३९

५०९ एकोनचत्वारिंशोऽध्यायः यागशालाकल्पनम् अतः परं प्रवक्ष्यामि सर्वाग्निस्थापनक्रमम् । सूत्रैश्चतुर्भिः षड्भिश्च अष्टभिश्च क्रमाब्दुधः ॥ १ ॥ प्रागग्रैरुत्तराग्रैश्च पदं सम्यक् प्रकल्पयेत् । क्रमाद्भवेन्नवपदं पञ्चविंशतिकं तथा ॥ २ ॥ एकोनपञ्चाशत्कञ्च यागशालाविधौ पदम् । षोडशस्तम्भसंयुक्तं भवेन्नवपदे गृहे ॥ ३ ॥ षट्त्रिंशत्स्तम्भसंयुक्तं पञ्चविंशत्पदे गृहे चतुष्षष्टिस्तम्भयुतं तद्भवेदुत्तमं गृहम् ॥ ४ ॥ अङ्कुरार्पणपददेवाः अथ वक्ष्ये विशेषेण पददेवान् पदत्रये । मध्ये तु ब्रह्मणः स्थानमिन्द्रादीनान्तु तद्बहिः ॥ ५ ॥ ईशानेन्द्रान्तरे स्थानं गरुडस्य प्रकीर्तिम् । इन्द्राग्न्योरन्तरे स्थानं चक्रस्य परिकीर्तितम् ॥ ६ ॥ यमाग्न्योरन्तरे स्थानं श्रीभूतस्य प्रकीर्तितम् । यमस्य दक्षिणे स्थानं ब्रह्मणः परिकीर्तितम् ॥ ७ ॥ नीलवारुणयोर्मध्ये पुण्यस्थानमुदीरितम् । वरुणोदानयोर्मध्ये यत्पदं तद्भृगोर्विदुः ॥ ८ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५१० धनदोदानयोर्मध्ये शङ्करस्य पदं भवेत् । कुबेरेशानयोर्मध्ये विष्वक्सेनपदं भवेत् ॥ ९ ॥ चतुर्थावरणेऽप्यूर्ध्वे देवताक्रम उच्यते । ईशानोर्ध्वपदे धाता इन्द्रस्योर्ध्वपदेऽर्यमा ॥ १० ॥ अंशुर्मित्रस्तथाऽऽग्नेये अग्नेरूर्ध्वपदद्वये । याम्योर्ध्वे वरुणः प्रोक्तो भग इन्द्रश्च र्नैॠते ॥ ११ ॥ विवस्वान् वारुणे पूषा पर्जन्यो मरुदूर्ध्वतः । त्वष्टा तु धनदस्थाने विष्णुः क्षत्तुरनन्तरम् ॥ १२ ॥ शेषितार्कपदञ्चैव द्वादशार्ककलापदम् । तत्पदेषु च तान् देवान् समावाह्य समर्चयेत् ॥ १३ ॥ सुदर्शनब्रह्मभुगुशान्तानामूर्ध्वके पदे । न्यक्षो विवस्वान् मित्रश्च क्षत्ता स्युः द्वारपालकाः ॥ १४ ॥ वीशोर्ध्वे प्रथमद्वारपालयोः स्थानमीरितम् । श्रीभूतोर्ध्वे विखनसः तापसस्य च कीर्तितम् ॥ १५ ॥ किष्किन्धतीर्थयोः स्थानं पुण्यस्योर्ध्वे प्रकीर्तितम् । शङ्करस्य पदादूर्ध्वं नागराजगणेशयोः ॥ १६ ॥ नित्याक्षहन्तयोः पूर्वं द्वारदक्षिणवामयोः । नित्याक्षहन्तयो (?) रुर्ध्वं स्थानं स्याद्ध्वजशङ्खयोः ॥ १७ ॥ तत्तत् स्थाने समावाह्य समभ्यर्च्य निवेद्य च । औपासनाग्निकुण्डानि कुर्यात्तत्तत्पदेषु च ॥ १८ ॥ परिवारप्रतिष्ठायां तेषु कुण्डेषु होमयेत् । ग्रहसङ्ख्यापदं कूटं ब्रह्मदिक्पालदैवतम् ॥ १९॥ ५११ पञ्चविंशत्पदं कूटमधुना सम्प्रवक्ष्यते । पूर्वं नवपदस्योक्ता मण्डपस्याधिदेवताः ॥ २० ॥ ईशवीशेन्द्रचक्राग्निश्रीभूतयमपद्मजाः । नीलपुण्यसरिद्राजख्यातीशोदानशङ्कराः ॥ २१ ॥ कुबेरशान्तौ पतयः ऊर्ध्वे षोडश देवताः । तत एकोनपञ्चाशत्पदसद्माधिपा इमे ॥ २२ ॥ पूर्वोक्तपञ्चविंशदिपदानान्तु पुरोदितम् । कुम्भवेद्याः दक्षिणतः पदमारभ्य तत्क्रमात् ॥ २३ ॥ धात्रादिद्वादशादित्यानर्चयेदन्तरान्तरा । द्वादशार्ककलाश्चापि समावाह्य समर्ययेत् ॥ २४ ॥ चतुःषष्टिपदे कूटे शिष्टेषु च पदेष्वपि । ऐशान्यां कुम्भवेदिः स्यात्पौण्डरीकञ्च पावके ॥ २५ ॥ अङ्कुरारोपणार्थन्तु र्नैॠत्यां वेदिका भवेत् । वास्तुपानाञ्च पूजार्थं वायव्ये चाऽपि वेदिका ॥ २६ ॥ पञ्चविशंद्गृहपदे चैवं नवपदात्मके । कुम्भवेदिः पौण्डरीकमङ्कुरार्पणवेदिका ॥ २७ ॥ वास्तुपानाञ्च पूजार्थं रचिता चापि वेदिका । तत्तत् स्थानेषु कर्तव्याः प्रयत्नेन मनीषिभिः ॥ २८ ॥ शिष्टानि तु पदानि स्युः सदस्यानामर्थार्त्वजाम् । सदस्या बहवः कार्याः विधिज्ञा दीर्घदर्शिनः ॥ २९ ॥ एकोनचत्वारिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५१२ ॠत्विजां कृत्यानि कर्मणान्तु समीपस्था उपद्रष्टार ईरिताः । सर्वार्त्विज्यमुपद्रष्टा सदस्येन सहार्हति ॥ ३० ॥ आचार्यस्यर्त्विजां होतुर्मन्त्रतन्त्रक्रियादिषु । अप्रज्ञातेषु विशये सर्वार्त्विज्यविधानतः ॥ ३१ ॥ उपद्रष्टा स्वयं कुर्यादथ चोपदिशेत्क्रियाः । सदस्याश्च तथा कुर्युर्न कुर्युरथवेच्छया ॥ ३२ ॥ परिवाराध्वर्यवश्च सप्ताग्न्यध्वर्यवस्तथा । ब्रह्मसोमावृत्विजौ द्वौ होता च कुशली युवा ॥ ३३ ॥ अक्ष्युन्मेषणवास्त्वग्निहोमार्थं द्वावथर्त्वजौ । स्नापनं सर्वदेवार्चां स्थापनञ्चेति कर्मसु ॥ ३४ ॥ ॠत्विजो वरणीयाः स्युर्यमादिगुणसंयुताः । आचार्यसदनं प्राप्य यजमानो मुदान्वितः ॥ ३५ ॥ वाद्यघोषसमायुक्तं स्वस्तिवाचनपूर्वकम् । ॠत्विग्भिः परिचारैश्च सहितं गुरुमत्वरः ॥ ३६ ॥ समाहूय समानीय यागशालामलङ्क ृताम् । उपवेश्यासनेष्वर्चेन्मधुपर्केण शक्तितः ॥ ३७ ॥ अनुमान्य च देवशं पुण्याहान्ते यथाक्रमम् । ॠत्विजो वरयेत्सर्वान् कार्यनिर्देशपूर्वकम् ॥ ३८ ॥ आदिमध्यावसानेषु सदस्यवरणं भवेत् । गुरुर्ब्रह्मा भृगुर्होता हरिर्वा समुदीर्यते ॥ ३९ ॥ ५१३ परिवाराध्वर्यवश्च परिवारस्वरूपिणः । सप्ताग्न्यध्वर्यवश्चापि तत्तदग्निस्वरूपिणः ॥ ४० ॥ सर्वे देवाः सदस्याः स्युरुपद्रष्टा बृहस्पतिः ब्रहोशहरयः प्रोक्ताः स्थापकस्नापकार्चकाः ॥ ४१ ॥ ब्रह्मसोमौ तु सम्प्रोक्तौ ब्रह्मसोमस्वरूपिणौ । अक्ष्युन्मेषणहोमर्त्विक् पञ्चभूतशरीरवान् ॥ ४२ ॥ वास्त्वग्न्यध्वर्युरुदितः साक्षाद्वै वास्तुपूरुषः । चक्रमीशामितानन्तरूपिणः परिचारकाः ॥ ४३ ॥ आचार्यादींस्तथारूपान् ध्यात्वाऽऽवाह्य समर्च्य च । ‘भवन्तः कर्म कुर्वन्तु ममेद’ मिति याचयेत् ॥ ४४ ॥ वृताः सम्प्रार्थिताः सर्वे कर्म कुर्युः समाहिताः । प्रागग्रैरुत्तराग्रैश्च सूत्रैः स्यात्पदकल्पनम् ॥ ४५ ॥ विष्णुगायत्रिया कृत्वा पूजयेत्पददेवताः । गोमयालेपनं कुर्या ‘दाशा’ स्विति च मन्त्रतः ॥ ४६ ॥ श्वेततण्डुलचूर्णे चक्रवालादिभिर्बहु । यथामनोनेत्ररुचि त्वलङ्कुर्यात्समन्ततः ॥ ४७ ॥ दर्भमालादिभिर्विष्वग्वितानैः स्तम्भवेष्टनैः । यागशालामलङ्कुर्यादङ्कुरैः पालिकादिभिः ॥ ४८ ॥ ब्रह्मसोमामितानन्तचक्रवीशध्वजानपि । आरोपयेद्यज्ञगुप्त्यै शालाया उपरि क्रमात् ॥ ४९ ॥ सचतुस्त्रिद्व्यावृतिभिः शालास्त्रेधोत्तमाधमाः (?) । चतुःषष्टिस्तम्भयुतं षट्त्रिंशत्स्तम्भसंयुतम् ॥ ५० ॥ एकोनचत्वारिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५१४ षोडशस्तम्भसंयुक्तं यज्ञसद्म त्रिधोदितम् । अष्टाविंशतिस्तम्भेषु बाह्यावरणगेषु च ॥ ५१ ॥ अष्टाविंशतिनक्षत्राण्यधिदेवान् समर्चयेत् । पङ्क्तिद्वितीयपादेषु शाखा विंशतिरीरिताः (?) ॥ ५२ ॥ अन्तरावरणस्तम्भा महाशाखादिदेवताः । प्रोक्तास्तस्मादन्तरङ्गाः (?) द्वादशादित्यदेवताः ॥ ५३ ॥ धर्मं ज्ञानञ्च वैराग्यमैश्वर्यमिति च क्रमात् । अन्तः स्तम्भचतुष्केषु अर्चयेदधिदेवताः ॥ ५४ ॥ अग्निपरिचर्याविशेषः ‘भूर्भुवस्स्वर्महर्जन’ इति व्याहृतिभिः च क्रमात् । गार्हपत्यादिकुण्डानि निर्मितानि स्वयम्भुवा ॥ ५५ ॥ भूरादीनाञ्च लोकानामाकृतीनि तथा स्मरेत् । गार्हपत्यादिकुण्डानामाकारस्तद्वदीरितः ॥ ५६ ॥ तपः सत्यमिति प्रोच्य पद्माग्निः श्रामणानलः । ब्रह्मणा कल्पितौ कुण्डौ तथैतौ कुरुते गुरुः ॥ ५७ ॥ संस्थाप्य गार्हपत्येऽग्निमादौ ‘भू’ रिति सञ्जपन् ‘भुव’ रादिभिरन्येषु कुण्डेष्वग्निं निधापयेत् ॥ ५८ ॥ ब्रह्माऽग्निं पञ्चधा कृत्वा पञ्चलोकेष्वकल्पयत् । ‘पञ्चधाऽग्नीन् व्यक्राम’दित्येषा वैदिकी श्रुतिः ॥ ५९ ॥ वैकल्यमग्निहोत्राणां तपसाञ्चापि चालनम् । विचित्य श्रमणेनाग्निं स्वयम्भूरसृजत्पुरा ॥ ६० ॥ ५१५ सोऽग्निः श्रामणकः प्रोक्तः सभ्यस्थानीय ईरितः । ब्रह्मणश्च विशेषेण हृदयाब्जे यतोऽजनि ॥ ६१ ॥ अब्जाग्निः स समाख्यातः तपोलोके प्रतिष्ठितः । तत्रान्योऽपि विधिः प्रोक्तो वह्नीनां वै निधापने ॥ ६२ ॥ जपन्वै विष्णुगायत्रीमन्ते विष्ण्वादिनामभिः । पञ्चभिः पञ्चकुण्डेषु सभ्यादिषु यथाक्रमम् ॥ ६३ ॥ नमः स्वाहा स्वधा स्वेकं चतुर्थ्यन्तं समुच्चरन् । अग्नीन् पञ्च समादध्याद्वासुदेवादि चोच्चरन् ॥ ६४ ॥ अग्निराधीयते यत्र प्रतिष्ठादिषु कर्मसु । भूरादिभिर्व्याहृतिभिः क्रमाद्धोमो विधीयते ॥ ६५ ॥ सप्तस्वग्निषु सप्तैव व्याहृतीर्जुहुयादिति । ‘नर्य प्रजां म’ इत्याद्यैरुपतिष्ठेत पावकम् ॥ ६६ ॥ सप्ताग्निषु च तावद्भिः पञ्चभिः पञ्चवह्निषु । त्रिभिस्त्रिषु तथैकस्मिन् सभ्येन मनुना बुधः ॥ ६७ ॥ सभ्यादिस्थापने होमान् विष्ण्वादिक्रमतश्चरेत् । ‘विष्णोर्नुका’ द्यैः सभ्यादीनुपतिष्ठेत भक्तितः ॥ ६८ ॥ वैष्णवैरुपतिष्ठेत मन्त्रैः श्रामणकानलम् । यावत्कर्मावसानन्तु तावत्पावकरक्षणम् ॥ ६९ ॥ नित्यहोमन्तु पुरतः प्रधानांश्च ततः परम् । कर्महोमं ततः कुर्यादुपस्थानमतः परम् ॥ ७० ॥ कार्यान्तेऽग्नीन् सुसङ्गृह्य समारोप्य च पूर्ववत् । नित्याग्नौ सर्वकर्माणि तत्रैव विधिना चरेत् ॥ ७१ ॥ एकोनचत्वारिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५१६ आलयात्पुरतो वाऽपि याम्ये कौबेर एव वा । यागशालां प्रतिष्ठाप्य प्रतिष्ठाफलमाप्नुयात् ॥ ७२ ॥ महत्सु प्रायश्चित्तेषु महासम्प्रोक्षणादिषु । अरण्यां नित्यहोमाग्निमारोप्याऽदायचाऽचरेत् ॥ ७३ ॥ नित्यमग्निं धारयितुमशक्तः समिदादिषु । समारोप्याचरेत्कर्म सूत्रोक्तविधिना बुधः ॥ ७४ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे सर्वाग्निस्थापनक्रमो नाम एकोनचत्वारिंशोऽध्यायः ॥ ॥ क्रियाधिकारस्समाप्तः ॥