३८

४९५ अष्टत्रिंशोऽध्यायः ऊर्ध्वपुण्ड्रविधिः अतः ऊर्ध्वं प्रवक्ष्यामि ऊर्ध्वपुण्ड्रस्य लक्षणम् । उषः काले समुत्थाय नित्यकर्माणि कारयेत् ॥ १ ॥ हृदि ध्यायन् हृषीकेशं प्राङ्मुखो वाऽप्युदङ्मुखः । कूर्मासने समासीनः स्मृत्वा गुरुपरम्पराम् ॥ २ ॥ ‘यन्मे व र्चेति मन्त्रेण आदर्शनमवेक्ष्य च । ‘द्रुपदा‘ इति तु प्रोच्य भूदेवीं तत्र प्रार्थयेत् ॥ ३ ॥ ‘मृत्तिके हन मे‘ प्रोच्य आदाय श्वेतमृत्तिकाम् । ‘तद्विष्णो’ रिति मन्त्रेण वामपाणौ तु घर्षयेत् ॥ ४ ॥ लिखित्वा प्रणवं तत्र हस्ते श्वेतमृदि क्रमात् । गायत्र्या तां सुसम्प्रोक्ष्य अनामाङ्गुलिना तथा ॥ ५ ॥ नृसिंहबीजं संलिख्य प्रणवेनैव वेष्टयेत् । ‘अलक्ष्मीर्मे नश्यता’ मित्यादाय श्वेतमृत्तिकाम् ॥ ६ ॥ हस्तौ तु सम्पुटीकृत्य ध्यायंस्तत्रैव केशवम् । श्रीभूसूक्ते ततो जप्त्वा अष्टाक्षरमतः परम् ॥ ७ ॥ विष्णुसूक्तं ततो जप्त्वा द्वादशाक्षरसंयुतम् । केशवादींस्ततो ध्यात्या ध्यायेल्लक्ष्मीपतिं हृदि ॥ ८ ॥ नासिकामूलमारभ्य कूर्चान्तं पादमालिखेत् । पादमङ्गुलिविस्तारमुन्नतञ्च तथैव च ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४९६ कूर्चान्ते पट्टिकाकारमर्धचन्द्रवदाचरेत् । तिर्यगेवन्तु कृत्वैव विस्तारन्तु त्रियङ्गुलम् ॥ १० ॥ ‘विष्णोर्नुक’ मिति प्रोच्य धारयेच्छ्वेतमृत्तिकाम् । ‘तदस्य प्रिय’ मित्युक्त्वा पट्ट्यूर्ध्वे तु समालिखेत् ॥ ११ ॥ रेखामङ्गुलिविस्तारां चतुरङ्गुलमायताम् । ‘प्रतद्विष्णु’ रिति प्रोच्य ललाटे दक्षिणे लिखेत् ॥ १२ ॥ ‘परो मात्रया’ मन्त्रेण ललाटे वामके लिखेत् । नासिकामूलमारभ्य केशान्तं विलिखेद्बुधः ॥ १३ ॥ विष्णोः पादाकृतिं रम्यं सुपार्श्वं सुमनोहरम् । अनामिकाङ्गुल्यग्रेण द्वादशैतानि संलिखेत् ॥ १४ ॥ ‘विचक्रमे-त्रिर्देव’ इति पुनः कण्ठस्य पृष्ठतः । हृदि कुक्षौ च बाह्वोश्च पार्श्वयोश्च समालिखेत् ॥ १५ ॥ ‘मोक्षं दे’ हीति शिरसि धारयेच्छ्वेतमृत्तिकाम् । ‘सुमित्रान आप’ इत्युक्त्वा हस्तौ प्रक्षालयेत्ततः ॥ १६ ॥ नारायणं प्रणम्यैव केशवादींस्तथा जपेत् । ‘या सा पद्माल’ येत्युक्त्वा लक्ष्मीं देवीं प्रणम्य च ॥ १७ ॥ ‘श्रिये जात’ इति प्रोच्य श्रीचूर्णं घर्षयेद्बुधः । चिन्तामणिं तथा बीजं लिखित्वा चाभिमन्त्रयेत् ॥ १८ ॥ श्रीगायत्रीं ततो जप्त्वा ललाटे धारयेद्बुधः । ऊर्ध्वपुण्ड्रस्य मध्ये तु वेणुपत्राकृतिं लिखेत् ॥ १९ ॥ ४९७ निशाचूर्णेन चैतेषु स्थानेषु द्वादशस्वपि । (ऊर्ध्वपुर्ण्डर्स्य मध्ये तु श्रीचूर्णं धारयेद्बुधः) ‘यन्मे वर्च’ इति मन्त्रेण आदर्शमभिवीक्षयेत् ॥ २० ॥ फलश्रुतिकथनम् एवं कृते ब्राह्मणस्तु ब्रह्म विन्दति निश्चयः । स्वर्णस्तेयी महापापः अस्तेयी भवति ध्रुवम् ॥ २१ ॥ सुरापायी महापापः अपायी भवति ध्रुवम् । ब्रह्महत्यासमायुक्तः अघाती भवति ध्रुवम् ॥ २२ ॥ गुरुतल्पसमायुक्तस्त्वतल्पी भवति ध्रुवम् । सर्वपापैः प्रमुच्येत सर्वैश्वर्यमवाप्नुयात् ॥ २३ ॥ ऊर्ध्वपुण्ड्रस्य सार्वत्रिकता सर्वदानफलं लब्ध्वा विष्णुलोकं स गच्छति । विग्रहे गोपुरे चापि मण्डपे चाङ्गणे तथा ॥ २४ ॥ गृहे तथैव तुरगे रथे याने परिच्छदे । एवमेव प्रकारेण कृत्वा चिह्नं सुलक्षणम् ॥ २५ ॥ वाद्यकोणेषु पात्रेषु चिह्नमेवं समालिखेत् । स्त्रीणामपि तथा प्रोक्तं श्रीचूर्णं श्वेतमृत्तिका ॥ २६ ॥ कूर्चमध्ये तथा कुर्यान्पुण्ड्रमर्धेन्दुसुन्दरम् । एवं यः कुरुते भक्त्या विष्णोः सायुज्यमाप्नुयात् ॥ २७ ॥ क्रियाः कृता अपि यदा क्रियन्ते मन्त्रवर्जिताः । अन्यहस्तेन वा पुण्ड्रं क्रियते यदि मोहतः ॥ २८ ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४९८ षाड्भिर्मासैश्च भ्रश्यन्ते ब्राह्मण्यात् ब्राह्मणा ध्रुवम् । राजानश्चेत्तथा तेषां राजराष्ट्रविनाशनम् ॥ २९ ॥ अप्रसिद्धिस्ततस्तेषां यशोनाशो भविष्यति । यथोक्तं कुर्वते ये तु सर्वान् कामानवाप्नुयुः ॥ ३० ॥ सदाचारक्रमः इदानीं वोऽत्र वक्ष्यामि सदाचारक्रमं बुधाः । शिष्टलक्षणम् यथार्थवादिनः शिष्टाः शिष्टा विगतमत्सराः ॥ ३१ ॥ यथार्थदर्शिनः शिष्टाः शिष्टा वै वीतमत्सराः । ब्राह्मे मुहूर्ते चोत्थाय ध्यानं कुर्युश्च वैष्णवम् ॥ ३२ ॥ ब्रह्मक्षत्रविशां प्रोक्तं वेदैः स्तोत्रं महात्मनः । वेदमन्त्रैर्विना कुर्युः शूद्राः पौराणकीर्तनैः ॥ ३३ ॥ अनुलोमाश्च कुर्वन्ति प्रतिलोमाश्च भाषया । पुरीषस्यापि मूत्रस्य चोत्सर्गं विधिना चरेत् ॥ ३४ ॥ दन्तानां धावनं कुर्याच्छ्रोत्राचमनपूर्वकम् । सूत्रोक्तविधिना स्नात्वा शरीरं परिमार्जयेत् ॥ ३५ ॥ सन्ध्यामुपास्य देवर्षितर्पणञ्च समाचरेत् । स्नानवस्त्रं परित्यज्य धारयेद्धौतमम्बरम् ॥ ३६ ॥ शरीरमार्जनात्पश्चाद्धौतवस्त्रस्य धारणम् । तर्पणान्ते वदन्त्येके केचिदत्र महर्षयः ॥ ३७ ॥ ४९९ वस्त्रधारणम् वस्त्रस्य धारणं वक्ष्ये श्रृणुध्वं मुनिसत्तमाः । अर्कहस्तसमायामं दशहस्तायतं तथा ॥ ३८ ॥ अथवाऽप्यष्टहस्तञ्च श्रेष्ठमध्यमनीचतः । एवं लक्षणसंयुक्तं सदशं विमलं शुचि ॥ ३९ ॥ षट्पञ्चयुगतालेन मानेनैव च विस्तृतम् । एवं लक्षणसंयुक्तं सदशं विमलं शुचि ॥ ४० ॥ श्वेतवर्णं पीतवर्णं वस्त्रद्वयमथाचरेत् । परिधानं परीधाप्य उत्तरीयं भुजद्वये ॥ ४१ ॥ कटिवस्त्रपरीधानमुत्तरीयं सवस्त्रकम् । सदशं वस्त्रमादाय परिधानं समाहितः ॥ ४२ ॥ कौपीनञ्चैव धृत्वा तु ब्रह्मचारी जितेन्द्रियः । वस्त्राग्रं दक्षिणे कट्यां वामकट्यां तथैव च ॥ ४३ ॥ कटिद्वयेन संस्थाप्य वस्त्रं त्रिर्वेष्टयेद्बुधः । आद्यवेष्टनसंश्लिष्टं तदग्रं तत्र निक्षिपेत् ॥ ४४ ॥ पश्चात्कच्छविहीनन्तु वर्णिनां वस्त्रधारणम् । गृहाश्रमवताञ्चैव पश्चात्कच्छसमायुतम् ॥ ४५ ॥ स्नातकस्य वनस्थस्य गृहाश्रमवतामिव । वर्णिनां धारणं यद्वत्तद्वत्सन्न्यासिनामपि ॥ ४६ ॥ वैश्यानाञ्चैव शूद्राणां पश्चात्त्कच्छसमायुतम् । वैश्यशूद्रानुलोमानामेकं वा वेष्टनं स्मृतम् ॥ ४७ ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५०० पश्चात्त्कच्छयुतं वस्त्रं धारयन्ति स्त्रियोऽखिलाः । वर्णिनां भिक्षुकानाञ्च पश्चात्त्कच्छविहीनकम् ॥ ४८ ॥ पूर्वकच्छसमायुक्तं वस्त्रधारणामिष्यते । गृहाश्रमवतामत्र विशेषः सम्प्रवक्ष्यते ॥ ४९ ॥ पुरः कच्छस्तिरः कुच्छः पश्चात्कच्छश्च सम्मतः । पूर्वेद्युः धौतवस्त्रञ्च नित्यकर्मसु धारयेत् ॥ ५० ॥ सद्योधौतवस्त्रधारणम् देवकार्येषु सर्वेषु पूर्वेद्युः धौतमादृतम् । पितृकर्मणि सर्वत्र सद्योधौतं विधीयते ॥ ५१ ॥ आर्द्रवस्त्रधारणम् आर्द्रवस्त्रं न धार्यन्तु दैवे पित्र्ये च कर्मणि । धारयेदार्द्रवस्त्रन्तु प्रेतकर्मणि सर्वदा ॥ ५२ ॥ एकोद्दिष्टे सपिण्डे च धौतमेवाभिधीयते । धृत्वा वस्त्रं यथोक्तन्तु धारयेदुत्तरीयकम् ॥ ५३ ॥ यज्ञोपवीतवद्धार्यं पूर्वपश्चिमलम्बनम् । वस्त्रमेवं सुसन्धार्य सर्वकर्माणि कारयेत् ॥ ५४ ॥ स्नानकाले विसृज्यैव पुनरेवञ्च धारयेत् । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा वैष्णवं जनम् ॥ ५५ ॥ पुनःस्नाननिमित्तानि स्पृष्ट्वा सम्भाष्य वा तेन नैव स्नानं समाचरेत् । चण्डालं पतितं म्लेच्छमन्त्यजं रासभं तथा ॥ ५६ ॥ ५०१ श्वानं शूद्रञ्च मार्जारमशुवं (?) कीकसं तथा । विण्मूत्रं वा मनुष्याणां मृगाणां पक्षिणामपि ॥ ५७ ॥ मृतं कृमिं वा कीटं वा स्पृष्ट्वा स्नानं समाचरेत् । मूषकं शलभं कीटं गोधां सर्पञ्च वृश्चिकम् ॥ ५८ ॥ जीवन्तं वा मृतं वाऽपि स्पृष्ट्वा स्नानं समाचरेत् । पिपीलिकां मक्षिकां वा जीवन्तीमथवा मृताम् ॥ ५९ ॥ अनुपेतं शिशुं कन्यामनूढां संस्कृतान्तु वा । यथोक्तकर्महीनञ्च ब्राह्मणं क्षत्रियं तथा ॥ ६० ॥ चण्डालपतितादींश्च दृष्टा कर्मणि दूरतः । विष्णोश्च स्मरणं कृत्वा तत्तत्कर्म समाचरेत् ॥ ६१ ॥ मोहादज्ञानतो नैवं श्वानयोनौ प्रजायते । स्वधूतं वस्त्रमन्यत्र निक्षिप्य स्नाति यो नरः ॥ ६२ ॥ मोहादज्ञानतो वाऽपि काकयोनौ प्रजायते । जपादौ आसनानि ब्रूसीं किलिञ्जकं वाऽपि तालपत्रादिनिर्मितम् ॥ ६३ ॥ कम्बलं वाऽप्यधिष्ठाय जपहोमादि कारयेत् । शयने विनियुक्तानि सर्वत्र परिवर्जयेत् ॥ ६४ ॥ तानि सर्वाणि सर्वत्र स्पृष्ट्वा स्नानं समाचरेत् । स्नानं कर्तुमशक्तश्चेदभिषेकविधानतः ॥ ६५ ॥ दिव्यं वायव्यमाग्नेयमेतेष्वेकं समाचरेत् । परार्थार्चनवेलायां स्नानहेतुसमुद्भवे ॥ ६६ ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५०२ विसृज्य वस्त्रयुगलमद्भिर्निर्णेजनं चरेत् । अन्यद्वस्त्रं परीधाय अर्चनं सम्यगाचरेत् ॥ ६७ ॥ आशौचिनं ब्राह्मणञ्च स्पृष्ट्वा स्नानं समाचरेत् । स्नानं तत्र त्रिवारं स्यात् स्पृशेद्वैश्यमथेदृशम् ॥ ६८ ॥ शूद्रन्तु तादृशं स्पृष्ट्वा चतुर्वारं समाचरेत् । मूत्रं पुरीषमुत्सृज्य यत्र कुत्रापि निर्जले ॥ ६९ ॥ प्रयतो जलमासाद्य सचेलः स्नानमाचरेत् । स्नानकाले तु सर्वत्र वाससोः त्याग इष्यते ॥ ७० ॥ रेतः पुरीषं मूत्रं वा स्वकीयं स्वतनौ पतेत् । मृदा जलेन संशोध्य ततः शुद्धिमवाप्नुयात् ॥ ७१ ॥ परस्यैतानि संस्पृश्य सचेलः स्नानमाचरेत् । शास्त्रमेव विचार्यैव वस्त्रधारणमाचरेत् ॥ ७२ ॥ एवं वस्त्रधरो भूत्वा पद्माक्षाद्यैरलङ्कृतः । पूर्वोक्तेन विधानेन ऊर्ध्वपुण्ड्रधरस्तथा ॥ ७३ ॥ आश्रमोक्तविधानेन नित्यकर्माणि कारयेत् । भगवदाराधनम् गृहाश्रमी तु सम्पूज्य शास्त्रोक्तविधिना हरिम् ॥ ७४ ॥ नैवेद्यानन्तरं विष्णोर्वैश्वदेवं विधाय च । विघसाशी भवेन्नित्यं वनस्थोऽपि तथा भवेत् ॥ ७५ ॥ यतीनां विधवानाञ्च नैष्ठिकब्रह्मचारिणाम् । प्रणाग्निहोत्रविधिना भोजनं समुदीरितम् ॥ ७६ ॥ ५०३ भोजनविधिः गृहस्थानां वनस्थानामन्येषां ब्रह्मचारिणम् । सायं प्रातश्च होमान्ते द्विकालं भोजनं मतम् ॥ ७७ ॥ स्वर्णादिपात्रं सन्न्यस्य चतुरश्रे च मण्डले । रम्भापत्रं पलाशं वाप्यनिन्द्यं पत्रभाजनम् ॥ ७८ ॥ शुद्धान्नं तत्र निक्षिप्य सूपशाकादिवर्जितम् । पूर्वाभिमुखमासीनः प्रत्यङ्मुखमथापि वा ॥ ७९ ॥ ‘ॠतन्त्वा सत्य’ मन्त्रेण सायेऽह्नि परिषिच्य च । ‘सत्यं त्वर्तेन’ मन्त्रेण प्रातश्च परिषेचयेत् ॥ ८० ॥ अन्नसूक्तेनाभिमर्शं केचिदाहुर्महर्षयः । केचिन्नेच्छन्ति तं तस्मात्पूर्वैराचरितं चरेत् ॥ ८१ ॥ ‘अमृतोपस्तरणम’ सीत्याधावं प्राशयेद्बुधः । दक्षिणेनैव हस्तेन अङ्गुष्ठानाममध्यमैः ॥ ८२ ॥ वामहस्तेन तत्पात्रं स्पृशन् अन्नं प्रगृह्य च । प्राणाय चेत्यपानाय व्यानाय च ततः परम् ॥ ८३ ॥ उदानाय समानाय स्वाहेत्यास्ये विनिक्षिपेत् । सूत्रोक्तेन विधानेन मन्त्रेणाऽपः पुनः पिबेत् ॥ ८४ ॥ सूपादिव्यञ्जनं भक्ष्यमन्यपात्रे विनिक्षिपेत् । व्यञ्जनैः समुपस्कृत्य अन्नमद्यादतः परम् ॥ ८५ ॥ सूपादिव्यञ्जनैर्युक्तमन्नं यः परिषिञ्चति । मोहादज्ञानतो वाऽपि तमाहुर्ब्रह्मघातुकम् ॥ ८६ ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५०४ पञ्चग्रासे महामौनं प्राणाद्याप्यायनं मतम् । नावश्यं भोजने मौनं कुटुम्बाश्रमवासिनाम् ॥ ८७ ॥ वाचोपचारः कर्तव्यो भुञ्जतां सह भोजने । प्राणाहुतिषु सर्वासु हुतास्वेव त्यजेद्गृही ॥ ८८ ॥ प्राणाहुतौ हुतायां वा सन्त्यजेन्मौनधारणम् । ‘अमृतापिधानम’ सीति पुनरन्ते जलं पिबेत् ॥ ८९ ॥ करप्रक्षालनं कृत्वा पुनराचमनं चरेत् । नैष्ठिकानां यतीनाञ्च उदरस्याभिमर्शनम् ॥ ९० ॥ स्वाध्यायकालकर्तव्यम् एष एव विशेषः स्यादन्यत्सूत्रोक्तवच्चरेत् । भोजनानन्तरं वेदान् वेदाङ्गान्यथ वा पठेत् ॥ ९१ ॥ विष्णुं सदा हृदि ध्यायेत्सगुणं निर्गुणं बुधः । भर्तृभुक्तावशिष्टं तत्पात्रे स्त्री स्वयमश्नुते ॥ ९२ ॥ ध्यायन्ती हृदि भर्तारं साक्षाद्विष्णुं जनार्दनम् । शूद्राणां योषिताञ्चापि मन्त्रवर्ज्यं हि भोजनम् ॥ ९३ ॥ पत्युच्छिष्टभुजो योषा अन्योच्छिष्टन्तु दूष्यते । परस्परञ्च शिशवो नान्योन्योच्छिष्टभोजिनः ॥ ९४ ॥ विष्ण्वर्पितन्तु ताम्बूलं भक्षयेत्तु गृहाश्रमी । सायं सन्ध्यामुपास्यैव तत्तत्कार्यं समाचरेत् ॥ ९५ ॥ गृहस्थः सह वै पत्न्या संविशेच्छास्त्रवद्बुधः । ५०५ सदाचारवतां सत्फलप्रप्तिः नित्यमेवं प्रकुर्वाणः श्रौतस्मार्तोदिताः क्रियाः ॥ ९६ ॥ विहितान्यन्यकर्माणि कुर्वन् ध्यायन् जनार्दनम् । द्विजः पापात्प्रमुच्येत प्राप्नुयाद्ब्रह्म शाश्वतम् ॥ ९७ ॥ नित्याचारविहीनस्य समस्ता निष्फलाः क्रियाः । विष्णुभक्तिविहीनस्य यथा सर्वं सुनिष्फलम् ॥ ९८ ॥ शिवेनापि कृतं कर्म भवेन्निष्फलमेव तु । सङ्कल्पकरणम् कर्मणामपि सर्वेषामादौ सङ्कल्पितं वदेत् ॥ ९९ ॥ श्रीविष्णोराज्ञया सर्वं प्रवर्तितमिदं जगत् । वर्तमानेऽपि चैतस्मिन् वत्सरेऽप्ययने ॠतौ ॥ १०० ॥ मासे पक्षे च नक्षत्रे तिथौ वार इतीर्य च । भगवत्प्रीतय इदं करिष्ये कर्म इत्यपि ॥ १०१ ॥ समर्प्य विष्णौ कर्तृत्वं सर्वं कर्म समारभेत् । बहूनां कर्मणाञ्चापि कुर्यात्सङ्कल्पमेकदा ॥ १०२ ॥ असंकल्प्य कृतं कर्म अहं बुद्ध्या कृतं च यत् । तद्भवत्यासुरं कर्म असुरा गृह्वते फलम् ॥ १०३ ॥ नित्यार्चनस्य प्राधम्यम् पूर्वं नित्यार्चनं कुर्यात्पश्चान्नैमित्तिकार्चनम् । नैमित्तिकार्चनं प्रोक्तं विष्णुपञ्चदिनोदितम् ॥ १०४ ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५०६ विष्णुपञ्चदिनानि विष्णुपञ्चदिनात्याहुरमावास्या च पूर्णिमा । द्वादश्यौ द्वे च श्रवणं श्रवणद्वादशी वरा ॥ १०५ ॥ कालस्वरूपी भगवानास्ते विष्णुरजोऽव्ययः । जगद्भर्ता जगत्पाता जगद्धर्ता स्वतेजसा ॥ १०६ ॥ कांश्चित्कालान् विशेषेण स्वीचकार जगत्प्रभुः । मासेषु मार्गशीर्षञ्च तिथिषु द्वादशीमपि ॥ १०७ ॥ श्रवणञ्चैव तारासु वैखानसमिवर्षिषु । श्रवणद्वादशीयोगः सर्वदा सम्प्रशस्यते ॥ १०८ ॥ मार्गशीर्षशुक्लद्वादशीविशेषः तत्रार्चनं विशेषेण सर्वकामफलप्रदम् । द्वादशी शुक्लपक्षे च मार्गशीर्षे यदा भवेत् ॥ १०९ ॥ तस्यामभ्यर्च्य देवेशं जगन्नाथं जगद्गुरुम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ११० ॥ माघशुक्लद्वादशी माघमासे शुक्लपक्षे द्वादश्यामर्चनं तथा । श्रावणकृष्णाष्टमी श्रावणासितपक्षे तु सिंहराशिं गते रवौ ॥ १११ ॥ अष्टम्यामर्चनं तद्वद्विष्णुलोकप्रदं नृणाम् । सर्वपापाहरौ पुण्यौ वदन्ति मुनयो बुधाः ॥ ११२ ॥ ५०७ जया द्वादश्यां पूर्वपक्षे तु माघमासे विशेषतः । पुनर्वस्वोर्यदा योगो जया स्यादितरा तथा ॥ ११३ ॥ जयन्ती अष्ठमी कृष्णपक्षे तु श्रावणे रोहिणीयुता । वियुक्ता वा जयन्तीति कीर्तिता वेदपारगैः ॥ ११४ ॥ अविद्धा अष्टमी अविद्धायान्तु सप्तम्यां जातोऽष्टम्यां हरिः स्वयम् । सौम्याग्नेययुता वाऽपि तां जयन्तीं विदुर्बुधाः ॥ ११५ ॥ जयाजयन्ती तिथ्यृक्षप्रधाने इति केचन । जयार्चनकालः जयार्चने च मध्याह्ने पूजयेद्राघवं बुधाः ॥ ११६ ॥ जयन्त्यर्चनकालः चन्द्रोदये जयन्त्यां वै कृष्णं सम्पूजयेत्तथा । जयायाञ्च जयन्त्याञ्च पूजयेद्दोषशान्तये ॥ ११७ ॥ रामस्य राघवस्यैव जननन्तु जयेरिता । जयन्ती कृष्णदेवस्य जननं परिकीर्तिता ॥ ११८ ॥ पूर्वपक्षे पुनर्वस्वोः द्वादश्यां माघमासि वै । तत्र कर्कटके लग्ने मध्यन्दिनगते रवौ ॥ ११९ ॥ रामो दाशरथिर्भूत्वा सर्वकारणकारणः । आविरासीज्जगन्नाथो मध्याह्नसमये प्रभुः ॥ १२० ॥ अष्टत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५०८ अष्टम्यामपि रोहिण्यां निशीथे तु विधूदये । देवो यदुकुले जातः कृष्णविग्रहभृद्विभुः ॥ १२१ ॥ अवतारसहस्रेषु विग्रहेषु परात्मनः । दशावतारा मुख्याः स्युः द्वौ तु मुख्यतमौ स्मृतौ ॥ १२२ ॥ जया जयन्त्योः प्राधान्यम् तस्मात्तयोरर्चनन्तु मुख्यमाहुर्मनीषिणः । रामकृष्णालये वाऽपि अन्यस्मिन्नपि मन्दिरे ॥ १२३ ॥ जयाजयन्त्योः सर्वत्र रामकृष्णौ समर्चयेत् । अन्येषामपि देवानां देवीनाञ्च यथाविधि ॥ १२४ ॥ जन्मकाले तिथिं वाऽपि तथा नक्षत्रमेव वा । मुख्यं ज्ञात्वा विधानेन वर्षवर्धनमाचरेत् ॥ १२५ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नित्यानुन्ठानविधिर्नामाष्टत्रिंशोऽध्यायः॥