४३३ एकत्रिंशोऽध्यायः सामान्य प्रायश्चित्तम् अतः परं प्रवक्ष्यामि सर्वसामान्यनिष्कृतिम् । अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ॥ १ ॥ किं वा तत्र मनुष्याणामव्यवस्थितचेतसाम् । विषयासक्तचित्तानामिन्द्रियाहृतचेतसाम् ॥ २ ॥ अज्ञातानाञ्च दोषाणामर्चनादिषु कर्मसु । ज्ञात्वा चानादृतानाञ्च मोहाल्लोभात्प्रमादतः ॥ ३ ॥ तत्तद्दोषोपशान्त्यर्थं कुर्यात्सामान्यनिष्कृतिम् । तत्तत्सन्ध्यावसाने च विष्णुसूक्तेन वैष्णवैः ॥ ४ ॥ सूक्तेन पौरुषेणापि विष्णुगायत्रिया तथा । द्वादशाष्टाक्षराभ्याञ्च ‘नमो ब्रह्मण’ इत्यपि ॥ ५ ॥ पुष्पाणि पादयोर्दत्वा ‘क्षम’ स्वेति प्रसादयेत् । रात्रिपूजावसाने तु सूक्तेनैकाक्षरादिना ॥ ६ ॥ नारायणानुवाकेन स्तुत्वा पुष्पाञ्जलिं ददेत् । मासावसाने कुर्याच्चेद्द्वादश्यां श्रवणे तथा ॥ ७ ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरार्पणमाचरेत् । देवेशं पूर्वरात्रौ तु समभ्यर्च्य विशेषतः ॥ ८ ॥ हविर्निवेदयित्वा तु बद्ध्वा प्रतिसरं तथा । शाययित्वाऽथ देवेशं प्रातः स्नात्वा यथाविधि ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४३४ प्रातस्सन्ध्यावसाने तु कृत्वा ग्रामप्रदक्षिणम् । स्थापयित्वा तु देवेशं ततः स्नपनमण्डपे ॥ १० ॥ स्नापयित्वा तु कलशैश्चत्वारिंशद्भिरष्टभिः । पङ्कजं शालिभिः कुर्यात्साष्टपर्णं सकर्णिकम् ॥ ११ ॥ तस्मिन् देवं समारोप्य पूजयेदासनादिभिः । महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ १२ ॥ पानीयाचमनं दत्वा मुखवासं निवेदयेत् । तत्काले चैव मूर्त्यर्चा पूर्ववत्कारयेद्बुधः ॥ १३ ॥ परिषिच्य च नित्याग्निमतो देवादिवैष्णवैः । पौरुषेण च सूक्तेन तथा विष्णोर्नुकादिना ॥ १४ ॥ जयादिभिश्च कूष्माण्डैः परिषन्मूर्तिभिस्तथा । आज्येन साज्यचरुणां व्याहृत्यन्तं ततो यजेत् ॥ १५ ॥ द्वादशाष्टाक्षराभ्याञ्च शतमष्टोत्तरं यजेत् । पूर्वोक्तैरेवमन्त्रैस्तु दत्वा पुष्पाञ्जलिं तथा ॥ १६ ॥ जीवस्थाने प्रतिष्ठाप्य ‘क्षम’ स्वेति प्रणम्य च । दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ १७ ॥ संवत्सरे तु यन्न्यूनं नित्ये नैमित्तिकेऽर्चने । तत्सर्वदोषशान्त्यर्थं मार्गशीर्षे तु मासि वै ॥ १८ ॥ द्वादश्यां शुक्लपक्षे तु कुर्यात्पूर्वोक्तमर्चनम् । संवत्सराप्तदोषाणां शान्तये चाथ वौजसे ॥ १९ ॥ श्रवणद्वादशीयोगे मासि भाद्रपदे तथा । पवित्रारोपणं केचिदिच्छन्ति मुनिसत्तमाः ॥ २० ॥ ४३५ पवित्रारोपणनिमित्तम् अथातः सम्प्रवक्ष्यामि पवित्रारोपणं हरेः । नित्ये नैमित्तिके वाऽपि तथा संवत्सरार्चने ॥ २१ ॥ ज्ञानतोऽज्ञानतो वाऽपि ये दोऽषास्सम्भवन्ति वै । पवित्रारोपणेनैव ते शाम्यन्ति न संशयः ॥ २२ ॥ सर्वदोषोपशमनं सर्वकामसमृद्धिदम् । आयुरारोग्यदं कर्तुः सर्वाध्वरफलावहम् ॥ २३ ॥ पवित्रारोपणं विष्णोः कारयेत्सर्वशान्तये । मार्गशीर्षाख्यमासे तु शुक्लपक्षे विशेषतः ॥ २४ ॥ पवित्रोत्सवकालः द्वादश्यां कृष्णपक्षे वा नक्षत्रे श्रवणेऽथवा । दक्षिणायनमासेषु 1विष्णुपञ्चदिने तथा ॥ २५ ॥ कवेराश्वयुजे मासि चाश्वयुज्यां समाचरेत् । कृष्णाष्टमीचतुर्दश्योः शम्भोर्मासेषु षट्सु च ॥ २६ ॥ द्वादश्यां भास्करस्योक्तं षष्ठ्यां स्कन्दस्य कीर्त्यते । कार्तिके मासि दुर्गायाः नवम्यां कृत्तिकासु च ॥ २७ ॥ पूर्वपक्षेऽथवा कृष्णे श्रीदेव्याः पञ्चमीतिथौ । अथवोत्तरफल्गुन्योः पवित्रारोपणं चरेत् ॥ २८ ॥ तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुर्यात्तृतीये वाऽङ्कुरार्पणम् ॥ २९ ॥ अङ्कुरार्पणकादूर्ध्व द्रव्याण्यपि समाहरेत् । 1. द्वादश्यां श्रवणेऽथवा आ. एकत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४३६ पवित्रमण्डपम् पवित्रमण्डपं कुर्याद्देवाग्रे वाऽथ दक्षिणे ॥ ३० ॥ स्नपनालयेऽथवा तत्र स्थानं कृत्वा यथाविधि । तोरणैः पूर्णकुम्भैश्च कदलीक्रमुकध्वजैः ॥ ३१ ॥ चतुर्द्वारेष्वलङ्कृत्य स्तम्भयोरुभयोरपि । वितानैश्च पताकाभिस्तरङ्गैः स्तम्भवेष्टनैः ॥ ३२ ॥ मुक्तादामावलम्बैश्च पुष्पैर्वा दर्भमालया । किङ्किणीजालकैर्हैमैः कल्पवृक्षैस्सरत्नकैः ॥ ३३ ॥ अलङ्कृत्यान्तरं सर्वं दीपानारोपयेद्बहून् । गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतम् ॥ ३४ ॥ चतुर्दिशं चतुर्हस्तं त्रिहस्तं वाऽस्य मध्यमे । गृहीत्वा प्रागुदक्सूत्रैरुपपीठपदे कृते ॥ ३५ ॥ मेर्वादिकल्पनम् तन्मध्ये मेरुरेकस्स्याद्धस्तमात्रसमुच्छ्रयः । तत्तुरीयांशहीनास्तत्परितोऽष्टौ कुलाचलाः ॥ ३६ ॥ तत्त्रिभागैकहीनास्तु परितस्तस्य षोडश । इन्द्रादीनां तथाऽष्टानां शिवादीनां पदानि वै ॥ ३७ ॥ चतुर्भिर्दशभिः सूत्रैः बहिः पङ्क्तिं चतुर्दिशम् । सागराः सप्त चैतेषु द्वीपाः शाकादयश्च षट् ॥ ३८ ॥ तत्र मेरुः सुवर्णाभः सितपीतासितारुणः । हिमाचलादयो द्वन्द्वास्तथाऽष्टौ कुलपर्वताः ॥ ३९ ॥ ४३७ श्वेतपीतासितश्यामरक्तनीलसितारुणाः । तद्बहिः षोडशपदे कल्पनीयाः प्रयत्नतः ॥ ४० ॥ जम्बूद्वीपादिकं ध्यात्वा तद्बहिर्लवणार्णवम् । सस्यश्यामनिभं कुर्याच्छाकद्वीपं बहिस्तथा ॥ ४१ ॥ श्वेतं क्षीरार्णवं बाह्ये कुशद्वीपं ततो बहिः । बहिर्घृतार्णवं नीलं क्रौञ्चद्वीपं तथैव च ॥ ४२ ॥ दधितोयनिधिश्शुक्लः शाल्मलीद्वीपसंयुतः । मध्वर्णवः पिशङ्गाऽभो गोमेदद्वीपसंयुतः ॥ ४३ ॥ इक्षुसारार्णवः केचिच्छ्विेतः पुष्करसंयुतः । शुद्धतोयार्णवो रक्तो लोकालोकाचलस्तथा ॥ ४४ ॥ एवं भूमण्डलं कृत्वा वर्णैर्धातुविकारजैः । पौष्पैः परागैरथवा पत्रचूर्णैरथापि वा ॥ ४५ ॥ तत्तद्वर्णयुतान् कृत्वा सर्वानेतानसङ्करम् । जपेदुपोष्य पूर्वेद्युर्वेदान् त्रिषवणाप्लुतः ॥ ४६ ॥ पवित्रद्रव्यम् निष्काहीनसुवर्णेन ध्रुवादीनां पृथक्पृथक् । देव्योस्तदर्धमानेन तथा परिषदामपि ॥ ४७ ॥ छन्नगुल्फतलञ्चैकं सूत्रं विष्णोः प्रकल्पयेत् । तद्ब्रह्म (?) सूत्रमित्युक्तं तदसाधारणं हरेः ॥ ४८ ॥ अशक्तस्तान्तवं वाऽथ सूत्रं कृत्वा समाचरेत् । तान्तवं यदि कुर्वीत त्रिगुणीकृत्य तत्पुनः ॥ ४९ ॥ एकत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४३८ पवित्रनिर्माणप्रकारः प्राङ्मुखौ द्वौ तु तिष्ठन्तावेकस्त्वभिमुखस्तयोः । जपन्वै विष्णुगायत्रीं दक्षिणोर्ध्वन्तु वर्धयेत् ॥ ५० ॥ तत्पुनस्त्रिगुणीकृत्य वामोर्ध्वं वर्धयेत्पुनः । शुचौ देशे च सन्न्यस्य तस्योपरि मृदं तथा ॥ ५१ ॥ सन्न्यस्य हस्तौ सन्ताड्य त्रिगुणीकृत्य कल्पयेत् । जज्ञोपवीतमित्युक्तं ग्रन्थिसूत्रमथोच्यते ॥ ५२ ॥ अष्टोत्तरसहस्रेण तदर्धेन शतेन च । मूर्तीनां पुरुषादीनां तदर्धेनैव कल्पयेत् ॥ ५३ ॥ देव्योश्च परिवाराणां तदर्धेनैव कल्पयेत् । गुल्फान्तं वाऽथ जान्वन्तमूर्वन्तञ्चोत्तमादिषु ॥ ५४ ॥ अयुग्मां कलयेद्गन्थिं पञ्चवर्णेक्ततन्तुभिः । एतत्सर्वं दिवा कृत्वा सायं सन्ध्यामुपास्य च ॥ ५५ ॥ द्रव्यन्यासः त्रिलोकीमण्डपं कृत्वा तद्द्रव्यन्यासमाचरेत् । पवित्राणि च सर्वाणि मेरुश्रृङ्गोपरि न्यसेत् ॥ ५६ ॥ अष्टोपचारद्रव्याणि न्यसेदष्टकुलाचले । मङ्गलानि न्यसेदष्टलोकपालपदाष्टके ॥ ५७ ॥ प्लोतवस्त्रोत्तरीयादीन् धातूनाभरणान्यपि । हविः पानीय ……………………….. ॥ ५८ ॥ ४३९ ………………….मित्रादीनां पदाष्टके । पुरुषादिपवित्राणि प्रागादिषु कुलाद्रिषु ॥ ५९ ॥ कोणेषु कपिलादीनामाग्नेयादिषु विन्यसेत् । तद्बहिः षोडशांशेषु सूत्रं परिषदामपि ॥ ६० ॥ तत्तदुक्तेषु शैलेषु नववस्त्रोपरि न्यसेत् । सागरेषु च सर्वेषु तत्तद्द्रव्यसुपूरितान् ॥ ६१ ॥ प्रत्येकमष्टौ कलशान् सन्नयसेत्सूत्रवेष्टितान् । आढकाहीनधान्येषु पृथग्वस्त्रोत्तरच्छदान् ॥ ६२ ॥ तदुपस्नानकलशान् बहिर्द्वीपेषु सन्न्यसेत् । चक्रवालाचलाद्बाह्ये प्राच्यां वीशं समर्चयेत् ॥ ६३ ॥ दक्षिणे चक्रखङ्गौ च शरञ्चैव समर्चयेत् । पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषतः ॥ ६४ ॥ शङ्खखेटकशार्ङ्गाणि तथा कौमोदकीमपि । छत्रचामरयुग्मञ्च दर्पणञ्च ध्वजं तथा ॥ ६५ ॥ ऐशान्यादिषु कोणेषु सन्न्यसेत्तानसङ्करम् । उत्सवोपक्रमः रात्रिपूजावसाने तु स्नापनञ्चौत्सवन्तु वा ॥ ६६ ॥ ‘परं रं’ हेति मन्त्रेण पीठादादाय चात्वरः । स्वस्तिसूक्तं जपित्वा तु सर्वालङ्कारसंयुतम् ॥ ६७ ॥ मण्डलात्पश्चिमे पीठे स्थापयित्वाऽष्टविग्रहैः । समभ्यर्च्य निवेद्यैव बद्ध्वा प्रतिसरं तथा ॥ ६८ ॥ एकत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४० पूर्ववच्छाययेद्देवं वेदानध्यापयेत्क्रमात् । द्रव्याधिदेवानभ्यर्च्य विधानैश्च विधायकः ॥ ६९ ॥ कल्पयेन्मण्डलात्प्राच्यां पौण्डरीकं सलक्षणम् । होमप्रकारः तत्र नित्याग्निमाधाय परिषिच्य च पावकम् ॥ ७० ॥ जुहुयाद्वैष्णवैर्मन्त्रैराज्येन चरुणा तथा । हौत्रं प्रशंस्य चाऽवाह्य दैवानभ्यर्च्य पूर्ववत् ॥ ७१ ॥ निरुप्याज्याहुतीर्हुत्वा परितस्तान्त्समर्चयेत् । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ ७२ ॥ जुहुयाच्छ्रीमहीसूक्तं पञ्चवारुणसंयुतम् । जयाद्यैरपि हुत्वा तु यद्देवादींस्तथैव च ॥ ७३ ॥ सहस्रमाहुतीनाञ्च सर्वदैवत्यमेव च । मिन्दाहुती च विच्छिन्नं पद्महोमं ततः परम् ॥ ७४ ॥ पारमात्मिकसंयुक्तमीङ्कारादींस्तथैव च । रात्रिसूक्तञ्च जुहुयात्सूक्तं सारस्वतं तथा ॥ ७५ ॥ ‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तं तथैव च । रुद्रमन्त्रद्वयेनापि विश्वजित्सूक्तसंयुतम् ॥ ७६ ॥ ‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च । देवदेवं स्मरन्नेव रात्रौ होमं समाप्य च ॥ ७७ ॥ प्रातः स्नात्वाऽथ कृत्यानि यथाविधि समाचरेत् । देवदेवं समुद्धृत्य निर्माल्यमपि शोधयेत् ॥ ७८ ॥ ४४१ ऐशान्यां मण्डलाच्छ्वभ्रे देवं संस्थाप्य पूर्ववत् । स्नपनम् अष्टोपचारैरभ्यर्च्य स्नापयेल्लवणादिभिः (?) ॥ ७९ ॥ ‘इषे त्वोर्जे’ त्वति जपन् स्नापयेत्सर्ववस्तुभिः । पुरुपसूक्तं समुच्चार्य शुद्धोदैरभिषेचयेत् ॥ ८० ॥ पुनः प्लोतेन मृज्याथ स्थापयेत्पूर्वविष्टरे । अन्तः स्नानादिकं सर्वमेकबेरे समाचरेत् ॥ ८१ ॥ वस्त्रोत्तरीयाभरणैः धातुभिश्च यथोचितम् । पूर्वमन्त्रैरलङ्क ृत्य पूजयित्वाऽष्टविग्रहैः ॥ ८२ ॥ नारायणानुवाकेन कृत्वा सूत्राभिमर्शनम् । पवित्रारोपणम् कर्पूराद्यैश्च गन्धैश्च वासितञ्च परीमलम् ॥ ८३ ॥ पूर्वोक्तेनैव मन्त्रेण दद्याद्देवस्य भक्तितः । मूर्तीनां पुरुषादीनां पृथक् दद्यात्तदुत्तमम् ॥ ८४ ॥ पवित्रसङ्ख्या विष्णोरेकं तथा तेषामेकमेकन्तु मध्यमम् । सर्वेषामेकसूत्रञ्चेदधमं परिचक्षते ॥ ८५ ॥ ग्रन्थिसूत्रं निवीतञ्च दद्याद्देवस्य भक्तितः । ध्रुवादीनाञ्च सर्वेषामेवं सूत्रञ्च सन्ददेत् ॥ ८६ ॥ स्त्रीदेवतानां सर्वासां दद्यात्सूत्रं निवीतकम् । एवं देयन्तु सर्वेषां शङ्खवाद्यपुरस्सरम् ॥ ८७ ॥ एकत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४२ अष्टोपचारैर्देवेशं समभ्यर्च्य यथाविधि । हवींषि पायसादीनि प्रभूतञ्च निवेदयेत् ॥ ८८ ॥ पानीयाचमानं दत्वा ताम्बूलं घनसंयुतम् । कुर्यात्पुष्पाञ्जलिं स्तोत्रैर्नमेत्पञ्चाङ्गकं गुरुः ॥ ८९ ॥ सर्वालङ्कारसंयुक्तं ग्राममालयमेव वा । प्रदक्षिणं शनैः कृत्वा जीवस्थाने निवेशयेत् ॥ ९० ॥ दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ । मध्यमे तु प्रकुर्वीत त्रिलोकीमण्डलं विना ॥ ९१ ॥ धान्यपीठे पवित्राणि नववस्त्रोपरि न्यसेत् । नित्याग्निकुण्डे जुहुयात्पौण्डरीकं विनाऽनिलम् ॥ ९२ ॥ पवित्रारोपणफलश्रुतिः स्नपनं शुद्धतोयेन केवलन्त्वधमे भवेत् । एवं यः कुरुते भक्त्या पवित्रारोपणं हरेः ॥ ९३ ॥ सर्वाभीष्टमवाप्नोति सर्वदानफलं लभेत् । सर्वपापविनिर्मुक्तः कीर्तिमान् लभते श्रियम् ॥ ९४ ॥ संवत्सरार्चनफलं लब्ध्वा सायुज्यमाप्नुयात् । देवदेवोपयुक्तं तत्सूत्रं मर्त्यो बिभर्ति यः ॥ ९५ ॥ अश्वमेधायुतफलं सम्प्राप्नोति न संशयः । गृहार्चना यदि भवेद्विशेषो होमकर्मणि ॥ ९६ ॥ विनैव सर्वदैवत्यं पारमात्मिकमेव च । ईङ्कारादीन्विना सर्वान् यजेदौपासनानले ॥ ९७ ॥ ४४३ ब्राह्मादीनान्तु देवानां तत्तन्मन्त्रं शताष्टकम् । जयादींश्चैव कूष्माण्डान् पञ्चवारुणमेव च ॥ ९८ ॥ मिन्दाहुती च विच्छिन्नं जुहुयाद्व्याहृतीरपि । एतदेव विधानं स्यादन्यत्सर्वञ्च पूर्ववत् ॥ ९९ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पवीत्रारोपणविधिर्नाम एकत्रिंशोऽध्यायः