुपरितश्चतुरङ्गुलम् ।
विस्तारोत्सेधमानन्तु मध्येनिम्नं षडङ्गुलम् ॥ ८।७ ॥
उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेत् ।
प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेत् ॥ ८।८ ॥
मध्ये कलापदं ब्राह्मं परितो दैविकं तथा ।
वैदाथिकाशीतिपदं मानुषं च तथैव च ॥ ८।९ ॥
पदं स्यात् षण्नवतिकं षष्टिःपैशाचिकं भवेत् ।
अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकम् ॥ ८।१० ॥
तथैव पश्चिमे भागे मध्ये वा स्थानकाय च ।
असनं वापि च तधा देवमानुषमध्यमे ॥ ८।११ ॥
शयानं मानुषे पीठे स्थापयित्वा विशेषतः ।
ध्रुवार्चने विशेषेण नागसूत्रान् समर्प्य च ॥ ८।१२ ॥
कोष्टमेकान पञ्चाशद्भवति ब्राह्ममन्दिरम् ।
दैविकं चाष्टभागन्तु मानुषं चार्त्विजं पदम् ॥ ८।१३ ॥
शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकम् ।
ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ ॥ ८।१४ ॥
भोगमेव ध्रुवार्चायां देवमानुषमध्यमे ।
वीरकं स्थापयेद्विद्वान् पैशाचे क्रमशस्सुधीः ॥ ८।१५ ॥
ग्राममध्ये ध्रुवार्चायां स्थापयेद् भोगमेव तु ।
योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेत् ॥ ८।१६ ॥
अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा ।
आलयोद्दक्षिणे वापि वूर्वे वापि प्रपां तथा ॥ ८।१७ ॥
वेदिं तन्मध्यमे कुर्याद्बिम्बाध्यर्धप्रमाणतः ।
सभ्याग्निकुण्डं तत्प्राच्यां स्नानवेदिं तथोत्तरे ॥ ८।१८ ॥
भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेत् ।
कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा ॥ ८।१९ ॥
आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा ।
प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि ॥ ८।२० ॥
महाकायकृते बेरे प्रोक्षयेत्पञ्चगव्यकैः ।
अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेत् ॥ ८।२१ ॥
आदिमूर्त्यादि सर्वास्तमावाहनमथाचरेत् ।
अवाहनक्रमेणैव निरुप्याज्याहुतीर्यतेत् ॥ ८।२२ ॥
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च ।
श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रन्तथैवच ॥ ८।२३ ॥
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च ।
स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादरात् ॥ ८।२४ ॥
गर्भागारं प्रविश्यैव स्थापिते विहिते ऽपि वा ।
न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा ॥ ८।२५ ॥
ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन् ।
तत्तन्मन्त्रेण देव्यादीन् स्थापयेद्विहिते पदे ॥ ८।२६ ॥
विधिना चाष्टबन्धन्तु संयोज्यैव तु पूरयेत् ।
अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणाम् ॥ ८।२७ ॥
शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमात् ।
शिलाप्रतिष्ठा चैवं स्याद्दारुसङ्ग्रहणं ततः ॥ ८।२८ ॥
दारुसङ्ग्रहणम् चन्दनं खदिरं तालमसनं ।
रक्तचन्दनम्
राजानं चिरिबिल्वञ्च अशोकं स्तिमितं तथा ॥ ८।२९ ॥
खादिरं धन्विनं चैवशिरीषं पद्मकं तथा ।
इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि ॥ ८।३० ॥
चण्डालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते ।
मातृस्थानसमुद्बूते? श्मशाने देवमन्दिरे ॥ ८।३१ ॥
कूपवापीतटाकान्ते मुनिवासे सहालये ।
योगस्थानपदे धर्मशालायां मार्गमध्यमे ॥ ८।३२ ॥
प्रेतभूतालये चोरसत्त्वानां च निषेविते ।
प्रस्थानशलभस्थाने कल्पास्धिनिलये ऽपि च? ॥ ८।३३ ॥
सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके ।
एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः ॥ ८।३४ ॥
पादानपावनं तर्धि मशनेर्यातिपीडनम् ।
असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतम् ॥ ८।३५ ॥
सुजनं तरुणं रूक्षं बहुपक्षसमाकुलम् ।
अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनम् ॥ ८।३६ ॥
कर्मान्तरगृहितं च कर्मान्तरप्रयोजनम् ।
एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि ॥ ८।३७ ॥
आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणम् ।
विस्तारयामसम्पन्नं शुभायैव समायुतम् ॥ ८।३८ ॥
सुमध्यवयसोपेतं कालपुष्पफलप्रदम् ।
ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते ॥ ८।३९ ॥
एवं लक्षण सम्पन्नं द्रुमं गत्वा प्रसन्नधीः ।
तन्मूले गोमयेनापि लेपयेच्चतुरश्रकम् ॥ ८।४० ॥
दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणम् ।
“वनराजेभ्यऽ इत्युक्त्वापायसं च बलिं ददेत् ॥ ८।४१ ॥
परशं च समादाय सेचयेत्पञ्चगव्यकैः ।
मूलमन्त्रं जपित्वा तु ध्मायेद्विष्णुं परात्परम् ॥ ८।४२ ॥
परशुञ्च समादाय भेदयेत्तु विचक्षणः ।
पयः परिस्रवे तत्र शुभमेवं विधीयते ॥ ८।४३ ॥
शोणितप्रस्रवे तत्र निर्दशेदशुभं पुनः ।
पूर्वं तुपतनं शस्तमाग्नेय्यां तु भयावहम् ॥ ८।४४ ॥
याम्यायां मरणं विन्द्यान्नैरृत्यां व्याधिमादिशेत् ।
पश्मिमेतु जनानां तु क्षुत्पिपासाविवर्धनं ॥ ८।४५ ॥
वायव्ये च भवेल्लाभ उत्तरे धनधान्यकं ।
ऐशान्यां शान्तिकं तत्र सर्ववृद्धिकरं नृणाम् ॥ ८।४६ ॥
तद्वृक्षपतने कालेकोशस्सर्वोमृदुर्भवेत् ।
सिहव्याघ्रगजादीनां सर्वसम्पत्करं भवेत् ॥ ८।४७ ॥
वृक्षाग्रं भेवयित्वा तु त्वचं सम्यग्व्यपोह्य च ।
प्रक्षाल्यवारिणा श्वेतचन्दनेनानुलेपयेत् ॥ ८।४८ ॥
श्वेतवस्त्रेण सन्देष्ट्य जयमङ्गलघोषणैः ।
रथेवा शकटे वाथस्कन्थे वा क्षिप्य वेशयेत् ॥ ८।४९ ॥
ग्रामं प्रदक्षिणङ्कृत्या स्वस्तिसूक्तं समुच्चरन् ।
शिष्टच्छायेसमे देशेतालुकोपरिशाययेत् ॥ ८।५० ॥
हेमरूप्यकृतं शूलं सर्वसम्पत्समृद्धिदम् ।
लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणम् ॥ ८।५१ ॥
विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च ।
ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयम् ॥ ८।५२ ॥
ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखम् ।
सरन्ध्रयवकं चोर्ध्वे मानशूलं शिरोधरम् ॥ ८।५३ ॥
हिक्कायां षड्यवं पञ्चाङ्गुलं नाभ्यन्तकं मतम् ।
त्रयोदशाङ्गुलयवं ततो मेढ्रन्तु नाभ्यधः ॥ ८।५४ ॥
योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्टौमतं ततः ।
हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांशकम् ॥ ८।५५ ॥
उष्णीषं मातृकं शूलं स्थानादीनां सनातनम् ।
स्थानासनशयानानां चतुरश्राष्टवर्तुलम् ॥ ८।५६ ॥
यथाक्रमेण युञ्जीयादेवं वा पूर्वमुक्तवत् ।
सर्वेषां देवतानां च सामान्यं च तुरश्रकम् ॥ ८।५७ ॥
चतुर्मात्रार्धविस्तारं शूलमूलविशालकम् ।
अग्रतारं चतुर्मात्रमष्टांशोनमथापि वा ॥ ८।५८ ॥
द्वात्रिंशदङ्गुलायामं वक्षोदण्डस्य चोच्यते ।
तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः ॥ ८।५९ ॥
वक्षोदण्डायतं स्वेन मुखेन द्विगुणं मतम् ।
उक्त्वासमन्तु बाह्यग्रेतत्सप्तांशविहीनकम् ॥ ८।६० ॥
तारं सप्ताङ्गुलं तेषां येन सार्थं त्रिमात्रकम् ।
षोढशाष्ट चतुर्मात्रायामतारसमन्वितम् ॥ ८।६१ ॥
कटिदण्डं भवेत्तस्य पार्श्वमध्यमनिम्नकम् ।
कृत्वैव निम्नकं वक्षोदण्डमध्ये प्रकल्पयेत् ॥ ८।६२ ॥
शेषयोर्वंशदण्डे तु नाभ्यन्तं निम्नमध्यकम् ।
दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि ॥ ८।६३ ॥
वक्षोदण्डस्यमूलाग्रे शिखा सूदस्रदायतम् ।
कालाङ्गुलकलातारं कलार्धविपुलं मतम् ॥ ८।६४ ॥
एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा ।
चतस्रश्शिबिका स्तस्मात्तस्या मेवाष्टबाहुके ॥ ८।६५ ॥
यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः ।
अध्यर्धाङ्गुलविस्तारं शिखायामं तदेव हि ॥ ८।६६ ॥
कटिदण्डं शिखायामं तारे द्वित्षङ्गुले क्रमात् ।
विन?द्विमात्रमेव स्याद्द्विशिखं कटिदण्डकम् ॥ ८।६७ ॥
श्रोणिभागादधस्तेन शेषयेद्वंशदण्डकम् ।
ऊरुदण्डालयं सप्तविंशदङ्गुलमुच्यते ॥ ८।६८ ॥
जानुभागं ततो जङ्घा प्यूर्ध्वदण्डसमायता ।
पादभागाभवे दूरुर्जङ्घयोर्झानुमानकम् ॥ ८।६९ ॥
आरोप्य मानयेज्जानुदण्डस्यासम्भवादपि ।
पाददण्डे समारोप्य मानयेत्तलतुङ्गकम् ॥ ८।७० ॥
ऊरुदण्डविशालं स्यान्मूलेभागं तदश्रके ।
कलाङ्गुलं तदेकं स्याज्जङ्घामूलविशालकम् ॥ ८।७१ ॥
कलाविशालं जङ्घाग्रं कलायामं दशाङ्गुलम् ।
त्रिमात्रकलमूलस्य तारमग्रे ऽधिकाङ्गुलम् ॥ ८।७२ ॥
सप्तविंशति वाग्रोषं दण्डदीर्घं ततः कला ।
कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलाङ्गुलम् ॥ ८।७३ ॥
प्रकोष्ठबाह्वैरारोप्य कोर्परं जानुवद्भवेत् ।
त्षङ्गुलं द्व्यङ्गुलं बाहुदण्डमूलाग्रविस्तरम् ॥ ८।७४ ॥
प्रकोष्ठं दण्डमूलस्य विशालं चद्विमात्रकम् ।
अध्यर्धाङ्गुलमग्रस्य विशालं लक्षणान्वितम् ॥ ८।७५ ॥
वक्षोदण्डशिखामध्ये बाहुमूलगते शिखे ।
बाहुमूलगताभ्यां तु वक्षोदण्डशिखागताम् ॥ ८।७६ ॥
शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः ।
प्रकोष्ठमूलगाभ्यां तु वक्षोदण्डशिखागताम् ॥ ८।७७ ॥
कटिदण्डोरुदण्डाभ्यां तच्छेषं बाहुदण्डवत् ।
जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतम् ॥ ८।७८ ॥
शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः ।
प्रसारितानां पादानां जानुसन्धौतु गृह्यताम् ॥ ८।७९ ॥
तथैव विसृजानां च बुधानां कोर्परं मतम् ।
स्थानादीनां क्रमास्छूलसङ्घातं वक्ष्यते ऽपि च ॥ ८।८० ॥
वंशदण्डं तथा वक्ष्ये दण्डं च कटिदण्डकम् ।
जानुदण्डद्वयं चैव पाददण्डद्वयं तथा ॥ ८।८१ ॥
बाहुदण्डाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः ।
तथा चरणदण्डौ द्वौ दण्डास्सप्त दश स्मृताः ॥ ८।८२ ॥
कटिदण्डार्धमारभ्य यावदासीनरपि ।
तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेत् ॥ ८।८३ ॥
कटिदण्डादधस्ताच्च वक्षोदण्डधरस् तथा ।
योजयेदुपयानीलम्? पृष्ठतो वृत्तमेव वा ॥ ८।८४ ॥
वंशदण्डं तथा तेन क्लेशयेद्विशिखेन तु ।
शिखाग्रसुषीरे कीलं लोहं वा स्कामथापि वा ॥ ८।८५ ॥
दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि ।
अन्यत्कीलं तु सुषिरं कर्तव्यं कथञ्चन ॥ ८।८६ ॥
एवं स्थानस्य सम्प्रोक्तमासनस्य प्रवक्ष्यते ।
मेढ्रमूलादधोमूलं नाहमष्टाङ्गुलं भवेत् ॥ ८।८७ ॥
भागमासनमानस्य भागं श्वभ्रप्रवेशनम् ।
मेढ्रसूत्रसमे सम्यक् शेषयेत्कटिदण्डकम् ॥ ८।८८ ॥
कटिदण्डशिखाह्यूरु दण्डमूलशिखानि च ।
आसने शयने चैव जानुसन्धिः प्रशस्यते ॥ ८।८९ ॥
एकोनविंशतिश्शूलदण्डानां तु समाकृतिः ।
नेष्यते कोर्परे सन्धिशयने दण्डहस्तके ॥ ८।९० ॥
तस्मादथ दश प्रोक्ता शूलसङ्ख्या चतुर्भुजे ।
पञ्चान्ये द्विभुजे दण्ड दण्डा हस्ते चतुर्दश ॥ ८।९१ ॥
दक्षिणे वक्षोदण्डस्यायतमेकादशाङ्गुलम् ।
शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखान्विता ॥ ८।९२ ॥
तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः ।
कटीडण्डद्वयादन्यत् स्थानस्योक्तवदाचरेत् ॥ ८।९३ ॥
उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमम् ।
उद्दण्डस्योरुदण्डस्य शिखा भागायते स्मृते ॥ ८।९४ ॥
तावत्यः कटिदण्डस्य शिखायास्सम्यगन्वये ।
तदायतं तु कार्यार्थं तलदण्डं तु तद्द्वितम् ॥ ८।९५ ॥
स्थिताङ्घ्रिस्थ्सितिमान् प्रोक्तश्शेषं चेदं शयानवत् ।
एवमष्टभुजोपेतं चतुर्भुजसमन्विते ॥ ८।९६ ॥
शूलसङ्ख्यानुरूपेण योजयेत्तु विचक्षणः ।
शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेत् ॥ ८।९७ ॥
स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते ।
नासामानविभागं च शूलदण्डायतं मतम् ॥ ८।९८ ॥
भागतारं भवेद्वंशं दण्डं तच्चतुरश्रकम् ।
यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः ॥ ८।९९ ॥
बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरम् ।
तावत्तु परमं वक्षोदण्डस्यायाममुच्यते ॥ ८।१०० ॥
कच्छांशोनं कराकारं कटिदण्डायतं मतम् ।
ऊरुतारं तु तुर्यांशा दूरुदण्डविशालकम् ॥ ८।१०१ ॥
जङ्घादण्डं
त्रिभागैकं तावश्चे?दष्टांशदण्डकम् ।
मूलमेव मतं चैषामग्रमष्टांशहीनकम् ॥ ८।१०२ ॥
पार्श्वदण्डं न योक्तव्यं स्त्रीणां शूले कथं चन ।
पुरुषाणां प्रयोक्तव्य मध्यर्धाङ्गुलिविस्तरम् ॥ ८।१०३ ॥
सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः ।
भुवङ्गस्य समं प्रोक्तं स्थानके पीठकोन्नतम् ॥ ८।१०४ ॥
भुवङ्गोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः ।
ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलम् ॥ ८।१०५ ॥
विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलैर् युतम् ।
मण्डलं चतुरश्रं वा पीठं कुर्यात्तदर्हकम् ॥ ८।१०६ ॥
दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेत् ।
अपरे स्थानकं स्थाप्य मध्यभागे ऽथ वा पुलः ॥ ८।१०७ ॥
देवमानुषयार्मध्ये वाऽसनं सम्प्रकल्पयेत् ।
किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतम् ॥ ८।१०८ ॥
एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते ।
ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयम् ॥ ८।१०९ ॥
तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतम् ।
पादाश्रयेण पीठेन पद्माकारौ? च संयुतम् ॥ ८।११० ॥
यथासैन्दर्यकं कृत्वा शेषं युक्त्या समाचरेत् ।
बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते ॥ ८।१११ ॥
तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः ।
पादयोरुभयोश्चैव समं तत्रैव मूह्य च ॥ ८।११२ ॥
शेषभोगं त्रिरावेष्ट्य पञ्चवर्णसमायुतम् ।
अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते ॥ ८।११३ ॥
तदुत्सङ्गगतं देवं शयानं सम्प्रचक्षते ।
फणानां पञ्चकं कुर्याद्विषवेगसमन्वितम् ॥ ८।११४ ॥
एवमेव प्रकुर्वीत स्थानासनशयानकान् ।
पीठं कृत्वा प्रयत्नेन स्थापनारम्भमाचरेत् ॥ ८।११५ ॥
अङ्कुरानर्पयित्वैव यागशालां प्रकल्पयेत् ।
शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः ॥ ८।११६ ॥
अथाचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च ।
यजमानसमायुक्तो गर्भगेहं प्रविश्य च ॥ ८।११७ ॥
स्थानासनशयानानां पदमुक्तं विचार्य च ।
पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः ॥ ८।११८ ॥
प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेत् ।
आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेत् ॥ ८।११९ ॥
शूले सार्थं समादाय गायत्रीं वैष्णवं जपन् ।
स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमात् ॥ ८।१२० ॥
आधारदण्डयोः पश्चाच्छिष्टदण्डान्नियोजयेत् ।
पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च ॥ ८।१२१ ॥
ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्? ।
वस्त्रैराभरणैश्चापि पूजयित्वान्ववेक्ष्य च ॥ ८।१२२ ॥
रज्जुबन्धादिकं कर्म बेरोक्तं तत्र कारयेत् ।
अत्रानुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः ॥ ८।१२३ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे ऽष्टमो ऽध्यायः।