२७


तद्ग्रामे वास्तुबाह्ये तु वासिनां नैव देषदः ई. 2. कुण्डलितः ख कोश एव. ३७७ सप्तविंशोऽध्यायः अस्पृश्यप्रवेशप्रायश्चित्तम् अतः परं प्रवक्ष्यामि प्रायश्चित्तं तपोधनाः । चण्डालसूतिकोदक्यापतितप्रतिलोमजैः ॥ १ ॥ गर्भालये प्रविष्टे तैः स्पृष्टे बिम्बे तथैव च । सप्तरात्रं महाशान्तिमब्जाग्नौ जुहुयात्ततः ॥ २ ॥ जलाधिवासनं कृत्वा जङ्गमानां तथैव च । 1ध्रुवशुद्धिञ्च कृत्वा तु प्रतिष्ठां पुनराचरेत् ॥ ३ ॥ शूद्रैर्वाऽथानुलोमैर्वा स्पृष्टे बिम्बे तथैव च । शताष्टकलशैस्स्नाप्य प्रतिष्ठां पुनराचरेत् ॥ ४ ॥ श्वकुक्कुटवराहाणां सृगालानां प्रवेशने । स्पर्शने च तथा तेषां शान्तिहोमं जुहोति च ॥ ५ ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् । चण्डालादिप्रवेशे तु प्रथमावरणे यदि ॥ ६ ॥ वास्तुहोमं हुत्वा शान्तिहोमं जुहोति च । अष्टोत्तरशतैर्देवं कलशैः स्नापयेत्तथा ॥ ७ ॥ द्वितीयावरणे चैव स्नपनं स्याच्छताष्टभिः । शान्तिं हुत्वा तृतीये तु चतुर्विंशतिभिस्तथा ॥ ८ ॥ स्नापयित्वा तु कलशैः 2समभ्यर्च्य निवेदयेत् । चतुर्थावरणे चेत्तु वैष्णवं त्वेकविंशतिम् ॥ ९ ॥ 1. ध्रुवस्य वर्जयित्वा तु. ख. 2. विशेषेण. ख. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३७८ हुत्वा तु सप्तकलशैस्स्नापयित्वा समर्चयेत् । पञ्चमावणे चेत्तु दशकृत्वस्तु वैष्णवम् ॥ १० ॥ हुत्वा तु पञ्चकलशैस्स्नापयित्वा समर्चयेत् । तत्तत्प्रकारपरिषद्दैवत्यं विंशतिं यजेत् ॥ ११ ॥ षष्ठावरण एवापि कलशैरेव सप्तभिः । स्नापयित्वा तु विधिवत्पुण्याहमपि वाचयेत् ॥ १२ ॥ सप्तमावरणे चेत्तु सर्वसञ्चार इष्यते । वीथ्यामेषां प्रवेशे तु न दोषो भृगुरब्रवीत् (?) ॥ १३ ॥ परिवारालयान्तश्चेत्तेषां स्नपनमाचरेत् । बहिश्चेच्छतकृत्वस्तु तत्तन्मन्त्रं सवैष्णवम् ॥ १४ ॥ हुत्वा तु सप्तकलशैस्स्नापयेदिति शासनम् । पर्यग्निपञ्चगव्याभ्यां शुद्धिस्सर्वत्र कीर्तिता ॥ १५ ॥ देवालयसमीपे तु प्रतिलोमनिवेशने । अर्चयेद्देवदेवन्तं मोहादपि न जातुचित् ॥ १६ ॥ तत्प्राकारानुषक्तञ्चेन्महादोषो भवेत्ततः । राष्ट्रस्य यजमानस्य ग्रामस्य च महद्भयम् ॥ १७ ॥ अपनीय तु तच्छीघ्रं सप्तरात्रं यथाविधि । महाशान्तिञ्च हुत्वा तु प्रतिष्ठां पुनराचरेत् ॥ १८ ॥ शतदण्डान्तरे चैव प्रतिलोमनिवेशनम् । चण्डालपुल्कसानाञ्च क्रोशादूर्ध्वं प्रकल्पयेत् ॥ १९ ॥ ३७९ मृतिप्रायश्चित्तम् गर्भालये तु मरणे प्रायश्चित्तं प्रवक्ष्यते । चण्डालादिप्रवेशे तु यदुक्तं तत्समाचरेत् ॥ २० ॥ प्रथमावरणे चेत्तु तत्तथैव समीरितम् । शालानुषक्तशालासु बहिर्मरणसम्भवे ॥ २१ ॥ तथैव मरणे चैव महाशान्तिं सकृद्यजेत् । संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् ॥ २२॥ गृहीत्वाऽऽधावमज्ञानादन्तः स्थशवकूपके । अर्चयेद्यदि तत्पक्वं हविश्चापि निवेदयेत् ॥ २३ ॥ वैष्णवञ्च शतं हुत्वा ‘यद्देवादि’ समन्वितम् । स्नापयित्वा तु कलशैस्समभ्यर्च्य निवेदयेत् ॥ २४ ॥ अन्यथा चेन्महादोष इति पूर्वजदर्शनम् । मण्डपादीनाम् अग्निदाहे मण्डपे गोपुरे चैव प्रपायाञ्च तथैव च ॥ २५ ॥ अग्निदाहे महाशान्तिं हुत्वा संस्नापयेद्धरिम् । वस्त्रादीनां दाहे गर्भालयेऽग्निदाहे तु वस्त्रे माल्ये च भूषणे ॥ २६ ॥ बिम्बे अग्निस्पृष्टे देवबिम्बेऽग्निसंस्पर्शे तच्छीघ्रं व्यपनीय च । सप्तरात्रं महाशान्तिं गन्धोदैः स्नपनं चरेत् ॥ २७ ॥ प्रतिष्ठाञ्च पुनः कृत्वा समभ्यर्च्य निवेदयेत् । सप्तविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८० अग्निना बेरनाशे बेरनाशेऽग्निदाहेन तद्बेरमपनीय च ॥ २८ ॥ मासमेकं महाशान्तिं हुत्वा गर्भालये पुनः । पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वोपलिप्य च ॥ २९ ॥ बिम्बमन्यत्समादाय प्रतिष्ठामाचरेत्पुनः । दारावं मृण्मयं बेरं धूमाक्रान्तं परित्यजेत् ॥ ३० ॥ ज्वालाक्रान्तं तथा शैलं सन्त्यजेत्पेशलं यदि । भिन्ने घटे घटाकाशं यथाऽऽकाशे प्रलीयते ॥ ३१ ॥ बेरनाशे तथा शक्तिर्विश्वं व्याप्यैव तिष्ठति । ग्रहस्थानं कल्पयित्वा पद्माग्नौ च तथाऽऽलये ॥ ३२ ॥ महाशान्तिञ्च पद्माग्नौ हुत्वा तत्राष्टदिक्षु च । तत्तद्ग्रहाग्निकुण्डेषु ग्रहशान्तिं जहोति च ॥ ३३ ॥ तत्तद्दैवत्यमन्त्रैश्च मध्याग्नौ पाञ्चभौतिकम् । हुत्वा बिम्बं समासाद्य ‘नमो ब्रह्मण’ ईर्य च ॥ ३४ ॥ ‘नमो वाचे’ समुच्चार्य कुम्भतोयं स्पृशन् जपेत् । प्रोक्षणैः प्रोक्षयेद्ग्रामं प्रदक्षिणवशेन च ॥ ३५ ॥ संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् । तस्मात्पुनः प्रतिष्ठान्तं स्थण्डिले नित्यमर्चयेत् ॥ ३६ ॥ बिम्बे सर्पस्पृष्टे सर्पसंस्पर्शने बिम्बे गर्भगेहप्रवेशने । वस्त्रमाल्यादि संशोध्य शुद्धोदैरभिषिच्य च ॥ ३७ ॥ ३८१ कुर्याच्छुद्धिं प्रतिष्ठोक्तां ध्रुवबेरस्य पूर्ववत् । उच्छिष्टादिस्पर्शे उच्छिष्टाशुचिसंस्पृष्टे बिम्बे पूर्वेक्तवच्चरेत् ॥ ३८ ॥ अनधिकारिभिः स्पर्शे एवं विप्रैरथान्यैस्तु क्रमाद्द्वित्रिचतुर्गुणैः । स्न्नापयेद्वैश्यसंस्पर्शे शताष्टकलशैर्विभुम् ॥ ३९ ॥ चत्वारिंशद्भिरष्टाभिः नृपैरभिषेचितैः । अर्चकान्यद्विजैस्स्पृष्टे शुद्धोदैरभिषेचयेत् ॥ ४० ॥ अभिषिक्तक्षत्रियैस्तु सर्वं ब्राह्मणवच्चरेत् । महापातकिसंस्पर्शे प्रेवशे च तपोधनाः ॥ ४१ ॥ आचारेत्प्रतिलोमोक्तं प्रायश्चित्तं यथाविधि । एकबेरकल्पे बिम्बनाशे एकबेरे तथा जीर्णे हीनाङ्गे च तपोधनाः ॥ ४२ ॥ यथालाभेन मानेन 1दारवं बेरमाहरेत् । तस्मिन्देवं समावाह्य बालस्थाने समर्चयेत् ॥ ४३ ॥ समाप्ते तु नवागारे देवं बालालये पुनः । पूर्वोक्तेन विधानेन प्रतिष्ठामाचरेत्तथा ॥ ४४ ॥ अर्चितं दारवं बेरं विधिनैव परियजेत् । बलिबेरौत्सवौ स्यातां यदि तस्यालयस्य च ॥ ४५ ॥ 1. इत. परं ‘दारवं मृण्मयं बेरं धूमाक्रान्तं परित्यजेत् । ज्वालाक्रान्तं तथाशैलं सन्त्यजेत्पेशलं यदि’ इत्यधिकं दृश्यते ख, सप्तविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८२ बालालये तयोरेकं प्रतिष्ठाप्य समर्चयेत् । नवीकृत्य यथापूर्वं प्रतिष्ठामाचरेदिति ॥ ४६ ॥ एकबेरञ्च लोहञ्चेच्चोरशत्रुभयादिभिः । तत्रार्चनमयुक्तं तच्छैलं संस्थाप्य तत्र च ॥ ४७ ॥ लौहमौत्सवबेरञ्च कल्पयेदिति शासनम् । गर्भालयस्थलभ्रंशे गर्भालयस्थलभ्रंशे वल्मीकादिंसमुद्भवे ॥ ४८ ॥ कुम्भं पूर्वोक्तविधिना संस्थाप्याऽवाह्य तत्र वै । अष्टोत्तरशतं हुत्वा वैष्णवं मूर्तिभिस्तथा ॥ ४९ ॥ बालालयोक्तदेशेषु सन्न्यस्य मुखमण्डपे । तत्र नित्यार्चनं कुर्वन्नवीकुर्यात्स्थलं दृढम् ॥ ५० ॥ प्रतिष्ठाविधिना बिम्बे कुम्भादावाहयेत्पुनः । गर्भालयगतान् देवान् कुम्भस्य परितोऽर्चयेत् ॥ ५१ ॥ पूर्वोक्तदोषसंयुक्ते ध्रुवबेरे विशेषतः । शीघ्रं बालालयं कुर्यादुक्तदेशे यथाविधि ॥ ५२ ॥ अनुकल्पः 1अल्पदोषयुतञ्चेतु बालागारं न कारयेत् । तद्विम्बसंस्थितां शक्तिं कुम्भे सम्यङ्निवेश्य च ॥ ५३ ॥ कुम्भं बिम्बं समादाय मध्यसूत्रात्तु दक्षिणे । मण्डपे वाऽन्तराले वा मालिकायामथापि वा ॥ ५४ ॥ 1. कुण्डलतिः ख कोश एव. ३८३ विधिना तत्र सन्न्यस्य द्वादशाहान्तमर्चयेत् । द्वादशाहात्परञ्चेतु बालागारं प्रकल्पयेत्) ॥ ५५ ॥ बालालस्याभिमुखे यागशालां प्रकल्पयेत् । शय्यावेदिञ्च पञ्चाग्निकुण्डानि परिस्तथा ॥ ५६ ॥ शय्यावेद्यास्तु पूर्वस्यामेकं वै सभ्यमेव वा । कल्पयित्वा तु पूर्वेद्युः सायं सन्ध्यामुपास्य च ॥ ५७ ॥ बालालयस्योत्तरतो वास्तुहोमं तदा यजेत् । पर्यग्निपञ्चगव्याभ्यां बालागारञ्च शोधयेत् ॥ ५८ ॥ यागशालाञ्च सर्वत्र पुण्याहं वाचयेत्पुनः । रात्रिपूजावसाने तु देवदेवं समर्च्य च ॥ ५९ ॥ हविर्निवेद्य विधिना ‘क्षमस्वे’ ति प्रणम्य च । बालालयस्थापनक्रमः ततः प्रणीय नित्याग्निं कुण्डेष्वाघारमाचरेत् ॥ ६० ॥ 1(अलाभे मथितं वाऽपि लौकिकं सम्प्रकल्पयेत् । श्रोत्रियागारतो वाऽपि कुण्डेष्वाघारमाचरेत् ॥) संसाध्य पूर्ववत्कुम्भं 2देवाग्रे तु यमान्तरे । धान्यपीठे सुसन्न्यस्य प्रार्थयित्वा तु पूर्ववत् ॥ ६१ ॥ देवं कुम्भे समावाह्य ध्रुवबेराद्यथाविधि । गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् ॥ ६२ ॥ सोपानसंथितान् देवांस्तत्कुम्भाम्भसि संस्मरेत् । विमानञ्चैव जीर्णञ्चेन्न्यक्षादींश्चतुरस्तथा ॥ ६३ ॥ 1. कुण्डलितः ख कोश एव. 2 . पूर्ववत् स्थापयेत्क्रमात् । ई. सप्तविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८४ 1पीठेऽर्च्यमानपरिषद्देवानिति च केचन । कुम्भं बिम्बं समादाय स्नानश्वभ्रे निवेश्य च ॥ ६४ ॥ संस्नाप्य सप्तकलशैर्बध्द्वा प्रतिसरं तथा । शाययित्वा तथा हौत्रं दक्षिणाग्नौ प्रशंसति ॥ ६५ ॥ तदालयगतान् देवान् समावह्यैक् पूर्ववत् । आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ ६६ ॥ परितो यागशालान्तु परिवारान् समर्चयेत् । प्रतिष्ठोक्तक्रमेणैव होमकर्म समाचरेत् ॥ ६७ ॥ व्याहृत्या परिषन्मन्त्रान् दक्षिणाग्नौ जुहोति वै । विनैव सर्वदैवत्यं सभ्यहोमं जुहोति च ॥ ६८ ॥ नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् । प्रातस्स्नात्वा विधानेन सूक्तानि च तथा जपेत् ॥ ६९ ॥ अर्चापीठं प्रकुर्वीत ब्राह्मे बालालये तथा । रत्नन्यासं विना पीठे चरराशौ विशेषतः ॥ ७० ॥ स्थापयित्वाऽग्रतः2 कुम्भं धान्यपीठे सुसन्न्यसेत् । आवाह्य कौतुके 3कुम्भात्तस्मादेवौत्सवार्चयोः ॥ ७१ ॥ गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् । तत्तत्स्थाने समावाह्य देवान् सोपानगानपि ॥ ७२ ॥ पुण्याहं वाचयित्वा तु पूजयित्वा यथाविधि । हवीषि पञ्चधा दत्वा नित्यं विधिवदर्चयेत् ॥ ७३ ॥ 1. पीठे. विमानं. ई.2. ततः ई.3 . बिम्बे. म. कुम्भे. ई. ३८५ आवाहनविसर्गौ द्वौ नाचरेत्तरुणालये । नित्यकुण्डे प्रणीयाग्निं नित्यहोमं समाचरेत् ॥ ७४ ॥ बालालये स्नानशालादिकल्पनम् स्नानपानीयशाले च तथैव स्नपनालयम् । पुष्पसञ्चयशालाञ्च द्रव्यसम्भारमण्डपम् ॥ ७५ ॥ यागशालां ध्वजस्थानं भूतपीठं महानसम् । पूर्ववत्कारयेद्विद्वान् प्रथमावरणे तथा ॥ ७६ ॥ द्वितीयावरणे चेत्तु भूतपीठं ध्वजं तथा । बाललयस्याभिमुखे कुर्यादेवं यथाविधि ॥ ७७ ॥ कारयेत्परितस्सर्वं तृतीयावरणे यदि । एष एव विशेषस्स्यादन्यत्सर्वं 1खिलोक्तवत् ॥ ७८ ॥ तन्त्रसङ्करनिष्कृतिः अतः परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम् । विष्णोस्तन्त्रं द्विधा प्रोक्तं सौम्याग्नेयमेव च ॥ ७९ ॥ वैखानसं पाञ्चरात्रं वैदिकं तान्त्रिकं क्रमात् । द्वयोर्वैखानसं श्रेष्ठमैहिकामुष्मिकप्रदम् ॥ ८० ॥ तान्त्रिकं पाञ्चरात्रन्तु गौणमामुष्मिकप्रदम् । विधिस्तु वेदमूलश्च दीक्षायुक्तश्च तान्त्रिकः ॥ ८१ ॥ पाञ्चरात्रमपि प्रोक्तं शुद्धं मिश्रमिति द्विधा । शुद्धं भागवतं प्रोक्तं पाञ्चरात्रमथेतरत् ॥ ८२ ॥ (तस्माद्वैखानसं श्रेष्ठं व्यासेन कथितं पुरा ।) 1. च पूर्ववत्. ई. सप्तविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८६ पूजयेच्छुद्धमार्गेण सूतो वा सात्त्वतोऽथवा । उत्सृष्टसूत्रा विप्राद्या दीक्षिता मिश्रपूजकाः ॥ ८३ ॥ निषेकाद्याः कियास्तेषा तत्तत्तन्त्रेषु चोदिताः । याऽभवन्मिलितावस्था वेदानां व्यसनात्पुरा ॥ ८४ ॥ तान्तु वैखानसीं शाखां वदन्ति ब्रह्मपारगाः । तान्तु वैखानसीं शाखामादावध्यापयत्प्रभुः ॥ ८५ ॥ नाम्ना विखनसं पाहुर्यञ्च वैखानसं तथा । ॠषीणां सोऽब्रवीत्सूत्रं धर्मं समनुबोधयन् ॥ ८६ ॥ ॠषयो बहुसूत्राणि चक्रुस्तस्यानुसारतः । केचिद्वर्णाश्रमान् धर्मान् वदन्ति स्मृतिरूपतः ॥ ८७ ॥ 1अथाग्नौ नित्यहोमान्ते सायं प्रातरतन्द्रितः । विष्णोर्नित्यार्चनं कुर्यात्सर्वदेवार्चनन्तु तत् ॥ ८८ ॥ इति वैखानसे सूत्रे प्रोक्तं सङ्क्षेपतोऽर्चनम् । 2ॠ षिभिस्तदुपन्यासो विस्तृतश्च समन्ततः ॥ ८९ ॥ बहुप्रयोगो व्याख्यातो लोकानां हितकाम्यया । काश्यपेनात्रिणा चैव मया चैव मरीचिना ॥ ९० ॥ सोऽयं तत्सूत्रमूलत्वाद्विधिर्वैखानसस्स्मृतः । वैखानसेन विधिना प्रतिष्ठाप्य यथाविधि ॥ ९१ ॥ अर्चने क्रियमाणे तु पाञ्चरात्रेण सङ्करे । ग्रामश्च यजमानश्च राजा राष्ट्रञ्च नश्यति ॥ ९२ ॥ 1. अग्निहोत्रादि ख. 2. एतत् स्थाने ॠषिभिश्च बहुन्यासः स्मृतिभिश्च समन्ततः, इत्यर्धश्लोको दृश्यते. ई. ३८७ पक्षमेकं महाशान्तिं हुत्वा तद्दोषशान्तये । ब्राह्मणान् भोजयित्वा तु तत्र पञ्चशतावरान् ॥ ९३ ॥ वैखानसेन विधिना प्रतिष्ठाप्यार्चयेत्पुनः । जनुयुक्तेषु सर्वेषु ग्रामादिषु च वास्तुषु ॥ ९४ ॥ नारायणं देवदेवं पाञ्चरात्रेण नार्चयेत् । वैखानसेन विधिना पूजयेत्सर्वसम्पदे ॥ ९५ ॥ ग्रामबाह्ये देवदेवं वा नदीतीरे वनेऽचले । वैखानसेन विधिना पाञ्चरात्रेण वाऽर्चयेत् ॥ ९६ ॥ पाञ्चरात्रेण विधिना प्रतिष्ठाप्य यथाविधि । क्रियमाणेऽर्चने मासमेकं हीनार्चनं यदि ॥ ९७ ॥ पाञ्चरात्रे तथाऽऽग्नेये सौम्यस्यास्य प्रवेशनम् । यदीच्छेत्कारयेद्भक्त्या सौम्यं तच्च भविष्यति1 ॥ ९८ ॥ सप्तरात्रं महाशान्तिं पौण्डरीके जुहोति च । ब्राह्मणान्भोजयित्वा तु शक्तितो दक्षिणां ददेत् ॥ ९९ ॥ तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादि2 कर्मणाम् । नयनोन्मीलनादीनामुक्तहोमं जुहोति च ॥ १०० ॥ जलाधिवासं कुर्वीत जङ्गमानान्तु पूर्ववत् । ध्रुवबेरोदितां शुद्धिं 3ध्रुवबेरे समाचरेत् ॥ १०१ ॥ 1. वैखानसेन विधिना अर्चनं यत्र वर्तते । यदीच्छेत् पाञ्चरात्रेण कर्तुमाराधनं हरेः । तद्ग्रामवासिनस्सर्वे नश्यन्ति व्याधिभिर्भृशम् । राजराष्ट्र विनश्येत पुत्रदारविनाशनम्॥ तस्मात् सर्वप्रयत्नेन शीघ्रमालोच्य यत्नतः वैखानसविधानेन प्रतिष्ठा पुनराचरेत् । इत्याधिकं दृश्यते. ई. 2. कारयेत् । ई. 3. प्रोक्षयोन्मन्त्रवारिणा ई. सप्तविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८८ वैखानसेन विधिना प्रतिष्ठाप्य पुनः क्रमात् । अर्चनादीनि सर्वाणि विधिना तेन कारयेत् ॥ १०२ ॥ यदीच्छेच्छुद्धपूजायां सौम्यस्यास्य प्रवेशनम् । पक्षमेकं 1महाशान्तिं हुत्वा शेषञ्च पूर्ववत् ॥ १०३ ॥ स्थापयित्वाऽर्चनादीनि कारयेदिति शासनम् । अविच्छिन्नार्चने चाऽपि मिश्रे ग्रामादिवास्तुषु ॥ १०४ ॥ वैखानसेन विधिना 2प्रतिष्ठाप्यार्चयेदिति । क्रूरैः शैवादिविधिभिरज्ञानात्सङ्करे सति ॥ १०५ ॥ मासमेकं महाशन्तिं हुत्वा विप्रसहस्रकम् । भोजयित्वा तु सौम्येन प्रतिष्ठाप्य समर्चयेत् ॥ १०६ ॥ सर्वेषामन्यदेवानां तन्त्रसङ्गरनिष्कृतौ । एष एव विधिः प्रोक्त इति पूर्वजशासनम् ॥ १०७ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अस्पृश्यस्पर्शनतन्त्रसङ्करप्रायश्चित्तविधिर्नाम सप्तविंशोऽध्यायः