३२


एकत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४४ द्वात्रिंशोऽध्यायः शमीपूजाविधिः अतः परं प्रवक्ष्यामि शमीपूजाक्रमं बुधाः । मासि प्रोष्ठपदे शुक्लपक्षे च दशमीतिथौ ॥ १ ॥ देवालयं प्रविश्यैव देवेशं सम्प्रणम्य च । स्नपनोक्तक्रमेणैव स्नपनञ्चैव कारयेत् ॥ २ ॥ देवेशं समलङ्क ृत्य नानावस्त्रविभूषणैः । तुरगे च समारोप्य सर्वशस्त्रास्त्रसंयुतम् ॥ ३ ॥ छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम् । सम्प्राप्ते चैव सायाह्ने देवेशं निनयेद्बुधः ॥ ४ ॥ यत्र देशे शमी तिष्ठेद्देवस्तत्रैव गच्छति । शमीवृक्षस्य परितश्चालङ्क ृत्य यथाविधि ॥ ५ ॥ पुण्याहं वाचयेद्विद्वान् प्रोक्षणञ्चैव कारयेत् । देवस्याग्रस्थले चाऽपि गोमयेनोपलिप्य च ॥ ६ ॥ रङ्गवल्ल्याद्यलङ्कृत्य प्रोक्षयेत्पूतवारिणा । तत्र देशे प्रतिष्ठाप्य शार्ङ्गं बाणं तथैव च ॥ ७ ॥ शार्ङ्गस्य चाधिदैवत्यं (?) वक्ष्यामि मुनिसत्तमाः । विष्णुं रुद्रं समावाह्य ब्रह्माणं वरुणं तथा ॥ ८ ॥ शराणामधिदैवत्यं चक्रं शङ्खं तथैव च । गदां खड्गञ्च शार्ङ्गञ्च अधिदेवांत्समर्चयेत् ॥ ९ ॥ ४४५ शमीवृक्षस्याधिदेवं वह्निं तत्र समर्चयेत् । वृक्षस्य पूर्वे यक्षांश्च दक्षिणे राक्षसांस्तथा ॥ १० ॥ पिशाचान् पश्चिमे चैव उत्तरे मधुकैटभौ । एतान् देवान् समावाह्य क्रमेणैवार्चयेद्बुधः ॥ ११ ॥ अष्टोपचारैरभ्यर्च्य फलादीनि निवेदयेत् । अर्चकः सुप्रसन्नात्मा धनुरादाय वीर्यवान् ॥ १२ ॥ ‘धन्वाना’ गेति मन्त्रेण ज्यास्वनं कारयेद्बुधः । ‘यात इषुः शि’ वेति मन्त्रेण सन्दध्याद्धनुषि त्विषुम् ॥ १३ ॥ चक्रेण पूर्वे यत्रादीश्छिंन्द्याद्रक्षांसि दक्षिणे । पिशाचान् गदया हन्ति पश्चिमाशास्थितांस्तथा ॥ १४ ॥ असिना चोत्तरे हन्ति मधुं कैटभमेव च । वृक्षस्य च चतुर्दिक्षु चतुर्बाणान् प्रयोजयेत् ॥ १५ ॥ शार्ङ्गाख्येन च बाणेन वृक्षस्याग्रे प्रयोजयेत् । पुनश्शरान्गृहीत्वैव प्रोक्षयेत्पूतवारिणा ॥ १६ ॥ देवस्याग्रे प्रतिष्ठाप्य प्रणामञ्चैव कारयेत् । ततो देवं समादाय ग्रामस्याभिमुखं नयेत् ॥ १७ ॥ सद्मप्रदक्षिणं कृत्वा नीराजनमथाचरेत् । उष्णोदकेन संस्नाप्य आस्थाने सन्निवेश्य च ॥ १८ ॥ महाहविर्निवेद्यैव ताम्बूलञ्च निवेदयेत् । एवं यः कुरुते भक्त्या सर्वपापैः प्रमुच्यते ॥ १९ ॥ सर्वान् कामानवोप्नोति विष्णुसायुज्यमाप्नुयात् । द्वात्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४६ कृत्तिकादीपक्रमः अतः परं प्रवक्ष्यामि कृत्तिकादीपलक्षणम् ॥ २० ॥ कार्तिक्यां पूणिमायान्तु दीपैराराधनं चरेत् । देवालयं प्रविश्यैव देवेशं सम्प्रणम्य च ॥ २१ ॥ देवीभ्यां सहितं देवं स्नापयित्वा यथाविधि । देवेशं समलङ्क ृत्य नानावस्त्रविभूषणैः ॥ २२ ॥ मुद्गान्नं पायसञ्चैव अपूपं लाजमेव च । विशेषेण निवेद्यैव मुखवासं समर्पयेत् ॥ २३ ॥ याने देवं समारोप्य देवीभ्यां सहितं तथा । छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम् ॥ २४ ॥ सन्ध्यापूजावसाने तु वीथीञ्चापि नयेद्बुधः । प्रथमावरणे वाऽपि तृतीयावरणेऽपि वा ॥ २५ ॥ पञ्चमावरणे वाऽपि सप्तमावरणे तथा । वीथीमध्ये सुसंस्थाप्य तालवृक्षं तथैव च ॥ २६ ॥ नालिकेरं तथा वाऽपि कैतकं क्रमुकं तथा । वेणुञ्चापि तथा चैव आगस्त्यमिति केचन ॥ २७ ॥ दारूण्येतानि संस्थाप्य दृढीकृत्य प्रयत्नतः । विमानस्य समं वाऽपि पादाधिकमथापि वा ॥ २८ ॥ अर्धाधिकमथो वाऽपि त्रिपादाधिकमेव वा । पादहीनं तथा वाऽपि अर्धहीनं तथैव च ॥ २९ ॥ त्रिपादहीनमधमं दीपस्तम्भप्रमाणकम् । दीपदण्डस्य परितः दशहस्तप्रमाणतः ॥ ३० ॥ ४४७ वृत्तैश्चावरणं कृत्वा गोपुराकृतिभिश्चरेत् । आच्छादयेत्तालपत्त्रैर्मूलादग्रान्तमेव च ॥ ३१ ॥ तरङ्गैः दर्भमालाभिस्तोरणैश्चापि वेष्टयेत् । पुष्पैर्गन्धैरलङ्क ृत्य नववस्त्रेण वेष्टयेत् ॥ ३२ ॥ पुण्याहं विधिवत्कृत्वा प्रोक्षणञ्चैव कारयेत् । महादीपाधिदेवांश्च वक्ष्यामि मुनिपुङ्गवाः ॥ ३३ ॥ बडबामुखं कालाग्निं प्रलयानलमेव च । महादीपञ्च नामानि नामभिस्तैरथाऽह्वयेत् ॥ ३४ ॥ अष्टोपचारैरभ्यर्च्य लाजानपि निवेदयेत् । सौवर्णं राजितं वाऽपि ताम्रं मृण्मयमेव च ॥ ३५ ॥ पात्रं सम्यक्समापूर्य गव्येनैव घृतादिना । मध्यमादिचतुर्दिक्षु पञ्चवर्तीर्विनिक्षिपेत् ॥ ३६ ॥ कौतुकस्यापि दीपस्य अधिदेवक्रमं श्रृणु । बडबामुखं कालाग्निं प्रलयानलमेव च ॥ ३७ ॥ जातवेदसं महादीपं पञ्च चाऽवाह्य पञ्चसु । अष्टोपचारैरभ्यर्च्य लाजानपि निवेदयेत् ॥ ३८ ॥ अर्चकः सुप्रसन्नात्मा सर्वाभरणभूषितः । ‘विष्णुस्त्वा’ मिति मन्त्रेण कराभ्यां दीपमुद्धरेत् ॥ ३९ ॥ सर्वलोकहितार्थञ्च मूर्ध्नः पादान्तमेव च । तद्ग्रामस्य समृद्ध्यर्थं ललाटाद्यन्तमेव च ॥ ४० ॥ नेत्रादिपादपर्यन्तं राजराष्ट्रविवृद्धये । सर्वेषां मङ्गलार्थञ्च भ्रामयित्वा त्रिधा त्रिधा ॥ ४१ं ॥ द्वात्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४८ ततो दीपं गृहीत्वैव मन्दं मन्दञ्च गच्छति । प्रदक्षिणत्रयं कृत्वा दण्डाग्रे च सुसन्न्यसेत् ॥ ४२ ॥ चतुर्वर्तीर्गृहीत्वैव चतुर्दिक्षु विनिक्षिपेत् । ‘अयन्ते योनि’ रिति च महादीपे विनिक्षिपेत् ॥ ४३ ॥ महादीपे प्रज्वलिते देवेशं प्रणमेन्मुहुः । दीपदर्शनफलम् सर्वपापानि नश्यन्ति आयुः काीर्तिश्च वर्धते ॥ ४४ ॥ तद्दीपदर्शनात्सद्यः सर्वान् कामानवाप्नुयात् । तद्दीपस्योपशमने देवेशं नाययेद्बुधः ॥ ४५ ॥ ग्रामं प्रदक्षिणीकृत्य नीराजनमथाऽचरेत् । जीवस्थाने प्रतिष्ठाप्य पूजयेत्पुरुषोत्तमम् ॥ ४६ ॥ प्रभूतञ्च निवेद्यैव मुखवासं निवेदयेत् । एवं यः कूरुते भक्त्या कृत्तिकादीपमुत्तमम् ॥ ४७ ॥ राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् । श्रीकाम आप्नुयात्सम्पदायुः कीर्तिं समश्नुते ॥ ४८ ॥ सर्वैश्वर्यमवाप्नोति विष्णोस्सायुज्यमाप्नुयात् । सुगन्धतैलसमर्पणोत्सवः अतः परं प्रवक्ष्यामि ज्येष्ठयामुत्सवक्रमम् ॥ ४९ ॥ ज्येष्ठे मासि सुसम्प्राप्ते दिने ज्येष्ठर्क्षसंयुते । विष्णवे तु विशेषेण गन्धवत्तैलमाहरेत् ॥ ५० ॥ ४४९ तत्क्रमं सम्प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । यागशालां प्रकल्प्यैव सर्वालङ्कारसंयुताम् ॥ ५१ ॥ सभ्यञ्च पौण्डरीकञ्च कारयित्वा सलक्षणम् । तद्दिनस्य तु पूर्वेद्युः तृतीये पञ्चमेऽपि वा ॥ ५२ ॥ सप्तमे नवमे वाऽपि अङ्कुरार्पणमारभेत् । आघारं विधिवत्कृत्वा सर्वं कार्यमतः परम् ॥ ५३ ॥ वेद्या उत्तरपार्श्वे तु भूम्यामवटमाचरेत् । चतुस्तालप्रमाणेन विस्तृतं निम्नमेव च ॥ ५४ ॥ निम्ने तु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकम् । ‘भूः प्रतिष्ठित्यै’ मन्त्रैण निम्ने भाण्डं सुनिक्षिपेत् ॥ ५५ ॥ मलयागुरुदारूणि देवदारूतरूद्भवम् । यानि वासितदारूणि देवयोग्यानि तानि वै ॥ ५६ ॥ गुग्गुलुञ्च समाहृत्य मर्दयित्वा पृथक् पृथक् । विष्णुगायत्रिमन्त्रेण भाण्डे द्रव्याणि निक्षिपेत् ॥ ५७ ॥ शरावेण पिधायाथ मृदा च परिलेपयेत् । गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत् ॥ ५८ ॥ मन्दाग्निना च सुपचेद्यावत्तैलागमो भवेत् । पक्त्वा युक्त्या च यत्नेन तैलमाहृत्य तत्क्षणात् ॥ ५९ ॥ वासितक्वाथवस्तूनि तानि तानि बहिः क्षिपेत् । उत्पूय तैलं तद्भाण्डं धान्यपीठे सुसन्न्यसेत् ॥ ६० ॥ यथोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेत् । पितृन् सोमं तथाऽभ्यर्च्य वनस्पतिमतः परम् ॥ ६१ ॥ द्वात्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४५० समावाह्य च तैले तानर्घ्यान्तमभिपूजयेत् । वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च ॥ ६२ ॥ जप्त्वा तु विष्णुगायत्रीमष्टोत्तरसहस्रकम् । आचार्यस्त्वरितो गत्वा सभ्याग्नेश्च समीपतः ॥ ६३ ॥ द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतम् । कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितम् ॥ ६४ ॥ प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु । सर्वकार्येषु विहितं कूर्मपीठं समास्थितः ॥ ६५ ॥ समाहितः प्रसन्नात्मा सभ्याग्नौ जुहुयात्ततः । कूर्मपीठविहीनन्तु कर्म तन्निष्फलं भवेत् ॥ ६६ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च । जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ ६७ ॥ महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत् । परिषिच्य ततोऽब्जाग्निं महाशान्तिं हुनेत्क्रमात् ॥ ६८ ॥ पूर्णाहुतिं ततो हुत्वा अन्तहोमं समाचरेत् । प्रणिध्यां शङ्खपात्रे वा अग्निमारोप्य बुद्धिमान् ॥ ६९ ॥ तैलस्यालेपनात्पूर्वं ध्रुवेऽग्निमवरोपयेत् । स्रग्वस्त्रकुण्डलाद्यैश्च पूजयेत्परिचारकम् ॥ ७० ॥ संवेष्ट्य नववस्त्रेण शिरश्च मुनिपुङ्गवाः । तन्मूर्ध्नि तैलभाण्डन्तं विनिक्षिप्य च यत्नतः ॥ ७१ ॥ शनैश्शनैस्समागत्य सर्ववाद्यसमन्वितम् । सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितम् ॥ ७२ ॥ ४५१ वीथीं प्रदक्षणीकृत्य देवस्याग्रे विनिक्षिपेत् । अर्घ्यान्तमभिपूज्यैव देवेशं सम्प्रणम्य च ॥ ७३ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं जपेत्क्रमात् । तैलेन लेपयेद्देवमाचार्यस्त्वरितस्तदा ॥ ७४ ॥ उभे देव्यौ तथैवात्र तत्तन्मन्त्रेण लेपयेत् । सर्वेषां परिवाराणां तत्तन्मन्त्रेण लेपयेत् ॥ ७५ ॥ आचार्यस्त्वरितो गत्वा औत्सवस्य समीपतः । ‘परिलिखित’ मित्युक्त्वा कवचं परिशोधयेत् ॥ ७६ ॥ जीर्णे भिन्ने च कवचे सन्धानं शिल्पिना चरेत् । प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेत् ॥ ७७ ॥ ‘विष्णोर्नुकमिति’ प्रोच्य सन्दध्यात्कवचं पुनः । दृढीकृत्य यथापूर्व यत्नेन परिशोधयेत् ॥ ७८ ॥ सहस्रकलशैर्देवं स्नापयित्वा यथाविधि । नित्यपूजाविधानेन देवमाराध्य पूर्ववत् ॥ ७९ ॥ महाहविः प्रभूतं वा पायसञ्च निवेदयेत् । ‘क्षम’ स्वेति च मन्त्रेण प्रणमेत्पुरुषोत्तमम् ॥ ८० ॥ ब्रह्मघोषञ्च कृत्वा तु दद्यादाचार्यदक्षिणाम् । दिने पक्षे च मासे च तथा संवत्सरे चरेत् ॥ ८१ ॥ यद्यद्रूपं तथा ध्यायेत्तत्तद्बिम्बेषु योजयेत् । तस्मात्सर्वप्रयत्नेन बिम्बरक्षान्तु कारयेत् ॥ ८२ ॥ कार्तिक्यामुत्सवे चैव ज्येष्ठायामुत्सवे तथा । आषाढ्यामुत्सवे चैव श्रावण्यामुत्सवे तथा ॥ ८३ ॥ द्वात्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४५२ चैत्र्यामप्युत्सवे चैव उपरागयुते तथा । अयुतञ्चोत्सवं प्रोक्तं विषणोरमिततेजसः ॥ ८४ ॥ उत्सवे देवदेवस्य उपरागो न दोषकृत् । उपरागे भये चैव प्रतिष्ठान्तु न कारयेत् ॥ ८५ ॥ एवं यः कुरते भक्त्या कार्यं रोगप्रणाशनम् । सर्वान् कामानवाप्यैव विष्णोस्सायुज्यमाप्नुयात् ॥ ८६ ॥ गृहार्चादोषनिष्कृतिः अतः परं प्रवक्ष्यामि गृहार्चादोषनिष्कृतिम् । प्रातः कालार्चने हीने सायं द्विगुणमर्चनम् ॥ ८७ ॥ सायं हीने तथा प्रातराद्वादशदिनावधि । एवमेव कमेणैव वर्धयेद्द्विगुणं सुधीः ॥ ८८ ॥ समभ्यर्च्य निवेद्यैव ब्राह्मणानपि भोजयेत् । द्वादशाहार्चने हीने सूक्तैः पौरुषवैष्णवैः ॥ ८९ ॥ हुत्वा पूर्ववदभ्यर्च्य द्विगुणञ्च निवेदयेत् । मासहीनं यदि भवेन्मूलहोमसमन्वितम् ॥ ९० ॥ स्नपनं सप्तकलशैः कुर्यात्संवत्सरावधि । संवत्सरार्चने हीने प्रतिष्ठां पुनराचरेत् ॥ ९१ ॥ पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वा यथाविधि । औपासनाग्निमाधाय सर्वदैवत्यवर्जितम् ॥ ९२ ॥ महाशान्तिं सकृद्धुत्वा प्रतिष्ठां पुनराचरेत् । स्पृष्टे च प्रतिलोमाद्यैः पतितैर्वेददूषकैः ॥ ९३ ॥ ४५३ पारमात्मिकवर्जञ्च हुत्वा स्नपनमाचरेत् । दीक्षितैरनुलोमैश्व द्विजैराशौचसंयुतैः ॥ ९४ ॥ शूद्रैः स्पृष्टे प्रविष्टेऽन्तः पूर्वोक्तैरन्त्यजातिभिः । संस्नाप्य सप्तकलशैः विष्णुसूक्तञ्च पौरुषम् ॥ ९५ ॥ धातादिमूलहोमञ्च ‘यद्देवा’ दींस्तथैव च । हुत्वाऽभ्यर्च्य निवेद्यैव ब्राह्मणानपि भोजयेत् ॥ ९६ ॥ सर्वेषामपि देवानां गृहार्चादोषनिप्कृतौ । कल्पस्साधारणस्तेषां मन्त्र एव विशिष्यते ॥ ९७ ॥ प्रायश्चित्तक्रियायान्तु कालापेक्षा न विद्यते । तस्मात्सर्वप्रयत्नेन निष्कृतिं शीघ्रमाचरेत् ॥ ९८ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे शमीपूजाप्रकार कृत्तिकादीपप्रयोग सुगन्धितैलाहरणोद्वर्तनविधानं नाम द्वात्रिंशोऽध्यायः ॥