३६

पञ्चत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८२ षट्त्रिंशोऽध्यायः वैदिकाराधनमहिमा अतः परं प्रवक्ष्यामि विष्णोराराधनक्रमम् । त्रिविधञ्चार्चनं प्रोक्तं केशवेन परात्मना ॥ १ ॥ वैखानसं पाञ्चरात्रमाग्नेयमिति तत्त्रिधा । कल्पादौ भगवान् विष्णुः क्षीराब्धौ शयितः प्रभुः ॥ २ ॥ योगनिद्रां गते तस्मिन्नभून्नाभ्यान्तु पङ्कजम् । तस्मिंस्तु कमले ब्रह्मा जातः परमसुन्दरः ॥ ३ ॥ जातमात्रश्चतुर्वक्त्रो दध्यौ देवं परात्परम् । ध्यानेन तेन सुप्रीतो भगवानाह पद्मजम् ॥ ४ ॥ सर्वेषामपि भूतानां जङ्गमस्थावरात्मानाम् । लोकानामपि सर्वेषां सृष्टिं कुरु मदाज्ञया ॥ ५ ॥ इत्युक्त्वा भगवांस्तस्मै वेदानुपदिदेश ह । जगत्सृष्टिः तेनोपदिष्टमात्रः स सर्वान् लोकान् ससर्ज ह ॥ ६ ॥ रुद्रादीनखिलान् देवान् स्थावराणि चराणि च । निखिलं ससृजे ब्रह्मा हृष्टः पुष्टिसमन्वितः ॥ ७ ॥ चतुर्वेदोद्भवैर्मन्त्रैरानर्च पुरुषोत्तमम् । अर्चयंश्च क्रमेणैवमवलिप्तोऽभवद्विधिः ॥ ८ ॥ ४८३ ब्रह्माणं गर्वितं दृष्ट्वा तदा नारायणः प्रभुः । गर्वभङ्गार्थमेवास्य ससर्ज मधुकैटभौ ॥ ९ ॥ असुरौ तौ समागत्य चतुरास्यं बबाधिरे । बलात्कृत्य गृहीत्वा तौ वेदानब्धिञ्च जग्मतुः ॥ १० ॥ ततः परं प्रभुर्ब्रह्मा व्यसनेन प्रपीडितः । पितुरन्तिकमागत्य दुःखितो वाक्यमब्रवीत् ॥ ११ ॥ ‘भगवान्! केन मार्गेण त्वमर्च्योऽसि मयाऽधुना’ इत्युक्तो देवदेवेशो भगवान् प्रत्युवाच तम् ॥ १२ ॥ पाञ्चरात्रशास्त्रोत्पत्तिः ‘अद्यप्रभृति वै पञ्च दिनानि त्वं प्रजापते । द्वादशाष्टाक्षराभ्यां मां मन्त्राभ्यामर्चय स्वयम् ॥ १३ ॥ तच्च नामार्चनमिति पाञ्चरात्रमितीर्यते । इत्युक्त्वा देवदेवेशो मत्स्यरूपी महानभूत् ॥ १४ ॥ मत्स्यरूपी महाविष्णुः शङ्खचक्रगदाधरः । अब्धिं प्रविश्य भगवानवधीन्मधुकैटभौ ॥ १५ ॥ वेदानाहृत्य देवेशः प्रादत्तांश्च स्वयंभुवे । उपदिश्य तथा वेदान् शास्त्राण्यन्यानि चोक्तवान् ॥ १६ ॥ तेनोपदेशमात्रेण तेजिष्ठः कमलोद्भवः । अपूजयद्यथापूर्वं वैखानसविधानतः ॥ १७ ॥ अर्चयन्तन्तु ब्रह्माणं पुनर्मानः समाविशत् । गर्वितन्तु विधिं दृष्ट्वा पुनर्लोकपितामहः ॥ १८ ॥ षट्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८४ ब्रह्मणो गर्वभङ्गर्थमसृजत्सोमकासुरम् । सोमकस्त्वरितो गत्वा हठाद्विधिमपीडयत् ॥ १९ ॥ अपहृत्य ततो वेदान् पातालं समुपाविश्त् । ब्रह्मा सुदुःखितो भूत्वा देवेशं शरणं ययौ ॥ २० ॥ अब्रवीच्च ‘कथं देव! पूजनीयोऽसि मेऽधुना’ । इत्युक्तो ब्रह्मणा विष्णुस्तमुवाच हसन्निव ॥ २१ ॥ ‘अद्यप्रभृति सप्तैव दिनानि त्वं प्रजापते । तन्त्रप्रोक्तेन विधिना मन्त्रहीनं समर्चय ॥ २२ ॥ अमन्त्रार्चनमित्युक्तमाग्नेयं तत्प्रशस्यते । इत्युक्त्वा भगवान् विष्णुर्वाराहं रुपमास्थितः ॥ २३ ॥ अब्धिं प्रविश्य सहसा भीमरूपो महाबलः । आसाद्य सोमकं घोरं दंष्ट्राग्रेणाच्छिनत्प्रभुः ॥ २४ ॥ वेदान् गृहीत्वा देवेशः ब्रह्मणे प्रददौ पुनः । प्राप्योपदेशं देवेशान्मुदितः कमलोद्भवः ॥ २५ ॥ पूजयामास विधिवत्पुनर्वेदोदिताध्वना । यद्वेदमन्त्रैः क्रियते तद्वैखानसमीरितम् ॥ २६ ॥ तस्माद्वैखानसं श्रेष्ठमिति पूर्वजशासनम् । वैखानसेन सूत्रेण संस्कृता मुनिसत्तमाः ॥ २७ ॥ निसर्गवेष्णवाः शुद्धा जन्मनाऽऽचार्यसंज्ञिताः । विखाना इति वै विष्णुः तज्जा वैखानसाः स्मृताः ॥ २८ ॥ विष्ण्वंशजश्च विखना मुनीनां प्रथमो मुनिः । तेनोपदिष्टं यत्सूत्रं तत्सूत्रेषूत्तमं स्मृतम् ॥ २९ ॥ ४८५ तत्सूत्रसंस्कृता विप्राः सर्वेषामुत्तमोत्तमाः । देवब्रह्मर्षिसङ्घानां गुरुर्वैखानसो मुनिः ॥ ३० ॥ तत्सूत्राचरणा ये तु ते आचार्याः प्रकीर्तिताः । अन्यसूत्रक्रियासक्तास्तादृशा न भवन्ति हि ॥ ३१ ॥ (अन्यसूत्रक्रियासक्ता दासाः शिष्याश्च सम्मताः । तस्मात्सदस्सु सर्वत्र आदौ वैखानसं नमेत् ॥ वैखानसो विष्णुमयो न नमेदन्यसूत्रिणः । यदि कुर्यान्नमस्कारं तेषामायुःक्षयो भवेत् ॥) देवलककथनम् न शैवदीक्षिता विप्रा न वैखानससूत्रिणः । न दीक्षिताः पाञ्चरात्रे परार्थं वित्तकाङ्क्षया ॥ ३२ ॥ शिवकेशवयोः पूजामेकाहमपि वा चरेत् । दूषिताः सर्वकार्येषु ते वै देवलकाः स्मृताः ॥ ३३ ॥ वैखानसेन शास्त्रेण अर्चनं क्रियते यदि । लोके सर्व््त्र शान्तिः स्याद्राजराष्ट्रप्रवर्धनम् ॥ ३४ ॥ अन्यसूत्रिकृता पूजा न भवेत्फलदा क्वचित् । शास्त्रसङ्करपूजायां राजराष्ट्रविनाशनम् ॥ ३५ ॥ मद्भक्तो वैष्णवो लोके गुरुर्भागवतोत्तमः । वैखानसो द्विजः कुर्यात्सर्वकर्माणि पूजितः ॥ ३६ ॥ अश्वत्थः कपिला गावः तुलसी विखनोद्विजः । हरिप्रियास्तु चत्वारः तेषु वैखानसो वरः ॥ ३७ ॥ षट्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८६ विष्णुं वैखानसं वेदं यो दूषयति पातकी । आचन्द्रार्कं महाघोरं निरयं याति रौरवम् ॥ ३८ ॥ विष्णुप्रीतिकरं दानमणुमात्रन्तु सादरम् । भवेत्तन्मेरुणा तुल्यं वर्धते वटबीजवत् ॥ ३९ ॥ शताधिक्यं शताधिक्यं शताधिक्यं महर्षयः । विद्धि वैखानसे दत्तं दानं विष्णुकरे यथा ॥ ४० ॥ हविः पाकविधानार्थमाधावग्रहणाय च । वैखानसानेव वृणेदलाभे त्वन्यसूत्रिणः ॥ ४१ ॥ शङ्खचक्राङ्कितभुजान् वृणीयादन्यसूत्रिणः । गर्भे मास्यष्टमे विष्णुवलिं कुर्याद्यथाविधि ॥ ४२ ॥ नारायणः स्वयं गर्भे मुद्रां धारयेत् निजाम् । तत्करस्थेन चक्रेण शङ्केन प्रथितौजसा ॥ ४३ ॥ करोति चक्रशङ्खाङ्कं शिशोर्वै बाहुमूलयोः । वैखानसेन सूत्रेण स्यादयं गर्भवैष्णवः ॥ ४४ ॥ वैष्णवं सूत्रमेतद्धि सर्वशिद्धिकरं परम् । वैखानसाश्च मत्पुत्रा दत्तपुत्राश्च दीक्षिताः ॥ ४५ ॥ मम वैखानसस्यापि न पश्यन्त्यन्तरं बुधाः । न मुद्राधारणं तेषां गर्भवैष्णवजन्मनाम् ॥ ४६ ॥ श्रौतस्मार्तक्रियार्हाणां मत्प्रसादैकजीविनाम् । मम वाक्यबलेनैव ते वै चक्राङ्किता मताः ॥ ४७ ॥ एतच्च वचनं गुह्यं शुणुध्वं मुनिसत्तमाः । मत्पुत्राणां न चिह्नानि दीक्षिताश्चिह्नधारिणः ॥ ४८ ॥ ४८७ वैखानसा मम सुता गर्भवैष्णवलाञ्छनाः । मच्छरीरतया चक्रचिह्नानि न पृथग्गुरुः ॥ ४९ ॥ मद्भक्तो वैष्णवो लोके गुरुर्भागवतोत्तमः । तेषां पृथङ् न चिह्नानि चक्रादीनां गुरुर्न च ॥ ५० ॥ अहमेव गुरुस्तेषां गर्भवैष्णवजन्मनाम् । तापादिपञ्चसंस्कारक्रिया नार्हन्ति मामकाः ॥ ५१ ॥ विहितानि च चिह्नानि बिभृयुस्त्वन्यसूत्रिणः । चक्रादिचिह्नधारी च अज्ञानात् ज्ञानतोऽपि वा ॥ ५२ ॥ वैखानसश्चतुर्वेदी सर्वकर्मबहिष्कृतः । अज्ञानाढ्वा बलान्मोहात्तप्तमुद्रो भवेद्यदि ॥ ५३ ॥ वैखानसोऽपि वध्यः स्यात् स्प्रष्टुं नार्हति मामपि । (वैखानसा मम सुता गर्भवैष्णवजातकाः । तेषां बहिर्न तापो न पुनः करणमापदि) ॥ मद्भक्तियुक्तस्य मदौरसस्य निषेककर्मादिविराजितस्य । वैखानसस्यास्य न तप्तमुद्रा न मन्त्रदीक्षा न गुरुर्मया विना ॥ सा मुद्रा त्रिविधा प्रोक्ता मनोवाक्कायकल्पिता ॥ ५४ ॥ भूतशुद्ध्यङ्गभूता या भावना मानसी तु सा । चक्राब्जमण्डले जप्या द्वितीया दीक्षितैः कृता ॥ ५५ ॥ तप्तमुद्रा तृतीया स्यादवैखानससम्मता1 । वैखानसश्च तुलसी तथा विष्णुपदी सरित् ॥ ५६ ॥ 1. बाह्यसेवकसङ्गता. क. षट्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८८ प्रकृत्या पावनाः प्रोक्ता नान्यतोऽर्हन्ति संस्कृतिम् । पातकान्युपपापानि महापापानि यानि च ॥ ५७ ॥ तानि सर्वाणि नश्यन्ति श्रीवैखानसदर्शनात् । वैखानसस्य माहात्म्यं वक्तुं कः शक्नुयाद्भुवि ॥ ५८ ॥ मुच्यन्ते सर्वपापेभ्यः श्रीवैखानससेविनः । रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एव च ॥ ५९ ॥ बिम्बे त्वावाहनादूर्ध्वं सदा सन्निहितोऽर्चके । अर्चकस्तु हरिः साक्षाच्चररूपी न संशयः ॥ ६० ॥ तस्मात्तमर्चकं ‘दृष्ट्वा दण्डवत् प्रणमेद्भुवि । पुरे ग्रामे च नगरे नद्यास्तीरेऽब्धिसङ्गमे ॥ ६१ ॥ वैखानसेन विधिना केशवं सम्यगर्चयेत् । तदर्चनं प्रियकरं विष्णोः र्स्वफलप्रदम् ॥ ६२ ॥ वैखानसार्चितं बिम्बं प्रणमेत्प्रयतः सदा ॥ ६२ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे वैखानसमहिमानुवर्णनं नाम षट्त्रिंशोऽध्यायः ॥