अथ पञ्चमो ऽध्यायः
प्रासादलक्षणम्।
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणम् ।
प्रसादङ्कुरुतेयेन प्रासादैर् अतिकीर्तितम् ॥ ५।१ ॥
अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः ।
मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरम् ॥ ५।२ ॥
तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः ।
रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ॥ ५।३ ॥
क्रमशो ऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतम् ।
मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतम् ॥ ५।४ ॥
प्रतिमायाविभागेन तालगण्येन? भाजनम् ।
अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ॥ ५।५ ॥
प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः ।
यागोपकरणानास्तु मात्राङ्गुलविधानतः ॥ ५।६ ॥
देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा ।
अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ॥ ५।७ ॥
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।
षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ॥ ५।८ ॥
हस्तानांलक्षणम्प्रोक्तं मानाङ्गुलविधानतः ।
एकतलादिकल्पनम्
त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ॥ ५।९ ॥
अयुग्मैरथहस्तैस्तुकुर्यादेकतलम्बुधः ।
द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ॥ ५।१० ॥
पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः ।
तलम्प्रत्यधिकङ्कुर्यात् षड्ढस्तन्तुविशेषतः ॥ ५।११ ॥
आद्वादशतलादेवं कुर्याद्विस्तारमानकम् ।
विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ॥ ५।१२ ॥
विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमम् ।
एकादशांशमधमं विस्तारेसप्तधाकृते ॥ ५।१३ ॥
आद्वादशतलादेवमुत्सेधन्तुविधीयते ।
प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशम् ॥ ५।१४ ॥
गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदम् ।
बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेत् ॥ ५।१५ ॥
षड्भिष्षड्भिस्तधासूत्रैः(?) पदानाम्पञ्चविंशतिः ।
नवगभन्गृहम्मथ्येभित्त्यर्थं शेषमुच्यते ॥ ५।१६ ॥
त्रिविधन्तुसमाख्यातम्? प्रासादाकृतयस्तथा ।
नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेत् ॥ ५।१७ ॥
न्थूप्यन्तञ्चतुरश्रंस्यान् नागरंसमुदाहृतम् ।
कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडम्भवेत् ॥ ५।१८ ॥
कण्ठप्रभृतिवृत्तम्य द्वेसरन्तत्प्रचक्षते ।
बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेत् ॥ ५।१९ ॥
यावद्बेरन्त्रिभागैकं विस्तारम्पीठमेवहि ।
पीठस्यत्रिगुणङ्गभन्न् गर्भार्धम्भित्तिरुच्यते ॥ ५।२० ॥
गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेत् ।
अग्रतोमण्डपङ्कुर्यात् प्रासादसमविस्तृतम् ॥ ५।२१ ॥
प्रासादस्य समायामं दशांशम्मुखमण्डपम् ।
प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितम् ॥ ५।२२ ॥
व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते ।
उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतम् ॥ ५।२३ ॥
उत्सेधार्ध दशांशेन हीनम्मध्यममुच्यते ।
विंशत्यापरिहीनंस्या द्विस्तारमधमम्भवेत् ॥ ५।२४ ॥
कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः ।
भागमेकमधिष्ठानमुत्से धोवसुधाभवेत् ॥ ५।२५ ॥
पादायामोद्विभागस्स्याद् भागःप्रस्तारौच्यते ।
भागःकण्ठैतिप्रोक्तं द्विभासंशिखरम्भवेत् ॥ ५।२६ ॥
भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते ।
काममेवंसमाख्यात मनुकायमधोच्यते ॥ ५।२७ ॥
कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकम् ।
एकभागस्तुविस्तारं भागमेकन्तलन्तथा ॥ ५।२८ ॥
दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलम् ।
युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलम्प्रति ॥ ५।२९ ॥
पादमस्यतुविष्कम्भ मष्टभागंविहीनकम् ।
स्तम्भाग्रेणैवगर्तव्य मनुकायप्रमाणतः ॥ ५।३० ॥
उपानस्यतुविष्कम्भ मग्रेपादद्वयम्भवेत् ।
अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेत् ॥ ५।३१ ॥
कुमुदन्तुद्वितीयेन भागेनैवतुकारयेत् ।
कृत्वाशेषञ्चतम्भान्ग मेकांशैनपट्चटिकाम् ॥ ५।३२ ॥
कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते ।
पादबन्धमितिख्यातं सर्वकार्येषुपूजितम् ॥ ५।३३ ॥
प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः ।
जगतीन्तद्वदेवाथ कुमुदम्पृत्तमुच्यते ॥ ५।३४ ॥
भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेत् ।
पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ॥ ५।३५ ॥
द्वाभ्याम्प्रतिमुखङ्कुर्यात् प्रतिक्रममिदम्बवेत् ।
अधिष्ठानमितिख्यातं पादमानम्प्रवक्ष्यते ॥ ५।३६ ॥
चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेत् ।
कुम्भयुक्तन्तथाके चित्केचित्कुम्भविहीनकम् ॥ ५।३७ ॥
कैचिद्वैकुम्भमणीभ्यां युक्तम्पादंस्मरन्तिहि ।
विस्तारेणसमंवापि द्विगुणंवापिमूलतः ॥ ५।३८ ॥
चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा ।
कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकम् ॥ ५।३९ ॥
पादानामाकृतिःप्रोक्ता कुम्भलक्षणमुच्यते ।
पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ॥ ५।४० ॥
द्विगुणन्तुसमुत्सेधं पादविष्कम्भमानतः ।
श्रीकरञ्चन्द्रकास्तञ्च सौमुख्यम्प्रियदर्शनम् ॥ ५।४१ ॥
यथाक्रमेणनामानि कर्तव्यानिविशेषतः ।
श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ॥ ५।४२ ॥
चन्न्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतम् ।
अतिभारेषु स्तम्भेषु प्रियदर्शनमुच्यते ॥ ५।४३ ॥
कृत्वानवांशकङ्कुम्भं भागमेकंहृदुच्यते ।
कुम्भञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतम् ॥ ५।४४ ॥
आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डम् ।
एकेनपद्मकेनैव वृत्तमेकेनवातथा ॥ ५।४५ ॥
विस्तृतौ स्तम्भविस्तारौ द्विगुणौकुम्भमुच्यते ।
अध्यर्थमास्यविस्तारं हारोधामूलपादवत्? ॥ ५।४६ ॥
विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते ।
मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णम् ॥ ५।४७ ॥
त्रिभागैकम्भवेत्पद्मं वेत्रमेकन्तथैवच ।
भागावाफलकारामा वेत्रावापादरूपवत् ॥ ५।४८ ॥
पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः ।
स्तम्भाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ॥ ५।४९ ॥
तदूर्ध्वेपादताङ्कुर्याद्विस्तारम्पादविस्तृतम् ।
समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ॥ ५।५० ॥
त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमम् ।
उत्तमम्पञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ॥ ५।५१ ॥
जगत्यन्तेकुमुदान्ते पट्टिकान्ते ऽथवापुनः ।
जलनिर्याणमागन्न्च नालनिगन्मनङ्क्रियात् ॥ ५।५२ ॥
हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः ।
प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ॥ ५।५३ ॥
गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तराम् ।
भूतसिंहोपमामूर्ध्वसारवाराधिकारयेत् ॥ ५।५४ ॥
द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः ।
बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ॥ ५।५५ ॥
प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरम् ।
व्यासत्रिभागम्भागोनं बहुलन्तुत्रिभागभाम् ॥ ५।५६ ॥
वारिसञ्चारगम्भीरतारं झझन्रलक्षणम् ।
अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतम् ॥ ५।५७ ॥
सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः ।
वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ॥ ५।५८ ॥
शिल्पिनम्पूजयेत्पश्चात्सुमुहूर्तेसुलग्नके ।
आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेत् ॥ ५।५९ ॥
तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमात् ।
बेरप्रासादगभन्स्य यावत्तालस्यचावधि ॥ ५।६० ॥
धारान्तुकेवलङ्कुर्याद् भित्तौतालस्यधीमतः? ।
श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ॥ ५।६१ ॥
धारादलसमाप्तौतु स्थापनञ्चोत्तमम्भवेत् ।
द्वारबन्धस्यपूर्वेतु स्थापनम्मध्यमम्भवेत् ॥ ५।६२ ॥
मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसम् ।
यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ॥ ५।६३ ॥
एवन्नालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकम् ।
विष्कम्भम्पादविस्तार मुत्सेधन्त्रिविधम्भवेत् ॥ ५।६४ ॥
उत्तमन्तुसमोत्सेधं त्रिपादम्मध्यमम्भवेत् ।
अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ॥ ५।६५ ॥
स्तम्भाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेत् ।
तत्समन्निगन्मम्प्रोक्तं पट्टिकालक्षणन्त्विदम् ॥ ५।६६ ॥
द्विभागेनतदूर्ध्वेतु कर्तव्यम्पद्मपट्टिकम् ।
द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मम् ॥ ५।६७ ॥
शेषम्प्रस्तारमानन्तु कर्तव्यम्पञ्चभागिकम् ।
एकेनपट्टिकाङ्कुर्यात् कण्ठमेकेनकारयेत् ॥ ५।६८ ॥
द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकाम् ।
एवम्प्रस्तारमाख्यातं तोरणंवक्ष्यते ऽथुना ॥ ५।६९ ॥
पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा ।
प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेत् ॥ ५।७० ॥
विस्तारन्तुतदर्धंस्या द्विस्तारम्पञ्चभागिकम् ।
मकरांशन्त्रियंशेन शेषम्पादमितिस्मृतम् ॥ ५।७१ ॥
पादान्तराग्रमधवाविस्तारन्तोरणस्यतु ।
पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ॥ ५।७२ ॥
प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणम् ।
वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितम् ॥ ५।७३ ॥
गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते ।
निगन्मन्तुतदर्धंस्यात् त्रिपादंसममेवचा ॥ ५।७४ ॥
शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकाम् ।
विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ॥ ५।७५ ॥
कूटस्यलक्षणम्प्रोक्तं कूटशालंविधीयते ।
कृत्वाप्रासादषड्भागमेकभागंविधीयते ॥ ५।७६ ॥
भागेनकूटशालं स्याद्भागार्धम्पञ्चमम्भवेत् ।
चतुर्गुणम्भवेत्कूयं शालास्याद्गोपुराकृतिः ॥ ५।७७ ॥
शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेत् ।
एकनासिकयायुक्तं पञ्जरंसमुदाहृतम् ॥ ५।७८ ॥
ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः ।
कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मम् ॥ ५।७९ ॥
निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकम् ।
स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ॥ ५।८० ॥
विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं ।
तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ॥ ५।८१ ॥
क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमो ऽध्यायः