०१

अथप्रथमो ऽध्यायः।

श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितम् ।
तस्मैसमस्तवेदार्थविदे विखनसेनमः ॥ १।मन्ग्१ ॥
श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् ।
विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवम् ॥ १।मन्ग्२ ॥

ऋषिप्रश्योत्तरम्।

ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर ।
त्वमेवसर्ववेत्तासित्वमेववदतांवरः ॥ १।१ ॥
ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमम् ।
इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ॥ १।२ ॥
विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि ।
केनमार्गेणकैर्मन्त्रैःकं देवम्पूजयन्नरः ॥ १।३ ॥
कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिङ्खड्गध्वजम् ॥ १।४ ॥
विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
मुहूर्तविचारः
सर्वारम्भेप्रशस्तंस्याद् आदित्येचोत्तरस्थते ॥ १।५ ॥
अप्रशस्तमितिख्यात मयनेदक्षिणेतथा ।
पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ॥ १।६ ॥
यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतम् ।
रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ॥ १।७ ॥
प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा ।
षष्ठीचसप्तमीचापि दशम्येकादशीतथा ॥ १।८ ॥
त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः ।
प्राजापत्याश्वयुक्चौम्य तिष्यपौष्णत्रिरुत्तराः ॥ १।९ ॥
मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः ।
राशयश्चरवर्ज्यास् स्युरुभीतच्छोभनंस्थिरम् ॥ १।१० ॥
गुरुभार्गवसौम्येन्दु वाराश्श्रेष्ठतमास्मृता ।
एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ॥ १।११ ॥
एषामेवोदयंशस्तं तत्रसोमोदयंविना ।
क्रूरेचतुष्यनक्षत्रे व्याधिपीडाङ्करोतिहि ॥ १।१२ ॥
सूर्यसौरिश्चसौम्यश्चत्रिषडायस्थिताश्शुभाः ।
तधैवलग्नगाःकुर्युर् व्याधिशोकभयानितु।॥ १।१३ ॥
अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिम् ।
एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ॥ १।१४ ॥
भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः ।
द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ॥ १।१५ ॥
राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि ।
सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ॥ १।१६ ॥
मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा ।
वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ॥ १।१७ ॥
गुरुवारेण वर्ज्यौतु तथासौम्योत्तरा उभौ ।
श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेत् ॥ १।१८ ॥
उत्तराषाढानक्षत्रं सोमवारेतु शोभनम् ।
द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ॥ १।१९ ॥
सोम एकावशीयुक्तः करोतिप्राणसंशयम् ।
पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ॥ १।२० ॥
काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेत् ।
भूमिकम्पेदिशान्दाहे दुर्दिनेचण्डमारुते ॥ १।२१ ॥
अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं ।
अयनेविषुवेचैव सन्त्याजङ्ग्रहणीतथा ॥ १।२२ ॥
षडशीतिमुघेवापि कृतंवास्तुविनश्यति ।
एवम्परीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ॥ १।२२ः१ ॥
कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।
अथभूमिम्परीक्ष्यैव पूर्वङ्कर्षणमारभेत् ॥ १।२३ ॥
भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा ।
पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ॥ १।२४ ॥
मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा ।
वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ॥ १।२५ ॥
प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेत् ।
हस्तमात्रङ्खनित्वातु पूरयेत् तत्तुपांसुना ॥ १।२६ ॥
अधिकेपुष्कलाभूमिर् न्यूनेवर्ज्यासमेसमा ।
गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ॥ १।२७ ॥
पद्मङ्कुम्भस्थतोयेन पूरितेतत्कृतावले ।
मुख्यम्प्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ॥ १।२८ ॥
सव्यावर्तन्तथानेष्ट मुदकम्बहुबुद्बुदः ।
उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकम् ॥ १।२९ ॥
एवम्परीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेत् ।
एवम्परीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमम् ॥ १।३० ॥
कर्षणम्
श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा ।
अथवानान्यवर्णौ वा अरोगौबलशालिनौ ॥ १।३१ ॥
क्षीरवृक्षयुगम्बद्ध्वा शमीवृक्षयुतन्तथा ।
असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ॥ १।३२ ॥
यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना ।
तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ॥ १।३३ ॥
धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमात् ।
पुर्वन्देवेशमभ्यर्च्य चक्रम्पश्चात्समर्चयेत् ॥ १।३४ ॥
विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेत् ।
वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेत् ॥ १।३५ ॥
तोयधाराम्पुरस्कृत्य प्रादक्षिण्यवशेनतु ।
अचार्यो ऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ॥ १।३६ ॥
अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः ।
समादायवृषन्तत्र “त्वंवृषभऽऽ इतिब्रुवन्।॥ १।३७ ॥
वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् ।
ततस्संयोजयेत्पश्चाद् बलीवर्दैबलान्विता ॥ १।३८ ॥
“युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलम्पुनः ।
“ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक् प्रगृह्यच ॥ १।३९ ॥
“विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेत् ।
“ये ऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेत् ॥ १।४० ॥
“हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभाम् ।
कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणाम्महीम् ॥ १।४१ ॥
ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेत् ।
अयार्यम्पूजयित्वातु तथैवसहलौवृषौ ॥ १।४२ ॥
प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेत् ।
बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेत् ॥ १।४३ ॥
“इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरम् ।
वापयित्वातुबीजानि “देवित्वयिऽऽ समुच्चरन् ॥ १।४४ ॥
“दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेत् ।
रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेत् ॥ १।४५ ॥
“सस्याऽऽ इमेतिमन्त्रेण सस्यम्पक्वम्प्रणम्यच ।
विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेत् ॥ १।४६ ॥
“शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेत् ॥ १।४७ ॥

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे प्रथमो ऽध्यायः।