२४


त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३३२ चतुर्विंशोऽध्यायः अर्चनायां निष्कृतिः कवाटोद्घाटने अतः परं प्रवक्ष्यामि 1अर्चनाहीननिष्कृतिम् । आदित्यस्योदयात्पूर्वं प्रातर्देवालयस्य च ॥ १ ॥ सायमस्तमयात्पूर्वं मध्याह्नादह्नि मध्यमे । कवाटोद्घाटने हीने शीघ्रमुद्घाटयेत्ततः ॥ २ ॥ नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम् । आज्येन चरुणा सौरैर्जुहुयाद्द्वारदैवतैः ॥ ३ ॥ वैष्णवैरपि षण्मन्त्रैः पुनः 2कर्म समाचरेत् । द्रव्यसङ्ग्रहे नीतञ्चेदर्चनाद्रव्यं जलपुष्पाद्यमन्त्रकम् ॥ ४ ॥ आलये वाऽथ संस्कुर्यात्तन्मन्त्रं द्विगुणं जपेत्3 । अन्यसूत्रिभिरानीतं संस्कुर्यात्त्रिगुणं चरेत् ॥ ५ ॥ गृह्णीयात् ब्राह्मणालाभे नेयञ्चेत्क्षत्रियादिभिः शङ्खचक्राङ्कितभुजैः पूर्वालाभे तथोत्तरैः ॥ ६ ॥ चतुर्वेदादि षट्कृत्वो जपं कुर्यात्पुनः पुनः4 । वापयेन्नखकेशादींस्ते च पर्वणि पर्वणि ॥ ७ ॥ शुद्धाम्बरधराः स्नाताः शुद्धदन्तनखाः तथा । 1. महार्चाहीनष्किृतिम् ख.2. कार्यं आ.3. भवेत् आ.।4. प्रयत्नतः ई. ३३३ दीपहीने सन्ध्यादीपविहीने तु श्रीदैवत्यं सवैष्णवम् ॥ ८ ॥ आग्नेयञ्च सकृद्धुत्वा दीपांश्च द्विगुणं ददेत् । अजस्रदीपविच्छेदे शतमष्टोत्तरं यजेत् ॥ ९ ॥ सर्वेषामेव देवानां दीपः प्रियतमो भवेत् । श्वेतपङ्कजनालोत्थैस्सूत्रैः कृत्वा तु वर्तिकाम् ॥ १० ॥ उत्तमं दीपदानन्तु कापिलेन घृतेन वै । अष्टाङ्गुलोच्छ्रयज्वालो 1दीप उत्तम उच्यते ॥ ११ ॥ 2उक्तपङ्कजनालोत्थैः सूत्रैः कृत्वा तु वर्तिकाम् । षडङ्गुलोच्छ्रयज्वालो मध्यमो गव्यसर्पिषा ॥ १२ ॥ तैलेन कल्पितो दीपः पिचुवर्तियुतोऽधमः । त्रियङ्गुलोच्छ्रयज्वालो यथालाभोच्छ्रयोऽपि वा ॥ १३ ॥ कर्पूरवर्तिकाक्लृप्तो दीपस्स्यादुत्तमोत्तमः । मार्जनादिहीने मार्जने च तथा हीने हीने चैवोपलेपने ॥ १४ ॥ ‘आपोहिरण्यपवमानैः’ प्रोक्षयित्वोपलेपयेत् । निर्माल्यशोधने हीने हीने चाभ्युक्षणे तथा ॥ १५ ॥ वैष्णवं वैष्वक्सेनञ्च वारुणञ्च यजेत्पुनः । बिम्बभिषेकेऽशक्तश्चेद्देवेशमभिवाद्य च ॥ १६ ॥ कुशोदकैस्समभ्युक्ष्य पूर्ववस्त्रं विसृज्य च । अन्येन धौतवस्त्रेण देवेशं परिधापयेत् ॥ १७ ॥ 1. यथालाभोच्छ्रयोऽपि वा ख. 2. रक्त. ई. चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३३४ बिम्बाभिषेकहीने तु वैष्णवं वारुणं यजेत् । पुष्पन्यासहीने पुष्पन्यासविहीने तु कालातीते पुनस्तदा ॥ १८ ॥ कृत्वैव पुष्मन्यासञ्च विष्णुगायत्रिया पुनः । जुहुयाद्दशकृत्वस्तु नामभिर्जुहुयाच्छतम् ॥ १९ ॥ अन्यदेवार्चनाहीने गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् । समभ्यर्च्यायेद्देवं हीने तेषामथार्चने ॥ २० ॥ द्विगुणं तान् समभ्यर्च्य तत्तन्मन्त्रं सकृद्यजेत् । अर्चने ध्यानहीने तु विष्णुसूक्तं यजेत्ततः ॥ २१ ॥ देवं सम्यक्तथा ध्यात्वा पुनरर्चयति क्रमात् । नवभेदेष्वथैकस्मिन् कल्पितेऽप्यर्चने तथा ॥ २२ ॥ आसनादिषु यद्धीनं तत्तत्प्रति विशेषतः । वैष्णवं विष्णुगायत्रीं जुहुयात्तदनुस्मरन् ॥ २३ ॥ देवदेवं स्मरन् बुद्ध्या सर्वव्यापिनमव्ययम् । हविर्निवेदनहीने हविर्निवेदने हीने ब्राह्मं हुत्वा ततः परम् ॥ २४ ॥ प्राजापत्यं ततो हुत्वा वैष्णवेन समन्वितम् । विष्णुसूक्तं हविस्तद्वद्द्विगुणञ्च निवेदयेत् ॥ २५ ॥ उपदंशेषु हीनेषु यजेत्सौम्यं सवैष्णवम् । सामादिञ्च घृते हीने जुहुयाद्वैष्णवान्वितम् ॥ २६ ॥ ३३५ जुहुयाद्दधिहीने तु 1यजुराद्यं सवैष्णवम् । मुखवासहीने मुखवासविहीने तु श्रीमन्त्रं वैष्णवं यजेत् ॥ २७ ॥ नित्यहोमहीने 2नित्यहोमं कपालाग्नावज्ञानाज्जुहुयाद्यदि । वैष्णवं व्याहृतीश्चापि हुत्वा च जुहुयात्तथा ॥ २८ ॥ नित्याग्निं तमविच्छिन्नमशक्तो रक्षितुं यदि । समिध्यात्मनि वाऽऽरोप्य निधायाहरहर्यजेत् ॥ २९ ॥ श्रीवैखानससूत्रोक्तो मन्त्र आरोपणे स्मृतः तथाऽवरोपणे चाग्नौ 3नामन्त्रं किञ्चिदाचरेत् ॥ ३० ॥ सकालेऽर्चने हीने प्रातस्सन्ध्यार्चने हीने मध्याह्ने द्विगुणं भवेत् वैष्णवं पौरुषं सूक्तं 4विष्णुसूक्तं यजेत्ततः ॥ ३१ ॥ प्रातर्मध्याह्नयोर्हीने सायाह्ने द्विगुणं भवेत् । एकाहे त्वर्चनाहीने हुत्वा तद्द्विगुणं पुनः ॥ ३२ ॥ हवींष्यपि निवेद्यैव दक्षिणाग्नौ ततः परम् । पञ्चविंशतिकृत्वस्तु षण्मात्रान् वैष्णवान् यजेत् ॥ ३३ ॥ वैष्णवं पौरुषं सूक्तं हुत्वा 5विप्रांश्च भोजयेत् । एकाहे त्विदमुद्दिष्टं द्वितीये द्विगुणं भवेत् ॥ ३४ ॥ 1. नृ सूक्तं वैष्णवं यजेत् आ.।2. नित्याग्नौ मन्त्रहीने तु आ.। 3. तन्मन्त्रम् ख.4. नित्यकुण्डे यजेत्तथा आ.।5. विष्णुं समर्चयेत् आ. । चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३३६ द्वादशाहान्तमित्येवं वर्धयेत्तु दिने दिने । अतीते द्वादशाहे तु दक्षिणाग्नौ ततः परम् ॥ ३५ ॥ वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं शतं यजेत् । चत्वारिंशद्भिरष्टाभिः कलशैः स्नापयेत्पुनः ॥ ३६ ॥ महाहविः प्रभूतं वा समभ्यर्च्य निवेदयेत् । आचार्याय पशून् दद्याद्ब्राह्मणान् भोजयेत्पुनः ॥ ३७ ॥ मासहीनं यदि भवेदालयं परितस्तथा । अग्नीनाहवनीयादीन् प्रागादि परिकल्पयते् ॥ ३८ ॥ देवेशं मनसा ध्यात्वा प्रत्येकञ्चैकविंशतिम् । देवीभ्याञ्च मुनिभ्याञ्च वैघ्नं गारुडमेव च ॥ ३९ ॥ तत्तद्धोमे सुहोतव्यं महाव्याहृतिसंयुतम् । शताष्टकलशैर्देवं स्नापयित्वा विधानतः ॥ ४० ॥ पुण्याहं वाचयित्वा तु ब्राह्मणानपि भोजयेत् । यावद्दिनार्चनं हीनं गणयित्वा ततः परम् ॥ ४१ ॥ तावद्दिनार्चनाद्रव्यं देवेशाय निवेदयेत् । एवं मासे प्रकुर्वीत द्विमासे द्विगुणं भवेत् ॥ ४२ ॥ वर्षान्तं वर्धयेदेवं वर्षेऽतीते ततः परम् । अष्टाधिकसहस्रैर्वा शतैर्वा कलशैस्तदा ॥ ४३ ॥ स्नापयित्विा तु देवेशं प्रणम्यैवानुमान्य च । सुवर्णपशुभूम्यादीन् दत्वाऽऽचार्याय दक्षिणाम् ॥ ४४ ॥ ततोऽब्जाग्नौ महाशान्तिं हुत्वा देवमनुस्मरन् । सहस्रपद्मं सङ्गृह्य गायत्रीं वैष्णवीं वदन् ॥ ४५ ॥ ३३७ आप्लुत्याऽप्लुत्य जुहुयात्कापिलेन घृतेन वै । पूर्वोक्तेन विधानेन प्रतिष्ठां पुनराचरेत् ॥ ४६ ॥ एवमेवार्चने हीने प्रायश्चितं विधीयते । अन्येषामपि देवानां सामान्यमिदमुच्यते1 ॥ ४७ ॥ बलिहीने 2प्रातस्सन्ध्याबलौ हीने मध्याह्ने द्विगुणं भवेत् । वैष्णवं सौरसौम्ये च प्राजापत्यं यजेत्ततः ॥ ४८ ॥ प्रातर्मध्याह्नयोर्हीने सायाह्ने द्विगुणं भवेत् । एकाहं बलिहीनञ्चेदग्नावौपासनीयके ॥ ४९ ॥ जुहुयाद्विष्णुसूक्तञ्च पूर्वमन्त्रैश्च संयुतम् । उत्थापयेद्बलिं हीनं पूर्वेक्तविधिना ततः ॥ ५० ॥ एकाहे त्विदमुद्दिष्टं द्विदिने द्विगुणं भवेत् । वर्धयेत् द्वादशाहान्तमतीते द्वादशेऽहनि ॥ ५१ ॥ अब्जाग्नौ पौरुषं सूक्तं विष्णुसूक्तं ततः परम् । पारमात्मिकसंयुक्त ‘मीङ्कारादीन्’ जुहोति च ॥ ५२ ॥ संस्नाप्य सप्तकलशैर्बिम्बं कौतुकमेव च । महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात् ॥ ५३ ॥ एवमेवविधानेन यावन्मासान्तमाचरेत् । मासहीनं यदि भवेत्प्राच्यामाहवनीयके ॥ ५४ ॥ 1. वैष्णवं शतकृत्वश्च हुत्वाऽभ्यर्च्य निवेदयेत्। चत्वारिंशद्भिरष्टाभिः कलशैः स्नापये- त्प्रभुम् । महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत्. आ. 2. एतदारभ्य ७८ श्लोक पर्यन्तं ई कोशेषु न दृश्यते. अवधिश्च चिह्नितः । चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३३८ यजेदष्टोत्तरशतं सूक्ते वैष्णवपौरुषे । मध्ये तु सर्वदैवत्यं सभ्यकुण्डे जुहोति च ॥ ५५ ॥ शताष्टकलशैर्देवं स्नापयित्वा ततः परम् । पञ्चविंशतिगा दत्वा देवमुद्दिश्य यत्नतः ॥ ५६ ॥ महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात् । एवमेव विधानेन कुर्यात्संवत्सरावधि ॥ ५७ ॥ पतिते तद्धलौ स्पृष्टे अस्पृश्यैः श्रुतिदूषकैः । पूर्ववद्बलिमापाद्य बलिदेवं यजेत्पूनः ॥ ५८ ॥ बलिमुत्थाप्य विघ्नश्चेत्सौरं सौम्यसमन्वितम् । हुत्वा जीर्णे पूर्ववत्कर्म प्रारभेत यथाविधि ॥ ५९॥ बलौ प्रमाणहीने तु वैष्णवञ्चैकविंशतिम् । भिन्ने जीर्णे शतं पात्रे तत्प्रमाणविवर्जिते ॥ ६० ॥ वैष्णवं पौरुषं सूक्तं विष्णुसूक्तमतः परम् । पारमात्मिक ‘मीङ्कारान्’ सौम्यं रौद्रं तथैव च ॥ ६१ ॥ सौरमाग्नेयसंयुक्तं पञ्चवारुणसंयुतम् । जयाद्यैश्चैव कूष्माण्डैः जुहुयात्तस्य शान्तये ॥ ६२ ॥ अतिवातातिवृष्ट्योश्च हरिमाराध्य पूर्ववत् । ध्रुवकौतुकसंयुक्तं गर्भगेहे प्रदक्षिणम् ॥ ६३ ॥ कृत्वा सोपानमध्ये तु श्रीभूताग्रे बलिं ददेत् । परिवारबलिञ्चापि देवेशं परितस्तथा ॥ ६४ ॥ तत्तत्स्थाने समासाद्य दद्यादित्येव केचन । कल्पितान्नबलौ काले त्वलब्धेऽन्नबलौ सति ॥ ६५ ॥ ३३९ कुर्यादर्घ्यबलिं वाऽपि पूर्ववत्पुष्पमेव वा । नित्याग्नौ दशकृत्वस्तु यजेत्सौरञ्च वैष्णवम् ॥ ६६ ॥ आलयावरणाद्बाह्ये मुखे वामे प्रकल्पिते । कल्पिते बलिपीठे च तच्च कुर्यात्प्रदक्षिणम् ॥ ६७ ॥ बलिभ्रमणकाले तु वाद्यहीने तु पौरुषम् । नृत्तगेयविहीने च विष्णुसूक्तञ्च वैष्णवम् ॥ ६८ ॥ हुत्वा घण्टाध्वनियुतं बलिभ्रमणमाचरेत् । जपन्वै शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ॥ ६९ ॥ शवपातने पञ्चाशच्चापसीमान्ते चैकवीथ्यां शवे सति । अर्चनञ्च हविर्दानं देवदेवस्य वर्जयेत् ॥ ७० ॥ यदि कुर्यात्तदज्ञानाच्छुद्धोदैरभिषिच्य च । यद्देवाद्यैश्च हुत्वा तु समभ्यर्च्य निवेदयेत् ॥ ७१ ॥ षष्टिसप्तत्यशीत्यर्वाक् क्षत्रियादिशवे सति । अनुलोमशवे कुर्याच्छान्तिं शूद्रस्य चोक्तवत् ॥ ७२ ॥ अन्यवास्तुगते पूजा न दोषाय भवेच्छवे । अस्पृश्यस्पर्शे अर्चकान्यद्विजैः स्पृष्टे शुद्धोदैरभिषेचयेत् ॥ ७३ ॥ सप्तभिः क्षत्रियैः स्पृष्टे कलशैः स्नापयेद्धरिम् । स्नापयेद्वैश्यसंस्पर्शे चतुर्विंशतिभिस्तथा ॥ ७४ ॥ शान्तिहोमञ्च जुहुयाच्छक्तितो भोजयेद्द्विजान् । अष्टोत्तरशतैश्शूद्रैः संस्पर्शे स्नापयेत्तथा ॥ ७५ ॥ चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४० महाशान्तिं ततो हुत्वा ब्राह्मणानपि भोजयेत् । स्पृष्टेऽनुलोमैश्शूद्रोक्तप्रायश्चित्तं समाचरेत् ॥ ७६ ॥ उच्छिष्टाशुचिभिर्विप्रैः कुर्याच्छूद्रोक्तनिष्कृतिम् । स्पृष्टे त्वाशौचवद्विप्रैः कुर्याच्छूद्रोक्तनिष्कृतिम् ॥ ७७ ॥ प्रतिलोमैस्तु संस्पृष्टे जलादिष्वधिवास्य च । महाशान्तिञ्च सप्ताहमब्जाग्नौ जुहयात्ततः ॥ ७८ ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् । (अनुलोमैस्तु संस्पृष्टं हविर्यदि निवेदयेत् ॥ कलशैः स्नापयेद्देवं चत्वारिंशद्भिरष्टभिः । महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ॥ देवेशं स्नापने काले पूजानैवेद्यकालयोः । प्रतिलोमाश्च पतिताः पाषण्डा वेददूषका ः ॥ नास्तिका भिन्नमर्यादा यदि पश्यन्ति मोहतः1 । हविर्वा यदि पश्यन्ति 2श्वकाकाद्याः प्रमादतः । देवेशायानिवेद्यैव तद्धविः प्रक्षिपेज्जले । 3तद्धविर्न निवेद्यं स्याद्देवेशाय प्रयत्नतः ॥ हविरन्यत्सुसम्पाद्य देवेशाय निवेदयेत् । वैष्णवं विष्णुसूक्तञ्च 4महाव्याहृतिसंयुतम् ॥ चतुरावर्त्य हृत्वैव 5पक्वान्नेनैव होमयेत् ।) कारयेत्तान्त्रिकस्पर्शे प्रतिलोमोक्तनिष्कृतिम् ॥ ७९ ॥ 1. लोभतः ख.2. श्वशूद्रस्पर्शने यदि. ई. 3. देवेशं न निवेद्यैव तद्धविर्विसृजेज्जले. ई. 4. महापातकिदर्शने. ई.5. पक्वान्नं जुहुयादपि. आ. ३४१ अवेदमूलास्समयास्तान्त्रिका वेददूषकाः । ब्राह्मणैः पाचकादन्यैः स्पृष्टं नैव हविर्ददेत् ॥ ८० ॥ यदि दद्यात्तु मोहेन वैष्णवन्तु सकृद्यजेत् । उच्छिष्टाशुचिभिर्विप्रैः क्षत्रियैर्विड्भिरेव वा ॥ ८१ ॥ अन्ने निवेदिते स्पृष्टे शुद्धोदैरभिषेचयेत् । वैष्णवं दशकृत्वश्च हुत्वाऽन्यच्च निवेदयेत् ॥ ८२ ॥ स्पृष्टमाशौचवद्विप्रैः शूद्रैर्वाऽथानुलोमजैः । निवेदयेच्चेदज्ञानात्कलशैरधमाधमैः ॥ ८३ ॥ स्नापयित्वा ततश्शान्तिं हुत्वाऽर्भ्च्य निवेदयेत् । प्रतिलोमैस्तु संस्पृष्टं हविर्यदि निवेदयेत् ॥ ८४ ॥ कलशैः स्नापयेद्देवं चत्वारिशद्भिरष्टभिः । महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ॥ ८५ ॥ देवेशं स्नानकाले वा पूजाकाले निवेदने । प्रतिलोमाश्च पाषाण्डाः पतिता वेददूषकाः ॥ ८६ ॥ नास्तिका भिन्नमर्यादा यदि पश्यन्ति मोहतः1 । हविर्वा यदि तैर्दुष्टं देवेशाय निवेदयेत् ॥ ८७ ॥ देवेशं स्नापयित्वा तु शुद्धोदैस्तस्य शान्तये । अभ्यर्च्य शान्तिहोमान्ते प्रभूतञ्च निवेदयेत् ॥ ८८ ॥ पूजनार्थं जले पुष्पे मन्त्रवत्संस्कृते पुनः । स्पृष्टञ्चेद्ब्राह्मणादन्यैः तत्त्यक्त्वााऽन्यत्समाहरेत् ॥ ८९ ॥ अथवा प्रोक्षणैः प्रौक्ष्य पात्रान्तरनिवेशितम् । पूर्ववन्मन्त्रसंस्कारं कृत्वा तेनैव पूजयेत् ॥ ९० ॥ चतुर्विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४२ उच्छिष्टाशुचिभिर्विप्रैः स्पृष्टं यदि तथैव च । स्पृष्टमाशौचवद्विप्रैः त्यक्त्वाऽन्यद्द्रव्यमाहरेत् ॥ ९१ ॥ प्रतिलोमैस्तु संस्पृष्टं दृष्टञ्चैव विसर्जयेत् । शूद्रैरथाप्य शुचिभिः प्रतिलोमैरुदक्यया ॥ ९२ ॥ स्पृष्टमाज्यं दधि क्षीरं मधु वा तोयमेव वा । देवार्थं नैव गृह्णीयात् दृष्टं सूतिकया तथा ॥ ९३ ॥ अज्ञानाद्देवदेवाय यदि तानि निवेदयेत् । शुद्धोदैः स्नापयित्वा तु हुत्वा शान्तिं समर्चयेत् ॥ ९४ ॥ त्याज्यं पुष्पञ्च संस्पुष्टमेवमन्यत् फलादिकम् । न त्यजेद्यदि लोभेन शान्तिं हुत्वाऽभिषेचयेत् ॥ ९५ ॥ अमन्त्रकाऽर्चनं विष्णोरकाले च तथाऽर्चनम् । ग्रामनाशञ्च दुर्भिक्षं व्याधिञ्चैव प्रयच्छति ॥ ९६ ॥ तस्मात्सर्वप्रयत्नेन काले काले विशेषतः । मन्त्रवत्पूजयेद्विष्णुमिति पूर्वजशासनम् ॥ ९७ ॥ अविज्ञाते सर्वेषु मन्त्रणान्तु पृथक् पृथक् । ॠषिच्छन्दोऽधिदेवेषु छन्दोऽनुष्टुबिति स्मरेत् ॥ ९८ ॥ अन्तर्यामी ॠषिः प्रोक्तः परमात्मा च देवता । इति सामान्यतः स्मृत्वा पूजयेत्पुरुषेत्तमम् ॥ ९९ ॥ अष्टविधा भक्तिः भक्तिमष्टविधां वक्ष्ये देवदेवे तु शार्ङ्गिणि । तद्भक्तजनवात्सल्यं तत्पूजास्वनुमोदनम् ॥ १०० ॥ ३४३ तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया । तदनुस्मरणं नित्यं तदर्थे दम्भवर्जनम् ॥ १०१ ॥ नित्यं तदेकशेषित्वं यच्च तन्नोपजीवति । भक्तिरष्टविधा ह्येषा यत्र साधारणेन वै ॥ १०२ ॥ तमेव पूजकं श्रेष्ठं वरयेन्नान्यमर्चकम् ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नित्यार्चनाप्रायश्चित्तविधिर्नाम चतुर्विंशोऽध्यायः