०७

अथ सप्तमो ऽध्यायः।

अथ सप्तमो ऽध्यायः।
परिवारालयलक्षणम्।
अथातः परिवाराणामालयस्य च लक्षणम् ।
विमानात्पादहीनं वा तदर्धं वा समाचरेत् ॥ ७।१ ॥
वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकम् ।
सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेत् ॥ ७।२ ॥
द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयम् ।
तस्य पश्चिमदेशेतु पानीयस्थानमेवच ॥ ७।३ ॥
याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपम् ।
ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसञ्चयम् ॥ ७।४ ॥
ईशानसोमयोर्मध्ये स्थापनं ॥। तथा ।
इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ॥ ७।५ ॥
सोपानमध्ये श्रीभूतमर्चयेद्बहिराननम् ।
पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेत् ॥ ७।६ ॥
विमानपालान् दिक्पालान् भास्करेण समायुतम् ।
चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकम् ॥ ७।७ ॥
प्रथमावरणे देहुस्तत्तद्देशे समर्चयेत् ।
उत्सवं बलिमारभ्य अनपायिविशेषतः ॥ ७।८ ॥
अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेत् ।
देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितम् ॥ ७।९ ॥
नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमात् ।
धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ॥ ७।१० ॥
वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकम् ।
मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणम् ॥ ७।११ ॥

बेरलक्षणम्-(शैलादि भेदः)

अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमम् ।
शैलजं रत्नजं चैव धातुजं दारवं तथा ॥ ७।१२ ॥
मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते ।
चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ॥ ७।१३ ॥
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते ।
मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ॥ ७।१४ ॥
शैलजलक्षणम्
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयम् ।
शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ॥ ७।१५ ॥
गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा ।
शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ॥ ७।१६ ॥
जपाकुसुमसङ्काशा शिला शोणितसन्निभा ।
बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ॥ ७।१७ ॥
शिला रक्ता समाख्याता जयदा लक्षणान्विता ।
पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ॥ ७।१८ ॥
शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा ।
माषमुद्गल?सङ्काशा तथाजम्बूफलोपमा ॥ ७।१९ ॥
भृङ्ग? मुत्पलसङ्काशा प्रजावृद्धिकरास्मृता ।
शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ॥ ७।२० ॥
विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि ।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥ ७।२१ ॥
द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा ।
श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ॥ ७।२२ ॥
एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः ।
माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ॥ ७।२३ ॥
मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः ।
माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकम् ॥ ७।२४ ॥
आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदम् ।
विद्वेषणं मरतकं स्तम्भनं पूष्यरागकम् ॥ ७।२५ ॥
नीलं तुरमणैः कार्यं रत्नजानां फलं भवेत् ।
एतेषां कौतुकं कुर्या दन्येषां च विधीयते ॥ ७।२६ ॥
हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकम् ।
आयसं सीसकं चैव त्रपुकं चेति धातुजम् ॥ ७।२७ ॥
हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकम् ।
ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकम् ॥ ७।२८ ॥
प्रोच्चारणे चारकूट मायसं क्षयकारणम् ।
सीसं नीरौगकरणं त्रपुरायुर्विनाशनम् ॥ ७।२९ ॥
एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते ।
देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ॥ ७।३० ॥
असनं खदिरञ्चैव वकुलं शङ्खि वातनम् ।
मयूरपद्मडुण्डूक कर्णिकारं तथैव च ॥ ७।३१ ॥
निबूकाञ्जनिकाचैव प्लक्षमौदुम्बरं तथा ।
एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ॥ ७।३२ ॥
मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च ।
पक्वं च नाशकं चैवम् अपक्वं सर्वसिद्धितम् ॥ ७।३३ ॥

निमित्तदर्शनम्-(शुभनिमित्तानि)

यस्मिन् देशे शिलास्तीति गच्छेन्निश्चितमानसः ।
प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ॥ ७।३४ ॥
शुभवाक्योदकुम्भास्थि गजराजद्विजोत्तमाः ।
चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ॥ ७।३५ ॥
(अशुभनिमित्तानि)
अशोभनांस्तथावक्ष्येशपमाना यथायति ।
विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनम् ॥ ७।३६ ॥
रिक्तकुम्भनिरोधोक्ति तैलभाजनदर्शनम् ।
प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ॥ ७।३७ ॥
शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणम् ।
शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेत् ॥ ७।३८ ॥
वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च ।
परिषेकं ततःकृत्वा कलशान् पञ्च सुन्यसेत् ॥ ७।३९ ॥
मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा ।
संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेत् ॥ ७।४० ॥
अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते ।
अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ॥ ७।४१ ॥
अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेत् ।
पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेत् ॥ ७।४२ ॥
मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा ।
लाञ्छयित्वा विधानेन ततस्तक्षण माचरेत् ॥ ७।४३ ॥
बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता ।
स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ॥ ७।४४ ॥
सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता ।
असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ॥ ७।४५ ॥
बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा ।
कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ॥ ७।४६ ॥
मूर्धनस्तक्षणङ्कृत्वा शिलादोषान्न्तु लक्षयेत् ।
शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ॥ ७।४७ ॥
एकरात्रोषितशिलां सम्प्रक्षाल्याम्भसाततः ।
शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितम् ॥ ७।४८ ॥
रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः ।
मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेत् ॥ ७।४९ ॥
सिते तु मण्डले सर्पोरक्तेतु कृकलासकम् ।
पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेत् ॥ ७।५० ॥
कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः ।
श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ॥ ७।५१ ॥
रक्तमिश्रेतु मण्डूको मण्डलोभवेत् ।
सिन्दूरवर्णे खद्योतः कपोते गृहगौलिका ॥ ७।५२ ॥
गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेत् ।
वर्जयेद्गर्भ संयुक्तां विमलैर् अञ्चिन्तां तथा ॥ ७।५३ ॥
विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतम् ।
परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ॥ ७।५४ ॥
प्रासादगर्भमानं वा हस्तमानमथापि वा ।
प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ॥ ७।५५ ॥
द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा ।
मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ॥ ७।५६ ॥
अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः ।
कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ॥ ७।५७ ॥
त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेत् ।
स्तम्भादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ॥ ७।५८ ॥
उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत् ।
गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेत् ॥ ७।५९ ॥
पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते ।
(उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) ।
हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमम् ॥ ७।६० ॥
षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि ।
एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ॥ ७।६१ ॥
जङ्गमानां भवेन्नाम मूलबेरवशात्तथा ।
बिम्बोदयं चतुर्विंशद्भागानष्टांशकं तथा ॥ ७।६२ ॥
बिम्बोदयं चतुर्विंशद्भागानष्टांशकं तथा ।
वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितम् ॥ ७।६३ ॥
मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः ।
पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ॥ ७।६४ ॥
मूलबेराङ्गुलान्मानमारभ्यैकादशाङ्गुलम् ।
द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलम्? भवेत् ॥ ७।६५ ॥
प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः ।
उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकम् ॥ ७।६६ ॥
निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकम् ।
एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ॥ ७।६७ ॥
कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु ।
अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ॥ ७।६८ ॥
मात्राङ्गुलेन यन्मारं गृहार्चाणां तु नान्यथा ॥ ७।६९ ॥

इति श्रीवैखानसे भगवच्छास्त्रे
भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे
सप्तमो ऽध्यायः।