४७५ पञ्चत्रिंशोऽध्यायः अष्टबन्धप्रकारः अतः परं प्रवक्ष्यामि अष्टबन्धनलक्षणम् । अष्टबन्धनहीने तु पूर्वस्मिन् राष्ट्रनाशकृत् ॥ १ ॥ आग्नेय्यामग्निना दाहो याम्ये स्याव्द्याधिपीडनम् । र्नैॠत्यां सस्यनाशः स्याद्वारुण्यां वृष्टिनाशनम् ॥ २ ॥ वायव्यां श्रीविनाशः स्यात्कौबेर्यामर्थनाशनम् । ऐशान्यां ग्रामनाशश्च सर्वतो राष्ट्रनाशनम् ॥ ३ ॥ बिन्दुकाकृतिभिर्भिन्ने ज्वरमारीप्रबाधनम् । अष्टबन्धनहानौ तु पुनस्सन्धानमाचरेत् ॥ ४ ॥ अष्टबन्धनसन्धानं कुम्भावाहनपूर्वकम् । सर्वलक्षणसम्पन्नमाहूयाचार्यमादरात् ॥ ५ ॥ कारयेदष्टबन्धन्तु यजमानस्समाहितः । सौवर्णं राजितं ताम्रं मृण्मयं वा समारहेत् ॥ ६ ॥ कालहीनं नवं कुम्भं द्रोणद्वयसुपूरणम् । सम्यग्दग्धं नवं कुम्भं पक्वबिम्बफलाकृतिम् ॥ ७ ॥ आचार्यो घटमादाय तन्तुना परिवेष्ट्य च । प्रक्षाल्य विधिना कुम्भं धूपयेदगुरुं ततः ॥ ८ ॥ नादेयं जलमापूर्य उशीराद्यैश्च वासयेत् । वस्त्रयुग्मेन संवेष्ट्य दुकूलेन च भूषयेत् ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४७६ तत्तद्देवाकृतिञ्चैव तत्तल्लक्षणसंयुतम् सुवर्णेनैव कृत्वा तु दशनिष्कप्रमाणतः ॥ १० ॥ प्रतिमां कारयित्वैव चतुरङ्गुलमायताम् । श्रीभूम्योश्च पृथक्कृत्वा पञ्चनिष्कप्रमाणतः ॥ ११ ॥ कूर्मञ्च गरुडं शेषं सोमसूर्याग्निमण्डलम् । एकनिष्कप्रमाणेन कृत्वा शास्त्रोक्तलक्षणम् ॥ १२ ॥ कुम्भे निक्षिप्य तान् ध्यात्वा प्राणायामं चरेद्बुधः । पूर्वोक्तविधिना सम्यक्पूजयित्वा विशेषतः ॥ १३ ॥ पश्चादावाह्य विधिवद्बिम्बाच्छक्तिं समाहरेत् । तत्कुम्भे शक्तिमावाह्य पश्चाद्ध्यानसमाधिना ॥ १४ ॥ यागशालामलङ्कृत्य षोडशस्तम्भसंयुताम् । चतुर्हस्तप्रमाणेन वेदिं कृत्वा सलक्षणम् ॥ १५ ॥ सभ्यमौपासनञ्चैव पौण्डरीकञ्च कारयेत् । पञ्चाग्नींश्च तथा कुर्याद्यथोक्तं होममाचरेत् ॥ १६ ॥ यागशालामलङ्कृत्य वितानस्तम्भवेष्टनैः यथोक्तेन विधानेन मुक्तद्यैस्तोरणैस्तथा ॥ १७ ॥ तरङ्गैर्ज्वलदङ्गैश्च चामरैर्दर्पणैरपि । कुसुमैर्दर्भमालाभिर्मुक्तावद्भिश्च मङ्गलैः ॥ १८ ॥ वेदिमध्ये तु तत्कुम्भं प्रतिष्ठाप्यार्चयेद्बुधः । सायं सन्ध्यामुपास्यैव चाङ्कुरानर्पयेद्बुधः ॥ १९ ॥ प्रतिष्ठोक्तविधानेन सर्वमेवात्र कारयेत् । प्रातः स्नात्वा विधानेन ब्रह्मयज्ञान्तमाचरेत् ॥ २० ॥ ४७७ अष्टबन्धद्रव्याणि देवालयमलङ्कृत्य चित्रकार्यञ्च कारयेत् । शङ्खचूर्णं मधूच्छिष्टं लाक्षा त्रिफलमेव च ॥ २१ ॥ कासीसं गुग्गुलुञ्चैव चूर्णं रक्तशिलाकृतम् माहिषं नवनीतञ्चेत्यष्टबन्ध इति स्मृतः ॥ २२ ॥ माहिषं नवनीतञ्च लाक्षाचूर्णञ्च शर्कराः । कार्पासं गुग्गुलुश्चैव पञ्चबन्ध इहेष्यते ॥ २३ ॥ माहिषं नवनीतञ्च लाक्षाचूर्णञ्च शर्कराः । एतं त्रिबन्धमित्याहुः विपरीतं न कारयेत् ॥ २४ ॥ शङ्खचूर्णे तु चन्द्रः स्यान्मधूच्छिष्टे तु रोहिणी । हरीतक्यां हरिश्चैव लाक्षायामग्निरेव च ॥ २५ ॥ कार्पासे वायुरावाह्यो गुग्गुलौ चण्डदीधितिः । शिलाचूर्णे स्कन्ददेवो नवनीते यमः स्मृतः ॥ २६ ॥ द्रव्येष्वेषु समावाह्य क्रमाद्द्रव्याधिदेवताः । अष्टोपचारैरभ्यर्च्य देवानुद्वासयेत्सुधीः ॥ २७ ॥ शङ्खचूर्णे तथा प्रस्थमर्धप्रस्थञ्च गुग्गुलुम् । लाक्षाचूर्णञ्च तावन्तं कार्पासं पादमेव च ॥ २८ ॥ हरीतकीं मधूच्छिष्टं शिलाजं पादमेव च । एकीकृत्य ततस्सर्वं प्रस्थाद्येन च मानयेत् ॥ २९ ॥ चूर्णस्यैकीकृतस्यार्धं नवनीतञ्च माहिषम् । (चूर्णं कृत्वा तु तत्सर्वं तत्तच्चूर्णसमायुतम्) पेषयित्वा तु तद्द्रव्यं निक्षिप्योलूखले गुरुः ॥ ३० ॥ पञ्चत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४७८ मुसलञ्च समादाय चार्चयित्वा विधानतः । उलूखलेऽर्चयेत्सोमं मुसले च सुदर्शनम् ॥ ३१ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च । ‘सोमं राजान’ मित्युक्त्वा ‘सोमो धेनु’ मिति ब्रुवन् ॥ ३२ ॥ ‘नन्दिन्या मूलव’ त्यादिमन्त्रांश्चैव चतुर्दश । ‘इदं विष्णु’ रिति प्रोच्य ‘अग्निन्दूत’ मिति ब्रुवन् ॥ ३३ ॥ ‘मरुतः परमा’ त्मेति ‘मरुतो गणनां जपन् । ‘उदुत्यं चित्र’ मित्युक्त्वा ‘जगद्भुव’ मिति ब्रुवन् ॥ ३४ ॥ ‘यमो दाधार’ इत्युक्त्वा ‘नमस्ते र्निॠ त’ इति । एतान् मन्त्रान् जपित्वा तु अवघातं समाचरेत् ॥ ३५ ॥ विष्णुञ्च चक्रराजञ्च रोहिणीञ्च समर्चयेत् । तद्द्रव्यं पूजयित्वा तु शूर्पे वायुं समर्चयेत् ॥ ३६ ॥ ब्राह्मणांश्च समाहूय यथार्हमवघातयेत् । ब्राह्मणानामलाभे तु शूद्रांश्चक्राङ्कितांस्तथा ॥ ३७ ॥ शुचीन् स्नातांत्समाहूय अवघातञ्च कारयेत् । बिम्बपीठस्य रन्ध्रे तु योजयेदष्टबन्धनम् ॥ ३८ ॥ यदि चेद्द्रव्यलोभेन अन्यदेवालयार्जितम् । रुद्रकाल्यादिबन्धार्थयाचितञ्चाष्टबन्धनम् ॥ ३९ ॥ तन्नेष्टमष्टबन्धं तद्विष्ण्वर्थं नैव कारयेत् । अज्ञानादर्थलोभाद्वा येन केनापि हेतुना ॥ ४० ॥ शिष्टद्रव्येण कुर्याच्चेद्विनश्यति न संशयः । प्राणायामं ततः कृत्वा शास्त्रोक्तविधिना ततः ॥ ४१ ॥ ४७९ कुम्भपूजां तथा कृत्वा प्रतिष्ठोक्तविधानतः । परिवारसमायुक्तं सप्तावरणसंयुतम् ॥ ४२ ॥ पूजनं सर्वदेवानां पूर्वोक्तविधिना ततः । सभ्याग्निं साधयित्वा तु आघारं विधिवद्यजेत् ॥ ४३ ॥ मूर्त्यावाहनपूर्वन्तु निरूप्याज्याहुतीर्यजेत् । विष्णुसूक्तं ततो हुत्वा वैष्णवं सूक्तमेव च ॥ ४४ ॥ नरसूक्तसमायुक्तं श्री भूसूक्तसमन्वितम् । दौर्गं सारस्वतञ्चैव ब्राह्मं रौद्रं तथैव च ॥ ४५ ॥ सर्वदैवत्यसंयुक्तं सकृदाज्याहुतीर्यजेत् । विष्णुगायत्रिमुच्चार्य शतमष्टोत्तरं यजेत् ॥ ४६ ॥ सक्तुलाजतिलापूपैर्द्वादशाष्टाक्षरेण च । लक्ष्मीलक्ष्मीशमन्त्राभ्यां समिदाज्यञ्च होमयेत् ॥ ४७ ॥ वैष्वक्सेनं गारुडञ्च वैघ्नं शैषिकमेव च । एतैर्मन्त्रैस्ततो हुत्वा हविषाऽऽज्येन वै गुरुः ॥ ४८ ॥ दिग्दैवत्यं ततो हुत्वा पश्चाद्वैष्णवसंयुतम् । विष्णुसूक्तं ततो हुत्वा महाव्याहृतिसंयुतम् ॥ ४९ ॥ गायत्रीञ्चैव सावित्रीं श्रीभूसूक्ते च होमयेत् । परिषेकं ततः कृत्वा पौण्डरीकञ्च साधयेत् ॥ ५० ॥ आघारं विधिवत्कृत्वा हौत्रशंसमनाचरेत् । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ ५१ ॥ तत्तन्मूर्तिसमायुक्तं तत्तद्गायत्रिसंयुतम् । पद्मपत्रसमायुक्तं बिल्वपत्रसमन्वितम् ॥ ५२ ॥ पञ्चत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८० अष्टाक्षरेण मन्त्रेण जुहुयाद्गुरुरत्वरः । परिषेकं ततः कृत्वा स्नापयेत्स्नपनोक्तवत् ॥ ५३ ॥ द्वात्रिंशत्स्नपनं कृत्वा पञ्चामृतसमन्वितम् । पञ्चगव्येन संस्नाप्य चोष्णोदैरभिषेचयेत् ॥ ५४ ॥ प्लोतवस्त्रोपवीताद्यैरुपवीतेन (?) भूषणैः । पुष्पाद्यैश्चार्चयेत्सम्यक् द्वात्रिंशदुपचारकैः ॥ ५५ ॥ पूजयित्वा विधानोक्तं कुर्यान्नित्यार्चनोक्तवत् । पञ्चाग्निषु ततो हुत्वा प्रतिष्ठोक्तवदाचरेत् ॥ ५६ ॥ व्यपोह्य रात्रिशेषञ्च प्रातस्स्नात्वा विधानतः । स्नापयेत्स्नपनोक्तेन क्षीरेणैवाभिषेचयेत् ॥ ५७ ॥ शुद्धोदैरभिषिच्यैव प्लोतादीनपि चाऽचरेत् । सभ्यमग्निं समासाद्य पञ्चसूक्तैर्जुहोति च ॥ ५८ ॥ पञ्चमन्त्रं ततो हुत्वा परिषिच्य च पावकम् । प्रायश्चित्तञ्च पञ्चाग्नौ शान्तिहोमञ्च कारयेत् ॥ ५९ ॥ विष्णुगायत्रिया हुत्वा परिषेकं समाचरेत् । अन्तहोमं ततो हुत्वा पौण्डरीकं समापयेत् ॥ ६० ॥ कुम्भपूजां ततः कृत्वा आराद्ध्य विधिवद्धरिम् । कुम्भमादाय विधिवदुद्धृत्य शिरसा वहन् ॥ ६१ ॥ आचार्यः पूजितः सम्यग्वस्त्राभरणकुण्डलैः । पञ्चाङ्गभूषणैश्चैव हेमसूत्रेण वै पुनः ॥ ६२ ॥ स्वस्तिसूक्तं ततो जप्त्वा शकुनसूक्तसमन्वितम् । धामप्रदक्षिणं कृत्वा आलयं सम्प्रविश्य च ॥ ६३ ॥ ४८१ प्रतिष्ठोक्तविधानेन चाऽवाह्य विधिवद्धरिम् । अर्चयित्वा विधानेन यथाशक्ति निवेदयेत् ॥ ६४ ॥ महाहविः प्रभूतं वा देवेशाय यथोदितम् । यजमानो गुरुञ्चापि पूजयित्वा च मन्त्रवत् ॥ ६५ ॥ दशनिष्कसुवर्णन्तु सोदकं देवसन्निधौ । दद्याद्गोभूहिरण्यादीनाचार्याय विशेषतः ॥ ६६ ॥ दक्षिणायाः प्रदानेन सुप्रीतो भगवन् हरिः । भूरिदानं ततः कृत्वा ब्राह्मणानपि भोजयेत् ॥ ६७ ॥ इत्यष्टबन्धनं प्रोक्तं तद्ग्रामस्याभिवर्धनम् । फलश्रुतिः तेनात्र सस्यवृद्धिः स्यात्प्रजापशुविवर्धनम् ॥ ६८ ॥ यजमानस्य सौभाग्यं ज्ञानवृद्धिश्च जायते । सोऽत्रैव सकलान् भोगान् सर्वान् कामानवाप्नुयात् ॥ ६९ ॥ एवं यः कुरुते भक्त्या विष्णुलोके महीयते । तद्ग्रामवासिनः सर्वे भाग्यवन्तो भवन्ति हि ॥ ७० ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अष्टबन्धनविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥