३०


त्र्यङ्गुलं रज्जुवलयमेवं कृत्वा यथाविधि. ख. ४१९ त्रिंशोऽध्यायः अवताराणम् एकत्र कल्पनम् दशानामवताराणां स्थापनं वक्ष्येत ततः । पूर्वमेव मया प्रोक्तं पृथगालयकल्पनम् ॥ १ ॥ एकगर्भगृहे स्युश्चेत्षोडशांशं विभज्य च । कल्पयेदनिरुद्धस्य चतुरंशांस्तु मध्यमे ॥ २ ॥ अथवा केवलं विष्णुमासीनं स्थितमेव वा । अंशौ द्वौ पूरतस्त्यक्त्वा द्वारार्थं मुनिसत्तमाः ॥ ३ ॥ शेषेषु दशभागेषु मत्स्याद्यंशान् प्रकल्पयेत् । यस्य यस्य च यो देशः कल्पितः पदकल्पने ॥ ४ ॥ अवस्थाभेदभिन्नानि तत्तद्रूपाणि तत्पदम् । समभागं प्रकल्प्याऽत्र स्थापयित्वा समर्चयेत् ॥ ५ ॥ प्रधानाभिमुखान् कुर्यादवतारान् यथाक्रमम् । खिले विस्तरशः प्रोक्तमेतेषां लक्षणं पुरा ॥ ६ ॥ ध्रुवकौतुकसंयुक्तं कुर्यात्प्रत्येकमुत्तमम् । संस्थाप्य कौतुकं वाऽथ केवलं विहिते पदे ॥ ७ ॥ आदिमूर्तेस्समावाह्य पूजयेदिति केचन । अपादनं दशांशानामनिरुद्धो यतः स्मृतः1 ॥ ८ ॥ एतन्मध्यममुद्दिष्टमधमं केवलं ध्रुवम् । स्थापयित्वाऽग्रतः पीठे समावाह्य समर्चयेत् ॥ ९ ॥ 1. अनिरुद्धादयः स्मृताः ख. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२० आदिमूर्तिसमं वाऽथ कर्णसीमान्तमेव वा । अथवा बाहुसीमान्तं तद्बेराणि प्रकल्पयेत् ॥ १० ॥ पञ्चमूर्तिप्रतिष्ठायां पुरुषादिप्रकल्पने । एतदेव प्रमाणं स्यादधिकं न समाचरेत् ॥ ११ ॥ प्रमाणं पञ्चवीराणां ब्राह्मणो गरुडस्य च । वासुदेवसमं वाऽथ बाह्वन्तं वाऽधिकं न च ॥ १२ ॥ बिम्बं दशावाताराणां केवलं कौतुकं यदि । आदिमूर्तिध्रुवोत्सेधं त्रिधा कृत्वा विचक्षणः ॥ १३ ॥ एकभागं व्यपोह्यैव द्विभागं चोत्तमोदयम् । तत्रिभागद्विभागोच्चं मध्यमं प्रतिमोदयम् ॥ १४ ॥ एकांशमधमं तत्तदन्तरे नवधा कृते । सप्तविंशतितुङ्गानि पूर्ववत्पपरिकल्पयेत् ॥ १५ ॥ केवलं कौतुकं स्याच्चेदर्चास्थाने प्रकल्पयेत् । निर्माल्यहारिणं तेषामर्चयेत्परितोऽमितम् ॥ १६ ॥ परितो वैनतेयस्य मध्यमे नवभिः पदैः । कल्पयेदनिरुद्धस्य वाहनानि (?) प्रकल्पयेत् ॥ १७ ॥ इत्थं बेराणि कृत्वैव प्रतिष्ठामारभेत्पुनः । कल्पयेद्यागशालाया उपपीठपदं क्रमात् ॥ १८ ॥ परितस्तद्बहिः पङ्क्तौ प्राच्यां दिशि पदत्रयम् । याम्यादिषु तथैकैकं द्वारार्थं परिकल्पयेत् ॥ १९ ॥ आग्नेयादीशपर्यन्तं मत्स्यादीनां यथाक्रमम् । तत्तद्दिक्षु दशांशानां प्रधानाग्नीन् प्रकल्पयेत् ॥ २० ॥ ४२१ श्वभ्रं शयनवेदिञ्च कल्पयित्वा यथोचितम् । अङ्कुरार्पणकादूर्ध्वमक्ष्युन्मेषादिकाः क्रियाः ॥ २१ ॥ विनैव सर्वदैवत्यं पारमात्मिकमेव च । प्रतिष्ठामुत्सवादींश्च पूर्ववत्परिकल्पयेत् ॥ २२ ॥ एषां प्रधानमनत्राश्च मूर्तिभेदास्तथैव च । पूर्वमेव मया प्रोक्ताः सर्वमन्यद्धरेरिव ॥ २३ ॥ आवाहनं दशांशानां आदिमूर्तेर्ध्रुवाद्यदि । निष्कलत्वाद् ध्रुवस्यास्य कुर्यात्कौतुकनामभिः ॥ २४ ॥ विपरीतं यदि भवेद्ध्रुवनाम्ना समर्चयेत् । वाराहं नारसिंहञ्च रामं कृष्णं तथैव च ॥ २५ ॥ (ध्रुवबेरवशात्कृत्वा केवलं कैतुकं तथा) 1दक्षिणोत्तरयोस्सम्यक् स्थापयेन्मुखमण्डपे । स्थापयेदन्तराले वा नृत्तमण्डप एव वा ॥ २६ ॥ तेषाञ्च स्थापने शालां वराहार्थं प्रकल्प्य च । दक्षिणाभिमुखीं शालां 2वामनस्य प्रकल्प्येत् ॥ २७ ॥ तद्दक्षिणे वा पूर्वस्मिन् राघवार्थं प्रकल्पयेत् । कृत्वा वामे नृसिंहार्थं तद्वामे पूर्वमेव वा ॥ २८ ॥ कृष्णार्थं कल्पयेद्यागशालां प्राक्पश्चिमायताम् । पश्चिमे शयनं तत्र कारयित्वा तदग्रतः ॥ २९ ॥ सङ्कल्पयेत्प्रधानाग्निं स्नानश्वभ्रं तदग्रतः । वास्तुहोमावसाने तु कुम्भं संसाध्य पूर्ववत् ॥ ३० ॥ 1. पश्चिमोत्तरयोः ख. 2. तत्तद्दिक्षु प्रकल्प्य च ख. त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२२ स्नपनं शयनारोहं हौत्रशंसनमेव च । सर्वञ्च पूर्ववत्कृत्वा प्रधानाग्नौ तथाऽखिलम् ॥ ३१ ॥ तत्तत्प्रधानमन्त्रैश्च शतमष्टोत्तरं यजेत् । प्रातस्स्नात्वा विधानेन प्रविश्य मुखमण्डपम् ॥ ३२ ॥ वराहं दक्षिणे 1रामं मत्स्यं संस्थाप्य दक्षिणे । नारसिंहं तथा वामे कृष्णं तस्य च वामतः ॥ ३३ ॥ वाराहनारसिंहौ तु स्थापयित्वाऽग्रमण्डपे । अन्तरालेऽथवा कृष्णरामौ संस्थाप्य पूजयेत् ॥ ३४ ॥ दक्षिणे नारसिंह वा वाराहरहितं यदि । एकबेरविमानस्य गर्भगेहेऽग्रमण्डपे ॥ ३५ ॥ औत्सवं स्थापनं कर्तुं यदि स्यात्स्थानसङ्कटः । अग्रमण्डपबाह्ये तु प्रतिमां मण्डपे कृते ॥ ३६ ॥ औत्सवस्योक्तदेशे तु तत्र संस्थाप्य पूजयेत् । परप्रधानबिम्बानां पूजा षोडशविग्रहैः ॥ ३७ ॥ (एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । अथवा मत्स्यकूर्मौ तु गर्भगेहस्य मध्यमे ॥ ३८ ॥ प्रतिष्ठाप्य वराहादीन् दिक्ष्वष्टासु प्रकल्पयेत् । ध्रुवञ्च कौतुकञ्चैव कुर्यादग्रे पृथक्पृथक्) ॥ ३९ ॥ (एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत्) 1. तस्य राघवं स्थाप्य. ख ४२३ पञ्चवीराणां स्थापनम् स्थापनं पञ्चवीराणामर्चनञ्च तपोधनाः । प्रवक्ष्यामि समासेन श्रृणुध्वं मुनिसत्तमाः ॥ ४० ॥ वासुदेवादिदेवानां पञ्चानां विष्णुना सह । पञ्चवीरार्चनं प्रोक्तं ब्रह्मणा च सहार्चनम् ॥ ४१ ॥ अन्नप्रजापतियुतं रहितं वा तपोधनाः । पुष्टिदं सर्वलोकानां सर्वाध्वरफलावहम् ॥ ४२ ॥ पञ्चवीरार्चनं ह्येतद्वेदवैदिकवर्धनम् । सर्वैश्वर्यप्रदं नृणां मुक्तिदं सर्वसिद्धिदम् ॥ ४३ ॥ 1नदीविशालमष्टाङ्गं सोमच्छन्दं चतुःस्फुटम् । सर्वतोभद्रकं वाऽपि गोपुराकृतिकन्तु वा ॥ ४४ ॥ एकतलं द्वितलं वा कल्पयित्वा यथाविधि । आदिभूमिं घनं कुर्याद्द्वितीये स्थापयेत्तले ॥ ४५ ॥ गर्भव्यासाष्टभागैकहीनोच्चे वसुदेवजे । त्रयस्त्रिंशतिदण्डैकाधिकः सङ्कर्षणोदयः ॥ ४६ ॥ वासुदेवाधिकोत्सेधो बलभद्रो 2नु दैविकै । प्रद्युम्नो वासुदेवस्य कर्णसीमान्तकोदयः ॥ ४७ ॥ 3नस्यस्तनावसानोच्चौ रुक्मिणी साम्ब एव च । वासुदेवस्य हिक्कान्तस्त्वनिरुद्ध उदाहृतः ॥ ४८ ॥ वासुदेवसमोत्सेधं कल्पयेत्कमलासनम् । समिष्टिरूपमेतेषां मध्ये विष्णुं प्रकल्पयेत् ॥ ४९ ॥ 1. नन्दी. ख. 2. अधिकोदयः ख. 3. तस्य नासावसानौ च. ख. त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२४ स्थावरं जङ्गमञ्चापि तथा स्थावरजङ्गमम् । श्रीभूमिसहितं कुर्याद्रहितं वा यथाविधि ॥ ५० ॥ स्थापयेद्वासुदेवादीन् पञ्च वै मानुषे पदे । स्थापयेद्वासुदेवन्तं ब्रह्मसूत्रात्तथोत्तरे ॥ ५१ ॥ श्यामलं द्विभुजं देवं शङ्खचक्रसमन्वितम् । पद्मपत्रायतदृशं प्रसन्नेन्दुनिभाननम् ॥ ५२ ॥ पीताम्बरधरं देवं सर्वाभरणभूषितम् । दक्षिणे रुक्मिणीं देवीं श्यामां रक्ताम्बरोज्ज्वलाम् ॥ ५३ ॥ मीनकुण्डलताटङ्कां यज्ञसूत्रविराजिताम् । ताटङ्क दक्षिणे कर्णे वामे मकरकुण्डलम् ॥ ५४ ॥ कुञ्चितं दक्षिणं पादं वामपादञ्च सुस्थितम् । करं प्रसारितं वामं दक्षिणं वरदं तथा ॥ ५५ ॥ अथवा दक्षिणेनेव दिव्यपङ्कजधारिणीम् । तस्याश्च दक्षिणे भागे बलदेवं प्रकल्पयेत् ॥ ५६ ॥ श्वेताभं द्विभुजं कुर्याद्दक्षिणेनाभयप्रदम् । उद्देशवामहस्तञ्च सर्वाभरणभूषितम् ॥ ५७ ॥ दक्षिणे भित्तिपार्श्वे तु ब्रह्माणं कनकप्रभम् । द्विभुजं कटिकं वामं दक्षिणेनाभयप्रदम् ॥ ५८ ॥ उदङ्मुखं स्थितं कुर्यात्सर्वाभरणभूषितम् । उत्तरे वासुदेवस्य प्रद्युम्नं द्विभुजं स्थितम् ॥ ५९ ॥ सस्यश्यामनिभं कुर्यात्सर्वाभरणभूषितम् । अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ ६० ॥ ४२५ उत्तरां भित्तिमाश्रित्य साम्बञ्च द्विभुजं स्थितम् । दक्षिणाभिमुखं श्यामं सर्वाभरणभूषितम् ॥ ६१ ॥ वरदं दक्षिणं हस्तं वामं कट्यवलम्बितम् । तत्प्राच्यामनिरुद्धञ्च प्रवालाभं प्रकल्पयेत् ॥ ६२ ॥ अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् । 1 दक्षिणाभिमुखं तस्य हस्तौ साम्बवदेव हि ॥ ६३ ॥ कल्पयेद्दशतालेन वासुदेवं हलायुधम् । ब्रह्माणञ्चान्यदेवांस्त्रीनध्यर्धनवतालतः ॥ ६४ ॥ दशतालोत्तमेनैव मध्ये विष्णुं प्रकल्पयेत् । स्थावरं दैविके भागे पदे ब्राह्मे तु जङ्गमम् ॥ ६५ ॥ वासुदेवसमोत्सेधं स्थावरं समुदाहृतम् । सर्वानुकूलमानेन केवलं जङ्गमं यदि ॥ ६६ ॥ कौतुकं पञ्चवीराणां स्थापयेत्तत्तदग्रतः । यदाकारं ध्रुवाकारं तदाकारञ्च कौतुकम् ॥ ६७ ॥ सर्वेषां कौतुकं मध्ये विष्णुमेकं तथापि वा । औत्सवं स्नापनञ्चैव विष्णुमेव चुतर्भुजम् ॥ ६८ ॥ अन्नप्रजापतिं कुर्यात्प्राच्यामेवानिरुद्धतः । भूताकारं प्रकुर्वीत द्विभुजं वा चतुर्भुजम् ॥ ६९ ॥ परितस्तु त्रयस्त्रिंशद्देवान् गर्भगृहेऽर्चयेत् । प्राग्भित्तौ द्वादशादित्यान् रुद्रान् दक्षिणभित्तिकान् ॥ ७० ॥ 1. दक्षिणाभिमुखञ्चैव सर्वाभरणभूपितम्. ख. त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२६ प्रतीच्याञ्च वसूनष्टौ नासत्यावुत्तरे क्रमात् । द्वारस्य दक्षिणे भागे खङ्गशक्तिशरारिणः ॥ ७१ ॥ गदाञ्च कल्ययेद्वामे शङ्खं शार्ङ्गञ्च खेटकम् । अङ्कुशं पद्ममित्येवमर्चयेच्च दशायुधान् ॥ ७२ ॥ परितो लोकपालांश्च प्रह्लादं ज्ञानमूर्तिकम् । पूजयेत् द्वादशादित्यान् रुद्रानेकादश क्रमात् ॥ ७३ ॥ वसूनष्टौ च नासत्यौ चतुर्ज्योतींषि च क्रमात् । प्रग्भित्तौ पाण्डवान् कुर्यात्तलेऽधस्ताद्बहिर्मुखान् ॥ ७४ ॥ उत्तरे दक्षिणाद्यञ्च तत्तच्चिह्नसमायुतान् । प्राग्भित्तौ दैविकान्पञ्चवीरान् सङ्कल्पयेब्दुधः ॥ ७५ ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । सुमासपक्षनक्षत्रमुहूर्तकरणादिषु ॥ ७६ ॥ अङ्कुराण्यर्पयित्वैव द्रव्याण्यपि समाहरेत् । यागशालाञ्च पञ्चाग्नीन् पौण्डरीकञ्च कल्पयेत् ॥ ७७ ॥ औपासनविहीनञ्च दक्षिणाग्नेस्तु दक्षिणे । आवसथ्योत्तरे कुर्यादन्नमूर्तेस्तथैव च ॥ ७८ ॥ अक्ष्युन्मेषाधिवासादीन् सर्वं पूर्ववदाचरेत् । अधिवासगतान् देवान् समुद्धृत्याभिषेचयेत् ॥ ७९ ॥ अलङ्क ृत्य यथान्यायं कुर्याद्ग्रामप्रदक्षिणम् । स्थापयेद्यागशालायां र्नैॠते विष्टरोपरि ॥ ८० ॥ संसाध्य पूर्ववत्कुम्भं सर्वेषाञ्च पृथक्पृथक् । अलङ्क ृत्य समभ्यर्च्य बध्द्वा प्रतिसरामपि ॥ ८१ ॥ ४२७ शयने शाययित्वैव वेदानध्यापयेत्क्रमात् । वासुदेवस्य विष्णोश्च मध्ये हौत्रं प्रशंस्य च ॥ ८२ ॥ रामस्याहवनीयाग्नौ प्रद्युम्नस्य च दक्षिणे । साम्बस्य गार्हपत्याग्नावावसथ्ये तथैव च ॥ ८३ ॥ हौत्रं स्यादनिरुद्धस्य ब्राह्मणश्च प्रजापतेः । होत्रमौपासनाग्नौ च प्रशंस्याऽवाह्य पूर्ववत् ॥ ८४ ॥ निरूप्याज्याहुतीर्हुत्वा सर्वान् देवान् समर्च्य च। वासुदेवस्य सभ्याग्निं परिस्तीर्य यथाविधि ॥ ८५ ॥ वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च । श्रीसूक्तञ्च महीसूक्तं पञ्चवारुणसंयुतम् ॥ ८६ ॥ मूलहोमसमायुक्तं यद्देवादिसमन्वितम् । आहुतीनां सहस्रञ्च देवं ध्यायन् जुहोति च ॥ ८७ ॥ यजेदेवं पुनश्चापि विष्णुमुद्दिश्य तत्र वै । हुत्वा तु सर्वदैवत्यं वैष्णवं त्रिः पुनर्यजेत् ॥ ८८ ॥ मिन्दाहुती च विच्छिन्नं हुत्वा कृत्वा प्रवाहणम् । रामस्याहवनीयाग्नौ पौरुषं सूक्तमेव च ॥ ८९ ॥ विष्णुसूक्तं ततो ब्राह्मं प्रद्युम्नस्य च दक्षिणे । वैष्णवं गार्हपत्याग्नौ साम्बस्य जुहुयात्पुनः ॥ ९० ॥ आवसथ्येऽनिरुद्धस्य यजेदेकाक्षरादिकम् । रुद्रमन्त्रद्वयेनापि भक्त्या देवमनुस्मरन् ॥ ९१ ॥ ॠत्विगष्टार्ककृत्वस्तु जुहुयादुत्तमादिषु । यजेदाहवनीयाग्नौ जयादींश्च सकृत्सकृत् ॥ ९२ ॥ त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२८ ततश्च पौण्डरीकाग्निं परिषिच्य यथाविधि । विष्णुगायत्रिया पद्मं घृते गव्ये समाप्लुतम् ॥ ९३ ॥ अष्टोत्तरशतं हुत्वा जुहुयात्पारमात्मिकम् । सभ्याग्निं पौण्डरीकाग्निं विनाऽन्याग्नीन् विसृज्य च ॥ ९४ ॥ नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्गुरुः । प्रातः स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ॥ ९५ ॥ रत्नान्यासं ततः कुर्यादर्चापीठे तु पूर्ववत् । विसृज्य शान्तिहोमान्ते पौण्डरीकं विधानतः ॥ ९६ ॥ दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ । सभ्यमग्निं परिस्तीर्य विष्णुगायत्रिया यजेत् ॥ ९७ ॥ हुत्वाऽऽदधीत सभ्याग्निं नित्यहोमाय दक्षिणे । प्रधानकुम्भमाचार्यः पुरतः शिरसा वहन् ॥ ९८ ॥ गच्छेत्तदर्चकाः कुम्भान् वहन्तोऽनुनयन्ति च । शाकुनं सूक्तमुच्चार्य कुर्याद्धामप्रदक्षिणम् ॥ ९९ ॥ पश्चादन्तः प्रविश्यैव जीवस्थाने निवेश्य च । जप्त्वाऽऽत्मसूक्तमाचार्यो मनसा भावयन् हरिम् ॥ १०० ॥ मन्त्रन्यासाक्षरन्यासौ कृत्वा बिम्बे च पूर्ववत् । रामादीनाञ्च सर्वेषां तन्नामाद्यक्षरान्वितम् ॥ १०१ ॥ प्रत्यक्प्रवृत्तिं मनसा ध्यायन् विष्णुं परात्परम् । वासुदेवं समारभ्य रुक्मिण्यन्तमनुक्रमात् ॥ १०२ ॥ मध्ये विष्णुं समावाह्य श्रीभूमिभ्यां समन्वितम् । ततः सङ्कर्षणादींस्तान् क्रमेणाऽवाहयेत्सुधीः ॥ १०३ ॥ ४२९ गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् । विमानलोकपालांश्च परिवारांस्तथोत्तरान् ॥ १०४ ॥ आवाह्य वासुदेवस्य कुम्भादेव यथाक्रमम् । एककुम्भे तथा ध्यायेत्सर्वांस्तान् विष्णुना विना ॥ १०५ ॥ वासुदेवं समावाह्य तस्मादावाहयेत्क्रमात् । स्थापकैः सह पुण्याहं वाचयित्वा तु पूर्ववत् ॥ १०६ ॥ हवींषि पायसादीनि रामादीनां निवेदयेत् । मौद्गिकं ब्रह्मणे दद्यात् शुद्धान्नन्तु प्रजापतेः ॥ १०७ ॥ नित्याग्निकुण्डे जुहुयान्मूर्तिहोमं यथाविधि । कृत्वा बल्युत्सवान्तानि रात्रौ स्नपनमाचरेत् ॥ १०८ ॥ आरभेदुत्सवं पश्चादुत्सवोक्तक्रमेण वै । हिरण्यपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ॥ १०९ ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । पञ्चवीराणां स्थापने स्थाननिर्देशः ग्रामान्ते नगरान्ते वा पर्वतान्ते वनान्तरे ॥ ११० ॥ नदीसमुद्रतीरेषु विविक्तेऽन्यत्र कुत्रचित् । पञ्चवीरविधानेन प्रतिष्ठाप्य समर्चयेत् ॥ १११ ॥ पञ्चवीरार्चनप्रकारः अतः परं प्रवक्ष्यामि पञ्चवीरसमर्चनम् । अर्चकः प्रातरुत्थाय स्नात्वा सन्ध्यामुपास्य च ॥ ११२ ॥ त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४३० देवादींस्तर्पयित्वाऽद्भिः जप्त्वा जप्यानि पूर्ववत् । देवालयं प्रविश्याथ परीत्य च यधाविधि ॥ ११३॥ कवाटोद्घाटनादीनि कृत्वा सर्वाणि पूर्ववत् । सम्भारानपि सम्भृत्य निर्माल्यमपहाय च ॥ ११४ ॥ हवींषि चोपदशांश्च पाचयित्वा यथाविधि । स्नापयेद्वासुदेवन्त ‘मिषे त्वा’दि जपन् पुनः ॥ ११५ ॥ विष्णुं पुरुषसूक्तेन स्नापयित्वा यथाविधि । स्नापयेद्बलभद्रन्त‘मापो हि ष्ठा’दिभिः त्रिभिः ॥ ११६ ॥ प्रद्युम्नं विष्णुसूक्तेन साम्बं संस्नाप्य वैष्णवैः । स्नापयेदनिरुद्धन्तं सूक्तेनैकाक्षरादिना ॥ ११७ ॥ ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम् । (स्नापयित्वा क्रमेणैतान् जीवस्थाने निवेशयेत्) वासुदेवस्य विष्णोश्चावरणत्रयनामभिः ॥ ११८ ॥ अन्येषामपि देवानां न्यसेत्पुष्पाणि मूर्तिभिः । अभ्यर्च्य द्वारदेवादीन् पुनरन्तः प्रविश्य च ॥ ११९ ॥ उदङ्मुखस्समासीनो विष्टरे चैकजानुना । 1मन्त्रन्यासं ततः कृत्वा आवाह्य च तथा ध्रुवात् ॥ १२० ॥ केवले जङ्गमे 2विष्णोर्नावाहनविसर्जने । एकबेरे तथा विष्णोर्विशेषस्तत्र वक्ष्यते ॥ १२१ ॥ बिम्बाभिषेचनात्पूर्वमर्चयित्वाऽष्टविग्रहैः । तैलाभ्यङ्गं तथा कृत्वा संस्नाप्य च यथा पुनः ॥ १२२ ॥ 1. मन्त्रन्यासाक्षरन्यासौ कृत्वाऽऽवाह्य. ख. 2. विष्णौ ख. ४३१ अलङ्कृत्य प्रतिष्ठाप्य पूजयेदष्टविग्रहैः1 । विशेषं सम्प्रवक्ष्यामि बलभद्रादिपूजने ॥ १२३ ॥ रामस्याचमनं दद्या‘दापो हि ष्ठा’दिभिः त्रिभिः । ‘हिरण्यगर्भ इत्युक्त्वा दद्यादर्घ्यं हविस्तथा ॥ १२४ ॥ ‘योगे योग’ इत्याचमनं प्रद्युम्नस्याभिधीयते । ‘इदमापः शिवा’ अर्घ्यं 2‘मिह पुष्टि’ मिति ब्रवन् ॥ १२५ ॥ हविर्निवेदनं कुर्यात्ततः साम्बसमर्चने । ‘समाने वृक्ष’ इत्युक्त्वा दद्यादाचमनं पुनः ॥ १२६ ॥ विष्णुगायत्रिया चार्घ्यं ‘समाववर्ती’ ति वै हविः । हविराचमनार्घ्याणि अनिरुद्धस्य पूर्ववत् ॥ १२७ ॥ पूजयेन्मुखवासान्तं सङ्कर्षणपुरस्सरान् । ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम् ॥ १२८ ॥ द्वात्रिंशद्विग्रहैर्विष्णुं वासुदेवञ्च पूजयेत् । मूर्तयः पूर्वमेवोक्ताः सर्वेषाञ्च मया खिले ॥ १२९ ॥ येषां न मूर्तयः सन्ति तेषां नामभिरर्चनम् । कौतुकं पञ्चवीराणानेकमेव3 यदा भवेत् ॥ १३० ॥ तदा तु वासुदेवञ्च सङ्कर्षणमिति ब्रुवन् । प्रद्युम्नं साम्बमित्युक्त्वा अनिरुद्धमिति ब्रुवन् ॥ १३१ ॥ ततः पञ्चभिरावाह्य समभ्यर्च्य यथाविधि । पञ्चस्वारोपयेद्देवान् पूजनान्ते यथाविधि ॥ १३२ ॥ 1. पूजयेच्छेपविग्रहैः ख. 2. इहपुष्टिरिह. ख. 3. एवमेव, ख. त्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४३२ इति सङ्क्षेपतः प्रोक्तं पञ्चवीरसमर्चनम् । अनुक्तान्यत्र सर्वाणि विष्णोरिव समाचरेत् ॥ १३३ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे दशावतार पञ्चवीरप्रतिष्ठादिविधिर्नाम त्रिंशोऽध्यायः ॥