३४

त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६६ चतुस्त्रिंशोऽध्यायः गोदाप्रतिष्ठा अतः परं प्रवक्ष्यामि गोदायाः स्थापनं परम् । विष्णोः प्रीतिकरं पुण्यं सर्वकामफलप्रदम् ॥ १ ॥ पुरा बृन्दावने पुण्ये भूमिदेव्यंशसम्भावा । विष्णुभक्तिसमायुक्ता विष्णुभोगाभिलाषिणी ॥ २ ॥ द्विभुजा मानुषी भूत्वा हरिं प्राप्तवती स्वयम् । गोदेति नाम्ना विख्याता भूमिलोके विशेषतः ॥ ३ ॥ सायुज्यं प्राप्तवत्यन्ते विष्णुना सहचारिणी । तत्प्रतिष्ठाक्रमं वक्ष्ये श्रृणुध्वं मुनिसत्तमाः ॥ ४ ॥ मासर्क्षतिथिवारादि पूर्वमेव मयोदितः । यथोक्तदिवसे कुर्यादङ्कुरार्पणपूर्वकम् ॥ ५ ॥ सम्भाराहरणादीनि कृत्वा चैव प्रयत्नतः । भूमिदेवीप्रतिष्ठोक्तं विधिना सर्वमाचरेत् ॥ ६ ॥ अक्ष्युन्मेषं द्वितीयेऽह्नि वास्तुहोमादिकं तथा । अधिवासत्रयञ्चापि बिम्बशुद्ध्यर्थमाचरेत् ॥ ७ ॥ पौण्डरीकः प्रधानाग्निः शेषं पूर्ववदाचरेत् । कुम्भान् वेद्यां समारोप्य धान्यराशौ तु पूर्ववत् ॥ ८ ॥ पञ्चनिष्कप्रमाणेन प्रतिमास्तेषु निक्षिपेत् । नवरत्नानि निक्षिप्य वस्त्रैरावेष्ट्य यत्नतः ॥ ९ ॥ ४६७ ततो ध्यानसमायुक्तः कुम्भेष्वावाहनं चरेत् । जयाद्यप्सरसोऽष्टौ च समभ्यर्च्य निवेदयेत् ॥ १० ॥ कौतुकं पूर्ववद्बद्ध्वा शयने शाययेच्च ताम् । सर्वदेवार्चनं कृत्वा वेदानध्यापयेत्ततः ॥ ११ ॥ पौण्डरीकं परिस्तीर्य हौत्रशंसनमाचरेत् । हौत्रशंसनवेलायां समाह्वानञ्च मूर्तिभिः ॥ १२ ॥ ‘गोदां वसुमतीं लक्ष्मीसखीं विष्णुसतीं विदुः । पूर्वोक्तेन विधानेन सर्वकुण्डेषु होमयेत् ॥ १३ ॥ भूमिमन्त्रद्वयेनैव हुनेदष्टोत्तरं शतम् । एष एव विशेषस्स्यात्सर्वं पूर्वोक्तवच्चरेत् ॥ १४ ॥ नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः । ततः प्रभाते धर्मात्मा देवीमुत्थाप्य मन्त्रतः ॥ १५ ॥ कलशैः स्नाप्यपूर्वोक्तैरलङ्क ृत्याम्बरादिभिः । रत्नन्यासादिकं कृत्वा पीठे संयोज्य मन्त्रवित् ॥ १६ ॥ सुधया वा दृढीकृत्य यजमानयुतो गुरुः । शिरसा कुम्भमादाय ग्राममालयमेव वा ॥ १७ ॥ प्रदक्षिणवशान्नीत्वा देवागारं प्रवेशयेत् । गुरुं सम्पूज्य विधिना वस्त्राभरणकुण्डलैः ॥ १८ ॥ यथोक्तदक्षिणां दद्याद्देवीप्रीतिकरं भवेत् । मुहूर्ते समनुप्राप्ते सम्यगावाहनं चरेत् ॥ १९ ॥ भूमिमन्त्रद्वयेनैव सर्वं पूर्ववदाचरेत् । उपचारैस्समभ्यर्च्य प्रभूतं वा महाहविः ॥ २० ॥ चतुस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६८ निवेदयित्वा विधिना ब्रह्मघोषञ्च कारयेत् । सहस्रविप्रभुक्तिञ्च दशदानञ्च कारयेत् ॥ २१ ॥ एवं यः कुरते भक्त्या गोदास्थापनमत्वरः । सर्वान् कामानवाप्यैव विष्णुसायुज्यमाप्नुयात् ॥ २२ ॥ पादुकाप्रतिष्ठा अतः परं प्रवक्ष्यामि पादुकास्थापनं परम् । हेमराजितताम्रादिद्रव्यैः कृत्वा सलक्षणम् ॥ २३ ॥ पादुकां देवदेवस्य पादयोग्यां सरत्नकाम् । सर्वलक्षणसंयुक्तां कारयित्वाऽतिसुन्दरम् ॥ २४ ॥ यजमानो विशेषेण पादुकास्थापनं क्रमात् । कारयित्वा यथाशास्त्रं देवदेवस्य पादयोः ॥ २५ ॥ योजयेत्सर्वकामांश्च लभेत्कर्ता न संशयः । अन्यथा देवदेवस्य प्रीणनं न भवेध्द्रुवम् ॥ २६ ॥ तस्मात्कर्ता यथाशक्ति कारयित्वा ददेन्मुदा । कृत्वाऽङ्कुरार्पणं पूर्वमाचार्यवरणादिकम् ॥ २७ ॥ ॠ त्विजां वरणं सर्वं प्रतिष्ठोक्तवदाचरेत् । वास्तुहोमं ततो हुत्वा निष्कत्रयसुवर्णकैः ॥ २८ ॥ वास्तुपुरुषं समावाह्य शुद्धिं कृत्वा तु तस्य च । अधिवासञ्च कृत्वा तु पूर्वोक्तविधिना ततः ॥ २९ ॥ कुम्भं संसाध्य विधिना निष्कहेम्ना पृथक्पृथक् । अष्टमङ्गलसंयुक्तं पञ्चायुधयुतं पृथक् ॥ ३० ॥ ४६९ पादुकायाः स्वरुपञ्च कृत्वा निष्कत्रयेण च । वैष्णवेन विनिक्षिप्य कुम्भमध्ये विचक्षणः ॥ ३१ ॥ कलशैस्सप्तभिस्स्नानं सम्यक्कृत्वा सलक्षणम् । आघारं विधिवत्कृत्वा हौत्रं तत्र प्रशंस्य च ॥ ३२ ॥ शेषं तदधिदेवञ्च समावाह्यैव मूर्तिभिः । निरुप्याऽज्याहुतीर्हुत्वा शयनञ्च प्रकल्प्य च ॥ ३३ ॥ वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च । शेषमन्त्रद्वयेनैव शतमष्टोत्तरं यजेत् ॥ ३४ ॥ दिक्पालानां मनुंश्चैवमष्टाविंशतिसड्ख्यया । जयादीनपि हुत्वा तु यद्देवादिपुरस्सरम् ॥ ३५ ॥ हुत्वा होमं समाप्यैव रात्रिशेषं व्यपोह्य च । प्रातस्स्नानादि कृत्वैव मुहूर्ते च समावहेत् ॥ ३६ ॥ ततो देवस्य पादयोः वैष्णवेन ददेन्मुदा । महाहविः प्रभूतं वा देवेशाय निवेदयेत् ॥ ३७ ॥ एवं यः कुरुते भक्त्या पादुकास्थापनं नरः । सर्वैश्वर्यमवाप्यैव सर्वं पापं व्यपाोह्य च ॥ ३८ ॥ सर्वदानाफलं लब्ध्वा सामीप्यफलमश्नुते । नवीकरणमुद्धिश्य शक्त्याकर्षणपूर्वकम् ॥ ३९ ॥ जीर्णबेरविधानेन सर्वं कर्म समाचरेत् । भक्तप्रतिष्ठा अतः परं प्रवक्ष्यामि भक्तानां स्थापने विधिम् ॥ ४० ॥ चतुस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४७० जटिनं शिखिनं वापि ब्राह्मणं परिकल्पयेत् । प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम् ॥ ४१ ॥ क्षत्रियं मकुटोपेतं वैश्यमुद्बद्धकुन्तलम् । कुर्याच्छूद्रानुलोमादीन् रोमचूडासमन्वितान् ॥ ४२ ॥ अथवा मुण्डितान्वाऽपि भगवद्ध्यानतत्परान् । यदाकारेण देवेशं पश्येयुस्तत्तदाकृतीन् ॥ ४३ ॥ अष्टतालोक्तमार्गेण द्विजातीन् परिकल्पयेत् । मध्यमेनैव शूद्रादीन् कारयित्वा यथाविधि ॥ ४४ ॥ भक्तानां ध्रुवबेरस्य देव्योश्चैव तथैव च । प्रमाणं पूर्वमेवोक्तं ध्रुवबेरवशात्तथा ॥ ४५ ॥ कृत्वैवं भक्तबिम्बन्तु प्रतिष्ठामाचरेत्पुनः । असुरा राक्षसा भूता गरुडा नागकिन्नराः ॥ ४६ ॥ यक्षा विद्याधराः पूज्या ॠषयो मानवास्तथा । ब्राह्मणैः क्षत्रियै र्वैश्यैश्शूद्रैरप्यन्त्यजातिभिः ॥ ४७ ॥ (तत्तद्भक्तिसमायुक्तैः तच्चिह्नैस्तत्परायणैः । कर्तव्यं भक्तबिम्बानां भजनं विष्णुमन्दिरे) उत्तरायाणकाले तु दक्षिणे वा त्वरान्वितः । पुण्यर्क्षे मासनक्षत्रे पूर्वपक्षे विशेषतः ॥ ४८ ॥ स्थिरराशिं प्रगृह्यैव उभये वा शुभोदये । तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्क्रमात् ॥ ४९ ॥ तृतीये दिवसे कुर्याच्छिल्पिना चाक्षिमोचनम् । पूर्वोक्तलक्षणैर्युक्तमाचार्यं वरयेत्क्रमात् ॥ ५० ॥ ४७१ प्रमुखे दक्षिणे वाऽपि उत्तरे वा मनोरमे । मण्डपं वाऽथ कूटं वा प्रपां वाऽपि विधानतः ॥ ५१ ॥ औपासनाग्निकुण्डञ्च कृत्वा आघारमाचरेत् । अङ्गहोमञ्च हुत्वा तु पाञ्चभौतिकसंयुतम् ॥ ५२ ॥ नयनोन्मीलनं कृत्वा पुण्याहं वाचयेत्ततः । नद्यां वाऽथ तटाके वा वाप्यां वाऽथ कटाहके ॥ ५३ ॥ अधिवास्यैव तद्धिम्बं बेरशुद्धिं समाचरेत् । पूर्वोक्तलक्षणैर्युक्तां यागशालां प्रकल्पयेत् ॥ ५४ ॥ वितानाद्यैरलङ्क ृत्य सर्वालङ्कारशोभिताम् । तन्मध्ये स्थण्डिलं कृत्वा बिम्बाध्यर्धप्रमाणतः ॥ ५५ ॥ प्राच्यामाहवनीयञ्च श्वभ्रं पूर्ववदाचरेत् । उत्तरे वास्तुहोमार्थं पूर्वोक्तेन विधानतः ॥ ५६ ॥ पर्यग्निञ्चैव कृत्वा तु प्रोक्षणैः प्रोक्षणं चरेत् । आघारं पूर्ववद्धुत्वा वैष्णवेन समन्वितम् ॥ ५७ ॥ अधिवासगतं बेरं यागशालां प्रवेशयेत् । पूर्वोक्तेन विधानेन कुम्भपूजां समाचरेत् ॥ ५८ ॥ तत्तद्रूपं तथा ध्यायोत्कुम्भमध्ये विशेषतः । पञ्चभिः कलशैस्स्नाप्य बिम्बं यत्नेन शोधयेत् ॥ ५९ ॥ वस्त्रपञ्चकमास्तीर्य स्थापयेत्कुम्भसंयुतम् । अलङ्क ृत्य च वस्त्राद्यैरर्चयेदष्टविग्रहैः ॥ ६० ॥ पुण्याहं वाचयेत्तत्र बध्द्वा प्रतिसरं ततः । शयने शाययेद्बेरं यतो द्वारं ततश्शिरः ॥ ६१ ॥ चतुस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४७२ उत्तराच्छादनं कुर्याद्दीपान्तञ्च समर्चयेत् । अग्निं सम्परिषिच्यैव मूलहोमश्च हूयते ॥ ६२ ॥ अष्टाशीतं ततो हुत्वा महाव्याहृतिसंयुतम् । अष्टाक्षरेण मन्त्रेण शतमष्टोत्तरं यजेत् ॥ ६३ ॥ तत्तन्मूर्तीः स्वमन्त्रेण अष्टोत्तरसहस्रकम् । नृतैर्गीतैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् ॥ ६४ ॥ पुनः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः । शयितं बेरमुत्थाप्य प्रणम्यैवानुमान्य च ॥ ६५ ॥ पूर्वमाल्यैरलङ्क ृत्य पूजयेदष्टविग्रहैः । अन्तहोमं ततः कृत्वा गर्भागारं प्रवेशयेत् ॥ ६६ ॥ पञ्चरत्नं सुवर्णञ्च पीठस्थाने विनिक्षिपेत् । आचार्यदक्षिणां शिष्यो दत्वोदकपुरस्सरम् ॥ ६७ ॥ मुहूर्ते समनुप्राप्ते यजमानयुतो गुरुः । कुम्भं बेरं समादाय आलयं सम्परीत्य च ॥ ६८ ॥ जीवस्थाने निवेश्यैव स्थापयित्वोक्तविष्टरे । आत्मसूक्तं जपित्वा तु तत्तद्बीजञ्च विन्यसेत् ॥ ६९ ॥ तन्नामाद्यक्षरं बीजं न्यसेदोङ्कारवेष्टितम् । तन्मूर्तिमन्त्रे संयोज्य मूलमन्त्रावसानके ॥ ७० ॥ घटाच्छक्तिं समावाह्य बेरमूर्धनि चाह्वयेत् । पुण्याहं वाचयेत्तत्र स्वस्तिघोषणमाचरेत् ॥ ७१ ॥ पूर्वोक्तविग्रहैः सर्वैरर्चयित्वा निवेद्य च । तन्निवेदितशेषन्तु तद्भक्तानां प्रदापयेत् ॥ ७२ ॥ ४७३ अनुक्तानि च सर्वाणि मूर्तिमन्त्रैण कारयेत् । प्रतिष्ठायामुत्सवे च नित्यहोमे तथैव च ॥ ७३ ॥ परिवारप्रितिष्ठासु भक्तानां स्थापने तथा । भक्तानां परिवाराणां स्वाहान्ते च वदेद्गुरुः ॥ ७४ ॥ विष्णवे नम इत्युक्त्वा सर्वेषामाहुतीर्यजेत् । (तदन्तर्यामिणं विष्णुं सर्वहूतिषु संयजेत्) ॥ ७५ ॥ विष्ण्वालयगताश्चैव परिवारास्तथैव च । भक्ता भृत्याश्च सर्वे च विष्णुरूपाश्च भाविताः ॥ ७६ ॥ इत्यूचे भगवान् ब्रह्मा पुरा सर्वान् मुनीन् प्रति । तच्छ्रुत्वा मुनयस्सर्वे पर्यपृच्छन् पितामहम् ॥ ७७ ॥ ब्रह्मन् विष्णुस्वरूपाः स्युः परिवाराः कथं प्रभो । इत्युक्तस्सर्वलोकानां स्रष्टा प्रोवाच तान्मुनीन् ॥ ७८ ॥ श्रृणुध्वं मुनयस्सर्वे यद्यूयं परिपृच्छथ । विश्वव्यापनशीलत्वाद्विष्णुरित्यभिधीयते ॥ ७९ ॥ तस्माद्विष्णुस्वरूपांश्च परिवारान् विभावयेत् । परिवारस्य मन्त्रान्ते तत्तन्नाम वदेत्सुधीः ॥ ८० ॥ तत्तन्नाम्ना न कुर्याच्चेत्क्रुद्धः स्याद्भगवान् हरिः । (तच्छिष्याश्च प्रशिष्याश्च तत्तत्पादाश्च ? देवताः) तस्माच्छास्त्रं समालक्ष्य विष्णवे सम्प्रदापयेत् ॥ ८१ ॥ कर्षणे भूपरीक्षायां गोगणानां निवेदने । शिलादार्वोश्च ग्रहणे मधूच्छिष्टविधावपि ॥ ८२ ॥ चतुस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४७४ लोहस्रावे तथा नैत्ये देव्योश्च स्थापने तथा । तयोस्तु पाणिग्रहणे भक्तानां स्थापने तथा ॥ ८३ ॥ जयन्त्यां स्नपने चैव मधुवल्मीकसम्भवे । कलहादिसमुद्भूतौ वास्तुहोमाङ्गहोमयोः ॥ ८४ ॥ नयनोन्मीलने चैव अधिवासत्रयेऽपि च । कर्मस्वेतेषु विंशत्सु कार्यः श्रामणकानलः ॥ ८५ ॥ अथवाऽऽहवनीयानौ हुत्वा कर्म पृथक्चरेत् । श्रामणाहवनीयौ च पर्यायाविति केचन ॥ ८६ ॥ एवं यः कुरुते भक्त्या भक्तानां पूजनं बुधाः । ग्रामशान्तिकरञ्चैव भक्तानामभिवृद्धिदम् ॥ ८७ ॥ इह लोके सुखं भुङ्क्त्वा पत्नीपुत्रसमन्वितः । सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ ८८ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे गोदाप्रतिष्ठा पादुकास्थापन भक्तबिम्बप्रतिष्ठाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥