॥
३९५ एकोनत्रिंशोऽध्यायः महाशान्तिविधिः अतः परं प्रवक्ष्यामि महाशान्तिविधिं परम् । सर्वदोषोपशमनं सर्वव्याधिभयापहम् ॥ १ ॥ सर्वाभीष्टप्रदं श्रेष्ठं सर्वाशुभविनाशनम् । आयुरारोग्यदं कर्तुः शान्तिपुष्टिसुखप्रदम् ॥ २ ॥ महादोषेषु सर्वत्र महाशान्तिर्विधीयते । आलयाभिमुखे कुर्यात्पौण्डरीकं सलक्षणम् ॥ ३ ॥ दक्षिणस्यामथाग्नेय्यां पचनालय एव वा । अलङ्कृत्य चतुर्दिक्षु पूर्णकुम्भाङ्कुरध्वजैः ॥ ४ ॥ कदलीक्रमुकैश्चैव मुक्तादामावलम्बनैः । मासं पक्षञ्च सप्ताहं पञ्चाहं त्रिदिनन्तु वा ॥ ५ ॥ एकाहं वाऽथ सङ्कल्प्य दोषाणां गुरुलाघवम् । ज्ञात्वा तदनुरूपाणि दिनानि जुहुयात्क्रमात् ॥ ६ ॥ आघारान्ते सुहोतव्ये सूक्ते वैष्णवपौरुषे । रुद्रसूक्तं ततो हुत्वा धातादीन् जुहुयात्क्रमात् ॥ ७ ॥ ‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च । नारायणाय विद्मे ति तथा षङ्भिश्च वैष्णवैः ॥ ८ ॥ आज्येन साज्यचरुणा समिधा च घृताऽक्तया । सक्तुलाजतिलापूपैः घृतमिश्रैर्यथाक्रमम् ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३९६ संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् । त्रिकालमुत्तमो होमो रात्रिहीनश्च मध्यमः ॥ १० ॥ सायंप्रातश्च हीनश्चेदधमः परिकीर्तितः । पूर्वोक्तसर्वद्रव्यैश्चाप्युत्तमे जुहुयाद्बुधः ॥ ११ ॥ आज्येन साज्यचरुणा मध्यमे जुहुयात्क्रमात् । अधमे केवलाज्येन प्रातर्मध्याह्न एव वा ॥ १२ ॥ उत्तमे स्नपनं नित्यं मध्यमे केवलार्चनम् । अधमे केवलं होम इति प्रोवाच पूर्वजः ॥ १३ ॥ रक्षेदग्निमविच्छिन्नं यावत्कर्मावसानकम् । अन्तहोमं समाप्तौ च कृत्वा विप्राश्च भोजयेत् ॥ १४ ॥ अतिशान्तिः दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ । यद्देवादियुतत्वे तु अतिशान्तिरिति स्मृता ॥ १५ ॥ अद्भुतशान्तिः नवग्रहाधिदैवत्यैर्युक्ता चेद्भुताऽह्वया । सामान्यशान्तिः सामान्यशान्तिरित्युक्ता युक्ता सा चेज्जयादिभिः ॥ १६ ॥ उत्पातशान्तिः द्वादशाष्टाक्षराभ्याञ्च शताहुतिरथापि वा । उत्पातशान्तिरित्युक्ता तथा विष्णोर्नुकादिभिः ॥ १७ ॥ शान्तिः अथवा शान्तिरित्युक्ता केवलं वैष्णवं शतम् । ३९७ महाशान्तिः महाशान्तरिति प्रोक्ता यद्देवादिसमन्विता ॥ १८ ॥ इति षट्च्छान्तयः प्रोक्ताः सर्वदोषोपशोषणाः । अल्पदोषे यजेच्छान्तिं सर्वत्रापि च वैष्णवैः ॥ १९ ॥ मिन्दाहुती च विच्छिन्नं गायत्रीं वैष्णावीं पुनः । ‘शन्नो मित्र’ इतीत्युक्त्वा तथा विष्णोर्नुकादिभिः ॥ २० ॥ अष्टाशीतिः 1(अष्टाशीतिं प्रवक्ष्यामि विष्णवे इति चोच्चरन्) विष्णवे स्वस्तिदायेति तथा सर्वेश्वराय च । विष्णवे सर्वगोप्त्रे च तथा सर्वात्मनेऽपि च ॥ सर्वदेवात्मने चेति सर्ववेदात्मने तथा । मुनीनामात्मने चेति योगसन्धारणाय च ॥ तथा सर्वप्रतिष्ठाय विष्णुशब्दादयो दश । विष्णुशब्देन तत्र स्यात्प्रयुक्तं सर्वमत्र तु ॥ नारायणाय च तथा तदाद्येनात्मने पुनः । सर्वदेवात्मने तद्वदिन्द्ररूपाय वै तथा संयमनाधिपतये सम्भोगपतये तथा । सर्वतृप्तिप्रदायेति 2अनन्तात्मने च क्रमात् (ब्रह्मेशानात्मने चेति प्रजापतय इत्यपि) । अनन्तशयनायेति दश नारायणादयः ॥ 1. अष्टाशीतिं प्रवक्ष्यामि अष्टशीत्याहुतीर्यजेत्। इत्येव. मन्त्रप्रयोगक्रमो न दृश्यते आ. कोशेषु. 2. सर्वानन्दाय ख. एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३९८ पुण्यनारायणायेति त्रिदशाधिपतये तथा । (वटपत्रशायिने) (?) चेति तथा वटाक्षवासिने ॥ तथा पादार्चिष चेति बालरुपाय वै पुनः । मायारूपिण इत्युक्त्वा प्रबोधिन इति ब्रुवन् ॥ सर्वाधिष्ठानकायेति 1सर्वप्रवरणाय च । 2मूर्धस्थानायेति दश पुण्यनाराणादयः ॥ बालाय बालरूपाय तथा वटपत्रशायिने । सत्याय सत्यनिष्ठाय तथा सत्यात्मने पुनः ॥ सत्यनित्याय चेत्युक्त्वा देवदेवमनुस्मरन् । सर्वे सत्यं हि सत्यस्य सत्ये सत्यं प्रतिष्ठितम् ॥ चतुर्थ्यन्तमनेनैव सर्वलोकप्रवर्तिने । तथा सत्यात्मदेवाय सत्यमोदाय वै पुनः ॥ सत्यसोपानकायेति देवदेवमनुस्मरन् । दश त्वं सत्ये सत्यात्मन् सत्यनिष्ठोद्भवाय च ॥ पुरुषाय तथा पुरुषसंस्तुतायेति च क्रमात् । पुरुषसमधीतायेति पुरुषनिष्ठाय वै पुनः ॥ पुरुषात्मने वै पुरुषपुरुषायेति चोच्चरन् । जगन्मित्राय जगदाधाराय च ततः परम् ॥ जगत्प्रवर्तिने चेति 3जगद्धेतवे चेत्यपि । चत्वारः पुरुषायेति विष्णुक्रीडात्मने पुनः ॥ 1. सर्वप्रकारकाय च ख. 2. मोक्ष ख. 3. जगद्धिताय ख. ३९९ भूमिसङ्क्रीडात्मन इति जगन्मोदाय वै पुनः । जगद्धिताय चेत्युक्त्वा तथा निखुर्यपाय च ॥ काय कस्मै कतमस्मै सर्वस्मै विष्णवे तथा । विष्णवे च तथा ब्रूयात् मन्त्रसन्द्रुहणाय च ॥ ध्रुवरूपिण इयुक्त्वा संवृतात्मन इत्यपि । सम्प्रीतिकारयेति सर्वशुभप्रदाय च ॥ अशुभनाशनायेति शुभसम्बर्हणाय च । पुण्यायेति ततो हुत्वा पुण्यशब्दादयोऽपरे ॥ बलौर्जिताय हुत्वा तु देवदेवमनुस्मरन् । तथा जयसमृद्धाय कामान्दजननाय च ॥ सर्वानन्दाय चेत्युक्त्वा समृद्धाय ततः परम् । श्रीविधानाय चेत्युक्त्वा ब्रह्मसन्द्रुहणाय च ॥ वरस्थानाय चेत्युक्त्वा लोकसम्भावनाय च । अद्भुताय यजेत्पश्चादनादिनिधनाय च ॥ तथाऽमितमहिम्नेति तथाऽत्यन्तहिताय च । चतुर्थ्यन्तेन तेनैव सर्वप्रतिष्ठायेति च ॥ सर्वलोकप्रतिष्ठाय सर्वलोकशुभावहाय च । सर्वात्मन इति प्रोक्ता अष्टादश समीरिताः ॥ विष्णुर्नारायणश्चैव पुण्यनारायणस्तथा । पुण्यश्चेति चतुर्थ्यन्तान् व्यस्तानेव प्रयोजयेत् ॥ अथवा विष्णुगायत्र्या आष्टाशीत्याहुतीर्यजेत् । विष्णुगायत्रिया साकं यत्राष्टाशीतिरीरिता ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४०० न तत्र विष्णुगायत्र्या त्वष्टाशीत्याहुतीर्यजेत् । अङ्गहोमः अङ्गहोमं ततो वक्ष्ये निबोधत तपोधनाः ॥ शिरसे च ततोऽक्षिभ्यां कर्णाभ्यामिति चोच्चरन् । नासिखाभ्यामथौष्ठाभ्यां दन्तेभ्यो जुहुयाद्बुधः ॥ जिह्वायै कण्ठायोरसे बाहुभ्यामिति च क्रमात् । कोष्ठाभ्याञ्चैव पाणिभ्यां नखेभ्य उदराय च ॥ कटये च तथोरुभ्यां जङ्घाभ्यामिपि हूयते । लोमभ्यां मकुटायेति शिरश्चक्राय वै पुनः ॥ शङ्खायैव च चक्राय गदायै च ततः परम् । शार्ङ्गायासय इत्युक्त्वा चाम्बरायेति हूयताम् ॥ भूषणेभ्यः प्रभायै च छत्राय च जुहोति वै । दद्भ्यः स्वाहादिभिर्मन्त्रैर्हुत्वा तत्तदनुस्मरन् ॥ मौलिमालादिहोमः मौलिमालायै दिव्याय चोत्तराय ततः परम् । सर्वोत्तराय सर्वस्मै विष्णवे प्रभविष्णवे ॥ दिव्याय सुवहायेति काय कस्मै ततः परम् । तमेव विष्णवे चेति निखुर्यपाय चैव हि ॥ ध्रुवरूपाय चेत्युक्त्वा ललाटाय च विष्णवे । भ्रूभ्यामन्तरिक्षायेति सप्राणात्मभुवे तथा ॥ ४०१ श्रोत्राभ्यां सञ्जुहोत्यन्ते पक्ष्मभ्यामिति चोच्चरन् । सञ्जुहोत्यक्ष्यङ्गेभ्यश्च अक्षिभ्यामिति हूयते ॥ तारकाभ्यामपाङ्गाभ्यां कुवलयाभ्यां तथैव च । युगाभ्याञ्च कपोलाभ्यां तत्तदङ्गमनुस्मरन् ॥ जुहोति नासिकायै च पुटाभ्यामिति तृष्णवे (?) । अण्डाभ्यामिति दन्तेभ्यः कोष्ठाभ्यामपि हूयते ॥ निम्नेभ्यश्चाधरोष्टाय जिह्वायै च ततः परम् । सुवक्त्रायै च जुहुयात्तालवे विष्णवे पुनः ॥ हनुभ्यां जुहुयात्पश्चात्तत्तदङ्गमनुस्मरन् । कर्णाभ्यां कर्णपालिभ्यां छत्राभ्यां कीकसाय च ॥ ग्रीवायै कनकायेति सुप्रग्रीवाय वै तथा । कण्ठनालाय कण्ठाय कर्णनालाय हूयताम् ॥ द्यौः शिरसे च हुत्वा तु तथा द्यौरक्षकाय च । सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च ॥ केशेभ्यश्शिरसे चेति जुहुयात्पुण्यवासिने । आहुभ्यो दिक्प्रबन्धेभ्यस्सर्वक्षत्रार्णकाय च ॥ सर्वदेशशरीरेभ्यः सर्वप्राणालयाय च । सर्वदुःखवियोगेभ्यः ………………….. ॥ चलेभ्यस्सर्वलोकानां दुःखत्राणेभ्य इत्यपि । कण्ठाय कण्ठनालीभ्यः कन्दाय च ततः परम् ॥ पृष्ठाग्रफलकायैव बाहुभ्योऽष्टाभ्य इत्यपि । कीकसेभ्यः कोर्परेभ्यः कनिष्ठाभ्यस्तथैव च ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४०२ सर्वेभ्यश्च नखेभ्यश्च वर्तिनीभ्य इति ब्रुवन् । जत्रुभ्यां ताट्यदेशाय पार्श्वमूलेभ्य इत्यपि ॥ पार्श्वाभ्यामुरसे हुत्वा भल्लकाय ततः परम् । उरस्याय शिरस्याय बाहुमुक्ताय हूयताम् ॥ हृदयाय पुण्डरीकाय चित्ताय च ततः परम् । चित्तेभ्य आकूतायेति आकूतिभ्यश्च हूयताम् ॥ तर्काय तर्कवासिभ्यो मतये प्रबलाय च । कीकसे साक्षवासाभ्यः (?) सूर्याय विष्णुचक्षुषे ॥ वामाय सोमनेत्राय विष्णवे प्रबुधाय च । अतलायादितलायेति महाबीजाय महात्मने ॥ आत्मने चेति हुत्वा तु तथा सर्वात्मने बुधः । सवोदानाय लोकानां व्याप्तये तृप्तये तथा ॥ जुहोत्यप्रकृतिरूपाय समानाय यमाय च । सर्वस्य सामरूपाय जुहुयात्प्रणिबन्धने ॥ तत्तदङ्गमनुस्मृत्य शिरस्तस्तु जुहोति च । जुहोति रोमकूपेभ्यः आन्त्रायेति तथैव च ॥ आन्त्ररूपाय जुहुयादान्त्रसञ्चारणाय च । दिवसाय कण्ठनित्याय नित्यबन्धाय वै पुनः ॥ बन्धोद्बन्धनरूपाय स्तनाभ्यां मन्दकाय च । मर्मभ्यश्च प्रमर्मभ्यः पार्श्वस्थधिषणाय च ॥ सम्पत्तिभ्यः कुमारीभ्यः पुण्डरीकाय वै पुनः । नाभये हृल्लसायेति नासायै चेति हूयताम् ॥ ४०३ आर्द्राय वर्तितायेति जुहुयात्तमनुस्मरन् । अनिरुद्धाय दृषते वत्सलायेति हूयताम् ॥ तथा यकृत्प्लीहाभ्याञ्च मुकुन्दाय तथैव च । न्यस्तायेति वरायेति चोर्वराय ततः परम् ॥ तथैवोदरबन्धाय नाडीभ्यामिति चोच्चरन् । वासिभ्यश्चैव वस्तुभ्यो वस्तिमुष्काय वै पुनः ॥ प्रजनाय जनितृभ्यः श्रोणीभ्यामिति वै पुनः । ताटिकायै च वंशाय वंशधारिभ्य एव च ॥ प्रजापतय इत्युक्त्वा विष्णवे चेति हूयताम् । शुक्राय शुक्रवासिभ्यः ऊरुभ्यामिति चोच्चरन् ॥ सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयते । त्वगस्थिभ्यश्च हुत्वा तु जुहुयाच्च ततः परम् ॥ रूप रूपेभ्य इत्युक्त्वा प्रसेभ्य उरसाय च । रक्ताय रक्तवासिभ्यो मेदसे च तथा पुनः ॥ जीवाय तास्तनञ्चव चास्थिमज्जाय (?) वै पुनः । जुहुयान्मज्जावासिभ्य उत्तमाङ्गाय वै पुनः ॥ धातवे चैव धातुभ्यः धातुरूपेभ्य इत्यपि । जुहुयादुपधातुभ्यः पार्श्वत्वच इति ब्रूवन् ॥ सर्वरूपया ग्रीवायै धनदाय धनात्मने । सर्वेश्वराय यज्ञाय पुरुषायेति हूयताम् ॥ यत्राङ्गहोमो विहितस्त्वक्ष्युन्मेषादिकर्मसु । तत्रैवमेवं जुहुयादिति पूर्वजशासनम् ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४०४ सर्वस्य साम्यरूपाय स्वाहेत्यादि विवर्जितः । मध्यमे मौलिमालायै स्वाहादिरहिऽतोऽधमः ॥ अष्टाशीत्यङ्गहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक् । मौलिमालादिहोमञ्च वदन्त्यन्येऽन्यथा बुधाः ॥ भ्रूभ्यामिति समारभ्य जुहुयाद्दोषशान्तये । इत्यन्तं सर्वसामान्यप्रायश्चित्तमितीरितम् ॥ मौलिमालायै दिव्याय रत्नायाथोत्तराय च । सर्वोत्तराय सर्वस्मै विष्णवे प्रभविष्णवे ॥ मकुटाय च केशेभ्य उष्णीषाय तथैव च । मूर्ध्ने मुखललाटाभ्यां श्रोत्राभ्याञ्च भृवोरपि ॥ अपाङ्गाभ्यामथाक्षिभ्यां पक्ष्मभ्यश्चाप्यनन्तरम् । पताकाभ्यां ज्योतिषे च ज्योतिरूपाय चेति तु ॥ गण्डाभ्याञ्च हनुभ्याञ्च नासिकाभ्यां तथैव च । पुटाभ्यामपि चौष्ठाभ्यां दन्तेभ्यो जुहुयात्ततः ॥ जिह्वायै च सुवक्त्राय चुबुकयाऽधराय च । गलाय चाथ कण्ठाय ग्रीवायै कीकसाय च ॥ जत्रुभ्यो जत्रुरूपेभ्यः अंसाभ्याञ्च तथैव च । दोषभ्याञ्चैव स्कन्धाभ्यां बाहुभ्यां कूर्पराय च ॥ प्रकोष्ठेभ्यस्तलेभ्यश्च अङ्गुलीभ्यस्तथैव च । पर्वभ्यश्च नखेभ्यश्च हृदयाय तथैव च ॥ स्तस्नाभ्याञ्चैव पार्श्वाभ्यामुदराय च नाभये । कृकाटिकायै नालीभ्यः वंशश्रोण्यै तथैव च ॥ ४०५ कटिराय प्रजननाय प्रजात्यै वस्तये तथा । वस्तिमुष्काय सक्थिभ्यामूरुजानुभ्य एव च ॥ जङ्घाभ्याञ्चैव गुल्फेभ्यः पार्ष्णिपादेभ्य एव च । पादाङ्गुलिभ्यः पर्वभ्यः नखेभ्यस्सन्धिभ्यस्तथा ॥ सन्धानेभ्यस्तु रोमभ्यो रोमकूपेभ्य एव च । मर्मभ्यो मर्मपालिभ्यः होत्रेभ्यः सिराभ्यस्तथा ॥ त्वग्रक्तमासमेदोऽस्थिमज्जाशुक्लेभ्य एव च । शुक्लरूपेभ्य इति च तेजिष्काय च तेजसे ॥ धातुभ्यो धातुरूपेभ्यः वाग्भ्यश्चैवाक्षराय च । नादेभ्यश्चैव मनसे बुद्धये तदनन्तरम् ॥ अहङ्कारय चित्ताय स्वाहेति तदनन्तरम् । हृत्प्राणशब्दपूर्वन्तु पुण्डरीकमुदीर्य च ॥ वायुर्जीवश्च जीवात्मा सत्याय समुदीर्य च । सत्यरूपस्तथा ज्ञानं ज्ञानरूपस्तथैव च । ज्ञेयविज्ञात्रनन्ताश्च आनन्दो व्यक्त एव च । अव्यक्तः प्राणः प्राणात्माऽपानव्यानावनन्तरम् ॥ उदानश्च समानश्च महते च महात्मने । आत्माऽनात्मा च विश्वस्मै विश्वात्मा पर एव च ॥ परमात्मा तथा यस्मै तस्मै कस्मै तथैव च । सर्वस्मै च शिरश्चक्रं चक्रशङ्खौ तथैव च ॥ पादपीठं महाङ्गेभ्यः उपाङ्गेभ्यस्तथैव च । प्रत्यङ्गेभ्यश्च सर्वेभ्यः पुरुषाय च व्याहृतिः ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४०६ सूक्तपरिभाषा विष्णोर्नुकादिषण्मन्त्रैर्विष्णुसूक्तमुदाहृतम् । ‘जातवेदस’ इत्यादि सूक्तं दौर्गमुदाहृतम् ॥ ‘हिरण्यवर्णां हरिणी‘ मिति श्रीसूक्तमीरितम् । ‘भूमिर्भूम्ने’ ति भूसूक्तं सर्वलोकशुभावहम् ॥ ‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तमुदाहृतम् । ‘ओमासश्चर्षणी’ त्यादि सूक्तं सारस्वतं मतम् ॥ ‘परिणो रुद्र इत्युक्त्वा ‘स्तुहि श्रुत’ मिति ब्रुवन् । ‘मीढुष्टम शिवतमः - अर्हन् बिभ’ र्षीति च ॥ ‘त्वमग्ने रुद्र’ इत्युक्त्वा ‘आ वो राजान मित्यपि । एतैरपि च षण्मन्त्रैः रुद्रसूक्तमुदाहृतम् ॥ बलिपीठप्रतिष्ठा बलिपीठप्रतिष्ठाञ्च प्रवक्ष्यामि समासतः । तस्योत्सेधं समुद्दिष्टं गर्भागारसमं तथा ॥ २१ ॥ आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे । उत्सेधे दशभागे तु सप्तांशं समुदाहृतम् ॥ २२ ॥ सप्तविंशतिभागे तु विभक्ते तु समुच्छ्रये । द्व्यंशकं पादुकं ज्ञेयं जगती चतुरंशकम् ॥ २३ ॥ त्र्यंशकं कुमुदं ज्ञेयमेकांशं पट्टिका भवेत् । षड्भागं कण्ठमित्याहुः द्व्यंशकं बलकम्पयोः (?) ॥ २४ ॥ चतुरंशैकपादञ्च अंशे चैवाग्रवर्तिका । द्व्यंशार्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकम् ॥ २५ ॥ ४०७ एवं सम्यग्विदित्वा तु भागे भागे विनिर्दिशेत् । त्र्यंशं हस्तप्रमाणेन त्रिहस्तादधिकञ्च वा ॥ २६ ॥ पञ्चहस्ताधिकं वाऽपि गोपुरात्प्राग्विधीयते् । मध्ये भूतन्तु कर्तव्यं चतुस्तालप्रमाणतः ॥ २७ ॥ सुखासनमिदं श्रेष्ठं परावृत्तन्तु कारयेत् । यदीच्छेत्स्वामिनं प्रेक्ष्य ग्रामनाशो भविष्यति ॥ २८ ॥ अथवा कारयेद्विद्वान् कारणांशे तु मध्यमे । यथान्यायं चतुर्दिक्षु तत्तत् दिक्षु समीक्ष्य वै ॥ २९ ॥ इत्येवं विधिना कृत्वा प्रतिष्ठां कारयेत्तु वै । प्रथमावरणादीनां मुखायामं यथाक्रमम् ॥ ३० ॥ चतुर्थांशं विभज्यैव तृतीये प्रथमादिषु । चक्रशङ्खध्वजान् यूथनाथपाकोर्जुनानपि ॥ ३१ ॥ चतुर्थावरणञ्चेत्तु तद्द्वितीयतृतीययोः । यूथनाथाक्षहौ चैव स्थापयेदिति केचन ॥ ३२ ॥ गुणावरणमात्रञ्चेत्तृतीये प्रथमांशके । ध्वजं द्वितीये यूथेशमक्षहञ्च प्रकल्पयेत् ॥ ३३ ॥ अन्तर्धारावासानञ्चेत्तृतीयांशे विशेषतः । चक्रशङ्खध्वजांश्चैव भूतेशञ्च प्रकल्पयेत् ॥ ३४ ॥ एकावरणमात्रञ्चेदग्रमण्डपपूर्वतः । चतुर्भागं विभज्यैव तृतीये तु प्रकल्पयेत् ॥ ३५ ॥ अथवा गोपुराद्बाह्ये मुखायामं प्रकल्प्य च । कल्पयेत्तत्र वा सर्वान् यूथेशं वाऽथ केवलम् ॥ ३६ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४०८ वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा । पञ्चगव्यैस्समभ्युक्ष्य कुर्याच्चैवाक्षिमोचनम् ॥ ३७ ॥ गवादीन् दर्शयित्वा तु पञ्चगव्यादिभिः पुनः । स्नापयित्वाऽधिवास्यैव तत्तन्मन्त्रैः पृथक्पृथक् ॥ ३८ ॥ औपासनाग्निं संङ्कल्प्य तस्याग्रे दक्षिणेऽपि वा । आघारान्ते तु विधिना कुम्भं संसाध्य पूर्ववत् ॥ ३९ ॥ संस्नाप्य सप्तकलशैः शुद्धोदैरभिषेचयेत् । बध्नीयात्कौतुकञ्चापि प्रदक्षिणवशाद्गले ॥ ४० ॥ हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत् । अष्टोत्तरशतं हुत्वा तन्मन्त्रन्तु सवैष्णवम् ॥ ४१ ॥ प्रातः पीठे समावाह्य समभ्यर्च्य निवेदयेत् । एष एव विशेषस्स्यादन्यत्सर्वञ्च पूर्ववत् ॥ ४२ ॥ गरुडप्रतिष्ठा अतः परं प्रवक्ष्यामि सुपर्णस्थापनं परम् । स्थानके मूलबेरे तु कुर्यात्स्थानकमेव वा ॥ ४३ ॥ आसने शयने चापि आसीनं स्थानकन्तु वा । विपरीतं यदि भवेद्राजा राष्ट्रञ्च नश्यतः ॥ ४४ ॥ त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ । यजमानस्य जन्मर्क्षे राज्ञो नक्षत्र एव वा ॥ ४५ ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा । अङ्कुरार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ ४६ ॥ ४०९ अक्षिमोचनमुद्दिश्य पूर्वाह्णे होममाचरेत् । अङ्गहोमञ्च हुत्वा तु मूर्तिहोमं तथा हुनेत् ॥ ४७ ॥ ‘शतधा’रेति मन्त्रेण ‘कदापिसृज’ तेति च । दशवारं ततो हुत्वा ताभ्यां कृत्वाऽक्षिमोचनम् ॥ ४८ ॥ अन्तहोमं ततो हुत्वा भास्करं सम्प्रणम्य च । पञ्चगव्याधिवासादीन् कुर्यात्तदपराह्णके ॥ ४९ ॥ गोमूत्रे गोमये चैव कुशोदे चाधिवासयेत् । अथवा कारयेद्विद्वान् पञ्चगव्यस्य कुण्डके ॥ ५० ॥ प्रतिष्ठादिवसात्पूर्वं रात्रौ होमं समाचरेत् । भूमियज्ञञ्च कृत्वा तु पर्यग्निञ्चैव कारयेत् ॥ ५१ ॥ शय्यावेदिं प्रकल्पयैव पूर्वोक्तविधिना पुनः । वेद्या दक्षिणपार्श्वे तु दक्षिणाग्निं प्रकल्पयेत् ॥ ५२ ॥ औपासनाग्निमथवा कारयेदिति केचन । पुण्याहं वाचयित्वा तु भूमिशुद्धिं समाचरेत् ॥ ५३ ॥ स्नानवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत् । संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ ५४ ॥ वस्त्रादिभिरलङ्कतृय शय्यावेद्यां निवेश्य च । बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ ५५ ॥ ताभ्यामेव तु मन्त्राभ्यां सर्वमेतत्समाचरेत् । दक्षिणाग्निं परिस्तीर्य तद्दैवत्यं सुहूयताम् ॥ ५६ ॥ होता हौत्रक्रमेणैव तन्मूर्त्याऽऽवाह्य हूयताम् । ततो गरुडमन्त्राभ्यामष्टोत्तरशतं यजेत् ॥ ५७ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४१० सामवेदादिनमन्त्रञ्च यजेद्वैष्णवसंयुतम् । नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्पुनः ॥ ५८ ॥ ततः प्रभाते धर्मात्मा स्नात्वा तु स्थापकैस्सह । मुहूर्ते समनुप्राप्ते रत्नन्यासं समाचरेत् ॥ ५९ ॥ देवं कुम्भं समादाय प्रविशेदालयं पुनः । श्वेतवर्णस्य पूर्वे वा कृष्णपार्श्वेऽथवा पुनः ॥ ६० ॥ प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा । मण्डपस्य ततो मध्ये स्थापयित्वा समन्त्रकम् ॥ ६१ ॥ आचार्य पूजयित्वा तु सुवर्णपशुभूमिभिः । स्थापकान् पूजयेत्तद्वद्वस्त्राभरणकुण्डलैः ॥ ६२ ॥ एवं संस्थापयेद्वीशं श्रद्धाभक्तिसमन्वितः । सन्ततीनां समृद्धः स्याद्वाहनानां तथैव च ॥ ६३ ॥ सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति । विष्वक्सेनप्रतिष्ठा अतः परं प्रवक्ष्यामि शान्तस्य स्थापनं परम् ॥ ६४ ॥ (बिम्बं सलक्षणं कृत्वा स्थापनं सम्यगाचरेत् । पूर्वोक्तमासनक्षत्रे शुक्लपक्षे शुभे दिने) ॥ ६५ ॥ बिम्बं सलक्षणं कृत्वा कृत्वा शिल्पिविसर्जनम् । वास्तुहोमाङ्गहोमौ च हुत्वा मन्त्रैश्च भौतिकैः ॥ ६६ ॥ विष्वक्सेनस्य मन्त्रौ द्वौ वैष्णवं व्याहृतीर्यजेत् । कुर्यात्क्रमात्तु मन्त्राभ्यां दक्षिणाद्यक्षिमोचनम् ॥ ६७ ॥ ४११ पञ्चगव्याधिवासादि कल्पयेत्तदनुक्रमात् । तस्यालयस्याभिमुखे यागशालां प्रकल्प्य च ॥ ६८ ॥ शय्यवेदिञ्च तन्मध्ये बिम्बाध्यर्धप्रमाणतः । कुर्यादौपासनाग्निञ्च तत्प्राच्यामग्र एव वा ॥ ६९ ॥ दक्षिणे स्नपनश्वभ्रं कल्पयित्वा तु पूर्ववत् । वास्तुहोमं यजेत्कुर्यात्पर्यग्निकरणं तथा ॥ ७० ॥ पञ्चगव्योक्षणं कृत्वा सायं पूर्वेद्युरेव वा । अधिवासगतं देवमुद्धृत्य स्नापयेत्तदा ॥ ७१ ॥ कुम्भं संसाध्य विधिन तत्राऽवाह्य समन्त्रकम् । संस्नाप्य सप्तकलशैरर्चयित्वाऽष्टविग्रहैः ॥ ७२ ॥ ततः कौतुकबन्धान्ते शयने शाययेत्तदा । हौत्रं प्रशंस्य चाऽवाह्य निरुप्याऽज्याहुतीर्यजेत् ॥ ७३ ॥ सर्वदेवार्चनं हित्वा वेदाध्ययनमाचरेत् । विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ ७४ ॥ वैष्णवं मूर्तिमन्त्रञ्च (हुत्वा गायत्रिया तथा । प्रधानहोमं हुत्वा तु) हुत्वा रात्रिं निनीय च ॥ ७५ ॥ प्रातस्संस्थाप्य चाऽवाह्य समभ्यर्च्य निवेदयेत् । दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ ७६ ॥ सर्वेषां परिवाराणां प्रतिष्ठायां विशेषतः । आलयाभिमुखे तेषां यागशालां प्रकल्प्य च ॥ ७७ ॥ शय्यावेदिञ्च तन्मध्ये तस्याग्रेऽग्निञ्च कल्पयेत् । एष एव क्रमः प्रोक्तो मन्त्र एव विशिष्यते ॥ ७८ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४१२ अष्टोत्तरशतं हुत्वा तत्तन्मन्त्रं सवैष्णवम् । प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ॥ ७९ ॥ अनन्तप्रतिष्ठा अनन्तं सर्वनागानामधिपं चानिरुद्धवत् । बिम्बं सलक्षणं कृत्वा फणसप्तकसंयुतम् ॥ ८० ॥ प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा । वामलूरुसमीपे वा गोपुराद्बाह्यतोऽपि वा ॥ ८१ ॥ स्थानं सङ्कल्प्य सम्भारान् सम्भृत्यैव ततः परम् । अङ्कुरार्पणमारभ्य प्रतिष्ठान्तोदिताः क्रियाः ॥ ८२ ॥ शेषदैवत्यमन्त्राभ्यां तत्सूक्तेनाथवा पुनः । संस्थाप्य सौम्यमार्गेण नित्यं विधिवदर्चयेत् ॥ ८३ ॥ अनन्तो गरुडश्चैव विष्वक्सेनः पितामहः । अनादिवैष्णवाः पञ्च मुनिराड्विखना अपि ॥ ८४ ॥ सुपर्णस्य च शान्तस्याप्यनन्तस्य तथैव च । त्रयाणां स्थापनञ्चोक्तमद्य सङ्क्षेपतो मया ॥ ८५ ॥ विखनसः प्रतिष्ठा ब्रह्मणश्च त्रिधा प्रोक्तं स्थापनन्तु पृथङ्मया । गर्भालये च देवस्य पूजकत्वेन सम्मतः ॥ ८६ ॥ त्रिमूर्तिस्थापने चैव द्विमूर्तिस्थापने तथा । मूर्तिमन्त्रेण सम्प्रोक्तो मण्डलान्तर्गतो विधिः (?) ॥ ८७ ॥ प्राधान्येन तु सुप्रोक्तः पृथगेव प्रतिष्ठितुम् । अधुना सम्प्रवक्ष्यामि स्थापनं विखनोमुनेः ॥ ८८ ॥ ४१३ देवस्य दक्षिणे भागे श्रियो देव्यास्समीपतः । शङ्खचक्रधरं सौम्यं चतुर्भुजधरं तथा ॥ ८९ ॥ त्रिदण्डधारिणं विष्णोरर्चनासक्तमानसम् । कूर्मपीठे प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ ९० ॥ देवदेवप्रतिष्ठावत्सर्वं सम्यक्समाचरेत् । स्थानके मूलबेरे तु चासने शयनेऽपि वा ॥ ९१ ॥ आसीनमेव सर्वत्र तपोयुक्तं प्रकल्पयेत् । विपरीतं यदि भवेद्राजराष्ट्रविनाशनम् ॥ ९२ ॥ त्रिषूत्तरेषु रोहिण्या हस्ते स्वात्या पुनर्वसौ । यजमानस्य नक्षत्रे राज्ञो नक्षत्र एव वा ॥ ९३ ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा । अङ्कुरार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ ९४ ॥ अक्षिमोचनमुद्दिश्य पूर्वाह्णे होममाचरेत् । अङ्गहोमञ्च हुत्वा तु मूर्तिहोमस्सुहूयताम् ॥ ९५ ॥ ‘अतो देवा-इदं विष्णु’ रिति हुत्वा सहस्रशः । कृत्वा ताभ्यामक्षिमोक्षमन्ते होमं यजेब्दुधः ॥ ९६ ॥ अधिवासत्रयं वाऽपि अधिवासचतुष्टयम् । पूर्वोक्तविधिना कृत्वा बलिं निर्वाप्य पूर्ववत् ॥ ९७ ॥ प्रतिष्ठादिवसात्पूर्वं रात्रौ होमञ्च कारयेत् । भूमियज्ञञ्च कृत्वा तु पर्यग्निमपि कारयेत् ॥ ९८ ॥ शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुनः । शय्यावेद्याः पूर्वभागे श्रामणाग्निं प्रकल्पयेत् ॥ ९९ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४१४ औपासनाग्निमथवा केचिदाहवनीयकम् । पुण्याहमन्त्रैस्सम्प्रोक्ष्य भूमिशुद्धिमथाचरेत् ॥ १०० ॥ स्नानवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत् । संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ १०१ ॥ वस्त्रादिभिरलङ्कृत्य शय्यावेद्यां निवेश्य च । बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ १०२ ॥ पूर्वाभ्यामेवमन्त्राभ्यां सर्वमेतत् समाचरेत् । श्रामणाग्निं परिस्तीर्य वैष्णवञ्च सुहूयताम् ॥ १०३ ॥ होता हौत्रक्रमेणैव तन्मूर्त्याऽऽवाह्य होमयेत् । पूजकश्रेष्ठरूपत्वे वक्ष्यन्ते मूर्तयोऽधुना ॥ १०४ ॥ त्रिदण्डिनं तपोनिष्ठं पुण्डरीकविलोचनम् । हरिप्रियं समावाह्य चतुर्भिर्मूर्तिभिर्हुनेत् ॥ १०५ ॥ द्वारपालकरूपत्वे वक्ष्यन्ते मूर्तयोऽन्यथा । पृथक्स्थापनकाले तु देवीसहितमाचरेत् ॥ १०६ ॥ प्रलम्बसूत्रं श्रीवत्सं विनाऽन्यैर्विष्णुवच्चरेत् । लक्ष्मीनारायणस्येव बिम्बं तत्समुदाहृतम् ॥ १०७ ॥ तस्य पत्नी च विख्याता दिव्याख्या परमर्षिभिः । विष्णुप्रियसुतञ्चेति विष्वक्सेनसखं तथा ॥ १०८ ॥ कल्पसूत्रकृतञ्चेति श्रामणाग्निप्रियं तथा । परतत्त्वप्रवक्तारं मूर्तिभिः पञ्चभिः क्रमात् ॥ १०९ ॥ पृथक्त्वेन प्रधानत्वे तस्य पत्न्याश्च मूर्तयः । आदिवैष्णवमन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ ११० ॥ ४१५ ‘यो वेदादिः परम’ इति यजेद्वैष्णवसंयुतम् । अष्ठोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा ॥ १११ ॥ नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्गुरुः । अर्चकोत्तमरूपत्वे देवदेवस्य सन्निधौ ॥ ११२ ॥ द्वारपालकरूपत्वे द्वितीयद्वारदक्षिणे । पृथक्प्रधानरूपत्वे यमाग्न्योरन्तरे तथा ॥ ११३ ॥ शङ्खचक्रधरो वाऽपि अपि ताभ्यां विर्जितः । द्वारपालकरूपत्वे स विभुः प्रोच्यते बुधैः ॥ ११४ ॥ शङ्खचक्रधरस्साक्षादितरत्र प्रकीर्तितः । गर्भालये वा बाह्ये वा स्थापने चोत्तरामुखः ॥ ११५ ॥ द्वारस्य दक्षिणे भागे स्थापयेद्देवराण्मुखम् । ध्रुवसूक्तेन संस्थाप्य विष्णुसूक्तेन संस्पृशेत् ॥ ११६ ॥ गोभूसुवर्णदानाद्यैः गुरुं सम्पूज्य भक्तितः । पूजयेत्स्थापकादींश्च वस्त्राभरणकुण्डलैः ॥ ११७ ॥ गुरूत्तमस्य यः कुर्यात्स्थापनं भक्तिसंयुतः । वेदानाञ्च समृद्धिस्स्यात्समृद्धिः पुण्यकर्मणाम् ॥ ११८ ॥ सर्वान्कामानवाप्यैव पुण्यलोकं स गच्छति । ‘अतो देवा-इदं विष्णु रिति मन्त्रद्वयेन च ॥ ११९ ॥ पूजकत्वे प्रधानत्वे षोडशैरुपचारकैः । सम्पूज्य विधिवद्विष्णुं तन्निवेदितवस्तुभिः ॥ १२० ॥ माल्यैर्गन्धैश्च धूपैश्च दीपैश्च हविरादिभिः । अर्चयित्वा तु देहान्ते सायुज्यं पदमाप्नुयात् ॥ १२१ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४१६ वैखानसस्य नैवेद्यं विष्णुनैवेद्यवच्चरेत् । द्वारपालप्रतिष्ठायां तद्दैवत्यं जुहोति च ॥ १२२ ॥ द्वारस्य दक्षिणे भागे स्थानेकस्सुप्रतिष्ठितः । ‘वैखानसाय’ मन्त्रश्च तद्दैवत्यः प्रकीर्तितः ॥ १२३ ॥ तिष्ठत्ययं त्रिरूपेण विष्णोराज्ञाविशेषतः । तत्कथा च निरुक्ताधिकारे प्रोक्ता सुविस्तरा ॥ १२४ ॥ समिधादीनां लक्षणम् समिधां लक्षणं वक्ष्ये सर्वेषामपि कर्मणाम् । कण्टकं सुषिरं शुष्कं कृमियुक्तं पिपीलिकम् ॥ १२५ ॥ ह्रस्वं दीर्घं कुशञ्चैव स्थूलञ्चैव द्विपर्वकम् । हीनचर्म तथा दग्धं पुराणञ्च विवर्जयेत् ॥ १२६ ॥ वृक्षे पक्षिगणावासे चैत्यवृक्षे तथैव च । तथा देवालये चैव श्मशाने चोषरे तथा ॥ १२७ ॥ जीर्णालये तथा मूले सूतक्याशैाचिसङ्गते । मैथुने चैव निद्रायामातुरे च विवर्जयेत् ॥ १२८ ॥ कण्टकं सुषिरञ्चैव प्रोक्तं सर्वविनाशनम् । शुष्के भ्रातृविनाशस्स्यात्कृमिदष्टे मतिभ्रमः ॥ १२९ ॥ पिपीलिकादौ त्वग्दोषः ह्रस्वः कुक्षिज्वरप्रदः । दीर्घे च मरणं विन्द्यात्कृशे क्लेशभयावहम् ॥ १३० ॥ स्थलं दारिद्र्यदं प्रोक्तं द्विपर्वं पापरोगदम् । त्वचश्छेदे तु दौर्भाग्यं दग्धञ्चेत्सन्निपातकम् ॥ १३१ ॥ ४१७ पुराणे पुत्रनाशः स्यात् ज्ञानञ्चापि विनश्यति । पक्षिदेवालयोत्थञ्चेन्मातापित्रोर्विनाशनम् ॥ १३२ ॥ श्मशानजं कुलं हन्ति ऊषरे राज्यनाशनम् । जीर्णालयसमीपस्थं शिरोरोगं प्रयच्छति ॥ १३३ ॥ सूतक्याशौचिसंस्पृष्टे भार्यापुत्रविनाशनम् । मैथुनै स्पृश्यते चेत्तु वृक्षे वै व्याधिपीडनम् ॥ १३४ ॥ निद्रातो निधनं याति चाऽतुरे तस्कराद्भयम् । एतैर्दोषैर्विमुक्तन्तु सर्वलक्षणसंयुतम् ॥ १३५ ॥ पालाशं बैल्वमथ च शमीजं खदिरन्तथा । अश्वत्थवटवृक्षोत्थं प्लाक्षमौदुम्बरं तथा ॥ १३६ ॥ द्वादशाङ्गुलदीर्घन्तु ततश्शान्तिकरं विदुः । त्रयोदशाङ्गुलञ्चैन्द्रं द्विसप्ताङ्गुलमार्षकम् ॥ १३७ ॥ पञ्चदशाङ्गुलायाममाभिचारिकमुच्यते । विद्वेषेऽनामिकानाहप्रमाणमिति निश्यतः ॥ १३८ ॥ तथाविधाः परिधय उक्तायामसमन्विताः । नदीतटाकतीरोत्थास्समिधो दोषवर्जिताः ॥ १३९ ॥ साग्रा अगर्भाः दर्भाः स्युरस्थूलकृशवामनाः । षट्त्रिंशदङ्गुलाः कूर्चाः परिस्तरणकर्मणि ॥ १४० ॥ द्वादशाङ्गुलमायामं पवित्रं समुदाहृतम् । हस्तमात्रमितः प्रोक्तः कूर्चः प्रोक्षणकर्मणि ॥ १४१ ॥ ॠ त्विजोरप्यभावे तु कल्पने ब्रह्मसोमयोः । अरत्निमात्रमायामं कूर्चं न्यस्येत्तु पार्श्वयोः ॥ १४२ ॥ एकोनत्रिंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४१८ सर्वेषामपि कूर्चानामग्रन्तु चतुरङ्गुलम् । ग्रन्थिस्तु द्व्यङ्गुला प्रोक्ता शेषं लम्बं प्रकल्पयेत् ॥ १४३ ॥ (वत्सजानुसमाकारो वेदः प्रादेशसम्मितः । निर्मितश्शतदर्भैश्च शोधनार्थमथाध्वरे) ॥ १४४ ॥ द्वाभ्यामगर्भदर्भाभ्यां पवित्रं परिकल्पयेत् । चतुरङ्गुलं भवेदग्रं ग्रन्थिरेकाङ्गुला भवेत् ॥ १४५ ॥ 1द्व्यङ्गुलं मूलमित्युक्तमेवं कुर्याद्याथाविधि । सन्न्यस्यानामिकाङ्गुल्योः सर्वकर्माणि कारयेत् ॥ १४६ ॥ अपवित्रकरः किञ्चिन्नाचरेदिति शासनम् । इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाशान्तिविधानबलिपीठप्रतिष्ठादिविधिर्नाम एकोनत्रिंशोऽध्यायः ॥