३३

द्वात्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४५४ त्रयस्त्रिंशोऽध्यायः पञ्चामृतस्नपनविधिः अथ पञ्चामृतस्नानं देवदेवस्य तु प्रियम् । विष्णुपञ्चदिनेष्वेवमयने विषुवद्वये ॥ १ ॥ चन्द्रसूर्योपरागे च व्यतीपाते विशेषतः । प्रतिष्ठान्ते चोत्सवान्ते सर्वशान्त्यर्थमेव च ॥ २ ॥ पञ्चामृताभिषेकस्तु देवदेवप्रियङ्करः । देवस्य पुरतः सम्यक् गोमयेनोपलिप्य च ॥ ३ ॥ यवैर्वा तण्हुलैर्वाऽत्र द्विहस्तायतविस्तृतम् । स्थण्डिलं कल्पयित्वाऽष्टदलं पद्मञ्च कल्पयेत् ॥ ४ ॥ पद्मस्योर्ध्वे तु पुष्पाणि प्रक्षिपेत्तुलसीन्तु वा । पद्माकारस्य मध्ये तु प्रणवं विलिखेद्बुधः ॥ ५ ॥ प्रगादीशानपर्यन्तं दलेष्वष्टाक्षरं लिखेत् । कलशांश्च समाहृत्य तन्तुना वेष्टयेद्गुरुः ॥ ६ ॥ पञ्चामृतद्रव्यम् गुडं क्षीरं दधि घृतं मधु सर्वं समन्वितम् । पञ्चामृतन्तु विज्ञेयं स्नानार्थं शार्ङ्गिणः प्रियम् ॥ ७ ॥ पञ्चाभिषेककलशान् पूरयेदमृतेन वै । गुडसम्मिश्रितं तोयं पद्ममध्ये सुविन्यसेत् ॥ ८ ॥ ४५५ क्षीरसम्पूर्णकलशं प्राच्यां पद्मदले न्यसेत् । दधिसम्पूर्णकलशं विन्यसेद्दक्षिणे दले ॥ ९ ॥ पश्चिमे धृतपात्रन्तु उत्तरे च मधु विन्यसेत् । आग्नेयादिदलेष्वेवमुपस्नानानि विन्यसेत् ॥ १० ॥ मध्ये चैकमुपस्नानं विन्यसेत्तु विचक्षणः । चन्द्रञ्चाथर्ववेदञ्च यजुस्साम ॠचं तथा ॥ ११ ॥ मध्यादीशानपर्यन्तमुपस्नाने तथैव च । आदित्यमश्विनौ चैव रुद्रञ्चैव तु वत्सरान् ॥ १२ ॥ प्रागादि पञ्चवायूंश्च मध्यादिषु समाह्वयेत् । देवदेवं समादाय स्थापयेदथ पश्चिमे ॥ १३ ॥ पाद्याद्यैरर्चयेद्विद्वान् स्नपनोक्तविधानतः । ‘सोमं राजान’ मित्युक्त्वा ‘शन्नो देवी’ रिति क्रमात् ॥ १४ ॥ ‘इषे त्वोर्जे’ त्वेति जपन्’ अग्न आयाहिवी’ ति च । ‘अग्निमील’ इति प्रोच्य देवेश स्नापयेद्बुधः ॥ १५ ॥ ‘वारीश्चतस्र’ इत्युक्त्वा सर्वोपस्नानमाचरेत् । एवं पञ्चामृतस्नानं सर्वशान्तिकरं परम् ॥ १६ ॥ राजराष्ट्रर्द्धिजननं सर्वाभीष्टफलप्रदम् । पञ्चगव्यविधिः अतः परं प्रवक्ष्यामि पञ्चगव्यविधिं हरेः ॥ १७ ॥ तण्डुलोपरि देवाग्रे स्थण्डिले चतुरश्रके । पद्ममष्टदलं कृत्वा तन्मध्ये प्रणवं न्यसेत् ॥ १८ ॥ त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४५६ प्रागादीशानपर्यन्तं दलेष्वष्टाक्षरं न्यसेत् । तत्पद्मं कुशपुष्पाद्यैरलङ्क ृत्य तथोपरि ॥ १९ ॥ पञ्चगव्यलक्षणम् कपिलाया वरं क्षीरं श्वेताया दधि शस्यते । रक्तायाश्च घृतं ग्राह्यं कृष्णाया गोमयं तथा ॥ २० ॥ गोमूत्रं नीलवर्णायाः पञ्चगव्यं शुभप्रदम् । प्रस्थपादं घृतञ्चैव दधि तद्द्विगुणं स्मृतम् ॥ २१ ॥ त्रिगुणं क्षीरमित्युक्तं गोमयन्तु चतुर्गुणम् । षङ्गुणञ्चैव गोमूत्रं पञ्चगव्यं सुयोजयेत् ॥ २२ ॥ पतितं गोमयं श्रेष्ठं गोमूत्रञ्चाप्यपातितम् । धारोष्णं क्षीरमादेयं सद्यस्तप्तं घृतं तथा ॥ २३ ॥ दधि चाप्यनतीताहमेतद्गव्यस्य लक्षणम् । मध्ये पदे तु गोमूत्रं दधि पूर्वं यमे घृतम् ॥ २४ ॥ क्षीरञ्च पश्चिमे सौम्ये गोमयं स्थापयेत्क्रमात् । आग्नेय्यां गन्धतोयञ्च र्नैॠत्यामाम्लकं तथा ॥ २५ ॥ वायव्यामपि हारिद्रमैशान्याञ्च कुशोदकम् । एवं क्रमे विन्यस्य अधिदेवांत्समर्चयेत् ॥ २६ ॥ अधिदेवाः गोमूत्रे जाह्नवी प्रोक्ता यजुर्वेदश्च दध्नि वै । सामवेदो घृते प्रोक्तः क्षीरे ॠग्वेद एव च ॥ २७ ॥ अथर्वा गोमये चैव अभ्यर्च्या अष्टविग्रहैः । ४५७ संयोजनम् गायत्र्या चैव गोमूत्रं ‘दधिक्रा’व्णेति वै दधि ॥ २८ ॥ आज्यं ‘शुक्रम’ सीत्युक्त्वा ‘आप्याय’ स्वेति वै पयः । गोमयं ‘गन्धद्वा’ रेति ‘देवस्य त्वा’ कुशोदकम् ॥ २९ ॥ एवं क्रमेण संयोज्य चतुर्वेदादिमन्त्रकैः । स्नपनप्रकारः स्नापयेत्पञ्चगव्येन आम्लेन च सुशोधयेत् ॥ ३० ॥ सिनीवा लीति हारिद्रैः गन्धैः ‘भूरानिले’ ति च । स्वादुशीतलतोयेन नरसूक्तेन वै हरिम् ॥ ३१ ॥ संस्नाप्य वस्त्राभरणैरलङ्क ृत्य निवेदयेत् । अभिषिक्तावशिष्टं तदमृतं गव्यमेव वा ॥ ३२ ॥ प्राशयित्वा महापापैरुपपापैः प्रमुच्यते । ऐहिकान् सकलान् भोगान् भुक्त्वा सायुज्यमाप्नुयात् ॥ ३३ ॥ शुद्ध्यर्थं पञ्चगव्यसाधनम् अतः परं प्रवक्ष्यामि पञ्चगव्यस्य लक्षणम् । देहबेरालयादीनां शुद्ध्यर्थं यत्प्रयुज्यते ॥ ३४ ॥ सूतसात्त्वतचण्डालसूतिकादिप्रवेशने । पञ्चगव्यन्तु संयोज्यं प्रोक्षयेत्तेन मन्दिरम् ॥ ३५ ॥ पञ्चगव्यानि सङ्ग ृह्य पञ्चपात्रेषु पूरयेत् । देवाग्रे मण्डपे चैव यज्ञवाटे तथैव च ॥ ३६ ॥ त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४५८ स्वगृहस्याङ्गणे चैव गोमयेनोपलिप्य च । तन्मध्ये षोडशदलं रङ्गवल्लीञ्च कारयेत् ॥ ३७ ॥ द्रोणार्धतण्डुलैः पूर्णं कांस्यपात्रं प्रगृह्य च । तन्मध्ये विलिखेत्पद्मं दलपञ्चकसंयुतम् ॥ ३८ ॥ पात्राणि पञ्चगव्यानां विन्यसेत्तद्दलेषु च । मध्य आज्यं प्रतिष्ठाप्य पूर्वास्मिन् दधि निक्षिपेत् ॥ ३९ ॥ क्षीरन्तु दक्षिणे चैव गोमयं पश्चिमे तथा । उत्तरे चैव गोमूत्रं क्रमेण स्थापयेद्बुधः ॥ ४० ॥ घृते तु सामवेदञ्च दध्नि ॠ ग्वेदमेव च । क्षीरे अथर्ववेदञ्च गोमये स्कन्दमेव च ॥ ४१ ॥ शर्वं देवञ्च गोमूत्रे अधिदेवान् समर्चयेत् । आज्यं ‘शक्रम’ सीत्युक्त्वा षोडशाशं प्रगृह्यं च ॥ ४२ ॥ ‘दधिक्राव्ण्ण’ इत्युक्त्वा क्षिप्त्वा तद्द्विगुणं दधि । ‘आप्याय’ स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत् ॥ ४३ ॥ ‘गन्धद्वा’ रेति मन्त्रेण गोमयञ्च चतुर्गुणम् । षङ्गुणञ्चैव गोमूत्रं गायत्त्र्या तत्र निक्षिपेत् ॥ ४४ ॥ ‘वसोः पवित्र’ मित्युक्त्वा एकीकुर्यात्तु पञ्चकम् । पञ्चगव्याधिदेवस्य मूर्तिमन्त्रं वदाम्यहम् ॥ ४५ ॥ ‘पञ्चगव्यं शिवञ्चेशमव्यक्त’ मिति पूजयेत् । जपित्वा विष्णुसूक्तञ्च ‘रुद्रमन्यं-त्र्यम्बकम् ॥ ४६ ॥ ४५९ प्रोक्षणम् ‘अणोरणीया’ नित्युक्त्वा ‘आपो हि ष्ठा’ दि भिस्तथा । प्रोक्षणैरनुवाकैश्च प्रोक्षयेत्सर्वमन्दिरम् ॥ ४७ ॥ प्राशनम् ‘शन्नो देवी’रिति प्रोच्य पञ्चगव्यञ्च त्रिः पिबेत् । पञ्चगव्यं तथा पीत्वा पूतो भवति निश्चयः ॥ ४८ ॥ आचार्यकरदत्तं तत्पञ्चगव्यं पिबेद्बुधः । प्रतिष्ठार्थञ्चोत्सवार्थमन्यकार्यार्थमेव च ॥ ४९ ॥ वैखानसकुले जातं निषेकादिक्रियान्वितम् । उक्तलक्षणसम्पन्नं श्रेष्ठं ज्ञानसमन्वितम् ॥ ५० ॥ गृहस्थं कर्मकुशलं ब्रह्मचारिणमेव वा । वानप्रस्थमथो वाऽपि वरयेद्गुरुमुत्तमम् ॥ ५१ ॥ रक्षाबन्धनकार्यादीन् कारयेदिति शासनम् । आचार्यमृत्विजः कुर्याद्वामस्थब्रह्मचारिणौ ॥ ५२ ॥ तयोरपि न दोषः स्यादिति पूर्वजशासनम् । आचार्यकरदत्तन्तु त्रिः पिबेत्पञ्चगव्यकम् ॥ ५३ ॥ फलश्रुतिः पञ्चगव्यं तथा पीत्वा सर्वपापैः प्रमुच्यते । अङ्कुरार्पणकादूर्ध्वमारम्भदिवसादधः ॥ ५४ ॥ दीक्षितानामाशौचाभावकथनम् आचार्यस्यर्त्विजाञ्चैव सूतकं प्रेतकं तथा । आशौचं यदि सम्प्राप्तं कर्ममध्ये विशेषतः ॥ ५५ ॥ त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६० स्नानेनैव विशुद्धिः स्यात्स्नात्वा कर्म समाचरेत् । दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ॥ ५६ ॥ आशौचं न भवेत्तेषामुदके पद्मपत्र वत् । दीक्षितोऽप्येकपुत्रस्तु मातापित्रोर्गुरोर्मृतौ ॥ ५७ ॥ संस्कृत्य शालामागत्य देवकार्यं समाचरेत् । देवकार्यसमाप्तौ तु प्रेतकार्यं समाचरेत् ॥ ५८ ॥ प्रेतकार्यसमाप्तौ तु देवकार्यं समाचरेत् । पूर्वन्तु देवकार्यं स्यात्प्रेतकार्यमनन्तरम् ॥ ५९ ॥ दिने दिने च कर्तव्यमिति शातातपोब्रवीत् । देवकार्यस्य मध्ये चेदाचार्यमरणं यदि ॥ ६० ॥ प्राणोत्क्रमणकाले तु रक्षाबन्धं विसृज्य च । तत्पुत्रादिषु तद्बद्ध्वा शीघ्रं कर्म प्रवर्तयेत् ॥ ६१ ॥ तत्पुत्रादिष्वलब्धेषु देवहस्ते तु बन्धयेत् । अन्यमाचार्यमाहूय कार्यशेषं समापयेत् ॥ ६२ ॥ बन्धनन्तु न कर्तव्यं सर्वकर्म समाचरेत् । अज्ञानादन्यहस्ते तु बन्धयेद्यदि मूढधीः ॥ ६३ ॥ तत्कर्म निष्फलं प्रोक्तं राजरार्ष्ट्रविनाशनम् । शुद्धस्नपनविधिः अतः परं प्रवक्ष्यामि शुद्धस्नानविधिं हरेः ॥ ६४ ॥ मण्डले त्वभिषेकार्थं बहिः सोपानमण्डपे । संस्थापयेद्देवदेवं स्नपनालय एव वा ॥ ६५ ॥ ४६१ आस्थानमण्डपे वाऽथ कुर्याच्छुद्धाभिषेचनम् । गोमयेनोपलिप्यैव मण्डपं चतुरश्रकम् ॥ ६६ ॥ पञ्चवर्णैरलङ्क ृत्य वितानस्तम्भवेष्टनैः । मुक्तादामावलम्बैश्च पुष्पदामावलम्बनैः ॥ ६७ ॥ पताकाभिर्ध्वजैश्चैव अलङ्कृत्य च सर्वतः । सर्वत्र दीपानारोप्य तन्मध्ये सोत्तरच्छदम् ॥ ६८ ॥ विष्टरं सुस्थिरं न्यस्य पूजकस्सुसमाहितः । ‘भूः प्रपद्य’ इति देवेशं प्रणम्यैवानुमान्य च ॥ ६९ ॥ ‘परं रं हेति मन्त्रेण पीठादादाय चात्वरः । स्वस्तिसूक्तं समुच्चार्य शाकुनं सूक्तमेव च ॥ ७० ॥ शङ्खघोषयुतं नीत्वा स्थापयेदत्र विष्टरे । ‘प्रतद्विष्णुःस्तवत’ इति स्थापयित्वा समाहितः ॥ ७१ ॥ स्नपनाङ्गोपचाराः ‘नारायणाय वि’ द्मेदि पादपुष्पाणि विन्यसेत् । पाद्यमाचमनं दत्वा पूर्वोक्तविधिना ततः ॥ ७२ ॥ ‘अन्नाद्या येति मन्त्रेण दन्तधावनमाचरेत् । तेनैव जिह्वाशुद्धिञ्च मुखप्रक्षालनं तथा ॥ ७३ ॥ पुनराचमनं दत्वा प्लोतेन परिमृज्य च । मुखवासं निवेद्यैव प्रणम्यैवानुमान्य च ॥ ७४ ॥ देवस्यापरभागं तदाच्छाद्यैव गलादधः । देवस्य पश्चिमे स्थित्वा गुरुस्तद्भावभावितः ॥ ७५ ॥ त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६२ ‘अतो देवा’ दि मन्त्रांश्च ‘सोमं राजान’ मुच्चरन् । तैलेनाभ्यञ्जनं कृत्वा केशानाबद्ध्य वै पुनः ॥ ७६ ॥ सुगन्धिमालयाऽऽवेष्ट्य पाणी प्रक्षाल्य वै ततः । ललाटात्पादपर्यन्तं तैलेनाभ्यज्य मर्दयेत् ॥ ७७ ॥ शालिपिष्टेन देवाङ्गं विमृजेच्चन्दनेन वा । तैलसमर्पणवर्ज्यकालाः अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणि ॥ ७८ ॥ अभ्यञ्जनञ्च दन्तानां धावनं वर्जयेत्तथा । ततो देवं समासाद्य स्नानवेद्यान्तु पूर्ववत् ॥ ७९ ॥ प्राङ्मुखं स्थापयेत्सम्यक् तमिन्दुमुखमेव वा । पाद्यमाचमनं दत्वा प्रणम्यैवानुमान्य च ॥ ८० ॥ ‘परिलिखित’मिति मन्त्रेण आम्लेन परिशोधयेत् । तेनैव केशशुद्धिञ्च कुर्यादामलकादिभिः ॥ ८१ ॥ ‘वारीश्चतस्र’ इत्युक्त्वा वारिण स्नापयेत्पुनः । ‘नमो वरुण’ इत्युक्त्वा स्नापयेत्पुष्पवारिणा ॥ ८२ ॥ ‘सिनीवा’ लीति देवाङ्गमालिप्य च हरिद्रया । ‘भूरानिलय’ इत्युक्त्वा स्नापयेद्गन्धवारिणा ॥ ८३ ॥ पुनराचमनं दत्वा वस्त्रञ्चैवोत्तरीयकम् । दद्याद्यज्ञोपवीतञ्च तत्तन्मन्त्रमुदीरयन् ॥ ८४ ॥ दत्वा चानामिकाङ्गुल्योः पवित्रे परहस्तयोः । अष्टोपचारैरभ्यर्च्य वेदैः संस्तूय च क्रमात् ॥ ८५ ॥ ४६३ सहस्रधारास्नापनक्रमः शङ्खपद्माङ्कपात्राभ्यामावर्जितजलेन च । सहस्रधारापत्रेण पौरुषं सूक्तमुच्चरन् ॥ ८६ ॥ नारायणानुवाकेन स्नापयित्वा ततः परम् । देव्योश्च तत्तन्मन्त्राभ्यां तत्तन्मन्त्रैरथापि वा ॥ ८७ ॥ संस्नाप्य चन्दनं दत्वा प्लोतेन परिमृज्य च । वस्त्रखण्डेन धौतेन सूक्ष्मेनाच्छाद्य मन्त्रवित् ॥ ८८ ॥ कल्पयित्वोत्तरासङ्गमलकानपि शोधयेत् । पुनराचमनं दत्वा दद्यात्पुष्पाणि पादयोः ॥ ८९ ॥ ततो देवं समादाय स्थापयेत्पूर्वविष्टरे । अलङ्करणप्रकारः सूक्ष्मकौशेयवस्त्रेण चित्रकक्ष्यायुतेन च ॥ ९० ॥ अलङ्क ृत्य च देवेशं यथा चक्षुर्मनःप्रियम् । विसृज्यालकबन्धञ्च धूपं दत्वा यथोचितम् ॥ ९१ ॥ उत्तरीयोपवीताभ्यां भूषणैरपि भूषयेत् । आसनादिभिरभ्यर्च्य दीपान्ताचमनान्तकैः ॥ ९२ ॥ नित्यार्चनोक्तविधिना दर्पणादीन् यथाविधि । राजवद्विग्रहांश्चापि तत्तन्मन्त्रैः प्रयोजयेत् ॥ ९३ ॥ मात्रादानञ्च कृत्वा तु मधुपर्कं निवेद्य च । ‘अथावनीद’ मन्त्रेण मण्डलं चतुरश्रकम् ॥ ९४ ॥ कृत्वाऽत्रास्तीर्य धौतञ्च पत्रं प्रागुत्तराग्रकम् (?) । प्रागग्रमुत्तराग्रं वा सन्नयसेत्कदलीभवम् ॥ ९५ ॥ त्रयस्त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६४ ‘आ मा वाजस्य’ मन्त्रेण क्षालयेत्प्रोक्षयेत्तु वा । हविः पात्राधिपं सूर्यं पार्श्वे समर्चयेत् ॥ ९६ ॥ ‘देवस्य’ त्वेति मन्त्रेण घृतेनाप्यभिघार्य च । ‘अमृतोपस्तरणम’ सीति हविः प्रक्षिप्य तत्र वै ॥ ९७ ॥ फलं गुडोपदंशादीन् दधि क्षीरमथापि वा । तत्र निक्षिप्य गायत्र्या देवेशायेति संस्मरन् ॥ ९८ ॥ तस्यैव परितो दिक्षु प्रगादिषु यथाक्रमम् । पायसान्नेन चत्वारि शुद्धान्नेन हवींषि च ॥ ९९ ॥ पात्रैः पञ्चभिरादाय त्रिपादोपरि विन्यसेत् । ‘यत्ते सुसीम’ इत्युक्त्वा घृतमास्राव्य तत्र वै ॥ १०० ॥ अभिमृश्यान्नसूक्तेन दद्यादाचमनं पुनः । ‘तदस्य प्रिय मित्युक्त्वा ‘सुभूः स्वय’मुदीर्य च ॥ १०१ ॥ हविर्निवेदयेद्विष्णोः प्रभूतं भक्तिसंयुतम् । अमन्त्रकं द्वितीयञ्च तृतीयञ्च निवेदयेत् ॥ १०२ ॥ अर्चकस्य मनस्तुप्तिर्यावता सन्निवेदयेत् । चतुर्दिक्षु त्रिपादोर्ध्वै न्यस्तान्यपि हवींषि च ॥ १०३ ॥ मूर्तीनां पुरुषादीनां तत्तन्मन्त्रैर्निवेदयेत् । आज्येन साज्यचरुणा होमं हुत्वा यथाविधि ॥ १०४ ॥ ‘इदं विष्णु’ रिति प्रोच्य पानीयं स्वादु शीतलम् । प्रस्थपूर्णेन पात्रेण पञ्चधैव निवेदयेत् ॥ १०४ ॥ पुनराचमनं दत्वा मुखवासं निवेदयेत् । अपूपान् पृथुकान् लाजान् कदल्यादिफलानि च ॥ १०६ ॥ ४६५ निवेद्याष्टाक्षरेणैव नारिकेलफलानि च । पुनराचमनं दत्वा मुखवासं निवेदयेत् ॥ १०७ ॥ परीत्य मन्दिरं पश्चात्सर्वालङ्कारसंयुतम् । स्थापयेज्जीवस्थाने तु ‘भूरसि भू’ रिति ब्रुवन् ॥ १०८ ॥ विना राजोपचारैश्च प्रभूतहविषा तथा । स्थापयित्वा समभ्यर्च्य दत्वा पञ्चविधं हविः ॥ १०९ ॥ अर्चपीठे न्यसेद्देवमिदं मध्यममीरितम् । नित्याभिषेचनान्ते च देवान् संस्थाप्य तत्र च ॥ ११० ॥ पाद्यमाचमनं दत्वा कृत्वा वै दन्तधावनम् दर्पणं दर्शयित्वा तु मुखवासं निवेद्य च ॥ १११ ॥ तैलेनाभ्यज्य चाम्लाद्यैः शोधयित्वाऽभिषिच्य च । हरिद्रयाऽङ्गमालिप्य गन्धोदैरभिषिच्य च ॥ ११२ ॥ अष्टोपचारैरभ्यर्च्य स्नापयित्वा च पूर्ववत् । जीवस्थाने प्रतिष्ठाप्य वस्त्रेणाच्छाद्य पूर्ववत् ॥ ११३ ॥ आसनादिभिरभ्यर्च्य दीपान्ताचमनान्तकैः । शुद्धान्नमेव देवाय हविर्दद्यात्समन्त्रकम् ॥ ११४ ॥ पानीयाचमनं दत्वा मुखवासं निवेदयेत् । एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् ॥ ११५ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पञ्चामृतस्नान पञ्चगव्यविधि शुद्धस्नानविधिकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥