॥
चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४४ पञ्चविंशोऽध्यायः स्नपनप्रायश्चित्तम् अतः परं प्रवक्ष्यामि स्नपने दोषनिष्कृतिम् । नाऽर्पयित्वाऽङ्कुरं विष्णोः स्नपनं क्रियते यदि ॥ १ ॥ अङ्कुरार्पणहीने ब्रह्मादीनान्तु षण्णां वै मन्त्रानौपासने यजेत् । मूर्तिभिश्च जयादीनां (हीने वाऽप्यधिकेऽपि वा । मन्त्रं तद्देवतानाञ्च) प्रत्येकं विंशतिं यजेत् ॥ २ ॥ अष्टोत्तरशतं हुत्वा व्याहृतीश्च सवैष्णवम् । 1पुष्पैः प्रपूर्य पात्राणि श्वेतैर्वा तण्डुलैरपि ॥ ३ ॥ अङ्कुरानिति सङ्कल्प्य पुनश्च स्नापयेद्धरिम् । प्रमाणे पालिकादीनां हीने वाऽप्यधिकेऽपि वा ॥ ४ ॥ मन्त्रं तद्देवतानाञ्च वैष्णवं विंशतिं यजेत् । पालिकानामलाभे तु शरावेष्वथवाऽर्पयेत् ॥ ५ ॥ स्नपनशालायाम् हीनाधिकेन मानेन कुर्याच्चेत्स्नपनालयम् । वैष्णवं भूमिदैवत्यं प्रत्येकं साष्टकं शतम् ॥ ६ ॥ आलयस्योत्तरे कुर्याच्छान्तिकं स्नपनालायम् । पुष्टिकामस्तु पूर्वस्मिन् मुक्तिकामस्तु दक्षिणे ॥ ७ ॥ 1. पत्रादिभिः सितैः पुष्पैः पालिकादीन् प्रपूर्य च. आ. ३४५ जलकामस्तु वारुण्यां सर्वकामस्तु शाङ्करे । आग्नेये र्नैॠते चैव वायव्ये न समाचरेत् ॥ ८ ॥ तत्रैव यदि कुर्याच्चेत्पुनः न्यूने स्नपनमाचरेत् । तद्दिक्पालकमन्त्रञ्च वैष्णवं विंशतिं यजेत् ॥ ९ ॥ कलशेषु प्रमाणे कलशानाञ्च न्यूने वाऽप्यधिकेऽपि वा । वैष्णवं जुहुयाद्ब्राह्मं महाव्याहृतिसंयुतम् ॥ १० ॥ व्याहृत्यन्तं पृथग्घुत्वा गृह्णीयाल्लक्षणान्वितम् । वस्त्रे वस्त्रेहीने महान् दोषो भवेद्वस्त्रादिहीनता ॥ ११ ॥ आचार्यं पूजयेद्वस्त्रैः श्रीमन्त्रं वैष्णवं यजेत् । तोरणादौ तोरणे दोषयुक्ते तु मन्त्रौ दौवारिकौ यजेत् ॥ १२ ॥ तत्तत् द्वाराधिपं हुत्वा वैष्णवेन समन्वितम् । कूर्चादौ प्रमाणहीने कूर्चादौ वैष्णवं ब्राह्मसंयुतम् ॥ १३ ॥ सौरं षोडशकृत्वस्तु हुत्वा कुर्यात्सलक्षणम् । पङ्क्तौ पङ्क्तौ प्रमाणहीनायां पङ्क्तीशञ्च समर्चयेत्॥ १४ ॥ पङ्क्तीशमन्त्रं जुहुयाद्वैष्णवं पाञ्चभौतिकम् । विमानपालको मित्रः पङ्क्तीश इति कीर्त्यते ॥ १५ ॥ पञ्चविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४६ श्वभ्रे, मृत्सु श्वभ्रे प्रमाणहीने च मेदिन्यादीन् सुहूयताम् । यथोक्तस्थानमृद्धीने यथालाभं प्रगृह्य च ॥ १६ ॥ जुहुयाद्भूमिदैवत्यं वैष्णवं ब्राह्मसंयुतम् । अथवा पश्चिमे श्वभ्रं कृत्वा तु स्नपनालये ॥ १७ ॥ पङ्क्तिं तस्याग्रतः कृत्वा द्रव्यन्यासार्थमेव वा । मृदादीनि यथास्थानं पङ्क्तौ द्रव्याणि सन्नयसेत् ॥ १८ ॥ मध्ये शुद्धोदकैः पूर्णं कुम्भं वस्त्रादिवेष्टितम् । सन्न्यस्य धान्यपीठोर्ध्वे मृदादिस्नपनात्परम् ॥ १९ ॥ जप्त्वा पुरुषसूक्तञ्च स्नापयेदिति केचन । कारयेत्स्नपनश्वभ्रं शिलयेष्टकयाऽथवा ॥ २० ॥ हस्तमात्रोच्छ्रयं पीठमधिष्ठानोक्तवच्चरेत् । अधिष्ठानतलोर्ध्वे चेन्मञ्चान्तं वेदिकादिकम् ॥ २१ ॥ तलोपुरि तलं नैव कुर्यादित्याह पूर्वजः । तदूर्ध्वे कारयेच्छ्वभ्रमौपासनविधानतः ॥ २२ ॥ हस्तमात्रोच्छ्रयं 1पीठं कृत्वा यज्ञोक्तदारुभिः । पङ्क्तिमध्ये प्रतिष्ठाप्य जलधारां तदुत्तरे (?) ॥ २३ ॥ संस्नाप्य देवं तच्छ्वभ्रे स्नापयेदिति केचन । अथ नित्याभिषेकार्थं मण्डपस्य तथोत्तरे ॥ २४ ॥ स्थापयित्वा तथा देवं देवीभ्यां स्नापयेत्सह । तावदायामविस्तारयुतं श्वभ्रं प्रकल्पयेत् ॥ २५ ॥ 1. पद्मं ख. ३४७ प्रागादिकन्तु (?) परितः पीठानान्तु पृथक्पृथक् । द्विवेदिसहितं कुर्यादौपासनविधानतः ॥ २६ ॥ हस्तोच्छ्रये षडंशे वा 1मुखमेकांशकं भवेत् । त्रिभागं कण्ठतुङ्गं स्यात् द्विभागं चोर्ध्वपट्टिका ॥ २७ ॥ कुण्डस्यौपासनस्येव निम्नं तस्य विधीयते । श्वभ्रं नित्याभिषेकार्थं केचिदेवं वदन्ति वै ॥ २८ ॥ पर्वतादौ हीनाधिकेन मानेन पर्वतान् कारयेद्यदि । आग्नेयं वैष्णवं हुत्वा व्याहत्यन्तं प्रतिप्रति ॥ २९ ॥ धान्यानाम् अलाभे सर्वधान्यानां केवलं यवमेव वा । व्रीहेरूर्ध्वं यथालाभं धान्यं प्रक्षिप्य चार्चयेत् ॥ ३० ॥ वायव्यं वैष्णवं ब्राह्मं जहुयात्तस्य शान्तये । अङ्कुराणाम् अङ्कुराणामलाभे तु 2पूर्वाङ्कुरमथापि वा ॥ ३१ ॥ दद्दैवत्यञ्च जुहुयाद्वैष्णवं सौम्यमेव च । मङ्गलानाम् हीनाधिकाप्रमाणेन मङ्गलान् कुरुते यदि ॥ ३२ ॥ ऐन्द्रं यजेद्वैष्णवञ्च महाव्याहृतिभिस्सह । 1. पद्मं ख. 2. द्रव्याङ्कुरं आ. पञ्चविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४८ पञ्चगव्ये यथोक्तयोगहीने तु पञ्चगव्यस्य बुद्धिमान् ॥ ३३ ॥ रौद्रञ्च वैष्णवं मन्त्रं प्रत्येकं विंशतिं यजेत् । कपिलाया घृतं श्रेष्ठं रक्ताया दधि चाऽहरेत् ॥ ३४ ॥ श्वेतायास्तु तथा क्षीरं कृष्णाया गोमयं भवेत् । कपोतगलवर्णाया गोमूत्रमपि चाऽहरेत् ॥ ३५ ॥ अलाभे चोक्तवर्णानां यथालाभमथापि वा । पूर्वोक्तैरेव मन्त्रैस्तु तत्संयोगमथाऽचरेत् ॥ ३६ ॥ संयोगे पञ्चगव्यस्य मन्त्रहीनं कृते सति । संयोगविहितं मन्त्रं द्विर्जपेत्पाणिना स्पृशन् ॥ ३७ ॥ प्रधानद्रव्येषु ग्राह्यं क्षीरञ्च दध्याज्यमाजमाहिषवर्जितम् । आजं वा माहिषं वाऽपि गृहीत्वा स्नापयेद्यदि ॥ ३८ ॥ पौरुषं जुहुयात्सूक्तं विष्णुसूक्तमतः परम् । पारमात्मिकमीङ्काराद्यङ्गहोमं सकृत्सकृत् ॥ ३९ ॥ सद्यस्तप्तं सुवर्णाभं समपक्वं घृतं हरेत् । कृमिकीटपतङ्गादि यदि दृशेत तद्घृते ॥ ४० ॥ उत्पूय वस्त्रेणोद्दीप्य प्रोक्षयित्वाऽऽहरेत्पुनः । संस्पृश्य वैष्णवैर्मन्त्रे ‘रापोहिष्ठा’ मयादिभिः ॥ ४१ ॥ सामवेदादिमन्त्रैश्च जुहुयाद्वैष्णवेन च । स्नापयेद्देवदेवेशं मन्त्रवद्भक्तिसंयुतम् ॥ ४२ ॥ ३४९ मधुहीने तु तोयं वा समाहृत्य मधु स्मरन् । हुत्वा ॠगादिमन्त्रेण वैष्णवेन ततः परम् ॥ ४३ ॥ स्नापयेद्देवदेवेशं मन्त्रं पूर्वोक्तमुच्चरन् । दधि शुद्धं घनं ग्राह्यं निर्दोषं प्रियदर्शनम् ॥ ४४ ॥ सदोषे दध्नि जुहुयाद्वैष्णवं यजुरादिकम् । व्याहृतीश्चैव जुहुया ‘दतो देवादि’ वैष्णवम् ॥ ४५ ॥ ‘शन्नो देवी’ रिति क्षीरे प्रत्येकं विंशतिं यजेत् । गन्धहीने च गन्धे वै तद्दैवत्यं सवैष्णवम् ॥ ४६ ॥ अक्षतोदेऽक्षतालाभे यथालाभैः प्रगृह्य च । आर्षञ्च वैष्णवं ब्राह्मं सौम्यं हुत्वाऽभिषिञ्चति ॥ ४७ ॥ फलालाभे यथालाभं गृहीत्वा सौम्यवैष्णवैः । व्याहृत्यन्तं कुशालाभे दर्भाग्रं तत्र निक्षिपेत् ॥ ४८ ॥ आर्षकं वैष्णवं ब्राह्ममैन्द्रं हुत्वा समाचरेत् । रत्नोदकस्य रत्नानामलाभे रुक्ममेव वा ॥ ४९ ॥ वैष्णवं विष्णुसूक्तञ्च ब्राह्मं रौद्रं यजेत्ततः । जप्योदे जपहीने तु वैष्णवञ्च शतं यजेत् ॥ ५० ॥ हुत्वा तु पौरुषं सूक्तं विष्णुसूक्तमतः परम् । क्षिपेद्वा तण्हुलान् शालीनोषधीनामलाभके ॥ ५१ ॥ पुण्यपुष्पाणाम् आदित्यं वैष्णवं ब्राह्मं व्याहृत्यन्तं यजेत्पुनः । अलाभे पुण्यपुष्पाणां धातृमन्त्रं सवेष्णवम् ॥ ५२ ॥ प्रायश्चित्तं सकृद्धुत्वा यथालाभं समाहरेत् । पञ्चविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३५० गन्धचूर्णानाम् अलाभे गन्धचूर्णानां चक्रमन्त्रं सवैष्णवम् ॥ ५३ ॥ हुत्वोशीरेण मौद्गेन चूर्णेनोद्वर्तयेत्तथा । कषायचूर्णेषु सर्वालाभे कषायार्थमाश्वत्थीं त्वचमाहरेत् ॥ ५४ ॥ वारुणं वैष्णवं हुत्वा तेनैवोद्वर्तयेत्पुनः । तीर्थतोयस्य अलाभे तीर्थतोयानां नादेयं वा समाहरेत् ॥ ५५ ॥ गाङ्गेयं वैष्णवं मन्त्रं व्याहृत्यन्तं सकृद्यजेत् । ओषधीनाम् ओषधीनामलाभे तु वैष्णवं रौद्रसंयुतम् ॥ ५६ ॥ हुत्वाऽऽदाय यथालाभं मार्जयेत्पूर्वमन्त्रतः । अलाभे सर्वगन्धानां चन्दनं वा समाहरेत् ॥ ५७ ॥ ऐन्द्रञ्च वैष्णवं हुत्वा व्याहृतीश्च ततः परम् । प्लोते प्लोतालाभेऽन्यवस्त्रेण धौतेन परिमार्जयेत् ॥ ५८ ॥ त्वाष्ट्रं सवैष्णवं विष्णुसूक्तं हुत्वा समाचरेत् । ‘त्वष्टा रूपाणामधिपतिं रिति त्वाष्ट्रमुदाहृतम् ॥ ५९ ॥ मूलगन्धस्य अलाभे मूलगन्धस्य दूर्वाग्रं वा समाहरेत् । ब्राह्मञ्च वैष्णवं हुत्वा प्राजापत्यसमन्वितम् ॥ ६० ॥ ३५१ धातूनाम् अलाभे सर्वधातूनां जातिहिङ्गुलिकन्तु वा । दौर्गञ्च विष्णुसूक्तञ्च हुत्वा तेन समाचरेत् ॥ ६१ ॥ पाणिपादतलौष्ठेषु जातिहिङ्गुलिकं ददेत् । भूषणाम्बरयोर्दद्याद्धरितालं मनश्शिलाम् ॥ ६२ ॥ सर्वाङ्गेष्वञ्जनं प्रोक्तमथवा पक्ष्मणोर्द्वयोः । गोरोचनं नयनयोर्मुखे सर्वत्र वाऽथवा ॥ ६३ ॥ यथास्थानमलङ्कुर्यादेतैर्धातुभिरेव वै । अलङ्कारे अलङ्कारविपर्यासे यजेद्दौर्गञ्च वैष्णवम् ॥ ६४ ॥ जुहुयाद्भूषणालाभे स्कन्ददैवत्यवैष्णवैः । द्रव्योद्धारे विपर्यासोद्धृते द्रव्ये मोहाद्वाऽथ प्रमादतः ॥ ६५ ॥ तद्दैवत्यञ्च हुत्वा तु वैष्णवञ्चैकविंशतिम् । कलशभेदादौ साधिते कलशे भिन्ने स्पृष्टे शूद्रादिभिस्तथा ॥ ६६ ॥ अन्यं कलशमादाय पूर्ववत्सम्प्रपूरयेत् । तं स्पृष्ट्वा वौष्णवं मन्त्रं तद्दैवत्यं शतं जपेत् ॥ ६७ ॥ चतुर्विंशतिकृत्वश्च तद्दैवत्यं जुहोति च । जुहुयाद्वैष्णवं ब्राह्ममष्टोत्तरशतं पुनः ॥ ६८ ॥ पञ्चविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३५२ कृमिकीटादिपतने कृमिकीटपतङ्गादौ द्रव्येषु पतिते यदि । तद्द्रव्यं वर्जयेन्नित्यं द्रव्यमन्यत्समाहरेत् ॥ ६९ ॥ तद्दैवत्यं शतं हुत्वा देवेशं स्नापयेत्पुनः । अथवा सर्वदोषाणां शान्त्यर्थं स्नपने तथा ॥ ७० ॥ जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमतः परम् । पारमात्मिकमीङ्काराद्यष्टाशीत्याहुतीरपि ॥ ७१ ॥ श्रीसूक्तं रात्रिसूक्तञ्च दुर्गासूक्तं ततः परम् । पञ्चवारुणसंयुक्तं जयादीन् वैष्णवानपि ॥ ७२ ॥ यजेद्द्रव्याधिदेवानां जयादीनाञ्च मूर्तिभिः । सङ्कल्पिते स्नपने विघ्निते कल्पिते स्नपने हीने ग्रहणे विषुवेऽयने ॥ ७३ ॥ एकाहन्तु महाशान्तिमब्जाग्नौ जुहुयाद्बुधः । कलशैर्द्विगुणैर्देवं स्नापयीत यथाविधि ॥ ७४ ॥ तैलाभ्यक्ते न स्नपनम् एवमेव च संवर्ध्य स्नपनंप्रति कारयेत् । तैलाभ्यक्ते तु देवेशे स्नपनं तत्र नाचरेत् ॥ ७५ ॥ तैलमोक्षं ततः कृत्वा पुनः स्नपनमाचरेत् । तैलमोक्षमकृत्वा तु मोहेन स्नापयेद्यति ॥ ७६ ॥ आसुरं स्नपनं तत्स्यात्तस्य दोषस्य शान्तये । शान्तिहोमं सकृद्धुत्वा पुनश्च स्नापयेत्तथा ॥ ७७ ॥ ३५३ स्नापयेद्यदि देवीभ्यां सह तच्चासुरं भवेत् । तत्रापि शान्तिहोमान्ते देवेशं स्नापयेत्पृथक् ॥ ७८ ॥ बेरविशेषाणां देवीसाहित्यराहित्ये स्नापनं बलिबेरञ्च देवीरहितमेव वै । औत्सवं स्नापयेच्चेत्तु देवीभ्यां स्नापयेद्विना ॥ ७९ ॥ तत्रापि स्नपनान्ते तु देवीभ्यां सहितं चरेत् । देवीयुक्ते स्नपने तु पूर्ववत्कारयेद्बुधः ॥ ८० ॥ बलिबेरे च देवीभ्यां युक्ते तु सह सन्नयेत् । कौतुके स्नपनं स्याच्चेद्देवीभ्यां सह नाचरेत् ॥ ८१ ॥ अज्ञानान्निष्कृतिप्रोक्तप्रायश्चित्तं समाचरेत् । स्नपने सप्तकलशैः पञ्चभिः कलशैरपि ॥ ८२ ॥ प्रतिद्रव्यार्चने हीने उपचारं प्रति प्रति । अर्चनानिष्कृतिप्रोक्तप्रायश्चित्तं समाचरेत् ॥ ८३ ॥ निवेदने पक्वमप्युदयात्पूर्वं सोष्णं चेत्तद्धविर्ददेत् । पक्वमस्तमयात्पूर्वं सोष्णं निशि निवेदयेत् ॥ ८४ ॥ पात्रान्तरागतं शीतं लङ्घितं विवृतं तथा । हविस्सूतिकया दृष्टं प्रतिलोमैरुदक्यया ॥ ८५ ॥ मक्षिकापक्षिकीटैश्च दूषितञ्च पिपीलिकैः । पक्वं सन्धिद्वयात्पूर्वं हविर्नैव निवेदयेत् ॥ ८६ ॥ निवेदयेच्चेज्ञानाच्छुद्धोदैरभिषिच्य च । महाशान्तिञ्च हुत्वा तु द्विगुणञ्च निवेदयेत् ॥ ८७ ॥ पञ्चविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३५४ सोष्णं सन्धिद्वयातीतं प्रभूतञ्च महाहविः । कृच्छ्रभूतं हविश्चापि देवेशाय निवेदयेत् ॥ ८८ ॥ कृमिकीटपतङ्गाद्यैः बह्वन्ने दूषिते यदि । द्विप्रस्थचरुमुद्दृत्य भस्माद्भिः प्रोक्ष्य मन्त्रतः ॥ ८९ ॥ दग्ध्वा दर्भोल्कयाऽऽस्राव्य घृतं पश्चान्निवेदयेत् । निर्माल्यपूजनादौ निर्माल्येनार्चने चापि निवेदितनिवेदने ॥ ९० ॥ संस्नाप्य शान्तिहोमान्ते समभ्यर्च्य निवेदयेत् । प्रायश्चित्तं तथैवोक्तं तत्संस्पृष्टनिवेदने ॥ ९१ ॥ एष एव विशेषस्स्यादन्यत्सर्वं खिलोक्तवत् ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महास्नपननिप्कृतिर्नाम पञ्चविंशोऽध्यायः