२८


च कुरुते. ई. 2. अर्चयेदिति केशवम्. इ ३८९ अष्टाविंशोऽध्यायः पात्राणां संस्कारः पात्राणामर्चनाङ्गानां नवानां द्विजसत्तमाः । वक्ष्यामि शुद्धिसंस्कारं कृत्वा तं सम्यगाचरेत् ॥ १ ॥ 1 लौहानामर्घ्यपात्राणां हविः पात्रस्य चैव हि तथाऽऽचमनपात्राणां पाद्यार्थानां तथैव च ॥ २ ॥ स्नानावाहनपात्राणां बलिपात्रस्य चैव हि । 2 नीराजनार्थपात्राणां धूपदीपार्थपात्रयोः ॥ ३ ॥ सहस्रधारापात्रस्य शङ्खपद्माङ्कपात्रयोः । लौहानां कलशादीनां त्रिपादानां तथैव च ॥ ४ ॥ 3 सलक्षणानि कृत्वैतान्यद्भिश्च शोधयेत् । वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ ५ ॥ पञ्चगव्योक्षणं कृत्वा धान्यपीठोपरि न्यसेत् । तत्तद्देवांत्समावाह्य समभ्यर्च्य निवेदयेत् ॥ ६ ॥ आवाहनादिपात्राणां चतुर्णां वरुणोऽधिपः । शङ्खानां पूर्वमेवोक्ता अर्चनायान्तु देवताः ॥ ७ ॥ अर्घ्यपानीयपात्राणां सोम एवाधिदैवतम् । हविःपात्राधिपो भानुः धूपपात्रे बृहस्पतिः ॥ ८ ॥ दीपनीराजनार्थानां पात्राणां श्रीरुदाहृता । सहस्रधारापात्रे तु प्रकृतिः कर्णिकान्तरे ॥ ९ ॥ 1. पञ्चानाञ्चैव. ई. 2. तथाऽचमन. ई. 3. सन्ध्यारक्षणपात्राणां. ई. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३९० दलाष्टकेऽष्टैश्वर्याणि चतुर्वेदास्तु तत्र च । शङ्कपद्मनिधी पूज्यौ शङ्खपद्माङ्कपात्रयोः ॥ १० ॥ घण्टायां पूर्वमेवोक्तानधिदेवांत्समाह्वयेत् । पात्राणां करकादीनां 1त्रिपादानां तथैव च ॥ ११ ॥ महाभूतानि पञ्चैव स्कन्दश्च कलशाधिपः (?) । इत्युक्तान् सर्वपात्राणामधिदेवांत्समर्चयेत् ॥ १२ ॥ शयनासनयानानां संस्कारः शयनासनयानानां संस्कारञ्च वदाम्यहम् । शय्यां खट्वासने पीठं रथरङ्गं तथैव च ॥ १३ ॥ शिबिकाञ्चैव यानानि तानि कृत्वा यथाविधि । औपासनाग्निमाधाय वास्तुहोमं यजेत्ततः ॥ १४ ॥ पर्यग्निपञ्चगव्याभ्यां शोधयित्वा तु पूर्ववत् । धर्म ज्ञानमथैश्वर्यं वैराग्यमिति वै पृथक् ॥ १५ ॥ शयनासनयानानां पादानामधिदेवताः । शयनाधिपतिश्शेषो धर्म एवाऽसनाधिपः ॥ १६ ॥ यानानामपि सर्वेषां गरुडस्त्वधिदेवता । कुम्भे तु साधिते सम्यक् ध्यात्वा वै तत्तदीश्वरान् ॥ १७ ॥ संस्नाप्य सप्तकलशैः धान्योपरि निवेश्य च । बद्ध्वा प्रतिसरं पादे पूर्वस्मिन्नेव दक्षिणे ॥ १८ ॥ तांस्तान् देवांत्समावाह्य हौत्रकर्मावसानके । आवाहनक्रमेणाऽज्यं निरुप्याज्याहुतीर्यजेत् ॥ १९ ॥ 1. पञ्चानां कलशाधिपाः (?) ३९१ तत्तद्दैवत्यमन्त्रांस्तु शतमष्टोत्तरं यजेत् । तत्तन्मूर्तिभिरावाह्य तत्तत्प्रोक्ताधिदेवताः ॥ २० ॥ अष्टोपचारैरभ्यर्च्य देवमारोपयेत्पुनः । अर्चयेदासने याने कुर्याद्धामप्रदक्षिणम् ॥ २१ ॥ शयने शाययेदेवं पूजेयेद्वा यथाविधि । अन्यानि सर्वपात्राणि शोधयेच्च यथोचितम् ॥ २२ ॥ प्रच्छन्नपटस्य सूतादिप्रतिलोमाश्च पाषण्डाः पतितास्तथा । नास्तिका भिन्नमर्यादास्तथा वै वेददूषकाः ॥ २३ ॥ पापरोगयुताश्चैव तथैव गुरुनिन्दकाः । अर्चनं देवदेवस्य हविर्दानञ्च वीक्षितुम् ॥ २४ ॥ नर्हन्ति तस्मात्कुर्वीत द्वारं यवनिकावृतम् । महापातकिनाञ्चापि सन्निधिं परिवर्जयेत् ॥ २५ ॥ तस्मात् द्वारसमायामं कुर्याद्यवनिकापटम् । द्वारं यवनिकाच्छन्नमकृत्वा पूजयेद्यदि ॥ २६ ॥ हुत्वा तद्द्वारदैवत्यं वैष्णवं व्याहृतीर्यजेत् । देवदेवञ्च संस्नाप्य समभ्यर्च्य निवेदयेत् ॥ २७ ॥ पूजाद्रव्याधिदेवार्चामकृत्वा पूजयेद्यदि । हुत्वा तद्द्वारदैवत्यं वैष्णवं व्याहृतीर्यजेत् ॥ २८ ॥ 1(द्रव्याधिदेवतापूजां कृत्वा तैरेव पूजयेत् । उक्तकाले तु सम्पूर्णे कुर्याद्वै द्वारबन्धनम् ॥ २९ ॥ 1. कुण्डलितः पाठः ख. कोश एव. अष्टाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३९२ न कुर्याद्यदि मोहेन सन्ध्यान्ते द्वारबन्धनम् । उद्घाटने तदाऽकाले तस्य दोषस्य शान्तये ॥ ३० ॥ वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च । तत्तत्सन्ध्याधिदैवत्यं हुत्वा कुर्याच्च बन्धनम् ॥ ३१ ॥ प्रातस्सन्ध्येन्द्रदैवत्या माध्याह्नी रविदैवता । तथा वरुणदैवत्या सायंसन्ध्या प्रकीर्तिता ॥ ३२ ॥ पक्वं ग्रहणवेलायां ग्रहणात्पूर्वमेव वा । हविर्निवेदयेन्नैव यदि मोहान्निवेदयेत् ॥ ३३ ॥ पीड्यते तु जगत्सर्वमाधिव्याध्याद्युपद्रवैः । वैष्णवं विष्णुसूक्तञ्च मन्त्रांश्च ग्रहदैवतान् ॥ ३४ ॥ हुत्वा संस्नाप्य देवेशं समभ्यर्च्य निवेदयेत् । नवीकरणे विशेषविधयः एकबेरविमानानां पौरुषाणां विशेषतः ॥ ३५ ॥ तथैवोध्दृतबिम्बानां जीर्णानान्तु पुनः कृतौ । पूर्वप्रमाणादधिकं यदि कुर्यान्न दोषकृत् ॥ ३६ ॥ पादानुगुणमेवैतत्परितो वर्धयेत्तथा । पूर्वं मृदालयं यत्तद्दिष्टकादिप्रकल्पने ॥ ३७ ॥ परितो वर्धयित्वैव कारयेदालये तथा । प्राकाराणान्तु जीर्णानां पुनस्सन्धानकर्मणि ॥ ३८ ॥ अथवा मृण्मयानाञ्च यदि वृद्धिं तथेच्छति । परितो वार्धयेदेवं प्राच्युदीच्योरथापि वा ॥ ३९ ॥ ३९३ यद्यग्रे ग्रामवीथी स्यात्तिसृष्वाशासु वर्धयेत् । शालानां मण्डपानाञ्च पार्श्वयोरग्रतस्तथा ॥ ४० ॥ वृद्धिं कुर्याद्विशेषेण प्राच्युदीच्योरथापि वा । उदीच्यामग्रतश्चैव वर्धयेत्पचनालयम् ॥ ४१ ॥ एकतस्सङ्कटञ्चेत्तु नदीसागरपर्वतैः । वर्धयेदन्यपार्श्वेषु नात्र कार्या विचारणा ॥ ४२ ॥ दक्षिणापरवृद्धिश्चेत्क्षेमस्स्यात्तु न जातुचित् । प्राकारमण्डपादीनां सालानां न समाहरेत् ॥ ४३ ॥ मण्डपादिषु सर्वेषु हीनद्रव्यकृतेषु च । न्यूनं वाऽप्यधिकं वाऽपि कारयेद्देशिकोत्तमः ॥ ४४ ॥ मुख्यद्रव्यकृतं यत्तु न्यूनं वाऽप्यधिकं न च । कारयेच्चेत्तदज्ञानाद्यजमानो विनश्यति ॥ ४५ ॥ (तस्मात्सर्वप्रयत्नेन यथापूर्वं समाचरेत् ।) महानसोत्तरे वाऽथ कुर्यादभिमुखे तथा ॥ ४६ ॥ तटाकादिकल्पनम् देवालयस्याभिमुखे तटाकं परिकल्पयेत् । तटाकमानं निश्चित्य रज्जुनाऽऽयादि शोधयेत् ॥ ४७ ॥ तताहतायतेनैव कुर्यादायादिशोधनम् । नाहेन तिथिवारौ च कल्पयेदिति शासनम् ॥ ४८ ॥ वृत्तार्धं तेन चाहृत्य कूपस्यायादिशोधनम् । सर्वारामोपकार्याणामग्रे वापीं प्रकल्पयेत् ॥ ४९ ॥ अष्टाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३९४ अथ तेषां प्रवक्ष्यामि संस्कारं मुनिसत्तमाः । वापीकूपतटाकानां तटमश्मेष्टकादिभिः ॥ ५० ॥ दृढमाबध्द्यकाष्ठासु सोपानक्रमसंयुतम् । दशाहे तु ततोऽतीते वास्तुहोमं ततो यजेत्॥ ५१ ॥ पर्यग्निकरणं कृत्वा पञ्चगव्येन शोंधयेत् । तन्तुना कुम्भमावेष्ट्य नादेयजलपूरितम् ॥ ५२ ॥ तीर्थमृत्तोयसौवर्णकूर्मयादस्समुज्जवलम् । कुशकूर्चाक्षतोपेतं पुण्यपुष्पोपशोभितम् ॥ ५३ ॥ धान्यपीठे प्रतिष्ठाप्य वस्त्रयुग्मेन वेष्ट्य च । ‘आपो हि ष्ठा’ दि मन्त्राणामनुवाकद्वयं जपेत् ॥ ५४ ॥ ‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च । ‘आपो वा इद’ मित्युक्त्वा मन्त्रैर्वेदादिभिस्तथा ॥ ५५ ॥ अभिमन्त्र्य च तत्कुम्भं तस्मिन्वरुणमर्चयेत् । ‘आपो वा इद’ मित्मुक्त्वा कुम्भतोयन्तु तत्पुनः ॥ ५६ ॥ वापीकूपतटाकेषु प्राङ्मुखः प्रक्षिपेद्गुरुः । एवं कृत्वा ततस्तोयमुपयुञ्जीत कर्मसु ॥ ५७॥ अन्यथा यदि कुर्यात्तु प्रायश्चित्तं विधीयते । महाशान्तिं सकृद्धुत्वा प्रतिष्ठां पुनराचरेत् ॥ ५८ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पात्रसंस्कारविधिर्नाम अष्टाविंशोऽध्यायः