अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५५४ श्रियै नमः श्रीनिवासाय नमः अनुबन्धः - २ अलब्धसंवादान्तरः प्रक्षिप्तः पाठः ण. कोशधृतोऽयं पाठः ॥ अतः परं प्रवक्ष्यामि भक्तानां स्थापनाविधिम् । जटिनं शिखिनं वाऽपि ब्राह्मणं परिकल्पयेत् ॥ १ ॥ प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम् । क्षत्रियं मकुटोपेतं वैश्यमुद्बद्धकुन्तलम् ॥ २ ॥ कुर्याच्छूद्रानुलोमादीन् रोमचूडासमन्वितान् । अथवा मुण्डितान्वाऽपि भगवद्ध्यानतत्परान् ॥ ३ ॥ यदाकारेण देवेशं ते पश्यन्ति तदाकृतीन् । अष्टतालोक्तमानेन द्विजातीन् परिकल्पयेत् ॥ ४ ॥ मध्यमेनैव शूद्रादीन् कारयेत्तु यथाविधि । प्रमाणं पूर्वमेवोक्तं ध्रुवबेरवशात्तथा ॥ ५ ॥ कृत्वैवं भक्तबिम्बन्तु प्रतिष्ठामाचरेद्बुधः । असुरान् राक्षसान् भूतान् गरुडान् नागकिन्नरान् ॥ ६ ॥ यक्षान् विद्याधरान् सर्वान् ॠषीनथ च मानवान् । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रानप्यन्त्यजानपि ॥ ७ ॥ विष्णुभक्तिसमायुक्तान् तच्चिह्नांस्तत्परायणान् । भक्तानां नाम वक्ष्येऽहं भूतादीनां क्रमं श्रृणु ॥ ८ ॥ ५५५ पोयिगै आल्वार् भूतं भूताह्वयञ्चैव ब्रह्मज्ञानिनमेव च । अयोनिजमिति ख्यातं चतुर्मूर्तिमुदीरयेत् ॥ ९ ॥ पूदत्ताल्वार् सरसं सारसञ्चैव सारसोद्भवमेव च । ज्ञानप्रदीपनञ्चैव इत्येवमर्चयेब्दुधः ॥ १० ॥ पेयाल्वार् महदाह्वयं महाज्ञानं महायोगिनमेव च । ज्ञानाधारञ्च इत्येव नाम्ना चैव समर्चयेत् ॥ ११ ॥ तिरुमलिशै आल्वार् भक्तिसारं महाचक्रं सुदर्शनस्वरूपिणम् । उग्रमूर्तिमिति ज्ञात्वा चतुर्मूर्तिभिरर्चयेत् ॥ १२ ॥ कुलशेखराल्वार् कुलशेखरं नृपतिं कुलश्रेष्ठं तथैव च । महाशूरमिति ख्यातं इत्यावाह्य समर्चयेत् ॥ १३ ॥ तिरुप्पाणाल्वार् येगिवाहं सस्यमूर्तिं सस्योद्भवमिति स्मरन् । ब्रह्मज्ञानिनमित्येवं चतुमूर्तिरुदाहृता ॥ १४ ॥ तोण्डरडिप्पोडि आल्वार् भक्ताङ्घ्रिरेणुं भक्ताढ्यं विष्णुभक्तमिति स्मरन् । दासानुदासमित्याहुरेभिर्नामभिरर्चयेत् ॥ १५ ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५५६ तिरुमङ्गै आल्वार् परकालं परंब्रह्म परंज्योतिषमेव च । त्रिकालज्ञानिनमिति समावाह्य समर्चयेत् ॥ १६ ॥ एंबेरुमानार् यतीन्द्रञ्च यतिश्रेष्ठं रामानुजमिति स्मरन् । आदिशेषस्वरूपञ्च चतुर्मूर्तिभिरर्चयेत् ॥ १७ ॥ नम्माल्वार् पराङ्कुशं शठद्विषं चतुर्वेदस्वरूपिणम् । वकुलाभरणञ्चेति समावाह्य समर्चयेत् ॥ १८ ॥ नाथमुनि आल्वार् नरश्रेष्ठं नाथमुनिं नारायणपरायणम् । निर्द्वन्द्ववमिति चतुर्भिस्सम्यगर्चयेत् ॥ १९ ॥ वेदान्ताचार्यः पराङ्कुशं ब्रह्ममूर्तिं चतुर्वेदान्तपारगम् । वेदान्तदेशिकञ्चेति समावाह्य समर्चयेत् ॥ २० ॥ तिरुक्कच्चिनम्बि वणिजं पुण्डरीकाक्षं वायुमूर्तिमिति स्मरन् । सर्वप्राणिस्वरूपञ्च नामभिस्सम्यगर्चयेत् ॥ २१ ॥ मधुरकवि आल्वार् कवीन्द्रञ्च मुनिश्रेष्ठं कविश्रेष्ठमिति स्मरन् । मधुरं कविमित्येर्भिश्चतुर्मूर्तिभिरर्चयेत् ॥ २२ ॥ ५५७ कूरत्ताल्वार् माधवं मन्मथञ्चैव मानसोद्भवमेव च । श्रीविष्णुपुत्रमित्येतैर्नामभिः सम्यगर्चयेत् ॥ २३ ॥ पिळ्ळैलोकाचार्य भूसुरेन्द्रं महात्मानं ब्राह्मणोत्तममेवच । लोकाचार्यमिति ज्ञात्वा चतुर्मूर्तिभिरर्चयेत् ॥ २४ ॥ * सप्तदशभक्तानां स्थापनारम्भमुत्तमम् । उत्तरायणकाले तु दक्षिणे वा त्वरान्वितः ॥ २५ ॥ शयानं बेरमुत्थाप्य प्रणम्यैवानुमान्य च । पुष्पमाल्यैरलङ्कृत्य पूजयेदष्टविग्रहैः ॥ २६ ॥ अतः परं प्रवक्ष्यामि विष्णुभक्तार्चनं बुधाः । विष्णुभक्तिप्रदञ्चैव विष्णुसारूप्यदं शुभम् ॥ २७ ॥ भक्तार्चनाद्धरिः प्रीतः सर्वाभीष्ठं प्रयच्छति । तस्मादपि विशेषेण कुर्याद्भागवतार्चनम् ॥ २८ ॥ ये तु सायुज्यमापन्नास्तद्रूपं ये समागताः । बलिहोमादिहीनञ्च तेषां विष्णुवदर्चनम् ॥ २९ ॥ ये तु सालोक्यसामीप्ये तेषां शान्तवदर्चनम् । अथ वा केवलं नाम्ना पूजयेदिति केचन ॥ ३० ॥ प्रातः स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च । होमं हुत्वा विष्णुसूक्तं पठन् भक्तालयं व्रजेत् ॥ ३१ ॥ *अत्र षोडशैव नामान्युपलभ्यन्ते ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५५८ तूष्णीं कवाटमुद्घाट्य हस्तौ त्रिस्ताडयेत्तथा । भक्तबिम्बं नमस्कृत्य तन्नामस्तोत्रकं पठेत् ॥ ३२ ॥ तथैवाचमनं दत्वा हस्तेन विमृजेत्पुनः । स्नानासनं कल्पयित्वा पाद्यमाचनमं तथा ॥ ३३ ॥ ‘इषे’ त्वादिजपन् स्नानं कृत्वा विष्णोर्नुकादिना । प्लोतादिकं ततो विद्वानलङ्कारासने ददेत् ॥ ३४ ॥ वस्त्राभरणगन्धाद्यैः विष्णुभक्तं विशेषतः । मन्त्रान्ते नाम संयोज्य विष्णुभक्तविशेषणम् ॥ ३५ ॥ चतुर्थ्या योज्य सर्वत्र पाद्यमाचमनं ददेत् । गन्धं पुष्पं तथा धूपं दीपमर्घ्यं तथा चरेत् ॥ ३६ ॥ दत्वा तथैवाचमनं ददेद्भोज्यासनं तथा । पाद्यमाचमनं दत्वा मधुपर्कं निवेदयेत् ॥ ३७ ॥ ‘तदस्य प्रिय’ मित्युक्त्वा विष्णुशेषं निवेदयेत् । नित्यं निवेद्यं विष्णोर्यत्तद्भक्तैर्भोजमुच्यते ॥ ३८ ॥ अनिवेदितनैवेद्ये मन्त्रहीननिवेदने । जलसम्प्रोक्षणं कृत्वा पूजां सम्यक्समाचरेत् ॥ ३९ ॥ ‘इदं विष्णु’ रिति प्रोच्य पानीयाचमनं ददेत् । फलापूपोपदंशादीन् तत्तन्नाम्ना प्रदापयेत् ॥ ४० ॥ ताम्बूलमपि दत्वैव ‘विचक्रम’ इति ब्रुवन् । पुनराचमनं दत्वा पुनश्च प्रणमेद्भुवि ॥ ४१ ॥ नाम्नापुष्पाञ्जलिं दत्वा ‘क्षम’ स्वेति प्रणम्य च । नाम्ना यात्रासनं प्रोक्तं तत्र शान्तस्य मन्त्रतः ॥ ४२ ॥ ५५९ नाम्ना संयोज्य सर्वत्र दद्यादेवं यथाविधि । एष एव विधिः प्रोक्तो विष्णुभक्तार्चनं प्रति ॥ ४३ ॥ सर्वेषामेव देवानां तत्तन्नामपुरस्सरम् । विष्णुभक्तविशेषेण दद्याच्छेषन्तु पूर्ववत् ॥ ४४ ॥ एवं भक्तार्चनं कुर्वन् विष्णोः प्रीतिकरो भवेत् । इत्यार्षे……श्रीवैखानसे ३३-+३४ अध्यायौ । ख. कोशे अयं पाठः ॥ अतः परं प्रवक्ष्यामि भक्तानामर्चनक्रमम् । विष्णुभक्तिसमृद्ध्यर्थं विष्णुसारूप्यसिद्धये ॥ १ ॥ भक्तानामर्चनं कुर्याद्वैष्णवानां सदा बुधः । भक्तार्चनाद्धरिः प्रीतः सर्वाभीष्टान् प्रयच्छति ॥ २ ॥ तस्मादपि विशेषेण कुर्याद्भागवतार्चनम् । ये तु सायुज्यमापन्नाः तद्रूपन्तु समागताः ॥ ३ ॥ बलिहोमादिहीनं स्यात्तेषां विष्णुवदर्चनम् । ये तु सालोक्यसामीप्ये तेषां शान्तवदर्चनम् ॥ ४ ॥ अथवा स्वस्य नाम्नैव पूजनं केचिदूचिरे । प्रातस्स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ॥ ५ ॥ होमं हुत्वा विष्णुसूक्तं जप्त्वा भक्तालयं व्रजेत् । तूष्णीं कवाटमुद्घाट्य द्विः करावपि ताडयेत् ॥ ६ ॥ भक्तबिम्बं नमस्कृत्य तन्नाम्ना ध्यानमाचरेत् । निर्माल्यञ्च व्यपोह्यैव मार्जन्या मार्जनं चरेत् ॥ ७ ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६० ‘शुची वो हव्य’ मन्त्रेण गोमयेनोपलिप्य च । ‘आमा वाजस्य’ मन्त्रेण पादप्रक्षालनं चरेत् ॥ ८ ॥ ‘धारा’ स्त्विति च मन्त्रेण तोयमाहृत्य पूर्ववत् । गन्धपुष्पादि सम्भृत्य बिम्बस्यैव तु दक्षिणे ॥ ९ ॥ आत्मशुद्धिं ततः कुर्वन्नासीनः सम्यगर्चयेत् । यदाकारं तथा ध्यात्वा सम्यक् ध्यानं समाचरेत् ॥ १० ॥ मूर्तिमन्त्रेण कुर्वीत पञ्चोपनिषदैरपि । तद्बीजं हृदये न्यस्य प्रणवेन सुसंयुतम् ॥ ११ ॥ आवाह्य मूर्तिमन्त्रेण रूपध्यानसमाधिना । एवं मन्त्रासनं कृत्वा ‘प्रतद्विषणु’ रिति ब्रुवन् ॥ १२ ॥ दत्वा पुष्पैरासनन्तु स्वागतं पूर्ववच्चरेत् । तथैव नाममन्त्रेण अर्घ्यमाचमनं ददेत् ॥ १३ ॥ ‘अन्नाद्या’येति मन्त्रेण दन्तधावनमाचरेत् । ‘आपो हि’ ष्ठेति मन्त्रेण मुखप्रक्षालनं चरेत् ॥ १४ ॥ तथैवाचमनं दत्वा प्लोतेन विमृजेत्पुनः । स्नानासनं कल्पयित्वा शुद्धस्नानोक्तमार्गतः ॥ १५ ॥ स्नापयित्वा यथाशक्ति कलशैरभिषेचयेत् । अलङ्कारासने स्थाप्य अङ्गशोधनमाचरेत् ॥ १६ ॥ ‘सोमस्य’त्वेति मन्त्रेण वस्त्रञ्च परिधापयेत् । ‘भूतो भूते’ति मन्त्रेण अलङ्कुर्याच्च भूषणैः ॥ १७ ॥ अग्निंदू तेन मन्त्रेण उपवीतञ्च धारयेत् । श्वेतं शुद्धमृदं गुह्य ऊर्ध्वपुण्ड्राणि धारयेत् ॥ १८ ॥ ५६१ धारयेत्तस्य मध्ये तु मृदा चूर्णेन लक्षणम् । वेणुपत्राकृतिं लिख्य ‘सोम यास्त’ इति ब्रुवन् ॥ १९ ॥ पङ्कं विरूपं बद्ध्वाग्रं छिन्नमूलं पदच्युतम् । शुभ्रं सुसूक्ष्ममव्यग्रमथान्याङ्गुलिकल्पितम् ॥ २० ॥ विगन्धमपसव्यञ्च पुण्ड्रमाहुरनर्थदम् । इति ज्ञात्वा न्यसेद्धीमान् विष्णुभक्ताय योजयेत् ॥ २१ ॥ पद्माक्षतुलसीमाला धारयेद्विष्णुधारिताः । पवित्रं ग्रन्थिसंयुक्तं विष्णुना धारितं पुरा ॥ २२ ॥ धारयेन्मूर्तिमन्त्रेण अभयं तुलसीदलम् । ‘अप्सरस्सु’ समुच्चार्य गन्धं तस्यैव लेपयेत् ॥ २३ ॥ गायत्र्या च स्रजं दत्वा ‘अग्निं दूतेन धूपयेत् । ‘अहम’ ग्नेति मन्त्रेण तथा दीपं प्रदर्शयेत् ॥ २४ ॥ दत्वाऽऽचामं मूर्तिमन्त्रैः घटदीपं प्रदर्शयेत् । दर्पणं चामरं छत्रं व्यजनं मुखवासकम् ॥ २५ ॥ पञ्चोपचारान् विधिवन्नामभिः सम्प्रयोजयेत् । मन्त्रैः पुष्पाञ्जलिं दत्वा द्रामिडैः स्तुतिवेदिभिः ॥ २६ ॥ स्तुत्वा भक्त्या यथान्यायं नित्यं विधिवदर्चयेत् । भोज्यासनात्पूर्वमेव स्रङ्माल्यं पादुकां ददेत् ॥ २७ ॥ देवेशस्य तु नैवेद्यं पश्चाद्दत्वा विशेषतः । द्वाराधिपान् द्वारपालान् दिक्पालाननपायिनः ॥ २८ ॥ नित्यमभ्यर्चनं कुर्यादुत्सवोक्तेषु चालये । मङ्गलाशासनं कृत्वा दिनं प्रति दिनं प्रति ॥ २९ ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६२ विनियोगान् समाप्यैव विष्णुभक्तस्य पूजनम् । एककालं द्विकालं वा त्रिकालं वाऽथ वा चरेत् ॥ ३० ॥ सम्यगाराधनं कुर्यात्सर्वैश्वर्यमवाप्नुयात् । भृगुप्रोक्तविधानेन स्थापकः पूजकस्तथा ॥ ३१ ॥ श्रृण्वन्निमं पठन्वापि विधिमार्षं पुरातनम् । इह लोके श्रियं भुङ्क्ता पुत्रपौत्रसमन्वितः ॥ ३२ ॥ अन्ते विमानमारुह्य विष्णुलोकं स गच्छति । इत्यार्षे….द्विचत्वारिंशोऽध्यायः ॥ अविरलकृतवर्णभ्रेषणं पुस्तकेऽस्मिन् । रचितमनवधाने लेखिनी दूषणं वा । अनुचितमथवा यद्वर्णतो वक्रितो वा करकृतमपराधं क्षन्तुमर्हन्ति सन्तः ॥ १ ॥ विकारिवर्षे वैशाखे शतभिषङ्नक्षत्र संयुते गुरुवारे च षष्ठ्यां वै तुलालग्ने च पूर्तितम् । श्रीवैखानससूत्रेण पराङ्कुशनिवासिना - वेङ्कटेशस्यार्चकेन श्रीरमेण च लेखितम् ॥ २ ॥ श्रीवेङ्कटेश परिपूर्णाय मङ्गलम् ॥ ल कोशे धृतः पाठः ॥ अतः परं प्रवक्ष्यामि श्रियै श्रीमच्छताष्टकम् । पद्मप्रिया पद्मिनी च पद्महस्ता ततोच्यते ॥ १ ॥ पद्मालया पद्मदला पद्माक्षी विश्ववित्प्रिया । विष्णोरनुकूला पद्मवासाः पद्मदेहिन्यधोच्यते ॥ २ ॥ ५६३ श्रियै पूर्वा ज्ञानपूर्वा सुखदा च सुतृप्तिका । पुष्टिकरा महालक्ष्मीः लक्ष्मीपूर्वाऽभिवृद्धिदा ॥ ३ ॥ प्रमोदा सम्भवा लक्ष्मीम्भरा चात्मम्भरोदिता । वृद्धिसमुद्भवा चेच्छा विधायिन्युदिता पुनः ॥ ४ ॥ पुण्याङ्गा तत्स्वरूपापि चोर्वहा सत्यका तथा । पुण्यात्महृदयावासिन्यस्य वक्षःस्थलस्थिता ॥ ५ ॥ पुण्यनेत्रा पुण्यदायिनी नित्यपुण्या सुपुण्यका । वरमोदिनी भद्रतारा तथा सर्वार्थसाधिनी ॥ ६ ॥ स्यात्सुकान्तिप्रदा सर्वानन्दा पत्नी हरेर्मता । शोभनाङ्गा श्रुतिरूपा भोगा भोगप्रतिष्ठिता ॥ ७ ॥ वरप्रसादिनी चेति क्रमाच्चैव सुहूयताम् । लोकमाता जगदुमा नित्यानन्दा च भोगदा ॥ ८ ॥ सर्वभोगा धारिणी च भोगगुप् पुण्यवत्यपि । वसुन्धरा सुपत्री च तथा वसुकराऽपि च ॥ ९ ॥ साधिनी सङ्कल्पतृप्तिः स्यान्महामानसी तथा । सङ्कल्पसाधिनी चैव ब्रह्मणी कल्प्य साधिनी ॥ १० ॥ भोगवती दीप्तिकरी सम्यक् श्रीश्च सुगन्धिनी । विद्या जयकरी सम्यक् पुष्टिः तद्वच्च पुष्टिका ॥ ११ ॥ विद्याधरी शान्तिदा च विद्यारूपेष्टसाधिनी । कल्याणसुगुणा नित्यानपायिन्यथ सा रमा ॥ १२ ॥ हंसवाहिन्यथो देवी भूतिका श्रीकरा तथा । प्रह्लादिनी च चित्ता च चित्तरूपा तथोच्यते ॥ १३ ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६४ सर्वायुषाणामायुर्मे पाह्यश्विन्यौ च पुरोदितात् । सर्वदायिन्यथ भवेत्प्रयोजनकरा तथा ॥ १४ ॥ प्रधानकारिणी चैव समृद्धिः पुण्यवर्धिनी । तोया जयकरी सन्तानकरी वैष्णवी तथा ॥ १५ ॥ विष्णोश्च संवहा संवित्तथा वृषभवाहिनी । वराङ्गना च दिव्याङ्गी चेति सम्यक् सुहूयताम् ॥ १६ ॥ सन्धारिणां वरिष्ठा स्यादुद्वहन्त्यपि वै क्रमात् । देव्यै कमलधारिण्यै तथा कमलवासिनी ॥ १७ ॥ कमलाक्षप्रिया चैव चतुर्थ्यन्तेन हूयते । ‘शंसा नियच्छत्यनिशं - भूय आत्मा’ द्वयं तथा ॥ १८ ॥ श्रीशताष्टकमित्येतद्धोतव्यं प्रीतये श्रियः । इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे - श्रीशताष्टकं नाम सप्तचत्वारिंशोऽध्यायः॥ अतः परं प्रवक्ष्यामि महीदेव्याः शताष्टकम् । कमला कमलावासनेत्रपादा मही स्मृता ॥ १ ॥ हरिणी चैव पोष्णी च क्षोणी चापि मही तथा । (अतला नितला चैव वितला सुतला तथा) रूपपूर्वा तला चैव नितला विताल तथा ॥ २ ॥ सुतला रसातला चैव तलातलमहातला । भूमिर्भूतलरूपा च लोकरूपोपसंहिता ॥ ३ ॥ भूर्भुवः स्वर्महर्जनस्तपस्सत्याकृतिस्तथा । ब्रह्मतार्क्ष्येशविष्ण्वण्डरूपान्तर्बहिरण्डका ॥ ४ ॥ ५६५ पञ्चभूतमनोबुद्धिचिताहङ्कार रूपिणी । प्रकृतिर्विकृतिर्विश्वरूपा स्याद्विश्वसाधिनी ॥ ५ ॥ धरित्री स्याच्च महती नदी तद्रूपका तथा । आत्मम्भरा वर्धनी च धरित्री महती तथा ॥ ६ ॥ धराधरवर्धिनी च धराधरस्वरूपिणी । वसुन्धरा वसुकरा रूपा स्याद्धनवर्धिनी ॥ ७ ॥ स्यान्महाफलरूपा च महाफलविवर्धिनी । चराचरस्वरूपा च तथा सागररूपिणी ॥ ८ ॥ सर्वकामसमृद्धिः स्यात्तथा सागरवर्धिनी । प्रो..पते मङ्गलकरा तथा काममनोहरा ॥ ९ ॥ श्यामाङ्ककान्तिरपि च तथा चातकवाहिनी । नीलोत्पलकरा चापि पुण्डरीकेक्षणा तथा ॥ १० ॥ पुण्डरीकाक्षदयिता तथा विष्णुमनोहरा । विष्णोः प्रियतमा वक्षःस्थलस्थानाऽतिकान्तिका ॥ ११ ॥ आदिमूर्तिप्रिया नित्यानन्दा चानन्दूरूपिणी । सत्या सत्यप्रिया सत्यनेत्रा चादिकिटिप्रिया ॥ १२ ॥ माधवस्य प्रिया चापि महालक्ष्मीप्रिया तथा । वरमोदिन्यथ वरप्रसादिन्यपि चोच्यते ॥ १३ ॥ वररूपा च पुण्याङ्गा पुण्यवत्यपि तत्प्रथा । पुण्यरूपा पुण्यनेत्रा तत्पुष्टिस्तुष्टिरेव च ॥ १४ ॥ इष्टप्रदा च यज्ञाङ्गी इष्टसाधिन्यथोच्यते । आत्मम्भरा आत्मरूपा आत्मरूपेश्वरप्रिया ॥ १५ ॥ अनुबन्धः - २ (अलब्धसंवादान्तरः प्रक्षिप्तः पाठः) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६६ तद्वच्च सा यज्ञयज्ञा तथा चौङ्कार रूपिणी । स्वाहाकारा स्वधाकारा वेदविद्यास्वरूपिणी ॥ १६ ॥ महादेवी महामाना इति मन्त्रैर्यथाक्रमम् । महीशताष्टकं प्रोक्तं चतुर्थ्यन्तेन संयुतम् ॥ १७ ॥ ‘तत्ती्रण्येषा तयादित्या’ तथा व्याहृतिभिर्हुनेत् । इत्यार्षे श्रीवैखानसे - महीशताष्टकं नाम अष्टचत्वारिंशोऽध्यायः ॥ अतः परं प्रवक्ष्यामि देवेशस्य शताष्टकम् । नारायणो नरः शौरिश्चक्रपाणिर्जनार्दनः ॥ १ ॥ वासुदेवो जगद्योनिः वामनो ज्ञानपञ्जरः । श्रीवल्लभो जगन्नाथश्चतुर्मूर्तिश्चतुर्भुजः ॥ २ ॥ गजेन्द्रघ्नो गजर्तिघ्नः केशवः क्लेशनाशनः । कैटभारिरविद्यारिः कामदः कमलेक्षणः ॥ ३ ॥ कंसशत्रुरघारातिः काकुत्स्थः खगवाहनः । नीलाम्बुजद्युतिर्नित्यो नित्यतृप्तो निराश्रयः ॥ ४ ॥ ब्रह्मण्यः पृथिवीनाथः पीतवासा गुहाशयः । वेदगर्भो विभुर्विष्णुः श्रीमान् त्रैलोक्यभूषणः ॥ ५ ॥ यज्ञमूर्तिरमेयात्मा वरदो वासवानुजः । भक्तिप्रियो जगत्पूज्यः परमात्मा सुरान्तकः ॥ ६ ॥ देवदेवी हृषीकेशः शङ्करो गरुडध्वजः । नारसिंहो महादेवः स्वयम्भूर्भुवनेश्वरः ॥ ७ ॥ श्रीधरो देवकीपुत्रः पार्थसारथिरच्युतः । शङ्कपाणिः परंज्योतिरात्मज्योतिरचञ्चलः ॥ ८ ॥ ५६७ श्रीवात्साङ्कोऽखिलाधारः सर्वलोकपतिः प्रभुः । त्रिविक्रमः त्रिकालज्ञः त्रिधामा करुणाकरः ॥ ९ ॥ सर्वज्ञः सर्व इत्युक्तः सर्वसाक्ष्यनिरुद्धकः । हयग्रीवो हरिः शार्ङ्गी हरिकेशो हलायुधः ॥ १० ॥ सहस्रबाहुरव्यक्तः सहस्राक्षोऽक्षयोऽक्षरः । अनन्तः सर्वलोकेशः कामनन्दश्च विक्रमः ॥ ११ ॥ मायाधारो निराधारः सर्वाधारो धराधरः । महाविष्णुः सदाविष्णुर्माधवो मधुसूदनः ॥ १२ ॥ निष्कलङ्को निराभासो निष्प्रपञ्चो निरञ्जनः । विश्वभुग्विश्वकर्ता च पुण्यकीर्तिः पुरातनः ॥ १३ ॥ ‘अतो देवा’ दि षण्मन्त्रैः तथा व्याहृतिभिः पृथक् । हुनेदेवं भगवतः शताष्टकमनुत्तमम् ॥ १४ ॥ इत्यार्षे श्रीवैखानसे - भगवच्छताष्टकं नाम एकोनपञ्चाशोऽध्यायः॥