०६

अथ षष्ठो ऽध्यायः।

अथषष्ठो ऽध्यायः
मूधेन्ष्टकाविधिः
अथवक्ष्येविशेषेण क्रमम्मूर्धेष्टकाविधेः ।
प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ॥ ६।१ ॥
मध्येवेदिम्प्रकल्प्यैव स्थूपिकीलप्रमाणतः ।
सभ्यम्प्रकल्प्यचप्राच्या माघारंविधिवद्यजेत् ॥ ६।२ ॥
वेदिमध्येन्यसेद्विद्वान् सुस्निग्धानिर्व्रणादृढाः ।
वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमात् ॥ ६।३ ॥
किञ्चिदग्रम्भवेन्निम्नं मूलेवैकिञ्चिदुन्नतम् ।
अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखम्भवेत् ॥ ६।४ ॥
शालिपिष्टमयेनाथ लेखयेदक्षराणितु ।
यकारम्पूर्वतोलेख्य रकारन्दक्षिणेन्यसेत् ॥ ६।५ ॥
लकारम्पश्चिमेलेख्यवकारे चोत्तरेलिखेत् ।
लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ॥ ६।६ ॥
पादायामसमन्दीघन्न् विस्तारम्पादसम्मितम् ।
अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ॥ ६।७ ॥
चतुरश्रम्भवेन्मूलं त्रिभागै कंसमंयथा ।
वृत्तन्तदूर्ध्वतःकुर्याच् छीलीपादमधोन्यसेत् ॥ ६।८ ॥
विस्तारत्रिगुणायामं विस्तारसमविस्तरं ।
तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ॥ ६।९ ॥
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेत् ।
वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेत् ॥ ६।१० ॥
मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः ।
पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ॥ ६।११ ॥
शिलादीन् सम्प्रगृह्यैव विमानेरोपयेत्तधा ।
पाणिभ्यांसम्प्रगृह्यैव प्राङ्मुखोदङ्मुखो ऽपिवा ॥ ६।१२ ॥
चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेत् ।
ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिन्न्यसेत्तधा ॥ ६।१३ ॥
कालेशिल्पिनमाहूय पूजयित्वा विशेषतः ।
शिलाद्युपरिविन्यस्य दृढीकरणमाचरेत् ॥ ६।१४ ॥
पादबन्धेगलेचैव विमाने परितःक्रमात् विमानदेवाः ।
प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ॥ ६।१५ ॥
दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च ।
उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेत् ॥ ६।१६ ॥
गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः ।
पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ॥ ६।१७ ॥
सुखसनसमालुक्तं सर्वालङ्कारसंयुतम् ।
व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरम् ॥ ६।१८ ॥
वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु ।
स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेत् ॥ ६।१९ ॥
द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेत् ।
प्रासादलक्षणम्प्रोक्तं मण्डपानामथोच्यते ॥ ६।२० ॥
स्तम्भैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितम् ।
द्वादशस्तम्भसंयुक्तं बीजासनमिति स्मृतम् ॥ ६।२१ ॥
द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते ।
षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनम् ॥ ६।२२ ॥
चतुर्भिष्षष्टिभिस्त्सम्भैर् युक्तंश्रीभद्रकं स्मृतम् ।
स्तम्भानां तु शतैर्युक्तं विशालमिति सञ्ज्ञितम् ॥ ६।२३ ॥
प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः ।
वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ॥ ६।२४ ॥
स्तम्भविष्कम्भमुत्सेधं चतुर्भागेनविस्तृतम् ।
तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ॥ ६।२५ ॥
ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः ।
इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितम् ॥ ६।२६ ॥
पादाधिकमधाध्यर्धं द्विगुणं पादहीनकम् ।
चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ॥ ६।२७ ॥
आयामे तु यथायुक्तं स्तम्भानां विधिरुच्यते ।
द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ॥ ६।२८ ॥
स्तम्भान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः ।
एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ॥ ६।२९ ॥
पाकारं परितः कुर्यात् प्रासादस्य प्रमाणतः ।
प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ॥ ६।३० ॥
अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः ।
अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ॥ ६।३१ ॥
चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका ।
महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ॥ ६।३२ ॥
अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ।
मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ॥ ६।३३ ॥
कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः ।
कूटशालायुतं वापि कुर्यात्प्राकारसंयुतम् ॥ ६।३४ ॥
मूलजं तु तलोत्सेधं हस्तमेवं विधीयते ।
यथालाभोन्नतं वापि प्रधमावरणं स्मृतम् ॥ ६।३५ ॥
षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः ।
जलनिर्याणमार्गं स्यात्पदान्ते तटके ऽपिवा ॥ ६।३६ ॥
प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा ।
द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणम् ॥ ६।३७ ॥
विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा ।
पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ॥ ६।३८ ॥
पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा ।
त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगम् ॥ ६।३९ ॥
प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमम् ।
मध्यमं चोत्करान्तेन कलशान्तं तथाधमम् ॥ ६।४० ॥
एवं प्राकारसङ्गेन तूत्सेधं त्रिविधं क्रमात् ।
उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ॥ ६।४१ ॥
षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरम् अथ वा ।
प्रासादभित्तिस्तु तत्समं भित्तिमेव च ॥ ६।४२ ॥
गर्भे ऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमम् ।
पञ्चभागैकमधमं बलिपीठं तथाभवेत् ॥ ६।४३ ॥
गर्भपञ्चत्रिभागैकं ॥। ।
नवांशेषट्चतुर्भागं मध्यमाधममुत्तमम् ॥ ६।४४ ॥
त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेत् ।
द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ॥ ६।४५ ॥
अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकम् ।
सप्तविंशतिभागैश्च सममेवं समुन्नतम् ॥ ६।४६ ॥
द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः ।
त्षंशं तु कुम्भमित्याहु श्चतुर्थङ्कण्ठमेव च ॥ ६।४७ ॥
षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च ।
चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ॥ ६।४८ ॥
अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकम् ।
एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेत् ॥ ६।४९ ॥

इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठो ऽध्यायः।