५१७ श्रियै नमः श्रीनिवासाय नमः अनुबन्धः - १ मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च येन वेदार्थविज्ञेन लोकानुग्रहकाम्यया । प्रणीतं सूत्रमौखेयं तस्मै विखनसे नमः ॥ अस्य श्री क्रियाधिकारग्रन्थस्य संस्करणे परामृष्टानम् आदर्श मातृकाग्रन्थानां परिचयः तत्र तत्र परीक्षितपाठभेदानां सङ्ग्रहश्चाधः प्रदर्श्यते ॥ आदर्शमातृका ग्रन्थाः यथा - १. श्री वेङ्ककटेशप्राच्यलिखितपुस्तकभाण्डागारस्थः क. संज्ञितः॥ (Stock No. 2378) २५१ तालपत्रात्मकः। ग्रन्थाक्षरलिखितः। अत्र पुस्तके ४६ प्रभृति ६२ पत्रपर्यन्तानि पत्रापि नष्टानि, नोपलभ्यन्ते । तथा १५४ पत्रे १६१, १६२, १६३, १६४ पत्रेषु च पाश्चात्यमर्धं सर्वत्र त्रुटितम् । तथा, २०१, २०४, २०५, २०६ पत्राणि च त्रुटितानि । तथा, २३१, २३२ पत्रे नष्टे ॥ २. उत्तनूर्-अर्चकं श्रीनरसिंहाचार्याणां सम्बन्धी-ख. संज्ञितः २४२ तालपत्रात्मकः। ग्रन्थाक्षरलिखितः ४० अध्यायात्मकः । अत्र पाश्चात्यपत्रद्वये मृत्सङ्ग्रहणस्थाननिर्णय महानवमीनिर्णयौ दृश्येते । ‘अविरलकृतवर्णभ्रेषणं पुस्तकेऽस्मिन् लिखितमनवसाने लेखिनीदूषणं वा । अनुचितमथवा यद्वर्णतो वक्रितो वा करकृतमपराधं क्षन्तुमर्हन्ति सन्तः’। ‘विकारिवर्षे वैशाखे शतभिषानक्षत्रसंयुते । गुरुवारे तिथौ षष्ठ्यां तुलालग्ने तु पूर्तितम् (?) । श्री वैखानससूत्रेण पराङ्कुशनिवासिना । वेङ्गटेशस्यार्चकेन श्रीरामेण च लेखितम् ॥ श्री वेङ्कटेशपरिपूर्णाय मङ्गलम्’ इति १४२ पत्रसमाप्तौ दृश्यते। ग्रन्थादौ सार्धपञ्चपत्रेषु विषयसूचिका लिखिता ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५१८ ३. स्यानन्दूरपुर (तिरुवान्कूर्) प्रभुत्वप्राच्यपुस्तकभाण्डागारस्थः । व्यवहारपत्रेषु देवनागराक्षरैः लिखितः ग. संज्ञितः। सम्पुटद्वये 349 foolscap पुटात्मकः । (Tanscript Stock No. 193 bxc from Original secured from Kalladakurichi Rangavadhyar and Copied in 30-2-1089 Kollam Era.) तत्र ३५० पुटादारभ्य ३६९ पुटपर्यन्तं राजधर्माध्यायो वर्तते क्रियाधिकार षट्त्रिंशाध्यायत्वेन । ४. श्रीविल्लिपुत्तूर् - अर्चकं श्री गोपालभट्टाचार्याणां सम्बन्धी ग्रन्थाक्षरलिखितः घ. संज्ञितः । ४० अध्यायात्मकः १८८ पत्रात्मकः । तालपत्रलिखितः । ८७, ८८ पत्रयोः ‘सुन्दरपरिपूर्णाय नमः । सुन्दरपरिपूर्णाय मङ्गल’ मित्यस्ति । कृत्तिकादीपविषयविचारः अन्तिमपत्रे वर्तते । ५. श्रीविल्लिपुत्तूर् - अर्चकं श्रीरामाभट्टाचार्याणां सम्बन्धी च. संज्ञितः १८८ तालपत्रेषु ग्रन्थाक्षरैः लिखितः । ४१ अध्यायात्मकः । पाश्चात्येषु १८९ प्रभृति २१० पत्रपर्यन्तपत्रेषु अधिकारान्तराणां ग्रन्थसङ्ख्या, ततः पञ्चदशसु प्रयोगान्तरं, ततः दशसु पत्रेषु नित्यहोमकुण्डस्वरूपं, ततो दशसु प्रयोगान्तरं, ततो नवसु सोमच्छन्दविमानिर्माणविषयः, ततः अष्टासु कूष्माण्डहोमप्रयोगः, ततः सप्तसु पत्रेषु दैविकि-मन्त्रप्रश्नारम्भश्च वर्तन्ते॥ ३८ अध्यायान्ते ‘श्री सुन्दरपरिपूर्णाय मङ्गल’ मिति वर्तते । सुन्दरपरिपूर्ण इति-तिरुक्कुरुङ्गुडिदिव्यदेशे, तिरुक्कुच्चिनम्बि नाम्नः भगवतो द्रामिडभाषानाम ॥ ६. श्रीविल्लिपुत्तूर् - अर्चकम् प्रतिष्ठाभूषणम् श्रीअलङ्कारभट्टाचार्याणां सम्बन्धी छ. संज्ञितः । तालपत्रकोशः । २२१ पत्रात्मकः । ग्नन्थाक्षरलिखितः। १४७ पत्रे ‘१०७७ मितकोल्लशके प्लवनामसंवत्सरे लिखितः’ इति । तथा, १६९ पत्रे, ‘लक्ष्मणभट्टर् कुमारस्य श्रीनिवासभट्टाचार्यस्य । श्रीविल्लिपुत्तूर् अर्चकं मिरास्’ इति । तथा, ‘१७१ पत्रे’ लक्ष्मणभट्टर् कुमारर् चीनु १०७७। नामक्कल् चामण्ण अय्यङ्गार् मेल्पाडम् । इति तथा, १७४ पत्रे ‘१९०१ सं कार्तिक मासि । श्रीमत्यै नमः’ इति च वर्तते ॥ ५१९ ७. अडयार् लैब्रीरीस्थितः ज. संज्ञितः । २७४ तालापत्रात्मकः । ग्रन्थाक्षरलिखितः ॥ ३५ अध्यायात्मकः । (Adyar Library. 33 J 22 Accession number 75412 भृगुसंहिता) ॥ ८. तिरुक्कोट्टियूर् - अर्चकं श्रीसौम्यमूर्तिभट्टाचार्याणां सम्बन्धी तालपत्रलिखितः ञ. संज्ञितः । २०२ पत्रात्मकः । ३६ अध्यायात्मकः । ‘इदं पुस्तकं परमस्वामिलिखित’मित्यस्ति तत्र तत्र ॥ अत्रैव अर्चकं श्री श्रीधरभट्टाचार्याणां सम्बन्धी ग्रन्थोऽपि अनन्तरोक्त मातृका सदृशो दृष्टः । ९. काळहस्ति - अर्चकं श्री अच्युताचार्याणां सम्बन्धी ट. संज्ञितः तालपत्रलिखितः ३३ अध्यायात्मकः । ग्रन्थाक्षैरः १८३ पत्रेषु लिखितः ॥ १०. तिरुपति - अर्चकं पेद्दिंटि श्री श्रीनिवासदीक्षितानां सम्बन्धी ३२४ पुटेषु व्यवहारपत्रेषु लिखितः ठ. संज्ञितः । ३३ अध्यायात्मकः । काळहस्ति मातृकाया उद्धृतः । आन्ध्राक्षरैर्लिखितः ॥ ११. वानमामलै - अर्चकं श्री वेङ्गुभट्टाचार्याणां सम्बन्धी ण. संज्ञितः। २५० पत्रात्मकः । ग्रन्थाक्षरैर्लिखितः । एकोनचत्वारिंशदध्यायत्मकः ‘वर्षे शुभकृते मासे कुम्भे कृष्णे तु वासरे। क्रियाधिकारमादित्ये वानाद्रिस्थलवासिना॥ प्रतिमालक्ष्य ग्रन्थेऽस्मिन् वेङ्कटेशसुतेन च। वानाचलेन लिखितं वरमङ्गाकृपावशात् ॥ ….. ७८ वर्षं मासि मासं १० तेदि येषुदि मुडिन्ददु (…………..) श्रीविखनसगुरवे नमः श्रीदेवनाथपरब्रह्मणे नमः, श्रीवरवरमङ्गै. सहायम् । वानमामलैय्यङ्गार् इति वर्तते ॥ आरम्भे, अष्टसु पत्रेषु, सङ्ख्याविरहितेषु वीडुविडै, (…..) तिरुक्कार्तिकै, (……….) महाचक्रस्य लक्षणम्, कस्तूरिकाप्पुएच्चरिक्कै (……………) जटिबन्धनं, इति विषयाः वर्तन्ते ॥ अन्ते च विद्धाकालदीपः, ग्रहणकालार्चने त्याज्यम्, इति विषयौ ३५ पत्रेषु सङ्ग ृहीतौ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२० १२. संहितासारः स. संज्ञितः। ३०० तालपत्रात्मकः, ‘प्रयिष्ठादीपिका’ इति प्रसिद्धसङ्गहग्रन्थादुद्धृताः प्रकृताः क्रियाधिकाराध्यायाः- अयञ्च संहितासारग्रन्थः - चित्तूरुमण्डलान्तर्गत पलमनेरु ग्रामाभिजनाना अर्चकं श्री तिप्पय्याचार्याणां सकाशाल्लब्धः। अत्यन्तं प्राचीनः शिथिलपत्रश्च। अस्य ग्रन्थस्य मातृकान्तरं कुत्राप्यन्यत्र न लभ्यते ॥ १३. कृष्णामण्डलान्तर्वर्ति आकुलमन्नाडुग्रामे श्री वैखानसविद्यिानिलय प्राच्यलिखितपुस्तकभाण्डागारस्थः य. संज्ञितः । तालपत्रलिखितः २२६ पत्रात्मकः। आन्ध्राक्षरलिखितः। ४५ अध्यायपरिमितः। रोंपिचर्लभट्टर् श्री कोदण्डरामाचार्यपाकयाजिभिः तञ्जावूर् मण्डलान्तर्गत कोनेरिराजपुराग्र- हाराभिजनानां सन्तत श्री वासुदेवनामचिन्तनाधिगत वासुदेवभट्टाचार्यापर- नामधेयानां, श्री रघुपतिभट्टाचार्याणां मातृकानुसारेण लिखितः ॥ १४. अन्तरोक्त श्री वैखानसविद्यानिलयस्थः १०५ पत्रात्मकः । तालपत्रेषु आन्ध्राक्षरैः ३५ अध्यायेषु रोंपिचर्लभट्टर् श्री नृसिंहाचार्यैः आन्ध्राक्षरैः लिखितः र. संज्ञितः ॥ १५. गुण्टूरु मण्डलान्तर्वर्ति यीपूरुग्रामाभिजनानां देवयजनं श्री वेङ्कटरामाचार्याणां सम्बन्धी ल. संज्ञितः । व्यवहारपत्रलिखितः । ५५० पुटात्मकः । ४९ अध्यायपरिमितः । आन्ध्राक्षरैः लिखितः । प्रायः १३ ग्रन्थादुद्धृतः ॥ एतेषामादर्शग्रन्थानां शीघ्रोपस्थितिसौकर्याय प्रयिकं पाठसाजात्यमनुरुद्ध्येत्त्थं तत्र सङ्केतः सञ्चालितः, यथा - क, ख, च, घ, स कोशानां आ इति ग, छ, ज, ञ, र एतेषाम् इ इति । ट, ठ, ण एतेषां अ इति । य, ल एतयोः ई इति च ॥ ५२१ अस्य मुद्रितग्रन्थस्य पुटपद्यपङ्क्तिप्रदर्शनेन आदर्शमातृकाग्रन्थेषु प्राधान्येन परामृष्टाः पाठभेदाः यथा – तत्रादौ ग्रन्थारम्भश्लोका इत्थं दृश्यन्ते विभिन्नकोशेषु । य, र, ल, आदर्शेषु - वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युः तं नामामि हयाननम् ॥ १ ॥ भृगुं मुनिवरं श्रेष्ठं विष्ण्वामलतेजसि । संसक्तचित्ता मुनयः प्रणिपत्येदमब्रुवन् ॥ २ ॥ ॠ षय ऊचुः ॥ ब्रह्मपुत्र! मुनिश्रेष्ठ! त्वमेव ब्रह्मणः प्रियः । त्वमेव सर्ववेत्तासि त्वमेव वदतां वरः ॥ ३ ॥ त्वत्तः सर्वः श्रुतोऽस्माभिः समूर्ताराधनक्रमः । देवस्य भूपरीक्षादिप्रायश्चित्तावसानकः ॥ ४ ॥ यद्यत्तत्र विशेषेक्तौ तत्तद्विस्तरतो वद । भृगुरुवाच ॥ युष्माभिश्चोदितं सर्व प्रवक्ष्याम्यनुपूर्वशः ॥ ५ ॥ विष्णोः पूजाविपाकेन जगदेतत्सुखं भवेत् । एैहिकामुष्मिकावाप्तिः तत एव च सिद्ध्यति ॥ ६ ॥ मानसी होमपूजेति बेरपूजेति सा त्रिधा । हृत्पुण्डरीकमुकुलमुद्धृत्य प्रणवेन तु ॥ ७ ॥ व्याहृत्या विकसीकृत्य तत्रेन्द्रादिदिगीश्वरान् । प्रतिष्ठाप्यार्चयेत्सा तु मनःपूजेति चोदिता ॥ ८ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२२ दलेष्वष्टसु संस्थाप्य द्वत्रिंशत्केसरेष्वपि । अन्यान् देवांत्समभ्यर्च्य आत्मानं प्रकृतिं स्मरेत् ॥ ९ ॥ रशिमालावृतं ध्यात्वा तन्मध्ये रविमण्डलम् । तन्मध्ये शशिबिम्बञ्च स्रवत्पीयूषशीतलम् ॥ १० ॥ तस्य मध्यगतं ध्यायेत्त्रिकोणं वह्निमण्डलम् । दुर्निरीक्ष्यं सुरैः सर्वैः ज्वालामालासमावृतम् ॥ ११ ॥ तस्य मध्ये प्रभां ध्यायेन्निर्धूमां निष्कलां शुभाम् । नीवारशूकवत्तन्वीं पीतां भास्वत्तनूपमाम् ॥ १२ ॥ प्रभामध्यगतं पीठं चतुरश्रं हिरण्मयम् । नानामणिगणज्वालादुष्प्रेक्ष्यं शुभुमुज्ज्वलम् ॥ १३ ॥ तस्य मध्यगतं ध्यात्वा नारायणमनायम् । शुद्धस्फटिक सङ्काशं शङ्खचक्रधरं परम् ॥ १४ ॥ आसनाद्मुपचाराणि मनसा तस्य भावयेत् । एषा तु मानसी पूजा बेरपूजा तु काथ्यते ॥ १५ ॥ अग्निहोत्रादिहोमेषु सूत्रोक्तेन विधानतः । ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम् ॥ १६ ॥ प्रभामध्यगतं ध्यायेदासीनं वा जनार्दनम् । तप्तहाटकसङ्काशं चतुर्हस्तं द्विशीर्षकम् ॥ १७ ॥ सप्तहस्तं त्रिचरणं दुष्प्रेक्ष्यं सप्तजिह्वकम् । स्रुक्स्रुवौ चाक्षमालाञ्च शक्तिं दक्षिणपाणिषु ॥ १८ ॥ चामरं व्यजञ्चैव घृतपात्रन्तु वामतः । ध्यात्वा यथोक्तहविषा यजेत्तद्धोमपूजनम् ॥ १९ ॥ ५२३ एषा सा होमपूजा च बेरपूजाऽधुनोच्यते । उक्तप्रमाणप्रतिमां हाटकादिमयीं पराम् ॥ २० ॥ प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता । यथोपयोगशक्यत्वात्कर्तुं पुष्पादिपूजनम् ॥ २१ ॥ ततः २ पुटे १३ श्लोकः आरभ्यते । ख. ञ. ण. आदर्शेषु - ओम्. नारायणः पिता यस्य माता चैव हरिप्रिया । भृग्वादिमुनयः पुत्राः तस्मै श्रीविखनसे नमः ॥ १ ॥ वन्दे भृगुं तपोनिष्ठं मरीचिमथ काश्यपम् । अत्रिञ्चैव त्रिकालज्ञं काश्यपं ब्रह्मवादिनम् ॥ २ ॥ ॠषय ऊचुः ॥ आश्रमे सम्यगासीनमृषिं विश्वहितोद्यतम् । ॠषयोऽभ्यागमन् सर्वं प्रणिपत्येदमब्रुवन् ॥ ३ ॥ भगवन्! केन मार्गेण कं देवं पूजयन्ति वै । आचक्ष्व सर्वं ब्रह्मर्षे तदेतत्तत्सुविस्तरम् ॥ ४ ॥ भृगुरुवाच ॥ युष्माभिः परिपृष्टं यत्तत्सर्वमृषिसत्तमाः । सावधानेन मनसा श्राव्यमस्मत्प्रचोदितम् ॥ ५ ॥ अस्यार्थस्य तु जिज्ञासा सुराणामपि दुर्लभा । बहुजन्मार्जितैः पुण्यैः तपोभिर्लोकपूजितैः ॥ ६ ॥ साधारणैः क्रतुशतैः दानैर्जपव्रतैस्तथा । ईदुशी भगवद्भक्तिर्लभ्यतेऽव्यभिचारिणी (?) ॥ ७ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२४ तदुक्तमेव युष्माकं वक्तुमेतन्मयाऽनघाः । नारायणस्य भूतानां जन्मनः परमात्मनः ॥ ८ ॥ लीलया जगदुत्पत्तिसम्पत्संस्थितिकारिणि । देवतानाञ्च तद्विष्णोर्लक्ष्मीशस्य जगत्पतेः ॥ ९ ॥ तद्विष्णोर्विधयः प्रोक्ताः पूजानां श्रृणुत द्विजाः । मानसी होमपूजा च बेरपूजेति वै श्रुतिः ॥ १० ॥ हृदिस्थितगतं पीठं चतुरश्रं हिरण्मयम् । नानामणिगणज्वालादुष्प्रेक्ष्यं शुभमुज्ज्वलम् ॥ ११ ॥ तस्य मध्यगतं ध्यात्वा नारायणमनामयम् । शुद्धस्फटिकसङ्काशं शङ्खचक्रधरं परम् ॥ १२ ॥ आसनाद्युपचाराणि मनसा तस्य भावयेत् । (एषा तु मानसी पूजा बेरपूजा विशिष्यते) उक्तप्रमाणप्रतिमां हाटकादिविधिं पराम् ॥ १३ ॥ प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता । अग्निहोत्रादिहोमेषु कर्ममध्ये तथा विधिम् ॥ १४ ॥ ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम् । प्रभामध्यगतं ध्यात्वा आसीनं वा जनार्दनम् ॥ १५ ॥ तप्तहाटकसङ्काशं चतुरश्रं द्विशीर्षकम् । सप्तहस्तं त्रिचरणं दुष्पेक्ष्यं सुप्रभेदकम् ॥ १६ ॥ स्रुक्स्रुवौ चाक्षमालाञ्च शक्तिं दक्षिणपाणिषु । चामरं व्यजनञ्चैव घृतपात्रञ्च वामतः ॥ १७ ॥ ५२५ ध्यात्वा यथोक्तहविषा यजेत्तद्धोमपूजनम् । यथोपयोगशक्यत्वात्कर्तुं पुष्पादिपूजनम् ॥ १८ ॥ चक्षुषः प्रीतिकरणान्मनसो हृदयस्य च । प्रीत्या सञ्जायते भक्तिर्भक्तस्य सुलभो हरिः ॥ १९ ॥ तस्मात्त्रयाणामेतेषां बेरपूजा विशिष्यते । तत आरभ्यते २ पुटे १४ श्रलोकस्य पाश्चात्यार्धम् क. च. ज. आदर्शेषु - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ १ ॥ श्रीविखनसगुरवे नमः हृदिस्थितगतं पीठं चतुरश्रं हिरण्मयम् । नानामणिगणज्वालादुष्प्रेक्ष्यं शुभमुज्ज्वलम् ॥ २ ॥ तस्य मध्यगतं ध्यात्वा नारायणनामयम् । शुद्धस्फटिसङ्काशं शङ्खचक्रधरं परम् ॥ ३ ॥ आसनाद्युपचाराणि मनसा तस्य भावयेत् । एषा तु मानसी पूजा बेरपूजा तु वक्ष्यते ॥ ४ ॥ उक्तप्रमाणप्रतिमां हाटकादिविधिं पराम् । प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता ॥ ५ ॥ अग्निहोत्रादिहोमे तु कुण्डमध्ये तथा विधिम् । ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम् ॥ ६ ॥ प्रभामध्यगतं ध्यायेदासीनं वा जनार्दनम् । ततः २ पुटे १० श्रलोकारम्भः । अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२६ तत्रादर्शमातृकासु अध्यायक्रमे अध्यायेषु विषयविभागे च पौर्वापर्यरूपं साङ्कर्यम् अधः प्रदर्श्यते ॥ प्रथामाध्याये-(आचार्यवरणादिः पुटादारभ्य ८ पर्यन्तम्) १ प्रभृति ३ पुटे १६ पङ्क्तिपर्यन्तम् आचार्यवरणम् । तत्र प्रथमाध्यायः समाप्यते । पु. ३-१७ प्र. ८ पु. प. अङ्कुरार्पणम् - तत्र २ अध्यायश्च समाप्यते (य.ल.) ई कोशसमुदाये । अन्ये १। द्वितीयाध्याये -(भूपरीक्षादिः ९ प्र. १५) (१) पु. ९ प्र. ११-४ प. भूपरीक्षा (२) ११-५-१५ कर्षणम् । ई. ३ अध्यायः । (२) अन्ये २ । ३ अध्याये -(कर्मणां सद्योविधिः १३-२१) ई. ४ । अन्ये ३ अध्यायः । ४ अध्याये -(शान्तिकादिविधिः २१-६०) ई. ५ । अन्ये ४ । ५ अध्याये -(विमानविधिः ३१-६०), ३१-३७, १३ शूलस्थापनान्तम् ख. ५ । ३७-१४-४४। परिवारकल्पनम् ख.६ । ४४-२- ६० परिवारलक्षणशेषः ख. ७ । ई. ६ । अन्ये ५ । ६ अध्याये -(प्रतिष्ठाक्रमः ६१-७५) ६१-६४-४ ख. ८ । ६४-५- ७५ ख ९.। ६१-७३-१२ । ई.७ । अन्ये ६ । ७ अध्याये -(प्रतिष्ठाक्रमः ७६-९३) ई. ८ । ख. १० । अन्ये ७ । ८ अध्याये -(प्रतिष्ठाक्रमः ९४-१०६) ई. ९ । ख. ११ । अन्ये ८। ९ अध्याये -(नित्यार्चनम्ः १०७-१२९) ई. १० । ख. १२ । अन्ये ९ । १० अध्याये -(अर्चनाङ्गोपचाराः) १३०-१३५) ई. ११ । ११ ख. १३ अन्ये १० । ५२७ ११ अध्याये -(दशावतारकल्पादिः १३६-१५२) (१) १३६-१४८-१० दशावतारकल्पः ख. १४ । अन्ये ११ । (२) १४८-११- १५२ आविर्भावकल्पः अन्ये १२ । अनुवर्तन्ते । (१+२) ई. १२ ॥ १२ अध्याये -(स्नापनादिविषयाः १५३-१५७) ई. १३ । ११ अध्याये १४८-११-१५७ ख. १५ । अन्ये १२ । १३ अध्याये -(स्नपनविधिः १५८-१६३) ई. १४ । ख. १६ अन्ये २३ । १४ अध्याये -(उत्सवः १६४-१८४) ई. १५ । ख. १७ अन्ये १४ । १५ अध्याये -(गृहार्चाविषयः १८५-१९३) ई. १६ । १८५-१९२- १०। आ. १४ । ख. न लभ्यतेऽयमध्यायः अन्ये १५ । १६ अध्याये -(प्रतिष्ठाशेषः १९४-२०३) १८९, २-१९२-१० । तथा, १९४-२०३ ई. १७ । ख. १८ । अन्ये १६ । १७ अध्याये -(त्रिमूर्तिस्थापनम् २०४-२०९) २०४-२०९ । ख. १९ । ई. १८ । ण. १७ । अन्ये अनुवर्तन्ते नाध्यायसमाप्तिः । १८ अध्याये -(पुण्यनक्षत्रपूजनादिः २१०-२२२) २१०-२११-१४ पुण्यनक्षत्रपूजनम् (ई मात्रे न सर्वत्र) २११-१५-२१३- ६ ण. १८ । अन्ये १७ । २१३-७-२१६-५ ण. १९ २११-१५-२१६-५ ख. २० । २१६-६-२१७-५ ख.२१। २१७-१७-२२२ ई. १९ । ख. २२ । ण. २० । अन्ये १८ । अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२८ १९ अध्याये -(विशेषाराधनम् २२३-२२८) (१) २२३-२२६-१० । प्रायिकः (२) २२६-११-२२८ ई. २० । ख. २३ । ण. २१ । अन्ये १९ । २० अध्याये -(भूपरीक्षादिनिष्कृतिः २२९-२४७) ई. २१ । (१) २२९- २३६-३-७ ख. २४ । (२) १३६-४-२४३-७ ख. २५। (३) ण. २२ । अन्ये २० ॥ (४) २४३.८-२४६-१९ ख. २६ । तत अ ग र ज कोशेषु मरीचिविमानार्चनकल्प ३५ अध्यायो निविष्टो वर्तते ॥ २० अध्यायसमाप्तिश्च न दृश्यते । २१ अध्याये -(चलितस्थापनादिः २४८-२६१) (१) २४८-२४८-१८ ख. ४० । ण. ३८ । (२) २४८-२५५-११ न सर्वत्र । (३) २५५-१२-२५७-१२ । तथा (४) २५७. १८- २५८-९, (५) २५८-१०-२५९-४ (६) २५९-५-२६१. (२+३) ण. २१ । (आवृत्तम्) (५+६) ण. २३ । (१+५+६) ई. २२ । ख. २७ । अन्ये २१ । २२ अध्याये -(प्रतिष्ठाप्रायश्चित्तम् २६२-२७०) (७) २६२-२६५-४ (८) २६५-४–२६७-१४ (९) २६७-१४-२७० (६+७+९) । (६+९) ण. २४ । ई. २३ । अन्ये २२ । २३ अध्याये -(नवीकरणम् २७१-२८२) (१) २७१-२७४-२ ण. २५। ख. २८ । अन्ये २३ । (२) २७४-३–२७७-१३ ण. २६ । ख. २९ । क. २२ (?) । अन्ये २३ । (३) २७७-२४–२८२ ण. २७ । ख. ३० । (१+३) इ. २२। आ. २३ । ई. २४ । ५२९ २४ अध्याये -(अर्चनाप्रायश्चित्तम् २८३-२९२) ख. ३१ । ग्रन्थलोपो दृश्यते इ. २४ । ण. २८ । ई. २५ । अन्ये २४ । २५ अध्याये -(स्नपननिष्कृतिः २९३-३००) अयमध्यायः ई मातृकाकोशयोरेव लभ्यते । ई. ३१ । २६ अध्याये -(उत्सवप्रायश्चित्तम् ३०१-३१८) ण. ३० । ख. ३२ । ई. ३२ अन्ये २६ । २७ अध्याये -(सामान्यनिष्कृतिः ३१९-३२८) ई. ३३ । ण. ३२ । अन्ये २७ । (१) ३१९–३२६-२ ण. ३१ । ख. ३३ । (२) ३२६-३–३२८ । ख. ३४ ॥ २८ अध्याये -(पात्रादीनां संस्कारः ३२९-३३४) ई. ण. ३४ । ख. ३६ । अन्ये २९ । २९ अध्याये -(शान्तिविधिः ३३५-३५५) (१) ३३५-३४४-२४ न सार्वत्रिकः इ-ई ३५ । (२) ३४५-३५५ ख. ३७ । ३० अध्याये -(दशावतारकल्पः ३५६-३६७) ३५६-३५९-१५ क्वाचित्कः ई. ३९ । स मात्रे । ३१ अध्याये -(सामाम्न्यानिष्कृतिः पवित्रारोपणम्) ३६८-३७६) स.ई. ४३ । ३२ अध्याये -(शमीपूजादिः ३७७-३८५) (१) ३७७-३७८-१७ । (२) ३७८-१८-३८१-३ । (३) ३८१-४-३८४-६ । (४) ३८४-७-३८५ । (१) ख. ३८ । ण. ३६ । (२) ख. ३९ । ण. ३७ । (१+२) ई. ४१ । (३) ख. ४१। ण. ३९ । ई. ४२ । अन्ये ३२ । अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५३० ३३ अध्याये -(पञ्चामृतविध्यादिः ३८६-३९५) (१) ३८६-३८७-११। (२) ३८७-१२-३८८-२१ । (२) ३८८-२२-३९१-९ । (४) ३९१-१०-३९५ । (३) ण. ३६ । ख. ३७ । अ. आ. ३० । (१+२+३) ई. ट. २६ । ३४ अध्याये -(गोदाप्रतिष्ठादिः ३८६-४०३) अ.आ. ३३ । ई. ट. ४० । ख. ४२ । च. ३३ तथा ३४ । ३९९-११-४०३ ण. ४० । ३५ अध्याये -(अष्टबन्धः ४०४-४०९) ख. ३४ । ण. ३३। ई.२५। अन्ये २८ । ३६ अध्याये -(वैदिकाराधनविषयः ४१०-४१५) छ. ३३ । ण. ३५ । अ, आ ३४ । ख. ३१ तथा ४० (लेखकप्रमादः) । अन्ये ४५ । ३७ अध्याये -(अङ्कुरार्पणम् ४१६-४२०) सर्वत्र ३५ । ई. ४५ । ३८ अध्याये -(ऊर्ध्वपुण्ड्रविधिः ४२१-४३१) ख. ४१ । छ. ण. २९। ई. २८ । ट. ठ. न दृश्यते । अन्यत्र २५ अध्यायः । ३९ अध्याये -(सर्वाग्निस्थापनक्रमः ४३२-४३८) ई, ट. स. कोशेष्वेव । ८० पुटे ४० श्लोकात्परम् ॥ ‘अङ्कुराद्दिवसात्पश्चात्तद्दिने तु परेऽहनि । द्वितीयाहः प्रभृत्येवमाघारं जुहुयात्क्रमात् ॥ १ ॥ कुम्भेष्वावाह्य देवेशं समभ्यर्च्य यथाविधि । ध्रुवाद्याचार्यपर्यन्तं रक्षाबन्धनमाचरेत् ॥ २ ॥ ५३१ होमञ्च कुम्भपूजाञ्च सायं प्रातर्यजेत्क्रमात् । दिने दिने च कर्तव्यं प्रतिष्ठान्तं समाचरेत्’ ॥ ३ ॥ (मूलालयप्रतिष्ठा) इत्यादि आ. कोशेषु । तस्मिन्नेव पुटे ४८ श्लोकात् पश्चात् ॥ ‘सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् । अग्रे तु द्रामिडं वेदं पश्चाद्वेदांश्च घोषयेत् ॥॥ १ ॥ (विष्णुसूक्तेन) इत्यादि ण. कोशे । ११० पुटे ३८ श्लौकात् पश्चात् ॥ ‘ब्राह्ममासनमास्थाय पूजकः सुसमाहितः । चन्दनं पञ्चगव्यं वा बिल्वं वा भस्म वा जलम्॥ १ ॥ पर्वताग्रन्नदीतीराद्वल्मीकात्सिन्धुतीरतः । अथवा तुलसीमूलाद्विष्णुक्षेत्राद्विशेषतः ॥ २ ॥ गृहीत्वा वा मृदं सम्यगूर्ध्वपुण्ड्रधरो भवेत् । ललाटे केशवायेति कुक्षौ नारायणाय च ॥ ३ ॥ हृदये माधवायेति गोविन्दाय गले न्यसेत् । विष्णवे दक्षिणे कुक्षौ मधुसूदनाय तद्भुजे ॥ ४ ॥ त्रिविक्रमाय तत्कण्ठे वामकुक्षौ तु वामनः । बाहौ च श्रीधरायेति हृषीकेशाय वै गले ॥ ५ ॥ पद्मनाभाय वै पृष्ठे ककुद्दामोदराय च’ । (पद्मासने इत्यधिकं ई. कोशयोः) २९२ पुटे ७८ श्लोकात् पश्चात् ॥ तत्तन्मन्त्रद्वयेनैव शतमष्टोत्तरं यजेत् ॥ १ ॥ (वैष्णवं) इत्याधिकं आ. कोशेषु । अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५३२ तस्मिन्नेव पुटे ८० श्लोकात् पश्चात् ॥ ‘पद्मासने समासीनां पद्मकिञ्जल्कशोभिताम् । ज्ञानमुद्रासमायुक्तां सर्वाभरणभूषिताम् ॥ १ ॥ ज्ञानमुद्राख्यमुद्रेयं दर्शयन्ती. हृदुन्मुखम् । कमण्डलु समायुक्तं वामहस्तं तथोर्ध्वगम् ॥ २ ॥ (इतरं) इत्याधिकमावश्यक अ. कोशेषु । १९७ पुटे ३२ श्लोकात् पश्चात् ॥ ‘यस्य देवस्य यत्कुण्डं प्रधानं परिकीर्तितम् । तस्य देवस्य तत्कुण्डं पुरतः परिकल्पयेत् ॥ १ ॥ महालक्ष्म्या विशेषेण सभ्यस्थने तु चाब्जकम् । आग्नेय्यां सभ्यकुण्डन्तु कल्पयेदिति शासनम्’॥ २ ॥ (अतः परं) इत्यधिकं ण. कोशे । १९८ पुटे ४९ श्लोकात् पश्चात् ॥ नानारत्नोज्ज्वालानर्घदिव्यभूषणभूषिताम् । एवं सलक्षणं कृत्वा श्रियं देवीं समर्चयेत् ॥ १ ॥ देव्याश्च पीठपरितः परिवारान् क्रमाद्यजेत् । भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च ॥ २ ॥ कीर्तिं क्षान्तिञ्च पुष्टिञ्च तुष्टिञ्चैव तथैव च । पूर्वादींश्च क्रमेणैव प्रथामावरणेऽर्चयेत् ॥ ३ ॥ बलाकीं नवमालीञ्च विभीषीं शाङ्करी तथा । गुग्गुलुञ्च कुरुण्डञ्च दमकं सलिलं तथा ॥ ४ ॥ ५३३ द्वितीयावरणे प्रोक्ता एताश्चाष्टौ प्रकीर्तिताः । इन्द्रादिलोकपालांश्च तृतीयावरणेऽर्चयेत् ॥ ५ ॥ दक्षिणे भित्तिपार्श्वे तु पुरुषं सत्यमर्चयेत् । उत्तरे भित्तिपार्श्वे तु अच्युतञ्चानिरुद्धकम् ॥ ६ ॥ अथवा वासुदेवादीन् शङ्खचक्रधरान् परान् । किरीटहारकेयूरमकुटादि विभूषितान् ॥ ७ ॥ श्रीवत्सकौस्तुभोरस्कान् वनमालाविराजितान् । चतुर्भुजान् सुखासीनान् श्यामलान् पद्मलोचनान् ॥ ८ ॥ वीक्षमाणान् श्रियं देवीं भित्तिपार्श्वे समर्चयेत् । प्रथमद्वारसव्ये तु निर्माल्यहारिणीं तथा ॥ ९ ॥ वामेऽपि च तथा प्रोक्ता निवेद्यहारिणी तथा । द्वितीयद्वारसव्ये तु भूमिञ्चापि समर्चयेत् ॥ १० ॥ वामे सरस्वतीञ्चैव द्वितीयद्वारपालिकाम् । तृतीयद्वारसव्ये तु रतिञ्चैव समर्चयेत् ॥ ११ ॥ वामभागे तथा प्रोक्ता प्रीतिञ्चैव समर्चयेत् । एष एव विशेषः स्यादन्यत्सर्वं हरेरिव ॥ १२ ॥ कल्पकं क्रमुकं मन्द्रं पारिजातं चतुर्दिशम् । बिल्ववृक्षांश्च परितः पूर्णकुम्भाङ्कुरान् लिखेत् ॥ १३ ॥ एतांश्चतरवश्चैव चित्राभासेन कारयेत् । कल्पयित्वा खिलोक्तांश्च परिवारान् यथाक्रमम् ॥ १४ ॥ कृत्वा तु भूतपीठान्तं स्थापनारम्भमाचरेत् । फालगुनोत्तरफल्गुन्योः स्थापनं क्रियते श्रियः ॥ १५ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५३४ स्थापनादिवसात्पूर्व पञ्चमेऽह्न्यङ्कुरार्पणम् । (अङ्कुरार्पणकादूर्ध्वं यागशालां प्रकल्पयेत्) इत्यादि आ. कोशेषु तथा - क कोशे पूर्वोक्तस्थले ॥ ‘नानारत्नोज्ज्वलानर्घदिव्यभूषणभूषिताम् । एवं सलक्षणं कृत्वा श्रियं देवीं समर्चयेत्॥ १ ॥ श्रियं धृतिं पवित्रीञ्च प्रमोदायिनीमेव च । विष्णुपत्नीं विशालाक्षीं विमलां विश्वमोहिनीम्’॥ २ ॥ (देव्यश्च पीठं परितः) इति दृश्यते । १९९ पुटे ५२ श्लोकात् पश्चात् ॥ किरीटहारकेयूरमकुटादिविराजिताम् । दक्षिणे भित्तिपार्श्वे तु अच्युतश्चोत्तरामुखः॥ १ ॥ अनिरुद्धस्तस्था वामे दक्षिणामुखमर्चयेत् । अथ वा वासुदेवादीन् शङ्खचक्रधरान् परान्॥ २ ॥ (श्रीवत्स) इति दृश्यते - आ कोशेषु । तथा तत्रेव पुटे ५४ श्लोकात् पश्चात् ॥ वीक्षमाणान् श्रियं देवीं भित्तिपार्श्वे समर्चयेत् ॥ १ ॥ कल्पकं क्रमुकं मंद्रं पारिजातांश्चतुर्दिशम् । बिल्ववृक्षांश्च परितः पूर्णकुम्भाङ्कुरान् लिखेत् ॥ २ ॥ एतांश्च तरवश्चैव (?) चित्राभासे न कारयेत् । धात्रादि षट् च देवांश्च द्वारे सम्यक्समर्चयेत् ॥ ३ ॥ ५३५ प्रथमद्वारसव्ये तु निर्माल्यहारिणी तथा । किञ्चिच्च करुणा चैव द्वितीयद्वारपालिकाः ॥ ४ ॥ तुष्टिः पुष्टिस्तथा प्रोक्ते तृतीयद्वारपालिके । बलाकां नवमालाञ्च विभीषीं शाङ्करीं तथा ॥ ५ ॥ एताश्च हर्म्यपाल्यस्तु पूर्वादिषु समर्चयेत् । जयाद्यष्टौ च परितः परिवारान् यजेब्दुधः ॥ ६ ॥ इन्द्रादिलोकपालांश्च प्रथमावरणक्रमात् । श्रीभूताद्यनपाय्यन्ताः तत्तत् स्थाने प्रकल्पयेत् ॥ ७ ॥ एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत् । कृत्वा तु भूतपीठान्तं स्थापनारम्भमाचरेत् ॥ ८ ॥ फाल्गुनोत्तरफल्गुन्यां स्थापनं क्रियते श्रियः । स्थापनादिवसात्पूर्वं पञ्चमेऽह्न्यङ्कुरार्पणम् ॥ ९ ॥ अङ्कुरार्पणकादूर्ध्वं यागशालां प्रकल्पयेत् । (श्ययावेदिञ्च) इति क. कोशे पाठः । २१६ पुटे प्रथमपङ्क्त्यनन्तरम् ॥ दिवसान्तमुपोष्यैव रामं देवं समर्चयेत् । ग्रामप्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेत् ॥ १ ॥ इति क. कोशे । २५८ पुटे ११५ श्लोकात् पश्चात् ॥ आरम्भदिवसे कुम्भं संस्थाप्य ध्रुवबेरतः ॥ १ ॥ दीपाद्दीपमिवावाह्य तेन कृत्वोत्सवं पुनः । तीर्थान्ते स्नापनान्ते तु पुनरुद्वासयेद्ध्रुवे ॥ २ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५३६ प्रथमादेवमारभ्य तीर्थान्तं होममाचरेत् । ध्वजं तमवरोप्यैव मौनञ्ञ्च बलिमाचरेत् ॥ ३ ॥ (विधिना बलिं) इति क. कोशे दृश्यते ॥ ई पुस्तकयोः चतुस्त्रिंशाध्यायेऽयं पाठः परिदृश्यते ॥ अर्थात् अस्मिन् मुद्रितकोशे ३३४ पुटे ५८ श्लोकात् पश्चात् ॥ अष्टाविंशाध्यायान्ते द्रष्टव्यः ॥ सर्वत्र सर्वकार्येषु होतव्यो होम उच्यते । निष्कृत्यर्थञ्च शान्त्यर्थमेतद्धोमं जुहोति च ॥ १ ॥ भ्रूभ्यामन्तरिक्षायेति सप्राणात्मभुवे तथा । श्रोत्राभ्यां सञ्जुहोत्यन्ते पक्ष्मभ्यामिति चोच्चरन् ॥ २ ॥ सञ्जुहोत्यक्ष्यङ्गेभ्यश्च अक्षिभ्यामिति हूयते । तारकाभ्यामपाङ्गाभ्यां कुवलयाभ्यामितीर्य च ॥ ३ ॥ योगाभ्याञ्चकपोलाभ्यां तत्तदङ्गमनुस्मरन् । जुहोति नासिकायै च पुटाभ्यामिति दृष्णवे ॥ ४ ॥ भाण्डाभ्यामिति दन्ताभ्यामोष्ठाभ्यामिति हूयतम् । निम्नेभ्यश्चाधरोष्ठाय जिह्वायै च ततः परम् ॥ ५ ॥ वक्त्रत्रिकायै जुहुयात्तालवे विष्णवे पुनः । हनुभ्यां जुहुयात्पश्चात्तदङ्गं मनसा स्मरन् ॥ ६ ॥ कर्णाभ्यां कर्णपालीभ्यां छिद्राभ्यां कीकसाय च । ग्रीवाय कनकायेति सुप्रग्रीवाय वै तथा ॥ ७ ॥ कर्णनालाय कण्ठास्यकर्णनालाय हूयताम् । द्यौः शिरसे च हुत्वा तु तथा द्यौरक्षकाय च ॥ ८ ॥ ५३७ सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च । केशेभ्यः शिरसे चेति जुहुयात्पुण्यवासिने ॥ ९ ॥ बाहुभ्यो दिक्प्रबन्धेभ्यः सर्वक्षत्रात्मकाय च । सर्वदुःखवियोगिभ्यः सुखाश्रयेभ्य इत्यपि ॥ १० ॥ कण्ठाय कण्ठनालोभ्यः स्कन्धाय च ततः परम् । पृष्ठाग्रफलकायै च बाहुभ्योऽष्टाभ्य इत्यपि ॥ ११ ॥ कीकसाभ्यः कूर्परेभ्यः कनिष्ठाभ्यस्तथैव च । पर्वभ्यश्च नखेभ्यश्च वर्तनीभ्य इति ब्रुवन् ॥ १२ ॥ जतृभ्यां तालुदेशाय पार्श्वमूलेभ्यः इत्यपि । पार्श्वभ्याञ्च तथाऽसाभ्या भल्लकाय ततः परम् ॥ १३ ॥ उरस्याय शिरस्याय बाहुमुक्ताय हूयताम् । हृदयाय पुण्डरीकाय चित्ताय च ततः परम् ॥ १४ ॥ वर्तिभ्यामाकूतायेति चाकृतिभ्यश्च हूयताम् । तर्ताय तक्षिवायोऽसिमन्त्राय (?) प्रबलाय च ॥ १५ ॥ कीकसायाक्षिवासिभ्यः सूर्याय विष्णुचक्षुषे । वामाय वामनेत्राय विष्णुचक्षुष इत्यपि ॥ १६ ॥ प्रबुद्धामलधीराय महते च महात्मने । आत्मने चैव हुत्वा तु तथा सर्वात्मने पुनः ॥ १७ ॥ देवेशं मनसा ध्यायन् जुहुयाद्दोषशान्तये । अयं पाठः ई कोशयोः पञ्चत्रिंशाध्याये १८ श्लोकात् पश्चादुपलभ्यते अर्थात् - मुद्रिते ३३६ पुटे १८ श्लोकात् पश्चात् द्रष्टव्यः ॥
अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५३८ धार्याग्निर्यदि चान्तहोमसमये सप्तेति मन्त्रं हुनेत् नो चेदत्र समन्तमन्त्रमथवेन्द्रायेति वाऽग्नौ हुनेत् । तत्पात्रोदकतोऽग्निवेदिमुखरैर्मन्त्रैस्तथा तृप्यतां तृप्यन्तामिति मन्त्रलिङ्गविधिना कुर्याञ्च सन्तर्पणम् ॥ १ ॥ प्रासावीरवसानमन्त्रसहितं कुर्यात्परीषेचन- ञ्चोर्ध्वं कर्म विहाय तत्र परितः कुण्डेऽपि वा स्थण्डिले । सर्वं न्यस्य परिस्तरादिसहितं द्वौ ब्रह्मसोमौ तथा सूक्तेन प्रणतिं नतिञ्च कुरुते वैश्श्वानराख्यं जपन् ॥ २ ॥ कुण्डस्थण्डिलयोस्थापि सुदृढं संस्थाप्य नित्यं यजेत् तस्मिन् काम्यनवग्रहादिहवनं कुर्यात्प्रमोदं वहन् । नो चेद्यज्ञियवह्निदारुणि तथा काष्ठेऽपि वाऽऽरोपयेत् दोषं दक्षिणवह्निमूर्ध्नि विधिना सन्ताप्य मन्त्रं जपन् ॥ ३ ॥ आघ्रायाऽत्मनि रोपयेत्पवनतो नासाबिलाद्दक्षिणात् तं मन्त्रन्तु पुनर्जपन् स्वहृदयादग्नौ तथा लौकिके । अग्निञ्चाप्यवरोप्य मन्त्रविधिना नित्यं पुनः पूर्ववत् चाघारो यदि चैककर्मणि कृतः सूत्रोक्तविध्यापुरा (?) ॥ ४ ॥ आघारावसरे तु कर्मणि पुनर्नाघारहोमो भवेत् आघाराह्वयहोममात्रसहितं स्यात्तन्त्रहोमे हितम् । शारीरेष्वपि तन्त्रहोमकरणं कार्येऽपि वा दैविके वास्त्वग्निं सुविहाय चोभयविधौ सर्वत्र संरक्षयेत् ॥ ५ ॥ पर्यग्निर्यदि वास्तुहोमविधिना तस्यैव कुण्डं पृथक् कृत्वा भूसवनञ्च सूत्रविधिना चान्तेऽन्तहोमं हुनेत् । पर्यग्नेः समुदायहोमसमये पूर्वोक्तपूर्णाहुती हुत्वाऽग्निं परिरक्षयेयुरधिकञ्चर्त्विग्वराः सर्वदा ॥ ६ ॥ ५३९ ई कोशयोः ३६ अध्यायत्वेन अयं भागः पठ्यते ॥ वैखानसमुनिप्रोक्तसूत्रकर्मान्वितः पुरा । मार्कण्डेयप्रपौत्रश्च भार्गवो ब्राह्मणोत्तमः ॥ १ ॥ विष्णुचित्त इति ख्यातो विष्णुपूजाविशारदः । स्वधर्मनिरतरस्त्यागी ज्ञानवैराग्यवर्धनः ॥ २ ॥ सर्वदा भगवत्प्रीत्यै विष्णुं द्वमपूजयत् । श्रीविष्णुनित्यपूजार्थं तुलसीकाननं महत् ॥ ३ ॥ सर्वदा वर्धयित्वा तत्तुलसीमालिकादिभिः । पूजयित्वा विधानेन हरिदास्य विचिन्तयन् ॥ ४ ॥ रङ्गवल्ल्यादिकरणैर्देवदेवस्य मन्दिरे । अलङ्कुर्वस्तदेकान्तश्चिरं कालमनीनयत् ॥ ५ ॥ प्रसादनार्थं सेवार्थमागतान्पितृभिस्सह । मातृभिश्च समानीतान् बालास्तत्र स्तनन्धयान् ॥ ६ ॥ स्वहस्ताभ्यां समानीय प्रेम्णा जिघ्रंश्च मूर्धनि । देवार्पितानि वस्तूनि तेभ्य आहृत्य सन्ददौ ॥ ७ ॥ प्रवृत्तिमेतां संवीक्ष्य सेर्व तत्राब्रुवन्द्विजम् । बालेष्वासक्तचित्तस्य युक्तस्तव गृहाश्रमः ॥ ८ ॥ इति सम्प्रार्थितः सर्वैर्निश्चयान्न न्यवर्तत । अनन्तरेऽपि समये तदासक्तिर्न कुण्ठिता ॥ ९ ॥ काले कदाचित् भगवानुवाच वचनं महीम् । ‘विष्णुचित्तस्य शिशुषु ज्ञायतेऽभ्यधिकादरः ॥ १० ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४० त्वं तस्य तनया भूत्वा तस्येष्टं सम्प्रपूरय’ इत्याज्ञप्ता भगवता मही हर्षसमन्विता ॥ ११ ॥ आषाढे कर्कटे पूर्वफल्गुन्यां तुलसीवने । अंशेनैवावतीर्णाऽभूत् कलेरादौ महात्मनः ॥ १२ ॥ सुवर्णप्रतिमारूपा दृष्टा तेन महात्मना । भगवत्कृपया प्राप्ता श्रीर्महीवेति चिन्तयन् ॥ १३ ॥ गृहे संस्थाप्य तां देवीं पूजयामास भार्गवः । कदाचित्साऽवदत्स्वप्ने मानुषं धारयन्वपुः ॥ १४ ॥ ‘सखीभिः क्रीडितुं तात साम्प्रतं रोचते मनः । शिशुरस्म्यद्य संवृत्ता त्वं मां रक्षितुमर्हसि ॥ १५ ॥ इति संजल्पमानां तां दृष्ट्वा विस्मयकातरः । आज्ञाभङ्गभयाद्भक्त्या ‘तथे’ त्याश्रुत्य तद्वचः ॥ १६ ॥ तामादाय सुजाताङ्गीं धात्रीहस्ते समर्पयत् । क्षीरनीरादिभिस्सर्वैरुपचारै स्सुसंस्कृता ॥ १७ ॥ दशवर्षवयस्का सा ववृधे तस्य वेश्मनि । विष्णुचित्तोऽपि समये तां कन्यां दातुमुत्सुकः ॥ १८ ॥ अनुरूपवरप्रेप्सुश्चिन्तया व्यथितोऽभवेत् । तन्मनोगतमाज्ञाय चिन्तितं सा व्यजिज्ञपत् ॥ १९ ॥ ‘भविता मे हरिर्भर्ता तात नास्त्यत्र संशयः । तच्चरिष्ये व्रतं किञ्चत्तत्प्राप्त्यै माऽस्तु ते व्यथा ॥ २० ॥ व्रतार्थं मम सम्भारानर्थितानुपपादय’ । इति विज्ञापितः पुत्र्या सर्वं सज्जं चकार सः ॥ २१ ॥ ५४१ वैष्णवं बिम्बमादाय पूजोपकरणानि च । याजकानृत्विजश्चापि स तस्याः समकल्पयत् ॥ २२ ॥ वृश्चिकान्तमथारभ्य धनुरन्तं विशेषतः । पूजयामास सा देवी स्वाभीष्टार्थस्य सिद्धये ॥ २३ ॥ चतुर्विंशतिमूर्तीनां पूजनान्ते दिनं प्रति । मङ्गलाशीः प्रयुञ्जाना चचार व्रतमुत्तमम् ॥ २४ ॥ एवमाचरिते तस्याः पञ्चविंशतिमे दिने । साक्षाद्भूत्वा हरिस्तस्यै पञ्चतत्त्वमुपादिशत् ॥ २५ ॥ परमव्यूहविभवहृद्गतार्चाभिदा कृतम् । व्रतान्ते चोपयेमे तां स्वयं देवो द्विजात्मजाम् ॥ २६ ॥ तस्माच्चापगते भानौ हरिं गोदां समर्चयेत् । मासान्ते मकरात्पूर्वं विवाहोत्सवमाचरेत् ॥ २७ ॥ ‘भार्गवी लोकजननीं तुलसीकाननोद्भवाम् । विष्णुचित्तप्रियसुता’ मिति तत्प्रवरं वदेत् ॥ २८ ॥ एवं यः कुरुते पूजां गोदायाः प्रतिवत्सरम् । सर्वान् कामानवाप्यैव विष्णिुलोके महीयते ॥ २९ ॥ ई कोशयोः २६ अध्यायत्वेन एते २३ श्लोकाः पठ्यन्ते ॥ आचार्यस्यार्चकादीनां परिचारगणस्य वा । प्राप्तायां वंशहोनौ तु कर्तव्यं श्रृणुत द्विजाः ॥ १ ॥ अत्र प्रसङ्गाद्वक्ष्यामि कुमारग्रहणं परम् । स्त्रीप्रजाः पुत्रहीनो वा मृतपुत्रस्तथैव च ॥ २ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४२ एैहिकामुष्मिकावाप्त्यै स्वीकुर्यात्पुत्रमन्यजम् । स्वर्षिगोत्रजमादाय विना होमं सुसङ्ग्रहेत् ॥ ३ ॥ भ्रातृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वांस्तान् तेन पुत्रेण विदुः पुत्रिण एव हि ॥ ४ ॥ भ्रातॄणां भ्रतृतुल्यानां सगोत्राणाञ्च सन्ततौ । एैहिकामुष्मिकावाप्त्यै कर्तव्यः पुत्रसङ्ग्रहः ॥ ५ ॥ इति विज्ञाय सम्प्रार्थ्य पुत्रवन्तं गृहाश्रमम् । ‘तव पुत्रेण रक्ष्योऽहं त्वं दाता भव धार्मिक’ ॥ ६ ॥ इति सम्प्रार्थयेद्दाता तथैवेत्यनुमान्य च । अमुकस्य प्रदास्येहमिह पुत्रं फलाप्तये ॥ ७ ॥ इत्युक्त्वा संसदि तथा राज्ञस्तत्त्वं निवेद्य च । महादानोक्तवत्सर्व कल्पमत्र सुसङ्गहेत् ॥ ८ ॥ श्राद्धमभ्युदयं कुर्यात्पूर्वेद्युः शास्त्रवत्सुधीः । पुत्रग्रहणकाले तु ‘देवस्य’ त्वेति मन्त्रतः ॥ ९ ॥ दाता प्रतिगृहीता च दानमदानमाचरेत् । ददामि प्रतिगृह्णीमीत्यूहं तत्र समाचरेत् ॥ १० ॥ ततो ‘घृतात्प’रीत्यद्भिः सहितं प्रदतेत्सुतम् । ‘राजा त्वाप्रति मन्त्रोक्तौ’ ‘प्रजापतय इत्यत’ः ॥ ११ ॥ ‘पुरुषं शब्दमुच्चार्य पुत्रदानं ततश्चरेत् । ततः प्रतिगृहीता तु ‘त्वमग्ने’ त्याददीत वै ॥ १२ ॥ एष दानविधिः पूर्वं सङ्क्षिप्य गुरुणोदितः । द्विपिता यजमानश्चेदित्यत्र समुदीरितम् ॥ १३ ॥ ५४३ ब्राह्मौदने तु सम्प्रोक्तं तद्विशिष्योदितं मया । अन्येषां ग्रहणे चैव पुत्रत्वावाप्तये पुनः ॥ १४ ॥ पौरुषाग्निं समादाय तत्र होमं समाचरेत् । प्रतिगृहीतृगोत्रर्षिमन्त्रञ्च जुहुयाच्छतम् ॥ १५ ॥ धातादिमूलहोमञ्च जुहुयात्तदनन्तरम् । एष एव विशेषः स्यादन्यत्पूर्वोक्तवच्चरेत् ॥ १६ ॥ प्रतिगृहीता दातारं सम्पूज्य मधुपर्कतः । याचेत्पुत्रमपुत्राय मम देहीति चाग्रतः ॥ १७ ॥ दाता प्रतिगृहीतारं विष्णुं बुद्ध्वा स्वशक्तितः । श्रीवैखानससूत्रोक्तमधुपर्केण पूजयेत् ॥ १८ ॥ पूजयित्वा ददेत्पुत्रमादतीत च पूजितः । दाता प्रतिगृहीता च स्वाचार्यं सम्प्रपूजयेत् ॥ १९ ॥ द्वादशाहे तु मुख्यं स्याद्दन्तोत्पत्तौ तु मध्यमम् । वत्सरे त्वधमं प्रोक्तं तस्मादूर्ध्वं न शस्यते ॥ २० ॥ विधिना स्वीकृतः पुत्रः सर्वकार्यं समर्हति । आचार्यत्वे तथार्त्विज्ये वैदिके लौकिकेऽपि च ॥ २१ ॥ स्वीकृतोऽन्येन विधिना सर्वकर्मबहिष्कृतः । तस्मादेतद्विधानेन पुत्रस्वीकरणं चरेत् ॥ २२ ॥ एतद्वैखानस सूत्रमन्यसूत्रानपेक्षितम् । शास्त्रान्तरोक्तं न ग्राह्यं शास्त्रेऽस्मिन् वैदिके बुधाः ॥ २३ ॥ ण कोशधृतोऽयं पाठः । अर्थात् मुद्रितपुस्तके २७१ पुटे द्रष्टव्यः अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४४ अतः परं प्रवक्ष्यामि नवीकरणमुत्तमम् । प्रासादगोपुरादीनां मण्डपानां तपोधनाः ॥ १ ॥ वर्णनाशे सुधास्फोटे भित्तिभेदे तथैव च । शिलेष्टकादिपतने शीघ्रं कर्मेदमाचरेत् ॥ २ ॥ नाचरेद्यदि मूढात्मा एते दोषाः भवन्ति हि । आग्नेय्यां वाह्निबाधः स्याद्याम्यामामय उच्यते ॥ ३ ॥ र्नैॠ त्यां ग्रामनाशः स्याद्वारुण्यां वृष्टिनाशनम् । वायाव्यां शिशुनाशः स्यादुत्तरे स्त्रीजनामयः ॥ ४ ॥ एैशान्यां धननाशः स्यादैन्द्रे तु क्षुद्भयं तथा । अवान्तरेषु सर्वत्र ज्वरादिव्याधिपीडनम् ॥ ५ ॥ तद्बिम्बे न रमेद्देवः सङ्कृद्धो भगवान् भवेत् । तस्माच्छास्त्रोक्तमार्गेण प्रायश्चित्तं समाचरेत् ॥ ६ ॥ आलयाभिमुखे कृत्वा कुण्डमौपासनं तथा । न्यक्षादीनाञ्च देवानां मन्त्राणां विशेषतः ॥ ७ ॥ देवतानां गलस्थाने स्थापितानां विशेषतः । पादवर्गगतानाञ्च हृवा मन्त्राननुक्रमात् ॥ ८ ॥ तत्तब्दिम्बगतां शक्िंत ध्रुवबेरे निवेश्य च । प्राकाराश्रयपीठेषु तत्तद्दिक्षु यथाक्रमम् ॥ ९ ॥ न्यक्षादींस्तु समावाह्य दशकृत्वस्तु वैष्णवम् । चतुर्वेदादिमन्त्रांश्च हुत्वा चाग्निं विसिृज्य च ॥ १० ॥ शिलेष्टकादिप्रक्षेपैः दृढीकृत्य यथा पुरा । सुधावर्णानुलेपादीन् पूर्ववत्परिकल्प्य च ॥ ११ ॥ ५४५ पञ्चगव्यैः समभ्युक्ष्य वास्तुहोमः सुहूयताम् । नित्याग्नौ पौरुषं सूक्तं व्याहृतीः पौरुषं तथा ॥ १२ ॥ पारमात्मिकमीङ्काराद्यङ्गहोमश्च हूयताम् । अष्टाशीत्याहुतिं हुत्वा उक्तदोषस्य शान्तये ॥ १३ ॥ संस्थाप्य तत्तब्दिम्बानि न्यक्षादींश्चतुरस्तथा । ध्रुवाच्छक्िंत समारोप्य न्यक्षादिषु तथैव च ॥ १४ ॥ सिंहव्यालादिहीने तु पुनस्सन्धानकर्मणि । पुण्याहं वाचयित्वा तु विष्णुसूक्तं सवैष्णवम् ॥ १५ ॥ ईङ्कारादींस्ततो हृत्वा पञ्चगव्येन क्षालयेत् । सन्धानं कारयेत्पश्चाद्वर्णलेपनमाचरेत् ॥ १६ ॥ शुद्ध्यर्थं प्रोक्षणैः प्रोक्ष्य पर्यग्निं कारयेद्बुधः । तच्छक्तिञ्चैव संयोज्य दक्षिणां दापयेद्गुरोः ॥ १७ ॥ अकाले स्थूपिपतनेऽशनिपाते च दस्युभिः । नष्टे कीले यथा शक्िंत तथा बेरे समाह्वयेत् ॥ १८ ॥ स्थूपिः शिखरमित्युक्तं तन्नाशे न रमेद्धरिः । विमानं विष्णुरूपञ्च देवावासं तथैव च ॥ १९ ॥ स्थूलं विमानमित्युक्तं सूक्ष्मं बेरमुदीरितम् । तस्मात् सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ २० ॥ अब्जाग्नौ वैष्णवं सूक्तं ब्राह्मं रौद्रसमन्वितम् । परिषद्गणसंयुक्तं पारमात्मिकसंयुतम् ॥ २१ ॥ न्यक्षादीनाञ्च देवानां दिग्देवानां तथैव च । स्थूपिप्रतिष्ठामार्गेण प्रतिष्ठामाचरेद्गुरुः ॥ २२ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४६ प्राकारादिषु जीर्णेषु तत्प्रकाराधिदेवताः । मन्त्रैर्हुत्वा नवीकृत्य वास्तुहोमं यजेत्पुनः ॥ २३ ॥ परिवारालये जीर्णे न्यक्षादींश्चतुरस्तथा । तन्मूलबेरे चारोप्य नवीकृत्य यथा पुरा ॥ २४ ॥ तत्प्रतिष्ठाप्रकारेण विमानं कारयेत्पुनः । तत्तन्मन्त्रैश्च हुत्वा तु नवीकृत्य यथा पुरा ॥ २५ ॥ एकग्रामे समीपस्थमालयद्वितयं भवेत् । मूलालयविमाने तु नित्यनैमित्तिकोत्सवम् ॥ २६ ॥ भिन्नालये स्वल्पमेव काञ्चित्पूजां समाचरेत् । तस्यालये चातिशय उत्सवार्थश्च कथ्यते ॥ २७ ॥ राजा च यजमानश्च उत्सवं सम्प्रकल्पयेत् । नित्योत्सवं विना तत्र परिवरान् न कल्पयेत् ॥ २८ ॥ ध्रुवे कौतुकबिम्बे वा अन्यबिम्बं विना भवेत् । विमानादींश्च कृत्वैव उत्सवादीनि कारयेत् ॥ २९ ॥ अन्यथा यदि कुर्वीत कर्तृग्रामविनाशकृत् । वाहनादीन्विना वाऽथ देवेन सह कारयेत् ॥ ३० ॥ विमानं दारुणा कृत्वा प्रतिष्ठां शीघ्रमाचरेत् तत्काले यत्नमातिष्ठेत्कर्तुमुत्सवमत्वरः ॥ ३१ ॥ एवं कर्तुमशक्तौ तु प्रभूणामप्यनुज्ञया । अन्यालयात्तविभवैरुत्सवं सम्यगाचरेत् ॥ ३२ ॥ आचार्येणाप्यनुज्ञातस्तदन्यगुरुणा पुनः । उत्सवारम्भादिवसात्पूर्वमेव तथा हरिम् ॥ ३३ ॥ ५४७ अन्यालयं समानीय मुखं तत्र निवासयेत् । ततः परं तत्र कुर्यादङ्कुरं ध्वजारोपणम् ॥ ३४ ॥ उत्सवाहांस्ततस्सर्वास्तत्र चक्रादिभिः सह । वासयेत्सुसुखं देवं शिथिलालयसङ्गतम् ॥ ३५ ॥ ध्वजावरोहणं कृत्वा उत्सवान्ते यथा पुरा । स्नापयित्वा विशेषेण नयेत्पूर्वालयं पुनः ॥ ३६ ॥ स्वीयालये प्रतिष्ठाप्य प्रभूतञ्च निवेदयेत् । नित्यपूजादिकं सर्वं यथापूर्वं प्रकल्पयेत् ॥ ३७ ॥ इत्यार्षे…..अष्टत्रिंशोऽध्यायः । ग. ज. अधिकः पाठः । अन्यत्रापि प्रसिद्धः ॥ अतः परं प्रवक्ष्यामि चातुर्वर्ण्यविधिं श्रृणु । ब्रह्मणस्तु मुखोद्भूता ब्राह्मणा इति कथ्यते ॥ १ ॥ तस्य बाहुसमुद्भूताः क्षत्रिया इति कथ्यते । तस्यौवोरुसमुद्भूताः वणिजो नाम कथ्यते ॥ २ ॥ तस्य पादसमुद्भूताः शूद्रा इति कथ्यते । ब्राह्मणस्य क्रियां वक्ष्ये नित्यनैमित्तिकीं तथा ॥ ३ ॥ उदयात्प्राक् त्रिघटिका मूहूर्तो ब्राह्म उच्यते । ब्राह्मे मुहूर्ते चोत्थाय हरिस्मणपूर्वकम् ॥ ४ ॥ वस्त्रोत्तरीयधरश्च पूर्वोत्तरमुखो व्रजेत् । शुचिस्थले ततो गत्वा ईशान्ये मुखशोधनम् ॥ ५ ॥ दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषञ्च रात्रौ चेद्दक्षिणामुखः ॥ ६ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४८ पञ्चधा लिङ्गशौचं स्याद्गुदशौचं त्रिवेष्टितम् । पादयोर्लिङ्गवच्छौचं हस्तयोश्च चतुर्गुणम् ॥ ७ ॥ मूत्रे पुरीषे भुक्त्यन्ते तथैव द्विजधावने । चतुरष्टद्विषष्ट्यष्टगण्डूषैः शुद्धिरिष्यते ॥ ८ ॥ गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् । तन्न्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥ ९ ॥ हृत्कण्ठतालुगाभिस्तु यथासङ्क्यं द्विजातयः । शुद्ध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्ट्वा जलं ततः ॥ १० ॥ कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम् । कनिष्ठाङ्गुलिवत्सूक्ष्मं दन्तकाष्ठास्य लक्षणम् ॥ ११ ॥ प्रतिपन्नवमीपर्वषप्ठ्यष्टम्यश्चतुर्दशी । दन्तानां काष्ठसंयोगे दहत्यासप्तमं कुलम् ॥ १२ ॥ तृणपर्णैः सदा कुर्यादमामेकादशीं विना । तयोरपि च कर्तव्यं प्लक्षजम्ब्वाम्रपल्लवैः ॥ १३ ॥ ‘आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वं नो देहि वनस्पते ॥ १४ ॥ प्रक्षाल्य पादौ हस्तौ च मुखञ्चाद्भिः प्रमार्ज्य च । प्राङ्मुखोदङ्मुखो वाऽपि दन्तधावनमाचरेत् ॥ १५ ॥ अत्यन्तमलिनः कायो नवद्वारसमन्वितः । स्रवत्येव दिवारात्रं प्रातःस्नानं विशोधनम् ॥ १६ ॥ वसाशुक्रमसृङ्मज्जामूत्रं विट् कर्णविण्णखाः । श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ १७ ॥ ५४९ परस्यैतानि संस्पृश्य स्नायात्स्वस्य विशेषतः । चतुर्मलेषु मृच्छौचं शेषेषु जलमात्रतः ॥ १८ ॥ भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकम् । ततोऽपि सारसं पुण्यं गङ्गा पुण्या तु सर्वतः ॥ १९ ॥ गङ्गायाश्चापि माहात्म्यं विष्णुपादावसेचनात् । जलाशयन्तु तत्पुण्यं विष्ण्वालायसमीपतः ॥ २० ॥ गङ्गाजलसमं ज्ञेयं विष्णुपादावसेचनात् । योऽसौ तीर्थपदो विष्णुः द्रवरूपी जनार्दनः ॥ २१ ॥ स एव द्रवरूपेण वसत्यत्र जलाशये । ‘समस्तजगदाघार शङ्खचक्रगदाधर ॥ २२ ॥ देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे । गुणा दश स्नानपरस्य साधोः पञ्च तेजश्च बलं यशश्च । आयुष्यमारोग्यमलोलुपत्वं दुस्स्वप्ननाशश्च तपश्च मेधा॥ २३ ॥ नारा आपः समुद्दिष्टा आपो वै नरसूनव । तस्मान्नारायणं देवं स्नानकाले विचिन्तयेत् ॥ २४ ॥ स्रोतसोऽभिमुखो देवखाते देवमुखस्तथा । अन्यत्रार्कमुखः कुर्याद्रात्रौ चेदग्निसन्निधौ ॥ २५ ॥ स्नात्वा गङ्गां हरेः पादात्पतमानां स्वमूर्धनि । प्रपूर्याञ्जलिना सिञ्चेत्काकस्नानविवर्जितम् ॥ २६ ॥ प्रातर्मध्यंदिनस्नानं वानप्रस्थगृहस्थयोः । यतेः त्रिषवणस्नानं सकृत्तु ब्रह्मचारिणः ॥ २७ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५५० युगं युगद्वयञ्चैव त्रियुगञ्च चतुर्युगम् । चण्डालसूतिकोदक्यापतितादिक्रमेण तु ॥ २८ ॥ पूर्वाशाभिमुखे देवानुत्तराभिमुखस्त्वृषीन् । पितॄंश्च दक्षिणाशस्तु जलमध्ये तु तर्पयेत् ॥ २९ ॥ स्नात्वा धृतार्द्रवस्त्रेण यो द्विजोऽङ्गं प्रमार्जयेत् । शुनोच्छिष्टं भवेद्गात्रं पुनः स्नानेन शुद्ध्यति ॥ ३० ॥ अन्तराच्छाद्य कौपीनं वाससी परिधाय च । उत्तरीयं ततो धृत्वा प्रक्षाल्य चरणौ करौ ॥ ३१ ॥ स्नानवस्त्रञ्च निष्णीड्य तर्पणं नैव कारयेत् । देवर्षिपितरश्चैव शापं दत्वा व्रजन्ति ते ॥ ३२ ॥ वस्त्रञ्च त्रिगुणीकृत्य निष्पीड्य च जलाद्बहिः । समं प्रकोष्ठे निक्षिप्य द्विराचान्तो विशुद्ध्यति ॥ ३३ ॥ ‘ये के चास्मत्कुले जाता अपुत्रा गोत्रजा मृताः । ते गृहणन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ ३४ ॥ उत्तमा तारसहिता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातः सन्ध्या त्रिधा मता ॥ ३५ ॥ उत्तमा सूर्यसहिता मध्यमा लुप्तभास्करा । अधमा तारसहिता सायं सन्ध्या त्रिधा मता ॥ ३६ ॥ जानुमग्नजले स्थित्वा आचरेदार्द्रवाससा । शुष्कवासास्तटे तिष्ठन् संध्यावन्दनमाचरेत् ॥ ३७ ॥ ‘आपो हि’ ष्ठेत्यृचमेकां लिखन्नवपदं जले (?) । न तस्य विद्यते सन्ध्या यथा शूद्रस्तथैव सः ॥ ३८ ॥ ५५१ रजस्सत्त्वतमोमोहजाग्रत्स्वप्नसुषुप्तिजान् । मनोवाक्कायजान् दोषान् नवैतान् नवभिर्दहेत् ॥ ३९ ॥ अष्टाक्षरं नवपदं नवप्रोक्षणमुच्यते । दर्भा््ग्रैः प्रोक्षयेनमूर्ध्नि अधो यस्य क्षयाय वै ॥ ४० ॥ तिष्ठन् पादौ समौ कृत्वा प्रपूर्याञ्जलिना जलम् । गोश्रृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥ ४१ ॥ अङ्गुष्ठतर्जनीयोगे राक्षसी मुद्रिका मता । राक्षसी मुद्रिकायान्तु रुधिरार्ध्यसमं भवेत् ॥ ४२ ॥ मन्देहानां विनाशार्थं गायत्र्यार्घ्यत्रयं ददेत् । एतदस्त्रपरित्यागं परीत्यात्माभिमर्शनम् ॥ ४३ ॥ सन्ध्यास्थाने दशगुणं गृहे चैकगुणं भवेत् । आग्नौ शतगुणं प्रोक्तमनन्तं विष्णुसन्निधौ ॥ ४४ ॥ सव्याहृतीकां सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ४५ ॥ यद्रात्य्रा कुरुते पापं कर्मणा मनसा गिरा । तिष्ठन् वै पूर्वसन्ध्यायां प्राणायामैर्व्यपोहति ॥ ४६ ॥ यदह्ना कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां सन्ध्यां प्राणायामैर्व्यपोहति ॥ ४७ ॥ व्याहृतित्रयसंयुक्ता सावित्रीति प्रकथ्यते । चतुर्विंशाक्षरैर्युक्ता गायत्री परिपठ्यते ॥ ४८ ॥ गायत्री चैव वेदाश्च जनयामासतुः पुरा । चतुर्णामपि वेदानां गायत्रीऽभूद्गरीयसी ॥ ४९ ॥ अनुबन्धः - १ (मातृकाग्रन्थपरिचयः - पाठभेदसङ्ग्रहश्च) श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५५२ गायत्री वेदमातृत्वात् वेदः पर्वसु गीयते । कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण वै ॥ ५० ॥ अनामिकान्तं गणयेज्जप्यं कोटिसहस्रकम् । प्रातर्नासासमं कुर्यान्मध्याह्ने भुजयुग्मयोः ॥ ५१ ॥ सायं नाभिसमं कुर्याज्जपहस्तस्य लक्षणम् । तत्ततीर्थक्रमेणैव कूप्याभ्यो भूपति तथा ॥ ५२ ॥ देवान् ॠषीन् पितंृश्चैव तर्पयेन्नित्यतर्पणम् । दैवं कनिष्ठिकामूलमङ्गुल्यग्रं तथार्षकम् ॥ ५३ ॥ ब्राह्ममङ्गुलिमूलं स्यात्पित्र्यमङ्गुष्ठतर्जनी । जपेत् द्वादशसूक्तानि चतुर्वेदादिकांस्तु वा ॥ ५४ ॥ इषेत्वाद्यनुवाकैश्च स्वाध्यायो ब्रह्मयज्ञकम् । औपासनविहीनस्तु द्विजश्शूद्रसमो भवेत् ॥ ५५ ॥ औपासनविहीनश्च विधुरः परिकीर्तितः । अस्नाताशी मलं भुङ्क्ते अजपी पूयशोणितम् ॥ ५६ ॥ असंस्कृतान्नभूङ्मूत्रमहोमी त्रयमश्नुते । पद्माक्षतुलसीकाष्ठसम्भृताभिर्निरन्तरम् ॥ ५७ ॥ मालाभिर्भूषयेदङ्गं हरिभक्तिसमृद्धये । ऊर्ध्वपुण्डं्र ततो धृत्वा पूर्वोक्तेन विधानतः ॥ ५८ ॥ मृदुवस्त्रं मसाच्छाद्य सोष्णीषः सोत्तरीयकः । धारयेत्तु पवित्रञ्च हस्तयोरङ्गुलीयकम् ॥ ५९ ॥ कटकञ्चोपवीतञ्च कुण्डलेचाङ्गुलीयकम् (?) ग्रीवालङ्करणञ्चैव धृत्वा पञ्चाङ्गभूषणम् ॥ ६० ॥ ५५३ देवकार्ये द्विदर्भैच पितृकार्ये त्रिदर्भकैः । एकेन प्रेतकार्ये च दर्भसङ्ख्या विधीयते ॥ ६१ ॥ अग्रञ्च चतुरङ्गुल्यं ग्रन्धिरेकांङ्गुलं भवेत् । वलयं द्व्यङ्गुलं प्रोक्तं पवित्रस्य तु लक्षणम् ॥ ६२ ॥ अग्रं ब्रह्माधिदैवत्यं ग्रन्थिर्विष्ण्वधिदैवतम् । वलयं रुद्रदैवत्यं पवित्रस्याधिदेवताः ॥ ६३ ॥ सपवित्रेण हस्तेन कर्माङ्गाचमनं चरेत् । अग्रस्थूलं भवेन्नारी मूलस्थूलं नपुंसकम् ॥ ६४ ॥ मूलमग्रं सम पुंस इति दर्भस्य लक्षणम् । विवाहे पुंसि सीमन्ते नारीसम्बन्धकं कुशम् ॥ ६५ ॥ चौलोपनयने वृद्धौ पुंदर्भश्चैव दैविके । पैतुके यज्ञयागे (?) च नपुंसककुशं भवेत् ॥ ६६ ॥ पश्यन् देवं ततो हुत्वा यागान् सर्वान् समाचरेत् । वेदान् सर्वानधीयीत सर्वशास्त्रसमन्वितान् ॥ ६७ ॥ षट्कर्मनिरतश्चैव धर्मयुक्तो जितेन्द्रियः । कृषिगोरक्षवाणिज्यं ब्राह्मणस्योपजीवनम् ॥ ६८ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पञ्चत्रिंशोऽध्यायः ॥