३७

४८९ सप्तत्रिंशोऽध्यायः अङ्कुरार्पणविस्तरः अतः परं प्रवक्ष्यामि अङ्कुरार्पणलक्षणम् । भूपरीक्षादिकर्माणि देवकार्याणि यानि च ॥ १ ॥ तेषु तेषु प्रकुर्वीत विधिना चाङ्कुरार्पणम् । कर्मारम्भदिनात्पूर्वं नवमे वाऽथ सप्तमे ॥ २ ॥ पञ्चमे वा तृतीये वा सद्यो वाऽङ्कुरमिष्यते । पात्राणि पालिकाकुम्भशरावान् कारयेत्पृथक् ॥ ३ ॥ पालिकादीनां लक्षणम् सौवर्णरौप्यताम्रान्वा कांस्यानथ मृदा कृतान् । ब्राह्मणो यजमानश्चेत् प्रत्येकं तांस्तु षोडश ॥ ४ ॥ क्षत्रियो द्वादशाऽष्टौ विट् चतुर्थश्चतुरः क्रमात् । चतुरश्चतुरो वाऽपि गृह्णीयुः सर्ववर्णिनः ॥ ५ ॥ एवं कर्तुमशक्तानां गौणः क्रम उदीर्यते । एकैकं पालिकादीनां पात्रं सम्पादयेत्क्रमात् ॥ ६ ॥ उत्सेधः पालिकादीनां चतुर्विंशाङ्गुलो भवेत् । कुम्भस्योदरविष्कम्भं षोडशाङ्गुलमिष्यते ॥ ७ ॥ भित्तिरर्धाङ्गुलञ्च स्यादोष्ठमेकाङ्गुलं भवेत् । नालस्योदरविष्कम्भं चतुरङ्गुलमीरितम् ॥ ८ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४९० भित्तिरर्धाङ्गुलञ्च प्रोक्तमेवं नालमितिर्भवेत् । पादस्योदरविस्तारं दशाङ्गुलमुदाहृतम् ॥ ९ ॥ भित्तिरर्धाङ्गुलञ्च स्यात्पद्माकारन्तु कारयेत् । कुम्भस्योदरविस्तारं द्वादशाङ्गुलमात्रकम् ॥ १० ॥ भित्तिरर्धाङ्गुलं प्रोक्तं कुम्भाकरन्तु कारयेत् । मुखस्योदरविस्तारं पञ्चाङ्गुलमुदाहृतम् ॥ ११ ॥ भित्तिरर्धाङ्गुलं प्रोक्तं कुम्भोत्तुङ्गन्तु कारयेत् । कण्ठमेकाङ्गुलं प्रोक्तमोष्ठमेकाङ्गुलं भवेत् ॥ १२ ॥ कुम्भाकारं चतुर्दिक्षु भागविस्तारसंयुतम् । यवमात्रं द्वारमानं द्वन्द्वं द्वन्द्वन्तु कारयेत् ॥ १३ ॥ सर्वानन्यान् प्रकारांश्च पालिकावत्प्रकल्पयेत् । शरावस्य विशेषेण ओष्ठमेकाङ्गुलं भवेत् ॥ १४ ॥ सर्वानन्यान् प्रकारांश्च पालिकावत्प्रकल्पयेत् । यथालाभेन मानेन शक्तिलोपं न कारयेत् ॥ १५ ॥ अलाभे पालिकानान्तु शरावेष्वपि कारयेत् । अङ्कुरधान्यानि शालिर्माषः प्रियङ्गुश्च मुद्गगोधूमसर्षपाः ॥ १६ ॥ मसूरतिल्वचणका नवधान्यं प्रकीर्तितम् । प्रस्थमात्रं यथालाभमथवाऽऽदाय तानि वै ॥ १७ ॥ शोषितोत्पूतधान्यानि पूर्वाह्ने निक्षिपेज्जले । ४९१ अङ्कुरवेदिका ततो देवागृहस्याग्र उत्तरे वा मनोरमे ॥ १८ ॥ एैशान्यां मण्डपे वाऽथ गोमयेनोपलिप्य च । वितानदर्भमालाद्यैरलङ्कृत्य विशेषतः ॥ १९ ॥ पैष्ट्या भूमिमलङ्क ृत्य दीपानुद्दीप्य सर्वतः । आचार्यो यजमानश्च सायं सन्ध्यामुपास्य च ॥ २० ॥ सम्भृत्य सर्वसम्भारान् यथार्हं तत्र मण्डले । देवदेवं प्रणम्यैव कार्यमावेद्य मन्त्रतः ॥ २१ ॥ अनुमान्य प्रभुं कुर्यादङ्कुरार्पणमत्वरः । पदकल्पनम् प्रागग्रैरुत्तराग्रैश्च सूत्रैरष्टभिरष्टभिः ॥ २२ ॥ पदमेकोनपञ्चाशद्विरचय्य सलक्षणम् । मध्ये त्रिवेदिसहितं पीठं तालोन्नतं विधेः ॥ २३ ॥ देवतावाहनम् कृत्वा चतुर्मुखं तत्र ब्रह्माणं सम्यगर्चयेत् । प्रदक्षिणक्रमेणैव तत्र बाह्यपदेषु वै ॥ २४ ॥ ईशानादि चतुर्विंशद्देवानेतान् समर्चयेत् । ईशं पर्जन्यं जयन्तं महेन्द्रादित्यसत्यकान् ॥ २५ ॥ अग्निञ्च वितथञ्चैव ग्रहक्षतयमौ तथा । गन्धर्वं भृङ्गराजञ्च र्नॠतिं दौवारिकं तथा ॥ २६ ॥ सुग्रीवञ्च सरिन्नाथमसुरं शोषणं तथा । जवनं नागमुख्यौ च क्रमात्सोमार्गलादितीन् ॥ २७ ॥ सप्तत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४९२ उपचारक्रमः आवाह्य तोयं पुष्पञ्च हविस्तोयं ददेत्ततः । पुष्पादीनपि संशोध्य मध्ये द्वारान् प्रकल्प्य च ॥ २८ ॥ द्वारेशार्चनम् द्वारेशानर्चयेदष्टौ तत्तद्दिग्द्वारपार्श्वयोः । जयन्ते शेषमभ्यर्च्य आदित्ये तु विनायकम् ॥ २९ ॥ ग्रहक्षते तु गरुडं गन्धर्वे तु सुदर्शनम् । सुग्रीवेऽपि च पङ्क्तीशं भूतेशमसुरेऽर्चयेत् ॥ ३० ॥ मुख्ये शङ्खं समावाह्य पूजयेच्छान्तमर्गले । जयाद्यर्चनम् ब्रह्मणः परितोऽष्टासु प्रागादीशान्तमर्चयेत् ॥ ३१ ॥ जयाञ्च विजयां विन्दां नन्दामप्यथ पुष्टिकाम् । कुमुद्वतीमुत्पलकामष्टावप्सरसः क्रमात् ॥ ३२ ॥ दिगीशार्चनम्, सोमकुम्भार्चनम् तद्बाह्ये दिक्षु विदिशास्विन्द्रादींश्च समर्चयेत् । उत्तरे धान्यपीठन्तु चतुरङ्गुलमुन्नतम् ॥ ३३ ॥ सोमस्य अभिमुखे कुर्यात्सुवृत्तं साध्वलङ्कृतम् । षोडशप्रस्थसम्पूर्णं कालहीनं नवं शुभम् ॥ ३४ ॥ कुम्भमादाय विधिना तन्तुना परिवेष्ट्य च । । प्रक्षाल्य पूरयित्वाऽद्भिः वस्त्राभ्यां वेष्टनं चरेत् ॥ ३५ ॥ अभिमन्त्र्य च सौवर्णी प्रतिमां तत्र निक्षिपेत् । तस्मिन् कुम्भे समावाह्य सोमं ध्यात्वा समर्चयेत् ॥ ३६ ॥ ४९३ पालिकाद्यलङ्करणम् हविर्निवेदयेत्पश्चान्मुखवासञ्च दापयेत् । मृद्भिर्वा वालुकाभिर्वा गोकरीषैर्विशेषतः ॥ ३७ ॥ पालिकादीन् समापूर्य तन्तुना परिवेष्ट्य च । वस्त्रैरावेष्टयेत्पश्चात् पात्राणि च यथाक्रमम् ॥ ३८ ॥ पालिकादीनां न्यासः न्यसेदीशे पालिकाश्च कुम्भान् पर्जन्यके तथा । शरावान् सत्यके न्यस्य पुनरग्नौ च पालिकाः ॥ ३९ ॥ निदध्याद्वितथे कुम्भान् शरावन् भृङ्गराजके । र्नैॠते पालिका न्यस्य कुम्भान् दौवारिके तथा ॥ ४० ॥ शरावान् शोषणे न्यस्य जवने पालिकाः पुनः । नागे कुम्भांस्तथा न्यस्य शरावानदितौ न्यसेत् ॥ ४१ ॥ जपन्वै विष्णुगायत्री यथोक्ते स्थापयेत्पदे । पालिकादिष्वर्चनम् पालिकासु महीं राकां छिद्रकुम्भेषु चार्ययेत् ॥ ४२ ॥ शरावेषु सिनीवालीमभ्यर्च्य विधिना गुरुः । पूर्वानीतानि धान्यानि गृहीत्वा कांस्यभाजने ॥ ४३ ॥ गव्येन पयसा सिक्त्वा सोमस्याभिमुखे न्यसेत् । तेषु सोमं समावाह्य समभ्यर्च्य निवेदयेत् ॥ ४४ ॥ वैष्णवं विष्णुसूक्तञ्च ओषधीसूक्तमेव च । ‘सोमं राजान’ मिति च जपन् मङ्गलपूर्वकम् ॥ ४५ ॥ सप्तत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४९४ अङ्कुरार्पणम् अङ्कुराण्यभिमन्त्र्यैव तानि पात्रेषु निक्षिपेत् । मेदिनीमन्त्रमुच्चार्य पालिकासु विशेषतः ॥ ४६ ॥ ‘राकामहं’ समुच्चार्य छिद्रकुम्भेषु वापयेत् । ‘सिनीवा’लीति मन्त्रेण शरावेषु विनिक्षिपेत् ॥ ४७ ॥ जलसेकः वारुणं मन्त्रमुच्चार्य जलसेकमथाऽचरेत् । पुण्याहम् पुण्याहं वाचयित्वा तु मुखवासं प्रदापयेत् ॥ ४८ ॥ आचार्याय पदार्थिभ्यो दक्षिणां विहितां ददेत् । अङ्कुररक्षणम् अङ्कुरान् सोमकुम्भञ्च गुप्ते देशे निधाय च ॥ ४९ ॥ पिदध्याच्च पिधानेन कर्मान्ते च विसर्जयेत् । सद्योऽङ्कुरम् एवं कर्तुमशक्तस्तु कुर्यात्सद्योऽङ्कुरं बुधः ॥ ४० ॥ अङ्कुरोक्तक्रियाः सर्वाः कुर्यादुक्तविधानतः । श्वेतैश्च तण्डुलैः पुष्पैरावापोऽङ्कुरवद्भवेत् ॥ ४१ ॥ अङ्कुरार्पणहीनन्तु कर्म निष्फलतामियात् । साङ्कुरन्तु कृतं कर्म कार्यसिद्धिं प्रयच्छति ॥ ४२ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अङ्कुरार्पणविधिर्नाम सप्तत्रिंशोऽध्यायः॥