अथ तृतीयो ऽध्यायः
अथ तृतीयो ऽध्यायः
विमानभेदाः
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमम् ।
श्रीवत्सम्प्रथमम्प्रोक्तं नन्द्यावर्तन्द्वितीयकम् ॥ ३।१ ॥
तृतीयंस्वस्तिकंविन्द्याच्चतुर्थम्भद्रकंस्मृतम् ।
दण्डकम्पञ्चमन्त्वाहुर् वेदिकंषष्ठमुच्यते ॥ ३।२ ॥
कुम्भकंसप्तमंविन्द्या दष्टमम्पद्मकन्तथा ।
नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकम् ॥ ३।३ ॥
एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः ।
न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितम् ॥ ३।४ ॥
तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते ।
एकप्राचीनवीधीक मुदीचीनान्यवीथिकम् ॥ ३।५ ॥
श्रीवत्समितिविज्ञेयं सर्वविद्यासमम्मतम् ।
मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणम् ॥ ३।६ ॥
तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतम् ।
स्वस्तिकन्त्वोजवीथ्यन्तं भद्रम्मध्यप्रतोलिकम् ॥ ३।७ ॥
एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकम् ।
वृत्तङ्कुम्भकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकम् ॥ ३।८ ॥
ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः ।
प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतम् ॥ ३।९ ॥
द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेत् ।
अयुक्तद्वारदेवस्य भजनन्नाभिधीयते ॥ ३।१० ॥
दण्डकस्तेनमानेन योनिग्रहणमुच्यते ।
शरीरमङ्गम्प्रत्यङ्गं ज्ञात्वायोनिम्प्रकल्पयेत् ॥ ३।११ ॥
ग्रामंशरीरमङ्गंस्स्याद् देवद्विजपरिग्रहम् ।
प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकम् ॥ ३।१२ ॥
दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते ।
दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ॥ ३।१३ ॥
एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेत् ।
हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेत् ॥ ३।१४ ॥
शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमात् ।
सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ॥ ३।१५ ॥
योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता ।
प्रवीणञ्चतुरश्रंस्याच् चेषाणामायतंविदुः ॥ ३।१६ ॥
अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमम् ।
एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेत् ॥ ३।१७ ॥
अङ्गेद्विगुणमायामं पादन्यूनमधाधिकम् ।
अर्धन्नवाहयेन्न्यून मधिकन्तुविधीयते ॥ ३।१८ ॥
आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः ।
पादायामशिखावापि द्विगुणंवाविशेषतः ॥ ३।१९ ॥
समंवासर्वतःकुर्याच् चरीरन्दण्डकादृते ।
वर्धयेदधिकायामं दण्डषोडशकेनवा ॥ ३।२० ॥
दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितो ऽथवा ।
अङ्गमागमविस्तारो दण्डभेदो ऽपियोज्यते ॥ ३।२१ ॥
अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः ।
पातंविस्तारसूत्रेषु विदुस्सूत्रद्वये ऽपिवा ॥ ३।२२ ॥
कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेत् ।
विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ॥ ३।२३ ॥
एवङ्क्रमेण शास्त्रज्ञश्शरीरं सम्प्रकल्पयेत् ॥ ३।२४ ॥
विष्णुस्थापनम्
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके ।
पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनम् ॥ ३।२५ ॥
वैखानसै महाभागैर् वैदिकार्चनतत्परैः ।
वेदान्तवेदिभिर्विप्रैरञ्चयेत् पुरुषोत्तमम् ॥ ३।२६ ॥
शङ्करादि स्थापनम् ईशान ईश्वरञ्चैव सोमेशानावथापिवा ।
पश्चिमेकेशवस्थान मैशान्यांशङ्करालयम् ॥ ३।२७ ॥
अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेत् ।
भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतम् ॥ ३।२८ ॥
देवादीनाम्मुनीनाञ्च कल्पयेत्तुविकल्पकम् ।
गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकम् ॥ ३।२९ ॥
एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेत् ।
निर्मिते ऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ॥ ३।३० ॥
जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः ।
विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ॥ ३।३१ ॥
एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमात् ।
वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेत् ॥ ३।३२ ॥
बालालयन्तुशक्तानामशक्तानांविनाभवेत् ।
ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारन्नकल्पयेत् ॥ ३।३३ ॥
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयो ऽध्यायः