अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६८ श्रियै नमः श्रीनिवासाय नमः अनुबन्धः - ३ अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः ण. पुस्तकान्ते धृतोऽयं ग्रन्थभागः ॥ आदित्यास्तमयात्पूर्वमपरञ्चार्धयामकम् । पौर्णमासी यदि भवेद्दीपदानं समाचरेत् ॥ १ ॥ इति भृगुः ॥ उपरागे च ॥ रोहिण्यां वा भरण्यां वा दीपं पर्वणि कारयेत् । अपर्वणि कृतं दीपं राजराष्ट्रविनाशकम् ॥ १ ॥ रजनीमुखवेलायां पूर्णिमा पूर्यते यदि । अविद्धैषा भवेत्तत्र दीपदानं शुभावहम्॥ २ ॥ चतुर्दशी कलामात्रा दृष्टा यदि निशामुखे । विद्धेति प्रोच्यते पूर्णदीपारोपं विनिन्दितम् ॥ ३ ॥ अपरेद्युर्भवेत्पूर्णा विद्धा चेत्पूर्ववासरे । प्रतिपद्यपि सङ्ग्राह्या दीपदानोत्सवक्रिया ॥ ४ ॥ आद्ये पादे प्रतिपदि तदादौ घटिकाद्वये । प्रथमायान्तु तिथ्यां वै दीपारोपः शुभावहः ॥ ५ ॥ उपरागे तथा कुर्यादिति वेदविदो विदुः । पूर्वे परे च सङ्क्रान्तिविद्ध्या रहिता यदि ॥ ६ ॥ ५६९ अर्धरात्रादधश्चेन्दोः ग्रहणञ्चेदनागतम् । तद्दोषरहितायान्तु पूर्णायामुत्सवं चरेत् ॥ ७ ॥ सङ्क्रन्त्या चोपरागेण दूषिते ते यदा भवेत् । दीपोत्सवं न कुर्वीत परस्मिन् दिवसे चरेत् ॥ ८ ॥ एका चेदुपरागेण पूर्णिमा दूषिता यदि । पुरस्ताच्च परस्ताच्च वर्जयित्वाऽष्टनाडिकाः ॥ ९ ॥ दीपोत्सवं तदा कुर्याद्विष्णुप्रीतिकरं शुभम् । अपर्वणि कृतो दीपो राजराष्ट्रं विनाशयेत् ॥ १० ॥ तस्मात्सर्वप्रयत्नेन दीपं पर्वणि कारयेत् । ३० अध्याये ध्यानमुक्तावलीव्याख्यानधृतः पाठः ३६० पु. ४पं - तत्त्रयस्त्रिशदंशैकाधिकः सङ्कर्षणोदयः ४४६. ३६२ पु. १९ प, पश्चात् - तत्प्रतिष्ठाक्रमं वक्ष्ये श्रृणुध्वं मुनिसत्तमाः । (सुमास) ३६२ पु. ३३ पं -औपासनं विरिञ्चस्य वास्तुशान्त्यम्बकोन्मेषमधिवसत्रय तथा ३६३ पु. ५ पं पश्चात् - एककुम्भे सहध्यायेद्वासुदेवेन रुक्मिणीम् । दैविके विष्णुना साकं देव्यौ कुम्भे तु. भावयेत् संस्नाप्य सप्तकलशैः सर्वानेव पृथक् पृथक् २६४ पु. २ पं - रुद्रमन्त्रद्वयेनापि भित्तिस्थरौद्रदेवताः ३६४ पु. २३ पं - प्रत्यक्प्रवृत्तमनसा ३६५पु. ४ पं - परिवारांस्तथोत्तरान् १०४ ३६५ पु. ६ पं - विष्णुना सह १०५ अनुबन्धः - ३ (अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५७० ३६५ पु. ८ पं. पश्चात् - नित्यार्चनविधानेन समभ्यर्च्य पृथक् पृथक् - १०७ शुद्धान्नं वासुदेवस्य विष्णोरपि च पूर्ववत् (हवींषि) ३६५ पु. १६ पं - १० श्लोकात् पश्चात् २७ अध्यायः समाप्यते ॥ स. कोशे कुत्रचिद्धृता अंशाः गायत्रीमन्त्राः - विष्णोः वरं विष्णुर्वरेण्यं भर्गो माया च धीमहि । तन्नो विष्णुः प्रचोदयात् । तथा । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । लक्ष्म्याः - महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । हरिण्याः - धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि । तन्नो धरा प्रचोदयात् । नृसिंहस्य - स्तम्भोद्भवाय विद्महे वज्रदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् । दाशरथिरामस्य - दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् । कृष्णस्य - वटपत्रशयनाय विद्महे गोपीजनवल्लभाय धीमहि । तन्नो कृष्णः प्रचोदयात् । गरुडस्य - तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् । शङ्खस्य - पाञ्चजन्याय विद्महे शुभ्रवर्णाय धीमहि । तन्नो शङ्खः प्रचोदयात् । ५७१ चक्रस्य - सुदर्शनाय विद्महे महाज्वालाय धीमहि । तन्नश्चक्रः प्रचोदयात् । गदायाः - कौमोदक्यै च विद्महे हिरण्मय्यै च धीमहि । तन्नो गदा प्रचोदयात् । श्रीवत्सस्य - श्रीवत्साय विद्महे महाचिह्नाय धीमहि । तन्नो वत्सः प्रचोदयात् । खड्गस्य - तीक्ष्णदंष्ट्राय विद्महे नीलवर्णाय धीमहि । तन्नो खड्गः प्रचोदयात् । तथा प्रकारान्तरेण - श्रीनन्दकाय विद्महे कृष्णवर्णाय धीमहि । तन्नो खङ्गः प्रचोदयात् । शार्ङ्गस्य - श्रीवत्साय विद्महे महासाराय धीमहि । तन्नो शार्ङ्गः प्रचोदयात् । वनमालायाः - स्रजां वराय विद्महे सुगन्धयुक्ताय धीमहि । तन्नो वनमाला प्रचोदयात् । विखनसः - विखनसाय विद्महे विष्णुरूपाय धीमहि । तन्नो विखनाः प्रचोदयात् । विष्वक्सेनस्य - महासेनाय विद्महे विष्वक्सेनाय धीमहि । तन्नो शान्तः प्रचोदयात् । रुद्रस्य - तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । ब्रह्मणः - तत्पुरुषाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्मा प्रचोदयात् । अनुबन्धः - ३ (अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५७२ हंसस्य - हंसहंसाय विद्महे सोऽहं हंसाय धीमहि । हंसस्सोऽहं प्रचोदयात् । मन्त्रस्य - मन्त्रराजाय विद्महे महामन्त्राय धीमहि । तन्नो मन्त्रः प्रचोदयात् । यन्त्रस्य - यन्त्रराजाय विद्महे महायन्त्राय धीमहि । तन्नो यन्त्रः प्रचोदयात् । हनुमतः - आञ्जनेयाय विद्महे रामदूताय धीमहि । तन्नो हनुमान् प्रचोदयात् । सर्पस्य - नागराजाय विद्महे सहस्रशीर्षाय धीमहि । तन्नोऽनन्तः प्रचोदयात् । अर्घ्यप्रदानमन्त्राः जातः कंसवधार्थाय भूभारहरणाय च । दानवानां विनाशाय वसुदेवकुलोद्भव ॥ १ ॥ गृहाणार्घ्यं मया दत्त देवक्या सहितो हरे ॥ श्रीकृष्णाय इदमर्घ्यम् ॥ पाण्डवानां हितार्थाय धर्मसंस्थापनाय च । कौरवाणां विनाशाय जातो देवकिनन्दन । गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥ २ ॥ इदमर्घ्यम् ॥ क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ३ ॥ चन्द्राय इदमर्घ्यम् ॥ ५७३ कौसल्यागर्भसम्भूत लक्ष्मणानुज वत्सल । साधूनाञ्च हितार्थाय जातो राम स्वयं हरे ॥ ४ ॥ दशाननविनाशाय भूभारोत्तारणाय च । दानवानां विनाशाय दैत्यानां निधनाय च ॥ ५ ॥ विभीषणहितार्थाय जातो रामः स्वयं हरिः । चैत्रे मासि सिते पक्षे नवम्याञ्च पुनर्वसौ ॥ ६ ॥ मध्याह्ने कर्कटे लग्ने जातो रामः स्वयं हरिः इदमर्घ्यम् ॥ षडक्षरम् - ओं नमो विष्णवे ॥ अष्टाक्षरम् - ओं नमो नारायणाय ॥ द्वादशाक्षरम् - ओं नमो भगवते वासुदेवाय ॥ त्रयो मन्त्राः व्यापकत्रयसंज्ञिताः ॥ श्रीमति वैद्यनाथदीक्षितीये स्मृतिमुक्ताफले धृतोऽयं भार्गवीयःपाठः ॥ भृगुः ॥ ‘अत ऊर्ध्वं प्रवक्ष्यामि हविःपाकविधिक्रमम् । वराककोद्रवादीनि वर्जयेत्तु विचक्षणः ॥ १ ॥ कुलुत्थं जातिभेदञ्च प्रियङ्गुञ्चैव वर्जयेत् । धान्यानामपि सर्वेषां कृष्णधान्यं विवर्जयेत् ॥ २ ॥ अथवाऽन्यदलब्धञ्चेत् धान्यं शुद्धं समाहरेत् । त्रिवर्षातीतधान्यानि न प्रशस्तानि दैविके ॥ ३ ॥ तण्डुलानपि सर्वांश्च मासादूर्ध्वं विवर्जयेत् । आढकीं जीरकञ्चैव मरीचं सर्षपं तथा ॥ ४ ॥ अनुबन्धः - ३ (अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५७४ राजमाषं महामाषं श्यामाकं कृष्णमाषकम् । माषं मुद्गं महामुद्गं निष्पावं तिलतिल्वकौ ॥ ५ ॥ फलानि चूतकदलीपनसानां समाहरेत् । भेदैस्तु कारवल्ल्यादि सर्वं ग्राह्यमितीरितम् ॥ ६ ॥ क्षुद्रकन्दं महाकन्दमाहरेत्तु विचक्षणः । सहकारप्रभेदैश्च तथैव पनसद्वयम् ॥ ७ ॥ कदल्यादिषु भेदैस्तु गृह्णीयाच्च विचक्षणः । कूष्माण्डोर्वारुकञ्चैव सिंही व्याघ्री तथैव च ॥ ८ ॥ काकोलकादि सङ्ग्राह्यं कलञ्जादीनि वर्जयेत् । बिम्बालर्कफलादीनि वर्जयेदिति केचन ॥ ९ ॥ भेदैस्तु बृहती सर्वा सङ्ग्राह्येत्युच्यते बुधैः इति । मण्डलाभिषेकविधिः ॥ चत्वारिंशद्दिनादूर्ध्वं पञ्चाहानि तु मण्डलम् । पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ॥ १ ॥ नवं कलशमादाय पूर्वोक्तेन विधानतः । समभ्यर्च्य जपं कुर्याद्ब्राह्मणैः ब्रह्मवादिभिः ॥ २ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तमतः परम् । श्रीभूसूक्तं तथा पञ्चशान्तिञ्चैव पृथक् पृथक् ॥ ३ ॥ चतुरावर्त्य जप्त्वा तु ध्रुवस्नपनमाचरेत् । तथैव कौतुकादीनां परिवारस्य कारयेत् ॥ ४ ॥ दध्योदनं गुडान्नञ्च पायसञ्च विशेषतः । निवेद्य देवदेवस्य विनियोगमतः परम् ॥ ५ ॥ ५७५ आचार्यदक्षिणां दद्यादृत्विजाञ्च तथैव च । प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ॥ ६ ॥ एवमेव क्रमेणैव कारयेत्तु विशेषतः । मण्डलार्धन्तु कुर्यच्चेन्मध्यमन्तु प्रचक्षते ॥ ७ ॥ मण्डलान्ते विशेषेण कारयेत् द्विभेजनम् । सभ्याग्निंकुण्डं कृत्वैव पुण्याहमपि वाचयेत् ॥ ८ ॥ आघारं विधिवद्धुत्वा वैष्णवं मन्त्रमेव च । विष्णुसूक्तं ततो हुत्वा नरसूक्तसमन्वितम् ॥ ९ ॥ श्रीभूसूक्तञ्च हुत्वैव पञ्चशान्तिमतः परम् । पारमात्मिकमीङ्काराद्यष्टाशीत्याहुतीर्यजेत् ॥ १० ॥ अष्टाक्षरेण हुत्वै व द्वादशार्णेन वै ततः । पूर्णाहुतिं ततो हुत्वा अन्तहोमञ्च कारयेत् ॥ ११ ॥ पञ्चहस्तप्रविस्तारं धान्यराशिं प्रकल्प्य च । अष्टोत्तरशतं कुम्भं मध्ये श्वभ्रन्तु कारयेत् ॥ १२ ॥ परितोऽष्टपदं हित्वा चतुर्दिक्षु चतुः पदम् । द्वारं कृत्वा तु तच्छेषे द्रव्याणि द्वादश न्यसेत् ॥ १३ ॥ पञ्चगव्यं घृतञ्चैव क्षौद्रं दधि पयस्तथा । गन्धोदमक्षतेदञ्च फलोदककुशोदके ॥ १४ ॥ रत्नोदञ्चैव जप्योदं सर्वौषध्युदकं तथा । एवं क्रमेण संस्थाप्य समभ्यर्च्य यथाक्रमम् ॥ १५ ॥ द्वादशैः कलशैः पूर्वं ध्रुवं संस्नापयेत्क्रमात् । अष्टोपचारैरभ्यर्च्य द्रव्यंप्रति विशेषतः ॥ १६ ॥ अनुबन्धः - ३ (अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५७६ पश्चादष्टोत्तरशतैः कलशैश्च यथाक्रमम् । ध्रुवं संस्नापयेद्वर्णबेरन्तु प्रोक्षयेत्क्रमात् ॥ १७ ॥ आचार्यदक्षिणां दद्यादृत्विजाञ्च विशेषतः । महाहविः प्रभूतं वा देवेशाय निवेदयेत् ॥ १८ ॥ तद्रात्रौ यानमारोप्य देवेशञ्च विशेषतः । ग्रामं प्रदक्षिणं नीत्वा सर्ववाद्यसमन्वितम् ॥ १९ ॥ पक्षिराजाग्रतः कृत्वा रक्षादीपञ्च कारयेत् । जीवस्थाने च संस्थाप्य प्रणाममपि कारयेत् ॥ २० ॥ एवं यः कुरुते भक्त्या मण्डलं स्नपनं हरेः । सर्वान् कामानवाप्यैव स याति परमां गतिम् ॥ २१ ॥ इति श्रीवैखानसे……..उद्देशत्यगविशेष (?) मण्डलाभिषेकविधिर्नाम द्विचत्वारिंशोऽध्यायः ॥ द्वादशाराधनविधिः अतः परं प्रवक्ष्यामि द्वदाशाराधनक्रमम् । प्रतिष्ठान्ते चोत्सवान्ते अङ्कुरं नव कारयेत् ॥ १ ॥ अन्यकाले तु सम्प्राप्ते अङ्कुरार्पणपूर्वकम् । सूर्यचन्द्रोपरागे वा युगान्ते च तथैव च ॥ २ ॥ यजमानस्य जन्मर्क्षे देशदुर्भिक्षसम्भवे । शताभिषेककाले वा एतदर्चनमुत्तमम् ॥ ३ ॥ एतेषां दोषशान्त्थर्थं देवस्याराधने परम् । विष्णुपञ्चदिनं श्रेष्ठमथ देवर्क्षमेव वा ॥ ४ ॥ ५७७ द्वादशाराधनेनैव देवं विधिवदर्चयेत् । प्रातः कालार्चनान्ते तु स्नपनं सम्यगाचरेत् ॥ ५ ॥ आस्थानमण्डपे वाऽपि देवं देवीसमन्वितम् । सर्वाभरणसंयुक्तं सर्ववाद्यैः सहैव च ॥ ६ ॥ चतुर्वेदनिनादैश्च विष्णुभक्तियुतैः जनैः । आचार्यः सुप्रसन्नात्मा परिचारगणैर्वृतः ॥ ७ ॥ ध्यायन्नारायणं देवं प्रार्थयेद्बलमन्त्रतः । पुण्याहं विधिवत्कृत्वा सर्वद्रव्याणि प्रोक्षयेत् ॥ ८ ॥ स्थानशुद्धिं ततः कृत्वा पात्रशुद्धिमतः परम् । योगशास्त्रोक्तमार्गेण प्रणायामञ्च कारयेत् ॥ ९ ॥ आत्मशुद्धिं तथा कृत्वा बेरशुद्धिं तथैव च । पूर्वं मन्त्रासनं दत्वा अलङ्कारासनं ततः ॥ १० ॥ भोज्यासनं क्रमेणैव यथाविधि समाचरेत् । मयैवात्र विशेषेण त्वासनत्रयमीरितम् ॥ ११ ॥ महाहविः प्रभूतं वा देवेशाय निवेद्य च । पानीयाचमनं दत्वा मुखवासं निवेद्य च ॥ १२ ॥ ओं नमो विष्णवे इति तथा नारायणाय च । द्वादशाक्षरमित्येतद्व्यापकत्रयमीरितम् ॥ १३ ॥ व्यापकत्रयसंयुक्तं विष्णुगायत्रियाऽन्वितम् । ततश्च वैष्णवं जप्त्वा ‘यो वा भूते ति पञ्चकम् ॥ १४ ॥ नारायणाख्यगायत्रीं सूक्तमेकाक्षरादिकम् । गुह्याद्गुह्यतमैः श्रेष्ठैः सर्ववेदार्थसारकैः ॥ १५ ॥ अनुबन्धः - ३ (अनुक्रमणिकासु निबन्धादिषु च लभ्यमानः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५७८ एतैस्तु वैष्णवैर्मन्त्रैः ध्यायन् पुष्पाञ्जलिं परम् । देवस्य पादयोर्दत्वा ‘क्षम स्वेति नमेन्मुहुः ॥ १६ ॥ एवमेव प्रकारेण द्वादशावर्त्य कारयेत् । गोदानभूमिदानाभ्यां वस्त्राभरणकुण्डलैः ॥ १७ ॥ आचार्यं पूजयित्वा तु दक्षिणां सोदकं ददेत् । अर्चान्ते तुलसीतीर्थं पूर्वं वैखानसः पिबेत् ॥ १८ ॥ अन्यथा विनियुक्तञ्चेत्तत्पूजा निष्फला भवेत् । सर्वेषां विष्णु भक्तानां पश्चात्तीर्थादि दापयेत् ॥ १९ ॥ यथावित्तानुसारेण ब्राह्मणानपि भोजयेत् । एवं यः कारयेद्भक्त्या द्वादशाराधनं हरेः ॥ २० ॥ सर्वान् कामानिहाप्यैव विष्णुलोके महीयते । इत्यार्षे…….पञ्चचत्वारिंशोऽध्यायः ॥