०४

अथ चतुर्थो ऽध्यायः।

अथचतुर्थो ऽध्यायः।
अद्येष्टका स्थापनम्।
अथातस्सम्प्रवक्ष्यामि वास्तुनःप्रथमेष्टकाम् ।
साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ॥ ४।१ ॥
शिलायाम्मृण्मयेवाथ कुर्याल्लक्षणसंयुताः ।
शैलादोषविनिर्मुक्तास् सुपक्वा अथमृण्मयाः ॥ ४।२ ॥
विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः ।
उत्तमादिक्रियादेव विस्तारद्विगुणायताः ॥ ४।३ ॥
विस्तारार्थङ्घनम्प्रोक्त मिष्टकानाम्प्रमाणतः ।
आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ॥ ४।४ ॥
तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः ।
विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकम् ॥ ४।५ ॥
सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेत् ।
भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमात् ॥ ४।६ ॥
संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि ।
कौतुकम्बन्धयित्वातु शयनेशाययेत्ततः ॥ ४।७ ॥
हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरम् ।
चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमात् ॥ ४।८ ॥
इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेत् ।
नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषन्नयेत्क्रमात् ॥ ४।९ ॥
प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह ।
आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ॥ ४।१० ॥
द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते ।
सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमात् ॥ ४।११ ॥
विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः ।
तेषाम्मध्येतदागर्ते पूरयेदुदकेनतु ॥ ४।१२ ॥
तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः ।
गभन्न्यासविधिः
अथवक्ष्येविशेषेण गभन्न्यासविधिक्रमम् ॥ ४।१३ ॥
प्रासादोगभन्संयुक्तः कुरुतेसर्वसम्पदम् ।
तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ॥ ४।१४ ॥
त्रयःप्रासादमूलेस्यात् पूर्वन्तुप्रथमेष्टके ।
उपानोपरिमध्यंस्यात् प्रतेरुपरिचान्ततः ॥ ४।१५ ॥
भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः ।
प्रतेरुपरिविप्राणा मानुलोम्येनकारयेत् ॥ ४।१६ ॥
सर्वेषाम्भूगतङ्कार्यं सर्वसिद्धिकरंशुभम् ।
ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेत् ॥ ४।१७ ॥
द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि ।
कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनम् ॥ ४।१८ ॥
फेला
तथाताम्रमयीफेला स्फाटिकावाप्रशस्यते ।
पादविष्कम्भविस्तारां फेलान्तत्त्वपदाञ्चितां ॥ ४।१९ ॥
खण्डस्फुटितवजान्य्सा ॥॥॥॥ ।
घनंविंशतिभागैकं तदर्धार्धांशमेववा ॥ ४।२० ॥
विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयम्भवेत् ।
उत्तमन्तुसमोत्सेधं त्रिपादम्मध्यमंस्मृतं ॥ ४।२१ ॥
अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते ।
त्रिभागैकविधानंस्याद् द्विभागम्भागिकम्भवेत् ॥ ४।२२ ॥
अन्तरेचाङ्गुलायामं तदर्धम्भिन्नत्तिकम् ।
संयोगार्धविहीनंस्याद् विधाने ऽभ्यन्तरेतथा ॥ ४।२३ ॥
प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनम् ।
आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ॥ ४।२४ ॥
गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः ।
रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ॥ ४।२५ ॥
वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् ।
“विष्णुर्योनिऽमित्युक्त्वातु गभन्न्त्रनिधापयेत् ॥ ४।२६ ॥

इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थो ऽध्यायः